गृह्यसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

गृह्यसूत्रं कल्पस्य अङ्गम् अस्ति। अनेके ग्रन्थकर्त्तारः आश्वलायनगृह्मसूत्रं कारिकाबद्धं कृतवन्तः। तेषु लेखकेषु रघुनाथदीक्षितगोपालकुमारिलप्रभृतीनां विदुषां नाम विशेषरूपेण उल्लेखनीयमस्ति। अन्तिमलेखकेन आश्वलायनगृह्यसूत्रस्य नारायणवृत्तेस्तथाऽनन्तस्वामिनो निर्देशं कृतवान् स्वकीये ग्रन्थे। गृह्मसूत्रे च तदीये आश्वलायन शाङ्गायनं च स्तः। शुक्लयजुवेदस्य श्रौतसूत्रमेकमेव कात्यायनश्रौतसूत्रमस्ति । गृह्यसूत्रञ्च अस्यैकमेव पारस्करगृह्यसूत्रं विद्यते । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि-बौधायन-आपस्तम्बहिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बौधायनं गृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अार्षेयं कल्पसूत्रं प्राचीनम् । इदं लाट्यायनात् श्रौतसूत्रादपि प्राचीनतरमिति निगद्यते । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशास्त्रीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं किञ्च तदीयं गृह्यसूत्रं कौशिकसंज्ञकं वेद्यम् । गृह्यसूत्रमिदं प्राचीनभारतीययातुविद्याविषयकामनुपमाञ्च सामग्रीं प्रस्तौति ।

शाङ्खायनगृह्यसूत्रे षडध्यायाः सन्ति । विषयोऽपि तदेवास्ति - संस्काराणां वर्णनं, तथा तत्सम्बद्धानां गृहनिर्माण-गृहप्रवेशादीनां विषयाणां स्थाने स्थाने च वर्णनमस्ति । ऋग्वेदस्य तृतीया शाखा- 'कौषीतकि' इत्येतस्य कल्पसूत्राणामपि परिचयः सम्प्रति उपलभ्यते । धारणेयं प्रायः प्रचलिताऽस्ति यत्, शाह्वङ्गायन-कौषीतकि-उभयोरपि एकस्यैव शाखान्तर्गते भिन्न-भिन्नमभिधानमस्ति । किञ्च कौषीतकिशाखा शाङ्खायनशाखातः सर्वथा भिन्ना एवास्ति । कौषीतकिगृह्यसूत्रं सम्प्रति मद्रासनगरीतः प्रकाशितमभवत् ।

शुक्लयजुर्वेदीय-गृह्यसूत्राणि[सम्पादयतु]

पारस्करगृह्यसूत्रम्[सम्पादयतु]

पारस्करगृह्यसूत्रनाम्ना शुक्लयजुर्वेदस्य गृह्यसूत्रं विख्यातमस्ति । अस्य त्रिषु काण्डेषु प्रथमकाण्डे आवसथ्याग्नेराधानं, विवाहादारभ्यान्नप्राशनपर्यन्तानां विषयाणां वर्णनमस्ति । द्वितीयकाण्डे चूडाकरणादारभ्य उपनयन-समावर्तन-पञ्चमहायज्ञ-श्रवणाकर्म-सीतादियज्ञानां विवरणमस्ति । अन्तिमे काण्डे श्राद्धान्तरे अवकीर्णि-प्रायश्चित्तादीनां विविधानां विषयाणां प्रतिपादनमस्ति ।

कृष्णयजुर्वेदीय-गृह्यसूत्राणि[सम्पादयतु]

बौधायनगृह्यसूत्रम्[सम्पादयतु]

गृह्यसूत्रमिदं बौधायनकल्पसूत्रस्यैको विशिष्टांशोऽस्ति । १९२० ख्रीष्टाब्दे गवर्नमेण्ट-अोरियन्टल-लाइबेरी-सीरीज-मैसूरनगरीतः प्रकाशितं बभूव । ग्रन्थोऽयं गृह्यशेष-पितृमेधसूत्रैः सह समन्वितोऽस्ति । अस्मिन् चत्वारः प्रश्नाः सन्ति । इतरहस्तलेखेष्वस्य दश प्रश्नाः (अध्यायाः) उपलब्धाः सन्ति । ग्रन्थेऽस्मिन् बहुविधस्य परिवर्तनस्य परिवर्धनस्य च सङ्केतो लभते।

