यद्यप्येते न पश्यन्ति...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
- कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः (३८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥
अन्वयः
[सम्पादयतु]अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।
शब्दार्थः
[सम्पादयतु]- यद्यपि = यद्यपि
- एते = इमे धार्तराष्ट्राः
- न = न
- पश्यन्ति = वीक्षन्ते
- लोभोपहतचेतसः = लोभाविष्टचित्ताः
- कुलक्षयकृतम् = वंशनाशजन्यम्
- दोषम् = अनर्थम्
- मित्रद्रोहे च = वयस्यमारणे
- पातकम् = पापम्
अर्थः
[सम्पादयतु]अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।
श्लोकवैशिष्ट्यम्
[सम्पादयतु]विषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in