श्रौतसूत्रम्
श्रौतसूत्रोपपादितो विषयो वस्तुतो दुरूहोऽस्ति । न तत्र जनसामान्यकृते आकर्षणम् । धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयो महत्त्वशाली । आधुनिके युगे श्रौतयागानां विधानं विरलतामुपेतम् । प्राचीनस्य युगस्य धार्मिकेषु विधानेषु याज्ञिकेषु कर्मसु च येषां रुचिरानुरागश्च तैः अवश्यमेव श्रौतसूत्राणि अनुशीलनीयानि ।
ऋग्वेदस्य आश्वलायनं शाङ्ख्यायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । अाश्वलायनगृह्यसूत्रे चत्वारोऽध्यायाः सन्ति । प्रत्येकस्मिन्नध्याये अनेकानि खण्डानि च सन्ति । अत्र गृह्य-कर्मणां विभिन्नसंस्काराणाञ्च वर्णनमतिसुष्ठुतया कृतमस्ति । स्थाने स्थाने च महत्त्वपूर्णानि कथनानि च सन्ति । यथा तृतीयाध्याये[१] ऋषितर्पण-प्रसङ्गे प्राचीनानाम् आचार्याणां नाम्नां निर्देशोऽस्ति, योऽन्यत्र दुर्लभ एवाऽस्ति । तृतीयाध्यायस्य द्वितीयखण्डे वेदाध्ययनस्य विशिष्टनियमानां वर्णनम् उल्लेखनीयमस्ति । चतुर्थखण्डेऽपि उपाकरणस्य वर्णनमतीवमहत्त्वपूर्णसूचनया मण्डितमस्ति । अाश्वलायनगृह्यसूत्रस्य लोकप्रियताया विश्रुत्याश्च परिचायिकाऽस्य टीकासम्पत्तयः सन्ति । अस्य-मुख्यटीका रास्तथा तेषा व्याख्या निम्नलिखिताः सन्ति ।
जयन्तस्वामिनो विमलोदयमाला । देवस्वामिनो भाष्यम् । देवस्वामिमहोदयस्त्वस्य मतस्य मान्यः टीकाकार आसीत् । अयं हि विद्वान् आश्वलायनगृह्यसूत्रस्य श्रौतसूत्रस्य च भाष्यग्रन्थं निबबन्ध । श्रौतभाष्यस्य उल्लेखः गार्ग्यनारायणेन, गृ्यभाष्यस्य निर्देशः गृह्यटीकाकर्त्रा नारयणेन च पृथक् पृथक् कृतौ। सयस्त्वस्य १००० ई. - १०५० ई. ख्रीष्टीयो मन्यते। टीकेयं प्रख्याता प्रसिद्धा प्रकाशिता चाऽस्ति। हरदत्तपण्डितस्य अनावलिा टीका वर्त्तते। हरदत्तः संस्कृतस्य मान्यटीकाकर्त्तृृषु पाण्डित्यपूर्णटीकां प्रणयनाय विशेषरूपेण विश्रुतोऽस्ति। काशिकायाः 'पदमञ्जरी' नाम टीकाम् अपि अयं निरमात्। द्रविडदेशीयोऽयं ख्रीष्टस्य १२०० ई. आसीदित्यनुमीयते। कौषीतकिश्रौतसूत्रमद्यापि अप्रकाशितमेवास्ति ।
शुक्लयजुर्वेदीय-श्रौतसूत्राणि
[सम्पादयतु]कात्यायनश्रौतसूत्रम्
[सम्पादयतु]कात्यायनश्रौतसूत्रविषयकं ज्ञानं श्रौतसूत्रस्य स्वरूपावबोधनाय नितान्तमावश्यकमस्ति । अस्य साहित्यस्यायं प्रतिनिधिग्रन्थ इति मन्यते। अनेन सह अन्यश्रौतसूत्राणां तारतम्यं परीक्षितुं तुलनात्मकाध्ययनाय ग्रन्थोऽयम् अतिमहत्त्वपूर्णोऽस्ति । सूत्रमिदं पद्धतौ निबद्धषड्विंशतिषु अध्यायेषु विभक्तः नितान्तप्रौढस्तथा समस्तानां यज्ञयागानां प्रतिपादको ग्रन्थोऽस्ति ।
कृष्णयजुर्वेदीय-श्रौतसूत्राणि
