सामग्री पर जाएँ

विंशतिशतकस्य नाटकानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विंशतिशतके नाटकानि रचतिनानि रचनाकारैः। तेषु कानिचतन प्रसिद्धानि काव्यानि प्राप्यन्ते।

गणेशपरिणयम्

[सम्पादयतु]

गणेशपरिणयस्य रचयिता वाराणसीवास्तव्यो वैद्यनाथो वर्तते । 'व्यास' इत्यस्य वंशोपाधिः । बाल्यावस्थात एव कविकर्मणि नैपुण्याद् "बालकवि"रित्युपाधिनासौ समलङ्कृतः। गणेशसम्भवं नाम काव्यं कविना १९०२ ईसवीये विरचितम् । मिथिलाराजवंशोद्भवेन श्रीजनेश्वरसिंहेन तत् पुरस्कृतम् । तेनैवोत्साहितो व्यासो गणेशपरिणयं नाम सप्ताङ्क-नाटकं प्रणीतवान् ।

अस्मिन् ब्रह्मणस्तनूजाभ्यां सिद्धि-बुद्धिभ्यां सह गणेशविवाहवृत्तान्तो विलसति। इदं १९०४ ईसवीयाब्दे भारतीयमुद्रणालये (Indian Press) प्रकाशितम् । सूर्योदयपत्रिकायां पुनः १९६३ ईसवीयाब्दमारभ्य १९६४ ईसवीयाब्दं यावत् प्रकाशितेष्वङ्केष्विदं प्रकाशितम् । अस्यैका प्रतिः प्रयागविश्वविद्यालये वर्तते।

पुष्पतनयराज्यारोहणम्

[सम्पादयतु]

प्रस्तुनाटकस्य प्रणेता गोविन्दकविः जोशी वर्तते । पुष्पाञ्जलिनामकं वैष्णवस्तोत्रमपि कविना विरचितम् । अस्मिन् राजा पुष्पसेनोऽमरसेनं पराजयते । कलत्रशतस्यापि स्वामी राजा सन्तानाभावाद् दरिद्रः ब्राह्मणानां सेवां कुरुते । ब्राह्मणानां शुभाशिषा नृपतिः नीलसेनकन्यां बालावतीं गान्धर्वविधिना परिणयति । अथ बालावत्यामापन्नसत्त्वायां राजा पुष्पसेनः पञ्चत्वं गतः । राजन्युपरते दुष्टबुद्धिर्मन्त्री राज्ञीं हन्तुं व्यवस्यति । सेनापतिस्तं पापात् निषेधति । अथ बालावती मृतं बालं प्रसूते । स गुरोः सुधन्वनो हस्तस्पर्शेन सजीवो जायते । ततः स बालो वृद्धिं गतो दुष्टबुद्धिं मन्त्रिणं हत्वा धर्मेण प्रजाः पालयति ।

नाटकेऽस्मिन् प्राकृतभाषा-बहिष्कारो वर्तते । अस्य प्रकाशनं १९०५ ईसवीये पुण्यनगरे संवृत्तम् । अस्य प्रतिगुरुकुलकांगडी-पुस्तकालये समुपलभ्यते।

वसन्तमित्रभाणः

[सम्पादयतु]

प्रस्तुतभाणस्य रचयिता मङ्गलगिरिकृष्णद्वैपायनाचार्यो विद्यते । कविरयं विंशशतकस्य प्रथमचरणे विद्यमानः आसीत् । कविना संस्कृतेन तेलगूभाषया चानेकाः कृतयः प्रणीताः । श्रीकृष्णदानामृतं नाटकं, श्रीकृष्णचरितं काव्यं, हयग्रीवाष्टकं नाम स्तोत्रञ्च तस्य संस्कृतकृतयः । एकावलीराका परिणयनाटक-पार्वतीपतिशतकानि तस्य तेलगूभाषाकृतयः सन्ति।

अस्मिन् भाणे मङ्गलगिरेः स्वामिनो नृसिंहस्य मन्दिरस्य देवदास्या माध्व्याः अनुजा वेश्यावृत्तये दीक्षिता भवति । तदुत्सवे सम्मिलितः प्रसन्नो विटो वारवीथीषु परिभ्रमन् नारी-नरैः समं नगरव्यवहारस्य चर्चां करोति । भाणेऽस्मिन् विटानां शृङ्गारविजृम्भणेन समं समाजस्य तास्ता व्यवस्थाः प्रति आक्रोशः सुव्यक्तः । तासां परिस्थितीनां विवेचनं वर्तते यासु कुलाङ्गना अपि वारविलासिनीनां वृत्तिमङ्गीकुर्वन्ति इति।

