राजस्थानराज्यम्
Rajasthan राजस्थानराज्यम् |
|
---|---|
— राज्यम् — | |
भारते राजस्थानराज्यम् | |
राजस्थानराज्यस्य भूपटः | |
Coordinates (जयपुर): २६°३५′उत्तरदिक् ९२°००′पूर्वदिक् / 26.58°उत्तरदिक् 92.00°पूर्वदिक्निर्देशाङ्कः : २६°३५′उत्तरदिक् ९२°००′पूर्वदिक् / 26.58°उत्तरदिक् 92.00°पूर्वदिक् | |
राष्ट्रम् | भारतम् |
उद्घोषणम् | १ नवम्बर १९५६ |
राजधानि | जयपुर |
मण्डलम् | ३३ |
सर्वकारः | |
• राज्यपालः | मार्गरेट आल्वा |
• मुख्यमन्त्री | अशोकः घेलोट |
विस्तीर्णता | |
• संहतिः | ३४२२३९ km२ |
क्षेत्रविस्तारः | १म |
जनसङ्ख्या (२०११) | |
• संहतिः | ६८६२१०११२ |
• रैङ्क् | ८म |
भारतीय कालगणनम् (UTC+05:30) | |
साक्षरतापरिमाणम् | ६८% (१५तम) |
भाषा | हिन्दीभाषा, राजस्थानी, मारवाडी |
जालस्थानम् | http://rajasthan.gov.in |
राजस्थानराज्यं (हिन्दी: राजस्थान, आङ्ग्ल: Rajasthan) भारतस्य विशालतमं राज्यम् अस्ति । इदं भारतस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३४२२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव मौण्ट् अबु, दिल्वारा इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । रणथम्बोर, सारिस्का मृगधाम, भरतपुरपक्षिधाम इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
प्राचीनेतिहासः
राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । गुजरातराज्यं तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशानां नामानि स्थापयन्ति स्म रजपूताः । उदयपुरं, डुङ्गरपुर, बांसवाडा, प्रतापगढ, जोधपुरं, बीकानेर, किशनगढ, सिरोही, कोटा, बून्दी, जयपुरम्, अलवर, भरतपुरं, करौली, झालावाड, टोङ्क च तेषां संस्थानानि आसन् । 'ब्रिटिष्' शासनकाले राजस्थानस्य 'राजपूताना' इति नाम आसीत् । वंशभूषणः, असाधारणः देशभक्तः महाराणा प्रतापसिंहः स्वपराक्रमेण विश्वेऽस्मिन् प्रसिद्धः अभूत् । राजस्थानराज्यं भारतस्य महत्वपूर्णं राज्यमित्यत्र न कश्चन संशयः । अधीनराजानां शासने विद्यमानानां प्रान्तानां विलीनेन ३० मार्च १९४९ तमे संवत्सरे भारतस्य राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य राज्ञां स्थानम् इति विग्रहः, कुतश्चेत् अस्मिन् राज्ये 'गुर्जरात्र/गुज्जर, राजपूत, मौर्य तथा झाट'-वंशीयाः राजानः राज्यभारं कृतवन्तः आसन् ।
भूगोलम्
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यं, हरियाणाराज्यञ्च अस्ति । दक्षिणे मध्यप्रदेशराज्यं, गुजरातराज्यञ्च अस्ति । पूर्वे उत्तरप्रदेशः, मध्यप्रदेशश्च अस्ति । पश्चिमे पाकिस्तानदेशः अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से. मी. तः ९० से. मी. वृष्टिः भवति । माहीनद्याः चम्बल-जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति । अस्मिन् भागे ताम्रं, सतु, 'मैका', फेनकशिला, अन्ये च खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे भारते विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । भारतस्य बृहत्तमं राज्यम् इदम् ।
मण्डलनि
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
- अजमेरमण्डलम्
- अलवरमण्डलम्
- उदयपुरमण्डलम्
- करौलीमण्डलम्
- कोटामण्डलम्
- चित्तौडगढमण्डलम्
- चुरूमण्डलम्
- जयपुरमण्डलम्
- जालौरमण्डलम्
- जैसलमेरमण्डलम्
- जोधपुरमण्डलम्
- झालावाडमण्डलम्
- झुञ्झुनुमण्डलम्
- टोङ्कमण्डलम्
- डुङ्गरपुरमण्डलम्
- दौसामण्डलम्