[सम्पादयतु]कृष्णयजुर्वेदेन सम्बद्धानि बौधायन-आपस्तम्ब-हिरण्यकेशीवासत्याषाढ-वैखानस-भारद्वाज-मानव-श्रौतसूत्राणि सन्ति।
बौधायनश्रौतसूत्रम्
[सम्पादयतु]सूत्रमिदं डॉ० कैलेण्ड-महोदयेन सम्पादितम्। गोविन्दस्वामिनो भाष्येण सहेदं मैसूरनगरात् प्रकाशितमभवत् । अनेनैव प्रकारेण बौधायनगृह्यसूत्र-धर्मसूत्र-शुल्वसूत्राणामपि सम्पादनं प्रकाशनञ्चाभवत् । बौधायनश्रौतसूत्रस्य सम्पादनं डॉ० कैलेण्ड-महोदयेन 'बिब्लियोथिका इण्डिका' कलकत्तानगरीतः १९०४-२४ ख्रीष्ट्राब्दे प्रकाशितं, गोविन्दस्वामिनो भाष्येण सह मैसूराच्च । गृह-धर्मयोः प्रकाशनं 'गवर्नमेण्ट-ओरियण्टल-लाइब्रेरी' मैसूरे तथा शुल्वसूत्रस्य संस्करणम् आंग्लभाषायामनुवादञ्च डा० थावो-महोदयेन पण्डितपत्रस्य नवमभागे काशीनगरीतः प्रकाशितम्।
आपस्तम्बस्य श्रौतसूत्रम्
[सम्पादयतु]कल्पसूत्रमिदं त्रिषु प्रश्नेषु किंवाऽध्यायेषु विभक्तमस्ति । येषु अादिमास्त्रयोर्विंशतितमाः प्रश्नाः श्रौतसूत्रमस्ति । चतुर्विंशतितमः प्रश्नः परिभाषाऽस्ति । पञ्चविंशतितमे तथा षड्विंशतितमे प्रश्ने गृहकर्मोपयोगिनां मन्त्राणामेकत्र सङ्कलनमस्ति तथा सप्तविंशतितमः प्रश्नो गृह्यसूत्रमस्ति । अष्टाविंशतितमस्तथोनत्रिंशत्तमौ प्रश्नौ धर्मसूत्रमस्ति । अन्तिमः त्रिशत्तमः प्रश्नः शुल्वसूत्रमस्ति । अनेन प्रकारेणेदं कल्पसूत्रं पूर्णतया सुरक्षितं तथा सर्वतः परिपूर्णमस्ति।
आपस्तम्बश्रौतसूत्रस्य मुख्यसम्बन्धः तैत्तिरीयब्राह्मणेन सहास्ति । अतो ब्राह्मणस्य यागविधानानां विशिष्टवर्णनमत्र उपलब्धं भवति । अापस्तम्ब-गृह्यसूत्रे त्रिंशत्खण्डाः सन्ति । तेषु खण्डेषु विवाह-उपनयन-उपाकमोत्सर्जन-समावर्तनमधुपर्क-सीमन्तोपनयनादित्रयोविंशतितमानां विषयाणां मुख्यतया प्रतिपादनमस्ति। आपस्तम्बधर्मसूत्रे ब्रह्मचर्य-भोजन-विचार-प्रायश्चित्ताद्युपयोगिनां विषयाणां वर्णनमस्ति। आपस्तम्बपरिभाषासूत्रं कपर्दिस्वामिनो भाष्येण सह तथा हरदत्तस्य व्याख्यया सह प्रकाशितमस्ति । श्रौतसूत्रसाहित्ये बौधायनश्रौतसूत्रमतिप्राचीनमस्ति । अस्मिन् ग्रन्थे ऊनत्रिंशत् प्रश्नाः सन्ति । प्रत्येकस्मिन् प्रश्ने कण्डिकाः सन्ति । कण्डिकाऽभ्यन्तरे सूत्राणां सत्ताऽस्ति । अस्य शैल्या विशिष्टताऽस्ति यदस्य वाक्यानि सन्धिसम्पन्नरूपेणैव प्रस्तुतानि सन्ति । अस्य सूत्ररूपे अवान्तरविभाजनस्य न कोऽपि सङ्केतो लभते।
हिरण्यकेशी अथवा सत्याषाढश्रौतसूत्रम्
[सम्पादयतु]कृष्णयजुर्वेदस्य श्रौतसूत्रमिदमस्ति । अस्मिन् सूत्रे चतुविंशतिः प्रश्नाः सन्ति। ग्रन्थेऽस्मिन् नानायागविधानानां वर्णनमस्ति । अापस्तम्बश्रौतसूत्रेण सह घनिष्ठं सम्बन्धं स्थापयति सूत्रमिदम्। सत्यपि सूत्रशैलीग्रन्थेऽस्य शैली सुसंयता लघ्वक्षरा च नास्ति । फलतः कात्यायनश्रौतसूत्राणाम् इवास्मिन् लघ्वक्षरता सुसङ्गतिश्च नास्ति ।