कोकिलवाणीनाम्नी त्रयोदशवर्षीया कन्या द्वादशशतरूप्यकाणि गृहीत्वा तज्जनन्याष्टाशीतिवर्षाय वृद्धवराय प्रदत्ता । सा वाराङ्गना सञ्जाता । काश्चन महिलाः पतिदुर्व्यवहारेण वारविलासिनीमार्गं स्वीकुर्वन्ति । विधवाविवाहमुपलक्ष्य कविः भृशं निर्वदति। कविमतेन चरित्रभ्रष्टा एव विधवाः पुनर्विवाहायाग्रेसराः भवन्ति। अस्य भाणस्य प्रकाशनं विजयनगरात् सम्पन्नम् । अस्य विस्तृतः परिचयः १९७४ ईसवीयाब्दीये The Mysore Orientalist नामकपत्रिकायाम् उपलभ्यते।

कमलाविजयं, जीवसञ्जीवनञ्च

[सम्पादयतु]

कमलाविजयं, जीवसञ्जीवनं नाम रूपकद्वयं वेङ्कटरमणार्येण प्रणीतम् । सः मैसूरप्रदेशस्य संस्कृतपाठशालायामाचार्योऽवर्तत । तस्य निवासस्थानं चन्नरायनगरी बभूव । महामहोपाध्याय-गङ्गानाथकामहोदयेन तस्य विषये प्रोक्तम् - It is a great consolation to find among us such writers of Sanskrit. His Poems bear true mark of the true poet and bear testimony to his wonderful command over the language and its niceties.

जीवसंजीवनीनाटके लेखको वेद-शास्त्रेषु समुदितानाम् आयुर्वेदस्य तत्त्वानां समावेशं कृतवान् । अस्य कथानायको जीवदेवोऽस्ति, यः सर्वप्राणिषु वर्तते। इदं नाटकं रचयित्रा १९३८ ख्रिष्टाब्दे स्वयमेव प्रकाशितम्।

मुकुटाभिषेकः

[सम्पादयतु]

मुकुटाभिषेकस्य लेखकः श्वेतरण्य नारायणदीक्षितो मद्रासनगरे संस्कृतमहाविद्यालये प्रधानाचार्य आसीत् । स मूलतः काञ्चीमधिवसति स्म । काञ्चीं विहाय तञ्जौरे कावेरीतटे श्वेतरण्ये पुनः न्युवास। स काश्यां बालुशास्त्रि-विश्वनाथशास्त्रिभ्यां समधीतवान्, वेदेषु च परं पाण्डित्यं लेभे । स्वयमपि सोमयागं कृतवान् । दीक्षितेनानेककाव्यानि विरचितानि । अनेके ग्रन्थाः प्रणीताः । तेन सप्त कथाः गद्ये निबद्धाः।

मुकुटाभिषेके जार्जपञ्चमस्य दिल्ल्यां राज्याभिषेकस्य कथा पञ्चाङ्केषु विलसति । अस्य प्रकाशनं १९१२ ईसवीयाब्दे मद्रासतः संवृत्तम् । अस्य प्रतिः रामनगरमहाराजपुस्तकालये समुपलभ्यते ।

वल्लीपरिणयम्

[सम्पादयतु]

वल्लीपरिणस्य प्रणेता टी० ए० विश्वनाथमहाभागोऽस्ति। १९२१ तमेऽब्दे कुम्भकोणतः प्रकाशितम्। नाटकस्यास्य पञ्चाङ्केषु किरातराजस्य कन्यकया वल्ल्या सह कार्तिकेयस्योद्वाहो वर्णितः । अङ्का दृश्येषु विभक्ताः सन्ति । अत्र संवादेषु प्राकृतानामुपयोगो भारतीयनियमानुसार विद्यते।

नलविजयम्

[सम्पादयतु]

नलविजयस्य रचयिता रामशास्त्री कर्णाटके चिराय विद्वन्मण्डलसनाथे मण्डिकलनाम्नि नगरे निवसति स्म । अस्य पिता वेङ्कटसुब्बार्य-सुधीमणिर्ब्रह्मवादी बभूव । असौ महाराजस्य कृष्णराजस्य सभापण्डित आसीत् । महाराजोऽमुं महाविद्वत्पदे प्रतिष्ठापितवान्, अस्य कृते गृहारामस्याग्रहारस्य च व्यवस्थां चकार । कविः महाराजकालेज-महापाठशालायां प्रथमोपाध्यायपदे नियुक्त आसीत्।

