सङ्करो नरकायैव...
श्लोकः[सम्पादयतु]

- सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
- पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सङ्करः, नरकाय, एव, कुलघ्नानाम्, कुलस्य, च । पतन्ति, पितरः, हि, एषाम्, लुप्तपिण्डोदकक्रियाः ॥
अन्वयः[सम्पादयतु]
सङ्करः कुलघ्नानाम् कुलस्य च नरकाय एव भवति । एषां पितरः लुप्तपिण्डोदकक्रियाः पतन्ति हि ॥
शब्दार्थः[सम्पादयतु]
- कुलघ्नानाम् = वंशनाशकानाम्
- सङ्करः = मिश्रणम्
- कुलस्य = वंशस्य
- नरकाय एव = नरकलोकाय एव
- लुप्तपिण्डोदकक्रियाः = नष्टपिण्डजलतर्पणाः
- एषाम् = एतेषाम्
- पितरः = पितृदेवताः
- पतन्ति = ग्लायन्ति ।
अर्थः[सम्पादयतु]
वर्णसङ्करः नरकस्य कारणं भवति । तेन कुलघातकाः कुलानि च नरकं गच्छन्ति । तेषां पितरः पिण्डोदकवञ्चिताः भवन्ति । ततश्च ते नरके पतन्ति
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in