वैखानसश्रौतसूत्रम्
[सम्पादयतु]तैत्तिरीयशाखातः सम्बद्धमिदं श्रौतसूत्रमस्ति । अस्योपरि बौधायनश्रौतसूत्रादिपूर्ववर्णितत्रयाणां सूत्राणामेव विशेषः प्रभावः परिलक्ष्यते । कल्पसूत्रस्य द्वात्रिंशत्तमेषु अध्यायेषु एकविंशतिप्रश्नेषु श्रौतयागानामेव विवरणमुपलब्धमस्ति । अस्य ग्रन्थस्य रचनाशैली बौधायनश्रौतसूत्रमिवाऽस्ति । वाक्यानि च दीर्घस्वरूपे समुपलब्धानि सन्ति । एतेषां सूत्राणामपि विभाजनम् असम्भवमेव । अतोऽत्र दीर्घदीर्घगद्यानामेव स्थितिः विद्यमानाऽस्ति । अनेनैव सम्बद्धं वैखानस-स्मार्तसूत्रमप्यस्ति, यस्य सम्पादनं तथा आङ्ग्लभाषानुवादश्च डॉ० कैलेण्ड-महोदयेन कृतः।
बाधूलश्रौतसूत्रम्
[सम्पादयतु]इदमपि तैत्तिरीयशाखा-सम्बद्धश्रौतसूत्रमस्ति । अस्य प्रकाशनम् अाङ्ग्लभाषानुवादेन, भाषाशास्त्रीयटिप्पणिभिः उपोद्घातेन च सह डॉ० कैलेण्ड-महोदयेन कृतम् । अस्यैकाऽन्याऽपि टीका समुपलब्धा भवति ।
भारद्वाजश्रौतसूत्रम्
[सम्पादयतु]भारद्वाजश्रौतसूत्रं महर्षिभरद्वाजस्य सम्बन्धं कृष्णयजुर्वेदस्य तैत्तिरीयशाखातः परिज्ञातम्भवति। भारद्वाजशाखीयकल्पसूत्रस्य अनेके ग्रन्थाः समुपलब्धाः भवन्ति। भारद्वाजगृह्यसूत्रस्य सर्वप्रथमप्रकाशनं हार्लण्ड-नगराद् बभूव । अस्य सम्पादनं डॉ० सालौमन्स लाइडेन-महोदयेन १९१३ ईशवीये कृतम् । सम्प्रति १९६४ ई० वैदिकसंशोधनमण्डल-पूनानगरीतः भारद्वाजेन सम्बद्धः श्रौतसूत्रस्य परिशिष्टसूत्रस्य च प्रकाशनमभवत् । ग्रन्थानाम् अन्तरङ्गपरीक्षणेन भारद्वाजश्रौतसूत्रं बौधायनश्रौतसूत्राद् उत्तरकालिकमरितं मन्यते। किञ्च आपस्तम्बश्रौतात् प्राक्कालिकमस्ति। भारद्वाजश्रौतसूत्रस्य हस्तलेखो दक्षिणभारते समुपलब्धोऽस्ति ।
मानवश्रौतसूत्रम्
[सम्पादयतु]कृष्णयजुर्वेदस्य मैत्रायणीशाखया सम्बद्धमिदं श्रौतसूत्रमस्ति । सूत्रमिदं प्राचीनतमश्रौतसूत्रेष्वन्यतमं मन्यते । समग्रो ग्रन्थः पञ्चस्वध्यायेषु विभक्तोऽस्ति । प्रत्येकोऽध्यायः खण्डेषु विभक्तोऽस्ति । प्रथमोऽध्यायः अष्टखण्डेषु तत्रदर्शपौर्णमास-पिण्डपितृयज्ञ-अग्न्याधान-अग्निहोत्र-अग्न्युपस्थान-आग्रषण-पुनराधानचातुर्मास्य-पितृयज्ञ-पञ्चसांवत्सरिकपशुबन्धादीनां विवरणमस्ति । द्वितीयोऽध्यायः पञ्चसु खण्डेषु, तत्र अग्निष्टोमस्य विशदं वर्णनमस्ति । तृतीयोऽध्यायः अष्टखण्डेषु, प्रायश्चित्तस्य, चतुर्थोऽध्यायः अष्टसु खण्डेषु प्रवर्ग्यस्य, पञ्चमोऽध्यायः खण्डद्वयेषु इष्टेश्च वर्णनं ददाति । अस्य ग्रन्थस्य शैली वर्णनात्मिकाऽस्ति । अस्य प्रारम्भिकान् पञ्चाध्यायान् बनाउएर-महोदयेन सेण्टपीटर्सवर्गेण प्रकाशितम्। ( १९०० ई०-१९०३ ) षष्ठोऽध्यायो गैलेण्डर-महोदयेन सानुवादं सम्पादितः ( लाइदेन १९२१ ) । मानवगृह्यसूत्रश्चाष्टावक्रभाष्येण सह गायकवाड-ओरियण्टल-सीरीज-बडौदात: प्रकाशितमस्ति।