नलविजयं नाम नाटकं रामशास्त्रिणा चरमावस्थायां प्रणीतम् । अस्य प्रथमाभिनयः कपिलातीरे प्रतिष्ठितस्य श्रीकण्ठेश्वरस्य यात्रायाः समाप्तौ महाजनानां प्रीत्यर्थं सम्पन्नः । दशाङ्कमिदं नाटकं महानाटकमप्युच्यते। नाटकमिदं १९१४ ईसवीये मैसूरतः प्रकाशितम् । अस्य प्रतिः प्रयागविश्वविद्यालयस्य पुस्तकालये वर्तते ।

श्रीरामकृष्णचरितम्

[सम्पादयतु]

केरलीयविदुषो वेङ्कटकृष्ण-तम्पी-महोदयस्य जीवनावधिः १८६० ख्रिष्टाब्दमारभ्य १९३८ ख्रिष्टाब्द पर्यन्तं वर्तते । तम्पीमहोदयः बी० ए० कक्षापर्यन्तमधीतवान् । ततोऽयं त्रिवेन्द्रम्-संस्कृतमहाविद्यालये क्रमशोऽध्यापकः प्राचार्यश्च नियुक्तः । श्रीरामकृष्णचरितं, ललिता, प्रतिक्रिया, वनज्योत्स्ना तथा धर्मस्य त्वरितगतिः इत्यस्य कृतयः । कश्मिंश्चिदपि रूपके प्रस्तावना भरतवाक्यञ्च न स्तः । विष्कम्भक-प्रयोगो वर्तते । लेखकेन रचनासु भारतीय-योरोपीय-नाट्यपरम्परयोर्मिश्रणं प्रकटीकृतम् । उपरि निर्दिष्टानां सर्वासां कृतीनां प्रकाशनं १९२४ ईसवीये वर्षे बभूव, प्रतयश्च प्रयागविश्वविद्यालयस्य पुस्तकालये वर्तन्ते।

दुर्गाभ्युदयम्

[सम्पादयतु]

दुर्गाभ्युदयस्य सप्ताङ्कस्य नाटकस्य प्रणेता छज्जूरामः शास्त्री वर्तते । अस्य जन्म १९६५ ईसवीये कुरुक्षेत्रप्रदेशे करनालजनपदे बभूव । अस्य पिता मोक्षराम आसीत् । कर्मकाण्डप्रवणे कुटुम्बे पौराणिकादशनुरूपं छज्जूरामस्य विकासः समभवत् । अनेकेषु स्थानेषु संस्कृतस्याध्यापनं कुवन् शास्त्रिमहाभागो दिल्ल्यां यमुनातटवर्तिनि गौरीशङ्करमन्दिरविद्यालये पाठयामास । स संस्कृतोन्नायकेषु वर्तते । संस्कृतसाहित्योपाख्यानं नाम तस्य ग्रन्थः पुरातत्त्वज्ञानाय विजयते । साहित्यशास्त्रीयमर्मोद्घाटनाय स साहित्यबिन्दुं व्यरचयत् । अस्य सुलतानचरितं नाम महाकाव्यमपि विलसति।

शासिपहाभाग आशुकविरप्यासीत् । अतः स "कविरत्नम्" इत्युपाधिना विभूषितः । वयसा पञ्चविंशतिवर्षीयः शास्त्री षड्दर्शनविषयकभाषणेन जगद्गुरुशङ्कराचार्यस्य मनो जग्राह । ततश्च 'विद्यासागरः' इत्युपाधिञ्चावाप्तवान् । प्रस्तुते दुर्गाभ्युदये देव्याः सवतिशायिन्याः शक्तेर्नाटकानुसारि वर्णनं विद्यते । अस्य प्रकाशनं १९३१ ईसवीयाब्दे रचयित्रा स्वयं कृतम्।

अब्दुलमर्दनं, प्रतीकारञ्च

[सम्पादयतु]

धारवाडनिवासिना सहस्रबुद्धे-महोदयेन अब्दुलमर्दननाटकं प्रतीकारनाटकं च प्रणीते । उभयोर्नाटकयोश्छत्रपतिशिववीरस्य (शिवाजी) उपलब्धीनां वर्णनं विद्यते।

कन्यादानम्

[सम्पादयतु]

कन्यादानस्य प्रणेता माणिकपाटिलो वर्तते । अस्मिन्नेकाई कृष्णाकुमायः कर्मनिष्ठं चरित्रं निरूपितम्।

प्रकृतिसौन्दर्यम्

[सम्पादयतु]

