गृह्यसूत्रम्
गृह्यसूत्रं कल्पस्य अङ्गम् अस्ति। अनेके ग्रन्थकर्त्तारः आश्वलायनगृह्मसूत्रं कारिकाबद्धं कृतवन्तः। तेषु लेखकेषु रघुनाथदीक्षितगोपालकुमारिलप्रभृतीनां विदुषां नाम विशेषरूपेण उल्लेखनीयमस्ति। अन्तिमलेखकेन आश्वलायनगृह्यसूत्रस्य नारायणवृत्तेस्तथाऽनन्तस्वामिनो निर्देशं कृतवान् स्वकीये ग्रन्थे। गृह्मसूत्रे च तदीये आश्वलायन शाङ्गायनं च स्तः। शुक्लयजुवेदस्य श्रौतसूत्रमेकमेव कात्यायनश्रौतसूत्रमस्ति । गृह्यसूत्रञ्च अस्यैकमेव पारस्करगृह्यसूत्रं विद्यते । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि-बौधायन-आपस्तम्बहिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बौधायनं गृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अार्षेयं कल्पसूत्रं प्राचीनम् । इदं लाट्यायनात् श्रौतसूत्रादपि प्राचीनतरमिति निगद्यते । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशास्त्रीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं किञ्च तदीयं गृह्यसूत्रं कौशिकसंज्ञकं वेद्यम् । गृह्यसूत्रमिदं प्राचीनभारतीययातुविद्याविषयकामनुपमाञ्च सामग्रीं प्रस्तौति ।
शाङ्खायनगृह्यसूत्रे षडध्यायाः सन्ति । विषयोऽपि तदेवास्ति - संस्काराणां वर्णनं, तथा तत्सम्बद्धानां गृहनिर्माण-गृहप्रवेशादीनां विषयाणां स्थाने स्थाने च वर्णनमस्ति । ऋग्वेदस्य तृतीया शाखा- 'कौषीतकि' इत्येतस्य कल्पसूत्राणामपि परिचयः सम्प्रति उपलभ्यते । धारणेयं प्रायः प्रचलिताऽस्ति यत्, शाह्वङ्गायन-कौषीतकि-उभयोरपि एकस्यैव शाखान्तर्गते भिन्न-भिन्नमभिधानमस्ति । किञ्च कौषीतकिशाखा शाङ्खायनशाखातः सर्वथा भिन्ना एवास्ति । कौषीतकिगृह्यसूत्रं सम्प्रति मद्रासनगरीतः प्रकाशितमभवत् ।
शुक्लयजुर्वेदीय-गृह्यसूत्राणि
[सम्पादयतु]पारस्करगृह्यसूत्रम्
[सम्पादयतु]पारस्करगृह्यसूत्रनाम्ना शुक्लयजुर्वेदस्य गृह्यसूत्रं विख्यातमस्ति । अस्य त्रिषु काण्डेषु प्रथमकाण्डे आवसथ्याग्नेराधानं, विवाहादारभ्यान्नप्राशनपर्यन्तानां विषयाणां वर्णनमस्ति । द्वितीयकाण्डे चूडाकरणादारभ्य उपनयन-समावर्तन-पञ्चमहायज्ञ-श्रवणाकर्म-सीतादियज्ञानां विवरणमस्ति । अन्तिमे काण्डे श्राद्धान्तरे अवकीर्णि-प्रायश्चित्तादीनां विविधानां विषयाणां प्रतिपादनमस्ति ।
कृष्णयजुर्वेदीय-गृह्यसूत्राणि
[सम्पादयतु]बौधायनगृह्यसूत्रम्
