काश्यश्च परमेष्वासः...
दिखावट
(१.१७ काश्यश्च… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
- धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तदशः (१७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]काश्यः, च, परमेष्वासः, शिखण्डी, च, महारथः । धृष्टद्युम्नः, विराटः, च, सात्यकिः, च, अपराजितः ॥
अन्वयः
[सम्पादयतु]अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते ।
शब्दार्थः
[सम्पादयतु]- काश्यः च = काश्याः राजा
- परमेष्वासः = परमधनुर्धरः
- शिखण्डी च = शिखण्डी
- महारथः = योधानां दशसहस्रेण योद्धा
- धृष्टद्युम्नः = धृष्टद्युम्नः
- विराटः च = विराटराजः
- सात्यकिः च = सात्यकिः
- अपराजितः = पराजेतुम् अशक्यः
अर्थः
[सम्पादयतु]अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in