दृष्ट्वेमं स्वजनं कृष्ण...
श्लोकः[सम्पादयतु]

- दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥
पदच्छेदः[सम्पादयतु]
दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् ।
अन्वयः[सम्पादयतु]
कृष्ण ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा (मम गात्राणि सीदन्ति, मुखं च परिशुष्यति) ।
शब्दार्थः[सम्पादयतु]
- कृष्ण = मधुसूदन !
- युयुत्सुम् = योद्धुमिच्छुम्
- समुपस्थितम् = समीपे वर्तमानम्
- इमम् = अमुम्
- स्वजनम् = आत्मीयजनम्
- दृष्ट्वा = अवलोक्य
- (मम = मे
- गात्राणि = आनि
- सीदन्ति = शिथिलीभवन्ति
- मुखं च = वदनं च
- परिशुष्यति = शुष्कं भवति) ।
अर्थः[सम्पादयतु]
हे कृष्ण ! युद्धं कर्तुं समुपस्थिताः एते सर्वेऽपि मदीयाः एव । एतान् पश्यतः मम आनि सीदन्ति । मुखं च शुष्कं जायते ।
श्लोकवैशिष्ट्यम्[सम्पादयतु]
विषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in