सामग्री पर जाएँ

अस्माकं तु विशिष्टा ये...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः

[सम्पादयतु]
गीतोपदेशः
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तमः (७) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम । नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७ ॥

अन्वयः

[सम्पादयतु]

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि । ७ ।

शब्दार्थः

[सम्पादयतु]
द्विजोत्तम = हे द्विजोत्तम द्रोणाचार्य !
अस्माकं तु = अस्माकं कौरवाणां तु,
विशिष्टाः = असाधारणाः,
ये = ये योद्धारः,
तान् = तान्,
निबोध = जानीहि,
मम = दुर्योधनस्य मम,
सैन्यस्य = सेनायाः,
नायकाः = ये सेनापतयः,
तान् = तान् नायकान्,
ते = तुभ्यम्,
संज्ञार्थं = सम्यक् ज्ञानार्थं,
ब्रवीमि = निवेदयामि ।

हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सेनापतयः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञानार्थं तेषां नामानि अहं स्मारयामि ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...| अत्र शूरा महेष्वासा...| धृष्टकेतुः चेकितानः...| युधामन्युश्च विक्रान्त...| अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...| अयनेषु च सर्वेषु...| तस्य सञ्जनयन् हर्षं...| ततः शङ्खाश्च भेर्यश्च...| ततः श्वेतैर्हयैर्युक्ते...| पाञ्चजन्यं हृषीकेशो...| अनन्तविजयं राजा...| काश्यश्च परमेष्वासः...| द्रुपदो द्रौपदेयाश्च...| स घोषो धार्तराष्ट्राणां...| अथ व्यवस्थितान् दृष्ट्वा...| सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...| योत्स्यमानानवेक्षेऽहं...| एवमुक्तो हृषीकेशो...| भीष्मद्रोणप्रमुखतः...| तत्रापश्यत् स्थितान् पार्थः...| तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...| सीदन्ति मम गात्राणि...| गाण्डीवं स्रंसते हस्तात्...| निमित्तानि च पश्यामि...| न काङ्क्षे विजयं कृष्ण...| येषामर्थे काङ्क्षितं नो...| आचार्याः पितरः पुत्राः...| एतान्न हन्तुमिच्छामि...| निहत्य धार्तराष्ट्रान्नः का...| तस्मान्नार्हा वयं हन्तुं...| यद्यप्येते न पश्यन्ति...| कथं न ज्ञेयमस्माभिः...| कुलक्षये प्रणश्यन्ति...| अधर्माभिभवात् कृष्ण...| सङ्करो नरकायैव...| दोषैरेतैः कुलघ्नानां...| उत्सन्नकुलधर्माणां...| अहो बत महत्पापं...| यदि मामप्रतीकारम्...| एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

[सम्पादयतु]