अत्र शूरा महेष्वासा...
श्लोकः[सम्पादयतु]

- अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
- युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्थः (४) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अत्र, शूराः, महेष्वासाः, भीम-अर्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥
अन्वयः[सम्पादयतु]
अत्र महेष्वासाः युधि भीम-अर्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ॥४॥
शब्दार्थः[सम्पादयतु]
- अत्र = अस्मिन् स्थले
- महेष्वासाः = महाचापवन्तः
- युधि = युद्धे
- भीमार्जुनसमाः = भीम-अर्जुनसमाः समानाः
- शूराः = वीराः
- युयुधानाः च = युयुधानाः
- विराटः च = विराटः
- महारथः = योधानां दशसहस्रेण योद्धा
- द्रुपदः = द्रुपदः
अर्थः[सम्पादयतु]
श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in