प्रकृतिसौन्दर्यस्य रचयिता मेधाव्रत-शास्त्री संस्कृतस्य विंशशतकस्योच्चोन्नायकेषु गण्यते । असौ मूलतो गुर्जरो ब्राह्मणः । चिरकालाद् नासिकस्य सविधे येवला-ग्रामे निवासिनि सनातनधर्म-परिवारे १८६३ ख्रिष्टाब्दे जन्म लेभे ।

मेधाव्रतो दयानन्दस्वामिनो व्याख्यानमुपश्रुत्य आर्यसमाजं प्रति प्रवृत्तः । येवलाग्रामे स आर्यसमाजं स्थापितवान् । तस्य भार्यापि तद्विचारवासिता बभूव । १९२३ ईसवीये स जगज्जीवनसंन्यासी भूत्वा हरद्वाराय प्रातिष्ठत । तत्र नित्यानन्दो बभूव । ततो हिमालयकन्दरायामन्तर्दधौ । मेधात्रतेन नैकाश्चरितग्रन्थाः, बहुनि लघुकाव्यानि च निर्मितानि। सस्य नाटकमेकमेव वर्तते प्रकृतिसौन्दर्यं नाम । षडङ्कस्यास्य काल्पनिकेतिवृत्तस्य नाटकस्य राजा चन्द्रमौलिः सुहृदा चन्द्रवर्मणा सार्धं विमानमारुह्य हिमालयस्य तपोवनेषु वसन्तादीनां षण्णामृतूनां विजम्भणं दृष्ट्वा प्रहृष्टः सन् तत्तद् वर्णयति।

कामकन्दलम्

[सम्पादयतु]

कामकन्दलस्य प्रणेता कृष्णपन्तो रत्नावली नाम गद्यकाव्यकलिका मन्दाक्रान्ताशतकच्च प्रणीतवान् । कृष्णपन्तस्य जन्म एकोनविंशशतकस्य चरमे भागेऽभवत्।

अङ्कत्रयसमन्विते कामकन्दले नाटके श्रीपतिशमभिधानो ब्राह्मणः प्रकामानगर्या राज्ञः कामसेनस्य प्रासादे द्वारस्थः सङ्गीतं शुश्राव । अनन्तरं स राजानं न्यवेदयद् यदस्मिन् सङ्गीते मृदङ्गवादकोऽङ्गुष्ठहीन आसीत् । सत्यं परीक्ष्य राजा तस्मै पुरस्कारं प्रदत्तवान् । श्रीपतिः तत्सर्वं पुरस्कारप्राप्तं धनं नर्तक्यै कामकन्दलायै व्यसृजत् । एतस्माद् रुष्टो नरपतिः कविं नगरान्निःसारयामास ।

अनन्तरं श्रीपतिविक्रमादित्याय पत्रमलिखत् । मया गुरुभ्यो धर्मः, नरपतेरर्थः प्रकाममुपलब्धौ । भवन्तो मलं कामनामकं वर्गं वितरन्तु । विक्रमादित्यस्तस्याशयं सम्यगवगत्य कामसेनं समरे विजित्य श्रीपतेरभीष्टां कामकन्दलां नाम वारविलासिनीं तस्मै प्रदत्तवान्।

अस्य प्रकाशनं काव्यमञ्जूषायां चौखम्भा-संस्कृत ग्रन्थमालायाः ७८ संख्यायां १९६४ ख्रिष्टाब्दे समभवत् । अस्य प्रतिगुरुकुलकांगडीपुस्तकालये वर्तते।

श्रीशिवाजिविजयम्

[सम्पादयतु]

श्रीशिवाजिविजयस्य नाटकस्य रचयिता रङ्गाचार्यः आसीत् । द्व्यङ्केऽस्मिन्नाटके आगरायाः कारागाराद् मिष्टान्नभाजनेऽन्तर्धाय शिवाजिः बहिर्गत इति कथा । अस्य प्रकाशनं संस्कृत-साहित्यपरिषत्पत्रिकायां १९३८ ईसवीयाब्देऽभवत्।

हर्षबाणभट्टीयं रङ्गाचार्येण बाणभट्टविरचितं हर्षचरितमुपजीव्यं विरचितम् । हर्षचरितस्यैव बहवो घटना अस्मिन् नाटके रूपायिताः। अस्य प्रकाशनं कोलकातायाः संस्कृतसाहित्यपत्रिकायां २१.९ संख्यामारभ्य संवृत्तम्।

पाण्डित्यताण्डवितम्

[सम्पादयतु]

