दोषैरेतैः कुलघ्नानां...
श्लोकः[सम्पादयतु]

- दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
- उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रिचत्वारिंशत्तमः (४३) श्लोकः ।
पदच्छेदः[सम्पादयतु]
दोषैः, एतैः, कुलघ्नानाम्, वर्णसङ्करकारकैः । उत्साद्यन्ते, जातिधर्माः, कुलधर्माः, च, शाश्वताः ॥
अन्वयः[सम्पादयतु]
कुलघ्नानां वर्णसङ्करकारकैः एतैः दोषैः शाश्वताः जातिधर्माः कुलधर्माः च उत्साद्यन्ते ।
शब्दार्थः[सम्पादयतु]
- कुलघ्नानां = वंशनाशकानाम्
- वर्णसङ्करकारकैः = वर्णसार्यहेतुभिः
- एतैः = एभिः
- दोषैः = पापैः
- शाश्वताः = सनातनाः
- जातिधर्माः = वर्णधर्माः
- कुलधर्माः च = वंशधर्माः च
- उत्साद्यन्ते = विनाश्यन्ते ।
अर्थः[सम्पादयतु]
कुलघातकानां वर्णसङ्करकारकैः एतैः दोषैः शाश्वताः वर्णधर्माः कुलधर्माश्च विनष्टाः भवन्ति ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in