अहो बत महत्पापं...
दिखावट
(१.४५ अहो बत महत्… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
- यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चचत्वारिंशत्तमः (४५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अहो, बत, महत्, पापम्, कर्तुम्, व्यवसिताः, वयम् । यत्, राज्यसुखलोभेन, हन्तुम्, स्वजनम्, उद्यताः ॥
अन्वयः
[सम्पादयतु]अहो बत ! वयं महत् पापं कर्तुं व्यवसिताः यत् राज्यसुखलोभेन स्वजनं हन्तुम् उद्यताः ।
शब्दार्थः
[सम्पादयतु]- अहो बत = आश्चर्यम्
- वयम् = वयम्
- महत् = अलघु
- पापम् = दोषम्
- कर्तुम् = आचरितुम्
- व्यवसिताः = प्रवृत्ताः
- यत् = यस्मात् हेतोः
- राज्यसुखलोभेन = राज्यसौख्यलोलुपत्वेन
- स्वजनम् = निजजनम्
- हन्तुम् = नाशयितुम्
- उद्यताः = प्रवृत्ताः
अर्थः
[सम्पादयतु]हन्त ! राज्यसुखस्य लोभेन स्वजनान् एव मारयितुम् उद्युक्ताः वयं महदेव पापं कर्तुं प्रवृत्ताः स्मः ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in