अथ व्यवस्थितान् दृष्ट्वा...
दिखावट
श्लोकः
[सम्पादयतु]- अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
- प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
- हृषीकेशं तदा वाक्यम् इदमाह महीपते ।
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य विंशतितमः (२०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः । प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः ॥ हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते ।
अन्वयः
[सम्पादयतु]महीपते ! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिध्वजः पाण्डवः शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह ।
शब्दार्थः
[सम्पादयतु]- महीपते = हे धृतराष्ट्र !
- अथ = ततः
- व्यवस्थितान् = उद्युक्तान्
- धार्तराष्ट्रान् = कौरवान्
- दृष्ट्वा = वीक्ष्य
- कपिध्वजः = वानरकेतनः
- पाण्डवः = अर्जुनः
- शस्त्रसम्पाते = आयुधपाते
- प्रवृत्ते = सम्पन्ने
- धनुः = चापम्
- उद्यम्य = उद्धृत्य
- तदा = तस्मिन् समये
- हृषीकेशम् = कृष्णम्
- इदम् = एतत्
- वाक्यम् = वचनम्
- आह = वदति
अर्थः
[सम्पादयतु]महीपते ! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत् । तदा शस्त्रप्रहारोऽपि आरब्धः । अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत् ।।
श्लोकवैशिष्ट्यम्
[सम्पादयतु]अस्मिन् श्लोके विषयस्य सुष्ठु अवगमनाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव योजितः ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in