भारद्वाजगृह्यसूत्रम्[सम्पादयतु]

भारद्वाजश्रौतसूत्रस्यैव एतत् अंशत्वेन तिष्ठति। सूत्रेऽस्मिन् त्रयोऽंशाः सन्ति। अस्य प्रकाशनं लाइडेन इत्यस्य डॉ. सालोमन्स-महोदयेन कृतम्। सम्पादकमहोदयेन अस्य परिवर्धनस्य विषये यदभिमतं प्रकाशितं तत्तु न स्वीकृतम्। विवाहप्रकरणे कतिचिद्विषयेषु अाधुनिकतायाः सङ्केतो लभते । तेन ह्ययमंशः क्षेपक इति स्वीकर्तुं न शक्यते।

आपस्तम्बगृह्यसूत्रम्[सम्पादयतु]

अापस्तम्बकल्पसूत्रस्य सप्तविंशतितमः प्रश्नः इदमेव गृह्यसूत्रमस्ति । अस्मिन् गृह्मसूत्रे त्रिंशत् प्रश्नाः सन्ति । गृह्यसूत्रमिदं मन्त्रपाठस्य मन्त्राणां निर्देशं करोति । हरदत्तस्य अनाकुलावृत्तिस्तथा सुदर्शनाचार्यस्य तात्पर्यदर्शनव्याख्यया सह चौखम्बा-सीरीजकाशीतः ( १९२८ ई० ) प्रकाशितमस्ति। सूत्रमिदम् अष्टपटलेषु विभक्तमस्ति । प्रत्येकस्य पटलस्याभ्यन्तरे खण्डानि सन्ति । खण्डेषु सूत्राणां स्थितिरस्ति । फलतः समस्तो ग्रन्थः सूत्रेषु विभक्तोऽस्ति । अस्य गृह्यसूत्रस्यापि विषयस्तथैवास्ति यथाऽन्यगृह्मसूत्रेषूपलब्धो भवति । अस्य द्वौ व्याख्याकारिणौ स्तः । हरदत्ताचार्यः सुदर्शनाचार्यश्चेति । हरदत्ताचार्यस्य समयस्तु पञ्चदशशतकीयो वर्त्तते, कतिपयैरन्यप्रमाणैः विद्वानयं पञ्चदशशतकात् प्राचीनतरो वर्त्तते इति पुरातत्त्वविदो वदन्ति । हरदत्तोऽयं शैवमतानुयायी, कावेरीतटवासी दाक्षिणात्यो विद्वानासीत् । अापस्तम्बस्य गृह्यसूत्रं, गृह्यमन्त्रः, धर्मसूत्रं परिभाषाप्रभूतिग्रन्थानां व्याख्या अनेन विरचितेति । आश्वलायनगृह्यसूत्रस्य 'अनाविला’-टीका तथा गौतमसूत्रस्य 'मिताक्षरा'-व्याख्या अनेनैव हरदत्ताचार्येण लिखितेति ख्रीष्टस्य सप्तदशशतकस्य पूर्वाद्धे रचितनिर्णयसिन्धौ कमलाकरभट्टेन नाम्ना निर्दिष्टोऽयं सुदर्शनाचार्यः अवर्द्राचीनोऽस्ति इति मन्यते।

हिरण्यकेशिगृह्यसूत्रम्[सम्पादयतु]

हिरण्यकेशिगृह्यसूत्रस्य अपरं नाम सत्याषाढगृह्यसूत्रमस्ति । हिरण्यकेशिकल्पसूत्रस्य १९ तथा २० प्रश्नरूपमस्ति । गृह्यानुष्ठानेषु आवश्यकमन्त्राः समग्ररूपेणात्र प्रदत्ताः सन्ति । एतेषु मन्त्रेषु प्रयुक्ताः शब्दाः पाणिनीयव्याकरणेन सुसङ्गताः न सन्ति। अस्य ग्रन्थस्योपरि मातृदत्तस्य प्रौढा व्याख्याऽस्ति। टीकया सह मूलग्रन्थस्य सम्पादनं डॉ० क्रिस्ते-महोदयेन वियनानगरीतः (१८८९ ईश्वीये.) कृतं प्रकाशितञ्चेति । आङ्ग्लानुवादेन सह 'सेक्रेड बुक्स आफ द ईस्ट' ग्रन्थमालायाः मोल्डनवर्गेण सूत्रमिदं प्रकाशितमस्ति ।

