यावदेतान्निरीक्षेऽहं...
दिखावट
(१.२२ यावदॆतान्… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
- कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वाविंशतितमः (२२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यावत्, एतान्, निरीक्षे, अहम्, योद्धुकामान्, अवस्थितान् । कैः, मया, सह, योद्धव्यम्, अस्मिन्, रणसमुद्यमे ॥
अन्वयः
[सम्पादयतु]यावत् अहम् अस्मिन् रणसमुद्यमे कैः मया सह योद्धव्यम् (इति ज्ञातुम्) अवस्थितान् एतान् योद्धुकामान् निरीक्षे ।
शब्दार्थः
[सम्पादयतु]- यावत् = प्रथमम्
- अहम् = अहम्
- अस्मिन् = एतस्मिन्
- रणसमुद्यमे = युद्धे
- कैः सह = कैः साकम्
- मया = मया
- योद्धव्यम् = युद्धं कर्तव्यम् (इति ज्ञातुम्)
- एतान् = इमान्
- अवस्थितान् = स्थितान्
- योद्धुकामान् = युयुत्सून्
- निरीक्षे = अवलोकयामि ।
अर्थः
[सम्पादयतु]युद्धं कर्तुं के के उपस्थिताः सन्ति, अस्मिन् च युद्धे कैः कैः सह मया योद्धव्यम् इति अहं ज्ञातुं प्रथमं तान् द्रष्टम् इच्छामि । तस्मात् मम रथं तत्र स्थापय ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in