सेनयोरुभयोर्मध्ये रथं...
श्लोकः[सम्पादयतु]
अर्जुन उवाच
- सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकविंशतितमः (२१) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सेनयोः, उभयोः, मध्ये, रथम्, स्थापय, मे, अच्युत ॥
अन्वयः[सम्पादयतु]
अच्युत ! सेनयोः उभयोः मध्ये मे रथं स्थापय ।
शब्दार्थः[सम्पादयतु]
- अच्युत = हे कृष्ण !
- सेनयोः = सैन्ययोः
- उभयोः = द्वयोः
- मध्ये = अन्तरे
- मे = मम
- रथम् = स्यन्दनम्
- स्थापय = नीत्वा स्थापय ।
अर्थः[सम्पादयतु]
हे कृष्ण ! अनयोः कौरव पाण्डवसेनयोः मध्यभागे मम रथं स्थापय ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in