दृष्ट्वा तु पाण्डवानीकं...
दिखावट
श्लोकः
[सम्पादयतु]- सञ्जय उवाच -
- दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
- आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वितीयः ( २) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सञ्जयः उवाच - दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा, आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्
अन्वयः
[सम्पादयतु]तदा तु व्यू्ढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।
शब्दार्थः
[सम्पादयतु]- तदा तु = तदानीं तु,
- व्यूढम् = व्यूहत्वेन स्थापितम्,
- पाण्डवानीकम् = पाण्डवसैन्यम्,
- दृष्ट्वा =अवलोक्य,
- राजा = नृपः,
- दुर्योधनः = दुर्योधनः,
- आचार्यम् = गुरुं द्रोणम्,
- उपसङ्गम्य = उपसृत्य,
- वचनम् = वाक्यम्,
- अब्रवीत् = अवदत् ।
अर्थः
[सम्पादयतु]तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधनः गुरोः द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in