पाण्डित्य-ताण्डवितस्य रचयिता काशी-हिन्दूविश्वविद्यालयस्य प्राध्यापको बटुकनाथशर्मा वाराणसीविद्वत्सु प्रसिद्ध आसीत्। शालिमहाभागो वाराणसीवास्तव्यस्य ईश्वरीप्रसाद मिश्रस्य सुनुरासीत् । अस्योपनाम बालेन्द्र इत्यासीत् । वल्लवदूतं, शतकसप्तकम् , कालिकाष्टकम् , आत्मनिवेदनशतकम् , सीतास्वयंवरमहाकाव्यं चास्य प्रसिद्धरचनाः। प्रस्तुतरूपकं तस्य एकमात्रं प्रहसनम् । शर्ममहोदयेन भरतनाट्यशास्त्रस्य संशोधितं संस्करणमपि प्रकाशितम्।

प्रहसनेऽस्मिन् बलियावास्तव्यस्य हलधरमिश्रस्य शिष्यो दण्डधरमिश्रो लघुदण्डं दधानो महान् आचार्यो मूर्खपण्डितानां विजेता, सर्प इव मण्डूकेषु, समग्रायां धरण्यां भ्रमति । अस्य प्रथमं प्रकाशनं वल्लर्यां समभवत् । द्वितीयं संस्करणं काश्याः सूर्योदयपत्रिकायां १९७२ ख्रिष्टाब्दस्यागस्तमासे बभूव।

देशस्वातन्त्र्य-समरकाले राष्ट्रधर्मः

[सम्पादयतु]

प्रस्तुतैकाङ्कस्य रचयिता का० र० वैशम्पायनो वर्तते । असौ कान्हेजनपदस्य भालोदग्रामस्य माध्यमिकविद्यालयेऽध्यापक आसीत् । स वार्षिकस्नेहसम्मेलनस्यावसरे स्वकीये निर्देशनेऽस्याभिनयं प्रयुक्तवान्।

अस्मिन्नेकाङ्के देवालयं गच्छन् कश्चन ब्राह्मणः पथि राष्ट्रसेवकं भर्सयति यत्त्वं मां स्पर्ष्टुमिच्छसीति । अथ स राष्ट्रसेवकस्य तर्कैः प्रभावितः तं देवालयं नयति।

द्वितीये दृश्ये गोसेवकचायनिषेधकयोः विवादो जायते । ततो भाषाशुद्धिप्रचारकस्य समाजसेवकस्य, साम्यवादिनः स्त्रीस्वातन्त्र्यवादिनश्च परस्परं घोरः संघर्षः सञ्जायते । ततो ब्राह्मण-राष्ट्रसेवकौ मन्दिरादायातौ तयोः प्रयत्नेन सर्वे ते राष्ट्रधर्मपालनाय तत्पराः अभूवन्। अस्य प्रकाशनं पूनातः शारदे १९७० ईसवीयाब्दस्य फरवरीमासेऽभवत्।

विक्रमाश्वत्थामीयम्

[सम्पादयतु]

विक्रमाश्वत्थामीयस्य व्यायोगरूपकस्य रचयिता नारायणरावचिलकुरी बभूव । अयमनन्तपुरस्य प्रभुत्वकलाशालायां संस्कृतस्य कर्णाटकभाषायाश्च अध्यापकोऽवर्तत। अस्यभिनयः कलाशालायाः अध्यक्षस्य कृष्णमार्यस्याज्ञानुसारमुत्सवदिवसे सम्पन्नः। अस्मिन् रूपकेऽश्वत्थामा कृप-कृतवर्मभ्यां समं दुर्योधनमन्विष्यन् । व्यथया विचेष्टमानं भग्नोरं तमवलोकितवान्। पिपासया परिव्याकुलं तं जलमपाययत् । ततो दुर्योधनेन दुर्घटनायाः अखिलं वृत्तं निवेदितम् । तच्छुत्वा संक्रुद्धोश्वत्थामा पाण्डवानां वधं भीमस्य च शिरश्छेदं प्रतिज्ञातवान् । अर्धरात्रे सुप्तानां पक्षिणामुलूकद्वारा वधमवलोक्य तादृशीमेव पाण्डवानां वधं निर्धारयति स्म । शिबिरे शयानान् सर्वान् निहत्य भीमसदृशस्य कस्यचिद् वीरस्य शिरश्छत्वा दुर्योधनायादर्शयत् । दुर्योधनः सन्तुष्टो मृतः । ततः कृपाचार्येण स्पष्टीकृतं यन्नायं भीमस्य शिर इति । अनन्तरमश्वत्थामा पाण्डानां विनाशाय ब्रह्मशिरोऽत्रं प्रयोजितवान्। अस्य व्यायोगस्य प्रकाशनं १९३८ ईसवीये संवृत्तम् । अस्य प्रतिः सागरविश्वविद्यालयस्य पुस्तकालये वर्तते।