[सम्पादयतु]गृह्यसूत्रमिदं बौधायनकल्पसूत्रस्यैको विशिष्टांशोऽस्ति । १९२० ख्रीष्टाब्दे गवर्नमेण्ट-अोरियन्टल-लाइबेरी-सीरीज-मैसूरनगरीतः प्रकाशितं बभूव । ग्रन्थोऽयं गृह्यशेष-पितृमेधसूत्रैः सह समन्वितोऽस्ति । अस्मिन् चत्वारः प्रश्नाः सन्ति । इतरहस्तलेखेष्वस्य दश प्रश्नाः (अध्यायाः) उपलब्धाः सन्ति । ग्रन्थेऽस्मिन् बहुविधस्य परिवर्तनस्य परिवर्धनस्य च सङ्केतो लभते।
भारद्वाजगृह्यसूत्रम्
[सम्पादयतु]भारद्वाजश्रौतसूत्रस्यैव एतत् अंशत्वेन तिष्ठति। सूत्रेऽस्मिन् त्रयोऽंशाः सन्ति। अस्य प्रकाशनं लाइडेन इत्यस्य डॉ. सालोमन्स-महोदयेन कृतम्। सम्पादकमहोदयेन अस्य परिवर्धनस्य विषये यदभिमतं प्रकाशितं तत्तु न स्वीकृतम्। विवाहप्रकरणे कतिचिद्विषयेषु अाधुनिकतायाः सङ्केतो लभते । तेन ह्ययमंशः क्षेपक इति स्वीकर्तुं न शक्यते।
आपस्तम्बगृह्यसूत्रम्
[सम्पादयतु]अापस्तम्बकल्पसूत्रस्य सप्तविंशतितमः प्रश्नः इदमेव गृह्यसूत्रमस्ति । अस्मिन् गृह्मसूत्रे त्रिंशत् प्रश्नाः सन्ति । गृह्यसूत्रमिदं मन्त्रपाठस्य मन्त्राणां निर्देशं करोति । हरदत्तस्य अनाकुलावृत्तिस्तथा सुदर्शनाचार्यस्य तात्पर्यदर्शनव्याख्यया सह चौखम्बा-सीरीजकाशीतः ( १९२८ ई० ) प्रकाशितमस्ति। सूत्रमिदम् अष्टपटलेषु विभक्तमस्ति । प्रत्येकस्य पटलस्याभ्यन्तरे खण्डानि सन्ति । खण्डेषु सूत्राणां स्थितिरस्ति । फलतः समस्तो ग्रन्थः सूत्रेषु विभक्तोऽस्ति । अस्य गृह्यसूत्रस्यापि विषयस्तथैवास्ति यथाऽन्यगृह्मसूत्रेषूपलब्धो भवति । अस्य द्वौ व्याख्याकारिणौ स्तः । हरदत्ताचार्यः सुदर्शनाचार्यश्चेति । हरदत्ताचार्यस्य समयस्तु पञ्चदशशतकीयो वर्त्तते, कतिपयैरन्यप्रमाणैः विद्वानयं पञ्चदशशतकात् प्राचीनतरो वर्त्तते इति पुरातत्त्वविदो वदन्ति । हरदत्तोऽयं शैवमतानुयायी, कावेरीतटवासी दाक्षिणात्यो विद्वानासीत् । अापस्तम्बस्य गृह्यसूत्रं, गृह्यमन्त्रः, धर्मसूत्रं परिभाषाप्रभूतिग्रन्थानां व्याख्या अनेन विरचितेति । आश्वलायनगृह्यसूत्रस्य 'अनाविला’-टीका तथा गौतमसूत्रस्य 'मिताक्षरा'-व्याख्या अनेनैव हरदत्ताचार्येण लिखितेति ख्रीष्टस्य सप्तदशशतकस्य पूर्वाद्धे रचितनिर्णयसिन्धौ कमलाकरभट्टेन नाम्ना निर्दिष्टोऽयं सुदर्शनाचार्यः अवर्द्राचीनोऽस्ति इति मन्यते।
हिरण्यकेशिगृह्यसूत्रम्
