येषामर्थे काङ्क्षितं नो...
दिखावट
(१.३३ येषामर्थे काङ्क्षितं… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
- त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयस्त्रिंशत्तमः (३३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]येषाम्, अर्थे, काङ्क्षितम्, नः, राज्यम्, भोगाः, सुखानि, च । ते, इमे, अवस्थिताः, युद्धे, प्राणान्, त्यक्त्वा, धनानि, च ॥
अन्वयः
[सम्पादयतु]अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।
शब्दार्थः
[सम्पादयतु]- येषाम् = येषां जनानाम्
- अर्थे = कृते
- काङ्क्षितम् = वाञ्छितम्
- नः = अस्माकम्
- राज्यम् = राष्ट्रम्
- भोगाः = भोग्यवस्तूनि
- सुखानि च = सुखदायकानि वस्तूनि च
- ते = तादृशाः
- इमे = एते
- अवस्थिताः = स्थिताः
- युद्धे = रणे
- प्राणान् = असून्
- त्यक्त्वा = विसृज्य
- धनानि च = अर्थान् च
अर्थः
[सम्पादयतु]अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।
श्लोकवैशिष्ट्यम्
[सम्पादयतु]विषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in