दृष्ट्वेमं स्वजनं कृष्ण...
दिखावट
(१.२८ कृपया परया… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥
पदच्छेदः
[सम्पादयतु]दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् ।
अन्वयः
[सम्पादयतु]कृष्ण ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा (मम गात्राणि सीदन्ति, मुखं च परिशुष्यति) ।
शब्दार्थः
[सम्पादयतु]- कृष्ण = मधुसूदन !
- युयुत्सुम् = योद्धुमिच्छुम्
- समुपस्थितम् = समीपे वर्तमानम्
- इमम् = अमुम्
- स्वजनम् = आत्मीयजनम्
- दृष्ट्वा = अवलोक्य
- (मम = मे
- गात्राणि = आनि
- सीदन्ति = शिथिलीभवन्ति
- मुखं च = वदनं च
- परिशुष्यति = शुष्कं भवति) ।
अर्थः
[सम्पादयतु]हे कृष्ण ! युद्धं कर्तुं समुपस्थिताः एते सर्वेऽपि मदीयाः एव । एतान् पश्यतः मम आनि सीदन्ति । मुखं च शुष्कं जायते ।
श्लोकवैशिष्ट्यम्
[सम्पादयतु]विषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in