अपर्याप्तं तदस्माकं...
दिखावट
(१.१० अपर्याप्तम् तत्… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]- अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
- पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ।
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य दशमः (१०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
अन्वयः
[सम्पादयतु]अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।
शब्दार्थः
[सम्पादयतु]- अस्माकम् = कौरवाणाम्
- भीष्माभिरक्षितम् = भीष्मेण संरक्षितम्
- तद् बलम् = तद् सैन्यम्
- अपर्याप्तम् = असमर्थम्
- एतेषां तु = पाण्डवानां पुनः
- भीमाभिरक्षितम् = भीमेन संरक्षितम्
- इदं बलम् = इदं सैन्यम्
- पर्याप्तम् = समर्थम्
अर्थः
[सम्पादयतु]यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमिदम् असमर्थम् । पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in/