युधामन्युश्च विक्रान्त...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]- युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
- सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षष्ठः (६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान् । सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः ॥६॥
अन्वयः
[सम्पादयतु]च विक्रान्तः युधामन्युः च वीर्यवान् उत्तमौजाः सौभद्रः च द्रौपदेयाः सर्वे एव महारथाः ।
शब्दार्थः
[सम्पादयतु]- च विक्रान्तः = पराक्रमशीलः
- युधामन्युः च = युधामन्युः
- वीर्यवान् = वीरः
- उत्तमौजाः = बलवान्
- सौभद्रः च = अभिमन्युः
- द्रौपदेयाः = द्रौपद्याः पञ्च पुत्राः उपपाण्डवाः
- सर्वे एव = सकलाः एव
- महारथाः = महारथाः एव
अर्थः
[सम्पादयतु]अत्र पाण्डवसैन्ये युयुधानः विराटः इत्यादयः भीमा र्जुनसमाः शूराः सर्वे धनुर्धराः महारथाः एव सन्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in