तान्समीक्ष्य स कौन्तेयः...
दिखावट
(१.२७ श्वशुरान् सुहृदश्च… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
- कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
पदच्छेदः
[सम्पादयतु]तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून्, अवस्थितान् । कृपया, परया, आविष्टः विषीदन्, इदम्, अब्रवीत् ॥
अन्वयः
[सम्पादयतु]परया कृपया आविष्टः सः कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विषीदन् इदम् अब्रवीत् ।
शब्दार्थः
[सम्पादयतु]- परया = अधिकया
- कृपया = दयया
- आविष्टः = सहितः
- सः कौन्तेयः = सः अर्जुनः
- तान् = तान्
- सर्वान् = अखिलान्
- अवस्थितान् = उपस्थितान्
- बन्धून् = बान्धवान्
- समीक्ष्य = अवलोक्य
- विषीदन् = सन्तप्यमानः
- इदम् = एतत्
- अब्रवीत् = अवदत् ।
अर्थः
[सम्पादयतु]अर्जुनः तत्र सम्मिलितान् सर्वान् बान्धवान् दृष्ट्वा करुणया आविष्टः अभवत् । सः अत्यन्तं विषादम् अनुभवन् इदं वाक्यम् अवदत् ।
श्लोकवैशिष्ट्यम्
[सम्पादयतु]विषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in