बीदरमण्डलम्
बीदरमण्डलम् ಬೀದರ್ | |
---|---|
मण्डलम् | |
बीदरदुर्गस्य प्रवेशद्वारम् | |
देशः | भारतम् |
राज्यम् | कर्णाटकराज्यम् |
Headquarters | बीदरनगरम् |
उपमण्डलानि | बीदर-उपमण्डलम्, भाल्कि-उपमण्डलम्, औराद-उपमण्डलम्, बसवकल्याण-उपमण्डलम्, हुम्नाबाद-उपमण्डलम् |
Sex ratio | 1.05 पु/स्त्री |
हैदराबादनगरात् दूरम् | 120 किलोमीटर (75 मील) |
बेङ्गळूरुतः दूरम् | 700 किलोमीटर (430 मील) |
Precipitation | 847 मिलीमीटर (33.3 इंच) |
Website | anshul.bidar |
बीदरमण्डलम् (Bidar district) कर्णाटकराज्यस्य मण्डलेषु अन्यतमम् । अस्य मण्डलस्य केन्द्रम् अस्ति बीदर ।
उपमण्डलानि -५
[सम्पादयतु]बीदरनगरम्, भाल्की, औराद, हुम्नाबाद् बसवकल्याणम्
लोकसभाक्षेत्राणि
[सम्पादयतु]विधानसभाक्षेत्राणि
[सम्पादयतु]- १) चिञ्चोळी
- २) आळन्द
- ३) बसवकल्याणम्
- ४) हुम्नाबाद्
- ५) दक्षिणबीदर
- ६) बीदर
- ७) भाल्की
- ८) औराद्
नद्यः
[सम्पादयतु]माञ्जरा मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । कारञ्जा इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता मुल्लारी नदी गुल्बर्गागमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
प्राकृतिकविशेषाः
[सम्पादयतु]भाषाः
[सम्पादयतु]कन्नड, हिन्दी, मराठी, तेलुगु, पञ्जाबी
आहारपद्धतिः
[सम्पादयतु]अत्रत्यः प्रमुखः आहारः जूर्णस्य रोटिकाः, तण्डुलः, गोधूमः च ।
वेशभूषणानि
[सम्पादयतु]कृषि
[सम्पादयतु]ग्रामीणभागे जनानां प्रमुखः उद्योगः नाम कृषिः एव । जूर्णम् अत्रत्यं प्रधानं कृष्युत्पन्नम् अस्ति । अस्मिन् मण्डले मुद्गः, चणकः, माषः, व्रीहि:,कलायः, गोधूमः, तुवरी, इक्षुदण्डः, मरीचिका इत्यादीनां वर्धनम् अपि भवति । किन्तु एषु दिनेषु कृषकाणाम् मानसिकता सूर्यकान्तेः वर्धने दृश्यते । अतः इदानीं सूर्यकान्तेः वर्धनम् एव अधिकतया दृश्यते ।
उद्यमाः
[सम्पादयतु]वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
शैक्षणिकसंस्थाः
[सम्पादयतु]प्रसिद्धाः व्यक्तयः
[सम्पादयतु]डा.चेन्नबसवपट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
संस्कृतिः
[सम्पादयतु]अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदरमण्डलस्य लघुकन्दरे नानकझरा इति तीर्थं प्रवहति । एतत् सिक्खानाम् अतिपवित्रं स्थलम् अस्ति ।
इतिहासः
[सम्पादयतु]बीदरमण्डलं कर्णाटकस्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य बसवकल्याणतः आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । अत्रत्यं वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव । अस्य मण्डलस्य चारित्रिकं महत्त्वम् अस्ति । अत्रैव बसवण्णमहोदयस्य बहमनिसुल्तानानां च काले नवशिलायुगस्य अवशेषाः लब्धाः । राष्ट्रकूटवंशजाः, देवगिरियादवाः, काकतीयाः च एतस्य मण्डलस्य शासनं कृतवन्तः । अस्य मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् स्थानं मोघलसाम्राज्यम्|मोघलनृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । कर्णाटकस्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं हैदराबादसंस्थानस्य अधीने आसीत् ।