शशिकलापरिणयनम्

[सम्पादयतु]

मिथिलायां शारदापुरे सकरादि-कुले ऋद्धिनाथस्य जन्म बभूव । अस्य पिता महामहोपाध्यो हर्षनाथशर्मासीत्। ऋद्धिनाथः साहित्याचार्यस्योपाधिमुपलभ्य महाराज्ञ्याः महेश्वरलतामहाविद्यालये प्राचार्य आसीत् । ततः पूर्वं स लोहनाविद्यापीठे प्रधानाध्यापकोऽवर्तत । शशिकलापरिणयं पूर्णकामञ्चेति नाटकद्वयं कविना प्रणीतम्। शशिकलापरिणयनाटके पञ्चाङ्काः सन्ति । तत्र पौराणिककथानुसारं शशिकलायाः भक्तसुदर्शनेन सह विवाहस्य वर्णनं वर्तते । अस्य रचना १९४१ ख्रिष्टाब्दे सम्पन्ना। अस्याभिनयः मिथिलाधिप-कामेश्वरसिंहस्यानुजस्य यज्ञोपवीतावसरे संवृत्तः। पूर्णकामे नाटके एक एवाङ्को विलसति । अस्य नायकः पूर्णकामः तपस्वी आसीत् । तस्य तपसो भीतः इन्द्रः तस्य तपोभङ्गाय कामं, वसन्तम् , अप्सरसश्च न्ययुंक्त । ते तस्य तपोभङ्गं कर्तुं नाशक्नुवन् । तत इन्द्रस्तं मातलिद्वारा स्वर्गं समानयत् । स्वर्गे मन्दाकिन्यास्तटे स तपश्चकार । नारदेन सह समागत्य भगवान् विष्णुस्तं वैकुण्ठमनयत् । उपरिष्टान्निदिष्टयोः रूपकयोः प्रकाशनं दरभङ्गातः क्रमशः १९४७ ख्रिष्टाब्दे १९६० ख्रिष्टाब्दे च बभूव ।

कलिपलायनं, पूर्णानन्दं, दुर्बलबलञ्च

[सम्पादयतु]

विद्याधरशास्त्रिणो जन्म राजस्थानस्य चुरूनाम्नि नगर्यां बभूव । अस्य पिता देवीप्रसादशास्त्री विद्यावाचस्पतिरासीत् । पितामहो हरदत्तशास्त्री स्वसमयस्य महानाचार्य आसीत् । विद्याधरस्य प्रसिद्धानि नाटकानि सन्ति — कलिपलायनं, पूर्णानन्दं, दुर्बलबलञ्च।

कलिपलायने चत्वारोऽङ्कास्सन्ति । अस्मिन् कलिपरीक्षित्संबद्धा भागवती-कथा प्रपञ्चिता । पूर्णानन्दे पञ्चाङ्काः वर्तन्ते । अस्मिन् लोकप्रचलिता भक्तशिरोमणेः पूरनमलस्य कथा रूपकायिता । आधुनिका पतनोन्मुखा प्रणय-पद्धतिरस्मिन् चर्चिता। दुर्बलबले चत्वारोऽङ्का विद्यन्ते । अस्मिन् चीनद्वारा तिब्बतस्यात्मसात्करणस्य वृत्तान्तोऽस्ति । अस्य कथानायक आनन्दकाश्यपनामा बौद्धः कर्मण्यो विद्यते ।

शृङ्गारशेखरभाणः, प्रेमविजयञ्च

[सम्पादयतु]

सुन्दरेशस्य काव्यकला तञ्जौरे विलसिता । त्यागराजचरितमहाकाव्यं, रामामृततरङ्गिणी, राघवगुणरत्नावली च रूपकव्यतिरिक्ताः सुन्दरेशस्य कृतयः सन्ति । शृङ्गारशेखरभाणः, प्रेमविजयं नाम नाटकञ्चास्य रूपकद्वयम् । प्रेमविजयस्य प्रथमाभिनयः "संस्कृत एकेडमी-" द्वारा निष्पन्नः।