वैखानसगृह्यसूत्रम्[सम्पादयतु]

तैत्तिरीयशाखातः सम्बद्धमिदं गृह्यसूत्रम् अवान्तरकालिकमिति मन्यते । इदं सूत्रम् अनुष्ठानेषु योजनीयमन्त्राणां प्रतीकस्य एवोल्लेखं करोति । एतेषां मन्त्राणां स्वतन्त्रं सङ्कलनं 'वैखानसीया मन्त्रसंहिता' इति नाम्ना कृतमस्ति । गुह्यमन्त्रसंहितयोः पारस्परिकसम्बन्धविषये विद्वत्सु ऐक्यं नास्ति । कतिचिज्जनाः मन्त्रसंहितां गृह्यात् प्राचीनतरं मन्यन्ते, चान्येऽर्वाचीना समकालिका वेति मन्यन्ते । डॉ० कैलेण्डेन अस्य प्रकाशनमाङ्ग्लभाषानुवादेन सह कृतमिति ।

अग्निवेशगृह्यसूत्रम्[सम्पादयतु]

अस्य गृह्यसूत्रस्य रचयिता अग्निवेशनामको वैदिकाचार्योऽस्ति । अयमेवाचार्यः तैत्तिरीयाणां बाधूलशाखाऽन्तर्गते अग्निवेशोपशाखायाः प्रवर्त्तनं कृतवान् । अन्येभ्यः गृह्यसूत्रेभ्यः अस्य वर्ण्यविषयस्तथा रचनाकौशलं नितान्तं भिन्नं दृष्टिगोचरं भवति । अस्मिन् वर्णितानुष्ठानेषु नारायणबलि-यतिसंस्कार-संन्यासविधि-वानप्रस्थविधिप्रभूतीनामुपरि अवान्तरकालिकधार्मिकसम्प्रदायानां प्रभावः स्पष्टतः परिलक्षितो भवति । फलतः सामान्यगृह्यसूत्रेभ्यः अस्य दिशा भिन्ना एवेति । ग्रन्थोऽयं अनन्तशयन-संस्कृतग्रन्थमाला, त्रिवेन्द्रम-नगरीतः प्रकाशितोऽभवत् ।

मानवगृह्यसूत्रम्[सम्पादयतु]

अस्यापरं नाम मैत्रायणीयमानवगृह्यमप्यस्ति । मैत्रायणीयशाखायाः चरणव्यूहे निर्दिष्टाः भेदाः — मानव-वराह-दुन्दुभ-छागलेय-हारिद्रवेय-श्यामानीयानां ‘मानवः' अन्यतमो विभेदोऽस्ति । अस्मिन् गृह्यसूत्रे द्वौ पुरुषौ वा प्रकरणौ स्तः । प्रत्येकस्मिन् पुरुषे अनेकाः कण्डिकाः सन्ति । अस्मिन् ग्रन्थे विनायकपूजायाः विशिष्टं वर्णनमस्ति । अष्टावक्रस्य भाष्येण सह वडोदरा-नगरीतः प्रकाशितोऽयमस्ति । भाष्यकारः अस्य रचयितुर्नाम ‘मानवाचार्य' इति कथयति । अस्य व्यक्तित्वविषये अल्पज्ञानमेवास्ति ।

वाराहगृह्यसूत्रम्[सम्पादयतु]

मैत्रायणीशाखायाः अन्तर्गते गृह्यसूत्रमिदं मैत्रायणीसंहिताया मन्त्राणां प्रयोगं करोति। अस्य बहूनि सूत्राणि काठकगृह्यसूत्रमिव तथा मानवगृह्यसूत्रमिव सन्ति । गृह्योपयोगिनीनां विशिष्टवस्तूनामभावादेवायं ग्रन्थः तद्वन्महत्त्वपूर्णो नास्ति ।

काठकगृह्मसूत्रम्[सम्पादयतु]

