धृष्टकेतुः चेकितानः...
दिखावट
(१.५ धृष्टकेतुः चेकितानः… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
- पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चमः (५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान् । पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥ ५ ॥
अन्वयः
[सम्पादयतु]च धृष्टकेतुः चेकितानः च वीर्यवान् काशिराजः पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः.....॥५॥
शब्दार्थः
[सम्पादयतु]- च धृष्टकेतुः = धृष्टकेतुः
- चेकितानः च = चेकितानः
- वीर्यवान् = वीरः
- काशिराजः = काशिराजः
- पुरुजित् = पुरुजित्
- कुन्तिभोजः च = कुन्तिभोजः
- नरपुङ्गवः = नरेषु श्रेष्ठः
- शैब्यः = शिबेः राजा
अर्थः
[सम्पादयतु]श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in