प्रेमविजयनाम्नो नाटकस्य कथावस्तु कल्पितं वर्तते । अस्य चरितनायको हेमचन्द्रः कविकुमारः आसीत् । स मगधनृपतिना प्रतापरुद्रेण स्वाङ्गरक्षको नियुक्तः । वैदेहयुद्धे स युद्धकौशलेन राजानं ररक्ष । प्रसन्नो राजा तस्मै रत्नकृपाणं प्राददात् । दुर्मतिर्नामा सेनापतिस्तस्मै ततः प्रभृतीर्ष्यति स्म। दुर्मतिवृषसेनद्वारा हेमचन्द्रमानाय्योपवने तं हन्तुमैच्छत्, किंतु स तत्र सफलो नाभवत् । राजकुमारी तदा तं हेमचन्द्रमवलोकितवती प्रेमपरवशा स तमुद्याने समाहूय वार्तालापमारेभे । दुर्मतिः हेमचन्द्रराजकुमार्योः वर्धमानं प्रेम दृष्ट्वा राज्ञे निवेदयामास । एकदा कलहे हेमचन्द्रः सेनापतिं जघान । ततो राजा तस्मै कारावासदण्डं विहितवान् । कालानन्तरं राजा शत्रुराज्ञो विध्वंसाय हेमचन्द्रं प्रेषयत् । विजयिने तस्मै राजा स्वां दुहितरं परिणीतवान्।

शृङ्गारशेखरभाणस्याभिनयो बृहदीश्वरस्य वसन्तोत्सवे समागतानां नागरिकाणां परितोषाय समभवत्। अत्र शृङ्गारेण समं हास्यमुत्फुल्लति। प्रेमविजयनाटकं शृङ्गारशेखरभाणञ्च रामनगरमहाराजस्य पुस्तकालये वर्तते।

श्रीकृष्णार्जुनविजयनाटकम्

[सम्पादयतु]

प्रस्तुतनाटकस्य रचयिता वेङ्कटरामयज्वा वर्तते। अस्य पिता वैद्यनाथयज्वा, पितामहश्च सुब्रह्मण्ययज्वासीत् । नाटकव्यतिरिक्तम् अष्टप्रासरामायणमस्य कृतिर्वर्तते।

श्रीकृष्णार्जुनविजयनाटके दुर्योधनः श्रीकृष्णार्जुनसख्यत्वाद् भीतिप्रस्तः । तेन चार्वाकसहायतया गयनामा गन्धर्वः तयोः सखित्वे भेदोत्पादनाय प्रेषितः । स किल यदा कृष्णो यमुनायाः सूर्याञ्जलिदाने व्याप्तः आसीत्, तदागत्य कृष्णस्याञ्जलौ ष्ठीवति स्म । कृष्णेन कथितमद्य सायंकालात् प्रागेनं हनिष्यामि । गयो नामा गन्धर्वः आत्मत्राणाय गन्धर्वाणामिन्द्रस्य ब्रह्मणश्शिवस्य च शरणं गतः । कोऽपि तं रक्षितुं नाश्वासयत् । ततः स युधिष्ठिरस्य शरणं गतः । युधिष्ठिरस्तस्य भयस्य कारणमपृष्ट्वैव तस्य रक्षणं स्वीकृतवान्। नारदो वृत्तान्तमिमं कृष्णाय न्यवेदयत्।

बलरामेणोक्तम्-कोऽपि भवतु । गयस्तु हन्तव्य एव । बलराम-कृष्णप्रमुखाणां यादवानां सेना, युधिष्ठिरभीमार्जुनादीनां पाण्डवानां सेना च युद्धाय सम्मुखमायाते । ततो यावद् युद्धं प्रारभते, तावद् ब्रह्मा समागत्य गयं पुरतश्चकार । पाण्डवयादवयोः पुनरपि सीमनस्यं सम्पन्नम् । अस्य प्रकाशनं १९४४ ईसवोयाब्दे पालघाटतः संवृत्तम् । अस्य प्रतिलिपिः सागरविश्वविद्यालयस्य पुस्तकालये वर्तते।

मणिमञ्जुषा

[सम्पादयतु]

श्री एस० के० रामनाथशास्त्री मणिमञ्जूषारूपकस्य लेखकः। संस्कृत साहित्य-पत्रिकाय १९४१ वर्षे प्रकाशितम्। अत्र अष्टादशदृश्यानि सन्ति । आद्यन्तं प्रभावोत्पादकानि गीतानि सन्ति । अपहारवर्मणः साहसचरिताख्यानं विद्यतेऽस्मिन् रूपके। रूपकस्यास्य उपजीव्यमस्ति दण्डिनो दशकुमारचरितम्।

अलब्ध-कर्मीयम्

[सम्पादयतु]

