पाञ्चजन्यं हृषीकेशो...
श्लोकः[सम्पादयतु]

- पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
- पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चदशः (१५) श्लोकः ।
पदच्छेदः[सम्पादयतु]
पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः । पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः ॥
अन्वयः[सम्पादयतु]
अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते ।
शब्दार्थः[सम्पादयतु]
- पाञ्चजन्यम् = तन्नामकम्,
- हृषीकेशः = श्रीकृष्णः
- देवदत्तम् = तन्नामकम्
- धनञ्जयः = अर्जुनः
- पौण्ड्रम् = तन्नामकम्
- दध्मौ = अधमत्
- महाशङ्खम् = महाकारकं शङ्खम्
- भीमकर्मा = भयङ्करकार्यकारी
- वृकोदरः = भीमः
अर्थः[सम्पादयतु]
अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in