- धौलपुरमण्डलम्
- नागौरमण्डलम्
- पालीमण्डलम्
- प्रतापगढमण्डलम् (राजस्थानम्)
- बाडमेरमण्डलम्
- बारामण्डलम्
- बांसवाडामण्डलम्
- बीकानेरमण्डलम्
- बून्दीमण्डलम्
- भरतपुरमण्डलम्
- भीलवाडामण्डलम्
- राजसमन्दमण्डलम्
- श्रीगङ्गानगरमण्डलम्
- सवाई माधोपुरमण्डलम्
- सीकरमण्डलम्
- सिरोहीमण्डलम्
- हनुमानगढमण्डलम्
प्रसिद्धानि नगराणि
जयपुर
- राजस्थानराज्यस्य राजधानी ।
- पाटलनगरम् (Pink city) इत्येव प्रसिद्धम् ।
- नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
- नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
- हवामहल् सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् । वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
- अम्बर-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
- अस्मिन्नेव नगरे सा.श. १८७६ तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
- जलमहल् इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
- कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।
भरतपुर
- राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति भरतपुरम् ।
- केवलदेवराष्ट्रियोद्यानम् अस्ति अत्र । इदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि ।
- लोहदुर्गः (लोहगढ) भरतपुरस्य सुप्रसिद्धः दुर्गः अस्ति । 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः ।
- भरतपुरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
- भरतपुरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं नेहरू उद्यानम् अस्ति ।
- 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।
जोधपुर
- राजस्थानस्य पश्चिमभागे विद्यमानम् इदं नगरं राज्ये द्वितीयं बृहत्तमं नगरमस्ति । नगरस्थसुन्दरदुर्गः, मन्दिराणि च यात्रिकान् मोहयन्ति ।
- सुप्रसिद्धेषु भारतीयदुर्गेषु मेहरानगढ-दुर्गः अन्यतमः । अस्य दुर्गस्य अन्तः मोतीमहल्, फूलमहल्, शीशमहल् च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानि च सन्ति ।
- उम्मेदभवन-प्रासादः प्रसिद्धः, सुन्दरश्च विद्यते ।
- 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
- 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति । 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
- 'अक्टोबर'-मासादारभ्य 'मार्च'-मासाभ्यान्तरं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।
अन्यानि नगराणि
- राजधानी - जयपुर
शिक्षणसंस्थाः
- राजस्थानविश्वविद्यालयः
- राजस्थानतान्त्रिकविश्वविद्यालयः
- राजस्थानकेन्द्रीयविश्वविद्यालयः
- राष्ट्रियसंस्कृतसंस्थानम्, जयपुर
- मोदी प्रौद्योगिकी तथा विज्ञानसंस्थानम्, लक्ष्मणगढ (मानितविश्वविद्यालयः)
- वनस्थलीविद्यापीठम् (मानितविश्विविद्यालयः)
- बिरला प्रौद्योगिकी एवं विज्ञानसंस्थानम्, पिलानी (मानितविश्वविद्यालयः)
- जैन विश्वभारती विश्ववविद्यालयः (मानितविश्वाविद्यालयः)
- एल. एन. एम. सूचना प्रौद्योगिकी संस्थानम् (मानितविश्ववविद्यालयः)
- मालवीयराष्ट्रियप्रौद्योगिकीसंस्थानम् (मानितविश्ववविद्यालयः)
- मोहनलाल सुखाडिया विश्वपविद्यालयः
- राष्ट्रियविधिविश्वविद्यालयः
- राजस्थानकृषिविश्वविद्यालयः
- राजस्थान आयुर्वेदविश्वविद्यालयः
- जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः
- बीकानेर विश्वविद्यालयः
- कोटा विश्वविद्यालयः