द्रुपदो द्रौपदेयाश्च...
श्लोकः[सम्पादयतु]

- द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
- सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टादशः (१८) श्लोकः ।
पदच्छेदः[सम्पादयतु]
द्रुपदः, द्रौपदेयाः, च, सर्वशः पृथिवीपते । सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥
अन्वयः[सम्पादयतु]
पृथिवीपते ! परमेष्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।
शब्दार्थः[सम्पादयतु]
- द्रुपदः = द्रुपदः
- द्रौपदेयाः = द्रौपद्याः पुत्राः
- सर्वशः = सर्वे
- पृथिवीपते = हे धृतराष्ट्र
- सौभद्रः च = अभिमन्युः च
- महाबाहुः = महान्तौ बाहू यस्य सः
- शङ्खान् = शङ्खान्
- दध्मुः = अधमन्
- पृथक् = अन्यान्
- पृथक् = अन्यान्
अर्थः[सम्पादयतु]
हे पृथिवीपते धृतराष्ट्र ! युद्धार्थम् उपस्थितः काशिराजः महान् धनुर्धरः अस्ति । तादृशः काशिराजः, महारथः द्रुपदपुत्रः धृष्टद्युम्नः, विराटराजः, अपराजितः सात्यकिः, द्रुपदमहाराजः, द्रौपद्याः पुत्राः उपपाण्डवाः, महाबाहुः अभिमन्युश्चेति सर्वेऽपि पृथक् पृथक् शङ्खान् अधमन् ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in