विस्तीर्णता
[सम्पादयतु]५४४८ च.कि.मी. मिता ।
भैगोलिकता
[सम्पादयतु]भौगोलिकतया बीदरमण्डलं हैदराबादकर्णाटकभागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।
दर्शानीयानि स्थानानि
[सम्पादयतु]मैलारमल्लणगुडि, नरसिंहझरणी, नानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, कारञ्जाजलबन्धः, जलसङ्गीदेवालयः, औषधीयवनं, वीरभद्रदेवालयः, अनुभवमण्टपम्, अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् बीदर, पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद बसवकल्याणम् इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति । कर्णाटकराज्ये स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् । नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति । बीदरतः २ कि.मी. दूरे अनन्तशयनमन्दिरम् अतीवसुन्दरम् अस्ति । पापनाशिनीक्षेत्रे स्वयम्भूः शिवलिङ्गः अस्ति । बीदरतः ६४ कि.मी दूरे बसवकल्याणनगरम् अस्ति । पूर्वम् एतत् राज्ञः बिज्जलस्य राजधानी आसीत् । श्री बसवेश्वरस्य कार्यक्षेत्रं च आसीत् । ‘अनुभवमण्डपम्’ इति धार्मिककेन्द्रम् अत्र आसीत् । बीदरनगरे पूर्वं बहमनीसुल्तानानां प्रशासनम् आसीत् । बीदरदुर्गम् अधुनापि सुभद्रम् अस्ति । अस्य समीपे ऐतिहासिकं प्रसिद्धं महम्मदगवान् मदरसा पर्षियन् शिल्पशैल्या निर्मितम् अस्ति । क्रिस्ताब्दे १४७२ तमे वर्षे निर्मितमेतत् । इदानीं भग्नम् । अवशेषाः सन्ति । पूर्वम् अत्र उपन्यासमन्दिरम् उपाध्यायानां छात्राणां च वसतिगृहाणि ग्रन्थालयाः च आसन् । ‘मीनार’नामकानि उन्नतानि दर्शनस्थानानि च अत्रासन् । अत्रैव सोलाकम्बमसीदि(षोडशस्तम्भात्मिकमस्जिद्), एकमिनारमस्जिद् च दर्शनीयानि शिल्पानि । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति । बीदरजिल्लाकेन्द्रम् अस्ति ।
- बेङ्गळूरुतः ६७० कि.मी
पापनाशिनी
[सम्पादयतु]बीदरतः ३ कि.मीटरदूरे पापनाशिनी क्षेत्रम् अस्ति । अत्र दाशरथिरामेण स्थापितं बृहत् शिवलिङ्गम् अस्ति । शुक्राचार्यः अत्र शिवं पूजितवान् । अत्र पापपरिहारकारकं सरः अस्ति ।
मार्गः
[सम्पादयतु]बीदरतः यादगिरीमार्गे ३ कि.मी ।
शुक्लतीर्थम्
[सम्पादयतु]पूर्वं शुक्राचार्यः अत्र तपः आचरितवान् । अतः तस्य स्थलस्य शुक्लतीर्थमिति नाम अस्ति । बीदरदुर्गसमीपे शुक्लतीर्थमिति पवित्रं तीर्थस्थानम् अस्ति । शुक्लाचार्यः।शुक्लाचार्यस्य तपसः प्रभावेण निर्मितमेतत् । दशमुखरावणः अपि शुक्लमुनेः दर्शनार्थम् अत्र आगतवान् ।
सिखधर्मस्थापकः श्रीगुरुनानकः दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति ।
जलसङ्ग्वी
[सम्पादयतु]जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादिन्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः बेलूरुशिलाबालिकानां स्मरणं कुर्वन्ति ।
मार्गः
[सम्पादयतु]धूमशकटनिस्थानमस्ति । बेङ्गळूरु-परभणीमार्गः ।
वाहनमार्गः
[सम्पादयतु]रायचूरुतः ३५८ कि.मी. । बेङ्गळूरुतः ७३२ कि.मी । गुल्बर्गातः १०४ कि.मी.। हैदराबादतः अपि निकटे एव वर्तते ।
बाह्यानुबन्धः
[सम्पादयतु]- Bidar district official website
- [१] List Of Cities in Bidar