सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपनिषद्[सम्पादयतु]

फलकम्:Infobox Upanishad

उपनिषदः तालपत्रम्

वेदान्ता उपनिषद् इत्याख्यायन्ते । उपनिषच्छब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादका वेदभागा उपनिषदः कथ्यन्ते । मुक्तिकोपनिषदि उपनिषदां संख्या १०८ इति कथिता । तत्र १० उपनिषदः ऋग्वेदसम्बद्धा:, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धा:, ३२ कृष्णयजुर्वेदसम्बद्धा:, १६ सामवेदसम्बद्धा:, ३१ अथर्ववेदसम्बद्धा: । वेदान्ताचार्या एतासूपनिषत्सु कतिचनोपनिषदः स्वमतानुसारिव्याख्यया भूषितवन्तः । तासु दशोपनिषदः प्रसिध्दाः –ईश –केन- कठ-प्रश्न-मुण्डक–माण्डूक्य – तैत्तिरीय –ऐतरेय –छान्दोग्य- बृहदारण्यकोपनिषदः । श्वेताश्वतरोपनिषदेकादश्यपि प्रसिद्धा ।

कतिचनोपनिषदो गद्यात्मिकाः, कतिचन पद्यात्मिकाः कतिचन गद्यपद्योभयात्मिकाश्च । आसामुपनिषदां रचनाकालो भिन्नभिन्नः , परं प्रसिद्धा: कतिचनोपनिषदो बुद्धकालात्प्राचीना एवेति सर्वसम्मतम् । उपनिषदो भारतीयाध्यात्मविद्याया ज्वलन्ति रत्नानि । महर्षयो यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वान्यत्र वर्णितानि । सप्तदशशतके दाराशिकोहनामा शाहजहांनाम्नः यवनसम्राजः पुत्रः ५० सङ्ख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानुवादितवान् ।

‘शोपेन होवेर’ (Shopen Hower) नामा प्रसिध्दो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म । सम्प्रत्यपि पाश्चात्येषूपनिषदां महान् प्रभावो विद्यते, प्रायः सर्वास्वेव सभ्यभाषास्वासामुपनिषदामनुवादो जातः । भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः(वेदसारभूता) इति ख्याता च ।

उपनिषन्नाम का ?[सम्पादयतु]

उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यासङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।

उपनिषत्भागाः[सम्पादयतु]

सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतस्मात् अनेकाः उपनिषदः । तत्र प्रसिद्धाः अष्टोत्तरशतं चेति ज्ञायते । तथापि उपलभ्यमानासु १०८ उपनिषत्सु दशोपनिषदः सुप्रसिद्धाः श्रीमदाचार्यशङ्करभगवत्पादानां भाषैः अलङ्कृताश्च ।

ईश - केन - कठ - प्रश्न - मुण्ड - माण्डूक्य - तैत्तिरि
ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश ॥ इति ।

उपनिषत्प्रतिपादितानि परमतत्त्वानि[सम्पादयतु]

न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्तादिषु दर्शनेषु तत्तन्मतस्थापकप्रमाणानि उपनिषत्तत्त्ववाक्यान्येव । आधिभौतिक-आधिदैविक-आध्यात्मिकेभ्यः त्रिभ्यः दुःखेभ्यः मोचनं प्राप्य चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षेषु जीवनस्य आत्यन्तिकलक्ष्यभूतस्य मोक्षस्य प्राप्त्यर्थं यानि पालनीयानि कार्याणि सन्ति तान्येव उपनिष्त्परमतत्त्वानि ।

'ब्रह्मसत्यं जगन्मिथ्या' 'जीवो ब्रह्मैव नापरः' इत्यतः 'सत्यं ज्ञानमनन्तं ब्रह्म' 'सर्वं खल्विदं ब्रह्म' 'प्रज्ञानं ब्रह्म' 'स नायमात्मा ब्रह्मविज्ञानमयो' इत्यादिभिः उपनिषत्वाक्यैः ब्रह्मनिर्देशं कृत्वा तत्त्वमसि इति बोधयित्वा 'अहं ब्रह्मास्मि' इति परमलक्ष्यं प्रापयति साधकं ब्रह्मविद्या । सर्वोपनिषदां तत्त्वं जीवब्रह्मैक्यमेव हि इत्यलं विस्तरेण ।

