अन्ये च बहवः शूरा...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
- नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवमः (९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीविताः । नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥९॥
अन्वयः
[सम्पादयतु]नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
शब्दार्थः
[सम्पादयतु]- अन्ये = इतरे,
- बहवः = नैके,
- शूराः = विक्रमिणः,
- मदर्थे = मम कृते,
- त्यक्तजीविताः = अर्पितप्राणाः,
- नानाशस्त्रप्रहरणाः = बहुशस्त्राः,
- सर्वे = सकलाः,
- युद्धविशारदाः = समरनिपुणाः ।
अर्थः
[सम्पादयतु]न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थं प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in