वाराहश्रौतसूत्रम्
[सम्पादयतु]इदमपि सूत्रं मैत्रायणीशाखातः सम्बद्धमस्ति । अस्मिन् त्रयः अध्यायाः सन्ति । सर्वेऽप्यध्यायाः खण्डेषु विभक्ताः । प्रथमाध्याये दर्शपूर्णमास-अग्न्याधानपशुबन्ध-चातुर्मासादीनां, द्वितीयाध्याये अग्निचयनस्य तथा तृतीयाध्याये वाजपेय-राजसूय-अश्वमेधादीनां वर्णनमस्ति । यागानुष्ठानानां विस्तृतं वर्णनमत्र कात्यायनश्रौतसूत्रमिव उपलब्धं नास्ति । सूत्रञ्च लघ्वाकारमस्ति तथाऽवबोघने सरलं सुबोधञ्चास्ति । सूत्रमिदं होत्र-काम्ययोर्दर्शपूर्णमासस्य वर्णनं न करोति । सूत्रमिदं डॉ० कैलेण्डेन डॉ० रघुवीरेण च सम्पादितं भूत्वा लाहौरनगरीतः (१९३३ ई० ) प्रकाशितमस्ति । तत्र चरणव्यूहटीकायाः श्लोकोऽयं द्रष्टव्यः -
'मयूरपर्वताच्चैव यावद्गुर्जरदेशतः।
व्याप्ता वायव्यदेशात्तु मैत्रायणी प्रतिष्ठिता।'
मयूरपर्वतादर्थात् महाराष्ट्रप्रान्तस्य नासिकमण्डलान्तर्गतवर्तमानमुल्लेरनगरादारभ्य गुर्जरप्रदेशपर्यन्तं मैत्रायणीशाखा प्रतिष्ठिताऽस्ति इति।
काठकश्रौतसूत्रम्
[सम्पादयतु]अस्य ग्रन्थस्याल्पांश एवोपलब्धोस्ति । पिण्डपितृयज्ञेन सम्बद्धः अस्य सूत्रस्य अल्पभागो व्यूलर-महोदयेन कश्मीरान्वेषणे उपलब्धोऽस्ति । काष्ठककल्पसूत्रस्य गृह्यभागः टीकात्रयस्य सारांशेन सह प्रकाशितोऽस्ति । सूत्रमिदमखण्डितं प्रकाशितं प्राप्यते।
सामवेदीय-श्रौतसूत्राणि
[सम्पादयतु]लाट्यायनश्रौतसूत्रम्
[सम्पादयतु]अग्निस्वामिनो भाष्येण सह १८७२ ख्रीष्टाब्दे प्रकाशितोऽयं ग्रन्थोऽस्ति । सामवेदेन सम्बद्धमिदं सूत्रं सामगायनानां वर्णनं करोति । अग्निष्टोमादिसामयागेष्विदं गायनं प्रयुक्तं भवति।
द्राह्यायणश्रौतसूत्रम्
[सम्पादयतु]द्राह्यायणश्रौतसूत्रमपि अनेनैव वेदेन सह सम्बद्धमस्ति । ग्रन्थेऽस्मिन् द्वात्रिंशत्पटलानां सत्ता विद्यते । सर्वाणि पटलानि चात्र न प्रकाशितानि सन्ति । लाट्यायनश्रौतसूत्रेण सहास्य विपुला समानता विद्यते । प्रारम्भतः एकादशपटलपर्यन्तं जे० एन० रायटर-महोदयेन सूत्रमिदं प्रकाशितमस्ति ।
जैमिनीयश्रौतसूत्रम्
[सम्पादयतु]सामवेदस्य जैमिनीशाखातः सम्बद्धमिदमपि सूत्रमस्ति । ग्रन्थेऽस्मिन् षड्विंशतिः कण्डिकाः सन्ति । अग्न्याधेयस्य अग्निहोत्रहोमस्य चात्र वर्णनमस्ति । १९०६ ख्रीष्टाब्दे गास्ट्रा-महोदयेनास्य प्रकाशनं सम्पादनञ्च कृतम् ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तु
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ ( ३ ॥ ३)