उपसंहारः[सम्पादयतु]

जीवनस्य समग्रोन्नतिं काङ्क्ष्यमाणाः उपनिष्द्ग्रन्थाः न केवलं मानुष्यकस्य आध्यात्मिकोन्नतिं प्रतिपादयन्ति अपि तु भौतिकशास्त्रं गणितशास्त्रं जीवशास्त्रं सामूहिकशास्त्रं भूमिशास्त्रम् आरोग्यशास्त्रं इत्यादीनां तत्त्वानि अपि तत्र तत्र उपन्यस्यन्ति । उदाहरणम् -

'गणिते' - पूर्णमदः पूर्णमिदं.......... इति मन्त्रेण सून्यसङ्ख्यायाः गणितवैशिष्ट्यं प्रतिपाद्यते । '०+०=०, ०-०=०, ०X०=०' इत्यादि ।

मुक्तिकोपनिषदि १०८ उपनिषदां नामानि सन्ति यत्र ऋग्वेदस्य १०, शुक्लयजुर्वेदस्य १६, कृष्णयजुर्वेदस्य ३१, सामवेदस्य १६, अथर्ववेदस्य ३२ उपनिषदः सन्ति । काश्चन वेदान्तसिद्धान्तप्रतिपादिकाः काश्चन योगोपदेशिकाः काश्चन संन्यासवर्णनपरकाः काश्चन विष्णोः शिवस्य शक्तेः वा प्रशंसिकाः ।

उपनिषदां भाष्यप्रणेता सशिष्यः शङ्कराचार्यः

उपनिषत् सूची १०८[सम्पादयतु]