काठकगृह्यसूत्रमपि मानवगृह्यसूत्रात् लभते । अस्यैव अपरं नाम ‘लौगाक्षिगृह्यसूत्रम्' अस्ति। अस्य ग्रन्थस्य द्वौ प्रकारकौ विभागौ स्तः। प्रथमविभागानुसारेण ग्रन्थेऽस्मिन् ७३ कण्डिकाः सन्ति । द्वितीयविभागानुसारेण अस्मिन् पञ्चाध्यायाः सन्ति । अनेनैव पञ्चाध्यायीविभागेनास्य लोकप्रियो नाम 'गृह्यपञ्चका’ वर्त्तते । अस्य त्रिषु टीकाकारेषु अादित्यदर्शनः प्राचीनतमः अस्ति । माधवाचार्यस्य पुत्रो ब्राह्मणबलस्य व्याख्या टीका न भूत्वा अधिकांशतः पद्धतिरेवास्ति । हरिपालस्य पुत्रस्य देवपालस्य टीका भाष्यनाम्ना ख्याताऽस्ति । १९८१ विक्रमाब्दे त्रिभिः व्यख्याभिः संवलितं सुष्ठुसंस्करणं कैलेण्ड-महोदयेन लाहौरनगरीतः प्रकाशितम् ।

सामवेदीय-गृह्यसूत्राणि[सम्पादयतु]

गोभिलगृह्मसूत्रम्[सम्पादयतु]

अस्य प्रकाशनमनेकेभ्यः स्थानेभ्योऽभवत् (क्नाउएर १८८५-८६; विब्लि० ई० १८७१-७९; सत्यव्रतसामश्रमी १९०६ ) अन्यैः विषयैः सह पिण्डपितृयज्ञस्य वर्णनं करोतीदं सूत्रम् । गोभिलगृह्यसूत्रस्य आङ्ग्लानुवादः 'सेक्रेड बुक अाफ ईस्ट' इत्याख्यसंस्थातः ओल्डेनवर्ग-महोदयेन कृतः ।

खादिरगृह्यसूत्रस्य आङ्ग्लानुवादः २९७ खण्डे प्रकाशितोऽभवत् । गृह्यसूत्रमिदं रुद्रस्कन्दस्य टीकया सह प्रकाशितमस्ति मैसूरनगरादिति । १९२२ ख्रीष्टाब्दे डॉ० कैलेण्ड-महोदयेन लाहौरनगरात् जैमिनीयगृह्यसूत्रं प्रकाशितम् । त्रिषु प्रमुखसामवेदीयसूत्रेषु गोभिलगृह्यसूत्रम् अतिप्रख्यातमस्ति । बहुप्रचलितात् कौथुमशाखातः सम्बद्धमिदं सूत्रमतीव लोकप्रियमप्यस्ति । इदं मन्त्रब्राह्मण-नामकात् सामवेदीयमन्त्रसङ्ग्रहात्मकग्रन्थाद् अनुष्ठानावसरे मन्त्राणामुद्धरणं ददाति, किञ्च प्रतीकरूपेणैव सामसंहितायां मन्त्रोऽप्युद्धृतोऽस्ति ।

खादिरगृह्यसूत्रम्[सम्पादयतु]

सामवेदस्य राणायणीयशाखातः सम्बद्धेदं गृह्मगोभिलसूत्रस्योपरि सर्वात्मनाऽऽधारितमस्ति । तस्यादेशो नियमश्च अत्र संक्षिप्तरूपेण प्रस्तुतोऽस्ति । फलतः सूत्रमिदं गोभिलगृह्यसूत्रस्यैव संक्षिप्तसंस्करणमस्ति ।

जैमिनीयगृह्यसूत्रम्[सम्पादयतु]

खण्डद्वयेषु विभक्तमिदं सूत्रमस्ति । प्रथमखण्डे चतुर्विंशतिः कण्डिकाः सन्ति, द्वितीयखण्डे नव कण्डिकाश्चेति । अस्य सुबोधिनी-टीका श्रीनिवासाध्वरीमहोदयेन कृता। अस्याः टीकायाः कतिपयानि महत्त्वपूर्णोद्धरणानि मूलग्रन्थेन सह कैलेण्डेन प्रकाशितानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गृह्यसूत्रम्&oldid=436305" इत्यस्माद् पुनः प्राप्तिः