[सम्पादयतु]हिरण्यकेशिगृह्यसूत्रस्य अपरं नाम सत्याषाढगृह्यसूत्रमस्ति । हिरण्यकेशिकल्पसूत्रस्य १९ तथा २० प्रश्नरूपमस्ति । गृह्यानुष्ठानेषु आवश्यकमन्त्राः समग्ररूपेणात्र प्रदत्ताः सन्ति । एतेषु मन्त्रेषु प्रयुक्ताः शब्दाः पाणिनीयव्याकरणेन सुसङ्गताः न सन्ति। अस्य ग्रन्थस्योपरि मातृदत्तस्य प्रौढा व्याख्याऽस्ति। टीकया सह मूलग्रन्थस्य सम्पादनं डॉ० क्रिस्ते-महोदयेन वियनानगरीतः (१८८९ ईश्वीये.) कृतं प्रकाशितञ्चेति । आङ्ग्लानुवादेन सह 'सेक्रेड बुक्स आफ द ईस्ट' ग्रन्थमालायाः मोल्डनवर्गेण सूत्रमिदं प्रकाशितमस्ति ।
वैखानसगृह्यसूत्रम्
[सम्पादयतु]तैत्तिरीयशाखातः सम्बद्धमिदं गृह्यसूत्रम् अवान्तरकालिकमिति मन्यते । इदं सूत्रम् अनुष्ठानेषु योजनीयमन्त्राणां प्रतीकस्य एवोल्लेखं करोति । एतेषां मन्त्राणां स्वतन्त्रं सङ्कलनं 'वैखानसीया मन्त्रसंहिता' इति नाम्ना कृतमस्ति । गुह्यमन्त्रसंहितयोः पारस्परिकसम्बन्धविषये विद्वत्सु ऐक्यं नास्ति । कतिचिज्जनाः मन्त्रसंहितां गृह्यात् प्राचीनतरं मन्यन्ते, चान्येऽर्वाचीना समकालिका वेति मन्यन्ते । डॉ० कैलेण्डेन अस्य प्रकाशनमाङ्ग्लभाषानुवादेन सह कृतमिति ।
अग्निवेशगृह्यसूत्रम्
[सम्पादयतु]अस्य गृह्यसूत्रस्य रचयिता अग्निवेशनामको वैदिकाचार्योऽस्ति । अयमेवाचार्यः तैत्तिरीयाणां बाधूलशाखाऽन्तर्गते अग्निवेशोपशाखायाः प्रवर्त्तनं कृतवान् । अन्येभ्यः गृह्यसूत्रेभ्यः अस्य वर्ण्यविषयस्तथा रचनाकौशलं नितान्तं भिन्नं दृष्टिगोचरं भवति । अस्मिन् वर्णितानुष्ठानेषु नारायणबलि-यतिसंस्कार-संन्यासविधि-वानप्रस्थविधिप्रभूतीनामुपरि अवान्तरकालिकधार्मिकसम्प्रदायानां प्रभावः स्पष्टतः परिलक्षितो भवति । फलतः सामान्यगृह्यसूत्रेभ्यः अस्य दिशा भिन्ना एवेति । ग्रन्थोऽयं अनन्तशयन-संस्कृतग्रन्थमाला, त्रिवेन्द्रम-नगरीतः प्रकाशितोऽभवत् ।
मानवगृह्यसूत्रम्
[सम्पादयतु]अस्यापरं नाम मैत्रायणीयमानवगृह्यमप्यस्ति । मैत्रायणीयशाखायाः चरणव्यूहे निर्दिष्टाः भेदाः — मानव-वराह-दुन्दुभ-छागलेय-हारिद्रवेय-श्यामानीयानां ‘मानवः' अन्यतमो विभेदोऽस्ति । अस्मिन् गृह्यसूत्रे द्वौ पुरुषौ वा प्रकरणौ स्तः । प्रत्येकस्मिन् पुरुषे अनेकाः कण्डिकाः सन्ति । अस्मिन् ग्रन्थे विनायकपूजायाः विशिष्टं वर्णनमस्ति । अष्टावक्रस्य भाष्येण सह वडोदरा-नगरीतः प्रकाशितोऽयमस्ति । भाष्यकारः अस्य रचयितुर्नाम ‘मानवाचार्य' इति कथयति । अस्य व्यक्तित्वविषये अल्पज्ञानमेवास्ति ।
वाराहगृह्यसूत्रम्
[सम्पादयतु]मैत्रायणीशाखायाः अन्तर्गते गृह्यसूत्रमिदं मैत्रायणीसंहिताया मन्त्राणां प्रयोगं करोति। अस्य बहूनि सूत्राणि काठकगृह्यसूत्रमिव तथा मानवगृह्यसूत्रमिव सन्ति । गृह्योपयोगिनीनां विशिष्टवस्तूनामभावादेवायं ग्रन्थः तद्वन्महत्त्वपूर्णो नास्ति ।