  1. ईश = शुक्लयजुर्वेदः, मुख्य उपनिषत्
  2. केनोपनिषत् = सामवेदः, मुख्य उपनिषत्
  3. कठोपनिषत् = कृष्णयजुर्वेदः, मुख्य उपनिषत्
  4. प्रश्‍नोपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  5. मुण्डकोपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  6. माण्डुक्योपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  7. तैत्तिरीयोपनिषत् = कृष्णयजुर्वेदः, मुख्य उपनिषत्
  8. ऐतरेयोपनिषत् = ऋग्वेदः, मुख्य उपनिषत्
  9. छान्दोग्योपनिषत् = सामवेदः, मुख्य उपनिषत्
  10. बृहदारण्यकोपनिषत् = शुक्लयजुर्वेदः, मुख्य उपनिषत्
  11. ब्रह्म-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  12. कैवल्य-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  13. जाबाल उपनिषत् (यजुर्वेद) = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  14. श्वेताश्वतर-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  15. हंस उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  16. आरुणेय-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  17. गर्भ-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  18. नारायण-उपनिषत् = कृष्णयजुर्वेदः, वैष्णव उपनिषत्
  19. परमहंस-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  20. अमृत-बिन्दूपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  21. अमृत-नादोपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  22. अथर्व-शिरोपनिषत् = अथर्ववेदः, शैव उपनिषत्
  23. अथर्व-शिखोपनिषत् =अथर्ववेदः, शैव उपनिषत्
  24. मैत्रायणि-पनिषत् = सामवेदः, सामान्य उपनिषत्
  25. कौषीतकि-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  26. बृहज्जाबाल-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  27. नृसिंहतापनी-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  28. कालाग्निरुद्र-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  29. मैत्रेयि-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  30. सुबाल-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  31. क्षुरिक-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  32. मान्त्रिक-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  33. सर्व-सारोपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  34. निरालम्ब-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  35. शुक-रहस्य उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  36. वज्रसूचि उपनिषत् = सामवेदः, सामान्य उपनिषत्
  37. तेजो-बिन्दु उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  38. नाद-बिन्दु उपनिषत् = ऋग्वेदः, योग उपनिषत्
  39. ध्यानबिन्दु उ-पनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  40. ब्रह्मविद्या-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  41. योगतत्त्व-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  42. आत्मबोध-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  43. परिव्रात्-उपनिषत् (नारदपरिव्राजक) = अथर्ववेदः, संन्यास उपनिषत्
  44. त्रिषिखि-उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  45. सीता-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  46. योगचूडामणि उपनिषत् = सामवेदः, योग उपनिषत्
  47. निर्वाण-उपनिषत् = ऋग्वेदः, संन्यास उपनिषत्
  48. मण्डलब्राह्मण-उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  49. दक्षिणामूर्ति-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  50. शरभ-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  51. स्कन्द-उपनिषत् (त्रिपाड्विभूटि) = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  52. महानारायण-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  53. अद्वयतारक-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  54. रामरहस्य-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  55. रामतापणि-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  56. वासुदेव-उपनिषत् = सामवेदः, वैष्णव उपनिषत्
  57. मुद्गल-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  58. शाण्डिल्य-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  59. पैंगल-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  60. भिक्षुक-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  61. महत्-उपनिषत् = सामवेदः, सामान्य उपनिषत्
  62. शारीरक-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  63. योगशिखा-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  64. तुरीयातीत-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  65. संन्यास-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  66. परमहंस-परिव्राजक उपनिषत् = अथर्ववेदः, संन्यास उपनिषत्
  67. अक्षमालिक-उपनिषत् = ऋग्वेदः, शैव उपनिषत्
  68. अव्यक्त-उपनिषत् = सामवेदः, वैष्णव उपनिषत्
  69. एकाक्षर-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  70. अन्नपूर्ण-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  71. सूर्य-उपनिषत् = अथर्ववेदः, सामान्य उपनिषत्
  72. अक्षि-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  73. अध्यात्मा-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  74. कुण्डिक-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  75. सावित्री-उपनिषत् = सामवेदः, सामान्य उपनिषत्
  76. आत्मा-उपनिषत् = अथर्ववेदः, सामान्य उपनिषत्
  77. पाशुपत-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  78. परब्रह्म-उपनिषत् = अथर्ववेदः, संन्यास उपनिषत्
  79. अवधूत-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  80. त्रिपुरातपनि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  81. देवि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  82. त्रिपुर-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  83. कठरुद्र-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  84. भावन-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  85. रुद्र-हृदय-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  86. योग-कुण्डलिनि-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  87. भस्म-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  88. रुद्राक्ष-उपनिषत् = सामवेदः, शैव उपनिषत्
  89. गणपति-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  90. दर्शन-उपनिषत् = सामवेदः, योग उपनिषत्
  91. तारसार-उपनिषत् = शुक्लयजुर्वेदः, वैष्णव उपनिषत्
  92. महावाक्य-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  93. पञ्च-ब्रह्म -उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  94. प्राणाग्नि-होत्र-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  95. गोपाल-तपणि उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  96. कृष्ण-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  97. याज्ञवल्क्य-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  98. वराह-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  99. शात्यायनि-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  100. हयग्रीव-उपनिषत् (१००) = अथर्ववेदः, वैष्णव उपनिषत्
  101. दत्तात्रेय-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  102. गारुड-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  103. कलि-सण्टारण उपनिषत् = कृष्णयजुर्वेदः, वैष्णव उपनिषत्
  104. जाबाल उपनिषत् (सामवेद) = सामवेदः, शैव उपनिषत्
  105. सौभाग्य-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  106. सरस्वती-रहस्य उपनिषत् = कृष्णयजुर्वेदः, शाक्त उपनिषत्
  107. बह्वृच-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  108. मुक्तिक-उपनिषत् (१०८) = शुक्लयजुर्वेदः, सामान्य उपनिषत्