स घोषो धार्तराष्ट्राणां...
श्लोकः[सम्पादयतु]
- स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
- नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवदशः (१९) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सः, घोषः, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत् । नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन् ॥
अन्वयः[सम्पादयतु]
सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
शब्दार्थः[सम्पादयतु]
- सः = स एषः
- तुमुलः = घोरः
- घोषः = नादः
- नभः = आकाशम्
- पृथिवीं च = भूमिं च
- व्यनुनादयन् = प्रतिध्वनयन्
- धार्तराष्ट्राणाम् = कौरवाणाम्
- हृदयानि = मनांसि
- व्यदारयत् = अखण्डयत्
अर्थः[सम्पादयतु]
सर्वेऽपि महावीराः युगपदेव शङ्खान् ध्मातवन्तः इति तदा महान् घोरश्च शब्दः समुत्पन्नः । तेन आकाशे भूमौ च प्रतिध्वनिः जातः । तस्य घोषस्य श्रवणेन दुष्टानां कौरवाणां हृदयानि विभिन्नानि इव अभवन् ।
रामानुजभाष्यम्[सम्पादयतु]
ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान्शङ्खान्पृथक्पृथक्प्रदध्मौ । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । अदयैव नष्टं कुरूणां बलमिति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकङ्क्षिणे धृतराष्ट्राय संजयोऽकथयत॥१.१५१.१९॥
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in