सामग्री पर जाएँ

भीष्मद्रोणप्रमुखतः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१.२५ भीष्मद्रॊणप्रमुखतः… इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः

[सम्पादयतु]
गीतोपदेशः
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

भीष्म द्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम् । उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥

अन्वयः

[सम्पादयतु]

भारत ! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां (प्रमुखतः) रथोत्तमं स्थापयित्वा पार्थ ! एतान् समवेतान् कुरून् पश्य' इति उवाच ।

शब्दार्थः

[सम्पादयतु]
भीष्मद्रोणप्रमुखतः = भीष्म द्रोणादीनां सम्मुखे
सर्वेषाम् च = अखिलानाम्
महीक्षिताम् = राज्ञां च
उवाच = अब्रवीत्
पार्थ = अर्जुन !
पश्य: = अवलोकय
एतान् = इमान्
समवेतान् = संमिलितान्
कुरून् = कुरुवंशीयान्
इति = एवम्

अर्जुनः भगवन्तं श्रीकृष्णं यदा एवम् उक्तवान् तदा श्रीकृष्णः तयोः सेनयोः मध्ये रथं स्थापितवान् । भीष्मस्य द्रोणस्य अन्येषां राज्ञां च सम्मुखे रथं संस्थाप्य सः अर्जुन ! युद्धं कर्तुम् उपस्थितान् एतान् कौरवपक्षीयान् पश्य'’ इति अवदत् ।

रामानुजभाष्यम्

[सम्पादयतु]

स च तेन चोदितस्तत्क्षणादेव भीष्मद्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथा चोदितमकरोत। ईदृशी भवदीयानां विजयस्थितिरिति चावोचत॥१.२५॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...| अत्र शूरा महेष्वासा...| धृष्टकेतुः चेकितानः...| युधामन्युश्च विक्रान्त...| अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...| अयनेषु च सर्वेषु...| तस्य सञ्जनयन् हर्षं...| ततः शङ्खाश्च भेर्यश्च...| ततः श्वेतैर्हयैर्युक्ते...| पाञ्चजन्यं हृषीकेशो...| अनन्तविजयं राजा...| काश्यश्च परमेष्वासः...| द्रुपदो द्रौपदेयाश्च...| स घोषो धार्तराष्ट्राणां...| अथ व्यवस्थितान् दृष्ट्वा...| सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...| योत्स्यमानानवेक्षेऽहं...| एवमुक्तो हृषीकेशो...| भीष्मद्रोणप्रमुखतः...| तत्रापश्यत् स्थितान् पार्थः...| तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...| सीदन्ति मम गात्राणि...| गाण्डीवं स्रंसते हस्तात्...| निमित्तानि च पश्यामि...| न काङ्क्षे विजयं कृष्ण...| येषामर्थे काङ्क्षितं नो...| आचार्याः पितरः पुत्राः...| एतान्न हन्तुमिच्छामि...| निहत्य धार्तराष्ट्रान्नः का...| तस्मान्नार्हा वयं हन्तुं...| यद्यप्येते न पश्यन्ति...| कथं न ज्ञेयमस्माभिः...| कुलक्षये प्रणश्यन्ति...| अधर्माभिभवात् कृष्ण...| सङ्करो नरकायैव...| दोषैरेतैः कुलघ्नानां...| उत्सन्नकुलधर्माणां...| अहो बत महत्पापं...| यदि मामप्रतीकारम्...| एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भीष्मद्रोणप्रमुखतः...&oldid=418695" इत्यस्माद् प्रतिप्राप्तम्