काठकगृह्मसूत्रम्
[सम्पादयतु]काठकगृह्यसूत्रमपि मानवगृह्यसूत्रात् लभते । अस्यैव अपरं नाम ‘लौगाक्षिगृह्यसूत्रम्' अस्ति। अस्य ग्रन्थस्य द्वौ प्रकारकौ विभागौ स्तः। प्रथमविभागानुसारेण ग्रन्थेऽस्मिन् ७३ कण्डिकाः सन्ति । द्वितीयविभागानुसारेण अस्मिन् पञ्चाध्यायाः सन्ति । अनेनैव पञ्चाध्यायीविभागेनास्य लोकप्रियो नाम 'गृह्यपञ्चका’ वर्त्तते । अस्य त्रिषु टीकाकारेषु अादित्यदर्शनः प्राचीनतमः अस्ति । माधवाचार्यस्य पुत्रो ब्राह्मणबलस्य व्याख्या टीका न भूत्वा अधिकांशतः पद्धतिरेवास्ति । हरिपालस्य पुत्रस्य देवपालस्य टीका भाष्यनाम्ना ख्याताऽस्ति । १९८१ विक्रमाब्दे त्रिभिः व्यख्याभिः संवलितं सुष्ठुसंस्करणं कैलेण्ड-महोदयेन लाहौरनगरीतः प्रकाशितम् ।
सामवेदीय-गृह्यसूत्राणि
[सम्पादयतु]गोभिलगृह्मसूत्रम्
[सम्पादयतु]अस्य प्रकाशनमनेकेभ्यः स्थानेभ्योऽभवत् (क्नाउएर १८८५-८६; विब्लि० ई० १८७१-७९; सत्यव्रतसामश्रमी १९०६ ) अन्यैः विषयैः सह पिण्डपितृयज्ञस्य वर्णनं करोतीदं सूत्रम् । गोभिलगृह्यसूत्रस्य आङ्ग्लानुवादः 'सेक्रेड बुक अाफ ईस्ट' इत्याख्यसंस्थातः ओल्डेनवर्ग-महोदयेन कृतः ।
खादिरगृह्यसूत्रस्य आङ्ग्लानुवादः २९७ खण्डे प्रकाशितोऽभवत् । गृह्यसूत्रमिदं रुद्रस्कन्दस्य टीकया सह प्रकाशितमस्ति मैसूरनगरादिति । १९२२ ख्रीष्टाब्दे डॉ० कैलेण्ड-महोदयेन लाहौरनगरात् जैमिनीयगृह्यसूत्रं प्रकाशितम् । त्रिषु प्रमुखसामवेदीयसूत्रेषु गोभिलगृह्यसूत्रम् अतिप्रख्यातमस्ति । बहुप्रचलितात् कौथुमशाखातः सम्बद्धमिदं सूत्रमतीव लोकप्रियमप्यस्ति । इदं मन्त्रब्राह्मण-नामकात् सामवेदीयमन्त्रसङ्ग्रहात्मकग्रन्थाद् अनुष्ठानावसरे मन्त्राणामुद्धरणं ददाति, किञ्च प्रतीकरूपेणैव सामसंहितायां मन्त्रोऽप्युद्धृतोऽस्ति ।
खादिरगृह्यसूत्रम्
[सम्पादयतु]सामवेदस्य राणायणीयशाखातः सम्बद्धेदं गृह्मगोभिलसूत्रस्योपरि सर्वात्मनाऽऽधारितमस्ति । तस्यादेशो नियमश्च अत्र संक्षिप्तरूपेण प्रस्तुतोऽस्ति । फलतः सूत्रमिदं गोभिलगृह्यसूत्रस्यैव संक्षिप्तसंस्करणमस्ति ।
जैमिनीयगृह्यसूत्रम्
[सम्पादयतु]खण्डद्वयेषु विभक्तमिदं सूत्रमस्ति । प्रथमखण्डे चतुर्विंशतिः कण्डिकाः सन्ति, द्वितीयखण्डे नव कण्डिकाश्चेति । अस्य सुबोधिनी-टीका श्रीनिवासाध्वरीमहोदयेन कृता। अस्याः टीकायाः कतिपयानि महत्त्वपूर्णोद्धरणानि मूलग्रन्थेन सह कैलेण्डेन प्रकाशितानि सन्ति ।