दक्षिणभारतीयोऽयं विद्वान् के० आर० नेयर अलवायः अलब्ध-कर्मीय-नाटकस्य लेखकोऽस्ति । १९४२ ई० वर्षे त्रिवेन्द्रम्-नगरतः श्रीचित्र-पत्रिकायाया प्रकाशितम् । अत्र भावना, गैर्वाणी, यशोद्युम्ननाम पुरुषः भिषग्वरादिकाः चरितनायकाश्च सन्ति | कविः अकर्मको नायकोऽस्ति । तस्य पत्नी भावना स्वपुत्रं काव्यकुमारं मञ्चे निधाय आन्दोलयति, ललितलवङ्गलतायाश्च पद्धतौ गायति । तस्याः पतिः जीविकां प्राप्त्यर्थं यत्र तत्र भ्रमति | निराश एव स कविर्योधन-कर्मणि अपि नियुक्तिमाकाङ्क्षति । किं भवता कुत्रापि नियुक्तिर्लब्धेति सा पतिमपृच्छत् । कविनैराश्यं प्रकटयति । अस्मिन्नेवान्तराले दग्धग्रामस्य संस्कृत-पाठशाला-सञ्चालकः आगच्छति, स तस्मै प्रतिमासं पञ्चदशरूपणां भृत्तिं प्रदातुं समुद्यतः।

संस्कृत-वाग्विजयम्

[सम्पादयतु]

संस्कृतवाग्विजयस्य प्रणेता प्रभुदत्तशास्त्री दिल्ल्यां इम्पीरियल-बैङ्क-कॉलनी, दरीवां कलायां वसति। १९४२ ई० वर्षे दिल्लीतः प्रकाशितम्। पालवाटतः १९४४ ई० प्रकाशितम्। नाटकस्य पञ्चाङ्का अनेक दृश्येषुविभक्ताः सन्ति । अत्र संस्कृतेन सह हिन्दीभाषा प्राकृतभाषायाः स्थानेऽस्ति संस्कृतस्य उच्चावचस्थितेरपि विश्लेषणं विद्यते । अस्मिन्नाटके आधुनिकभाषाणां साह्यम् आङ्गलभाषया वैपरीत्यञ्च प्रदर्शितम् । नाटकेऽस्मिन् विदूषको विदूषिका च हास्यं सृजतः ।

गुरुदक्षिणा

[सम्पादयतु]

गुरुदक्षिणानाटकस्य प्रणेता श्रीनिवासरङ्गार्यो वर्तते । अस्य नाटकस्य त्रिष्वङ्केषु रघुवंशस्य पञ्चमसर्गस्य वरतन्तोः शिष्यस्य कौत्सस्य कथा कतिपयैरभिनवसंविधानैः सह वर्णिता वर्तते । अस्मिन् व्याधात् कौत्सोऽवगच्छति यद् रघुणा सर्वा सम्पत्तिः विश्वजिति यागेऽर्थिसात्कृता | तदा तु कौत्सः आत्महत्यायै उद्यतः । संयोगान् मृगयार्थमटन् रघुस्तत्रैवायाति । रघुः कुबेरस्य सहायतामैच्छत् । यदृच्छया नलकूबरेण सह कुबेरस्तत्रैवायातः । कौत्सस्यावश्यकता पूर्णा भवति । कौत्सो निखिलां दक्षिणां गुरवे समर्प्य शुभाशिषमाप्नोति। अस्य प्रकाशनममृतवाणीपत्रिकायां १९४६ ईसवीये संवृत्तम्।

मुकुन्दलीलामृतम्

[सम्पादयतु]

मुकुन्दलीलामृतनाटकस्य रचयितुर्विश्वेश्वरदयालोश्चिकित्सक चुडामणेर्निवासस्थानं ‘हरि-हरभवनं' वरालोकपुरे उत्तरप्रदेशस्य इटावाजनपदे वर्तते । कविर्वैद्यः सम्मेलनेषु वैद्यके निष्णातत्वाध्यक्ष आसीत् । संस्कृतं प्रति जनानां मन्दादरत्वं दृष्ट्वापि स संस्कृतलेखने मुद्रणे च बद्धपरिकरः। विश्वेश्वरो भारतीय-स्वातन्त्र्यसेनानीनां समर्थकः, विदेशि-शासकानां विरोधको बभूव।

सप्ताङ्कविलसितेऽस्मिन्नाटके देवकी-वसुदेवयोः परिणयादारभ्य कंसवधपर्यन्तं भागवतीयमुपाख्यानं रूपकरूपेण समुपस्थापितम् । अस्य प्रकाशनमिटावातः कविना स्वयमेव कृतम् ।

विश्वेश्वरस्यापरं रूपकं हनुमन्नाटकं वर्तते । अस्मिन् रामकथा पल्लविता । लेखकानुसारं “वर्तमानभारतं न त्यजति सुसंस्कृतिम् ।” अस्यापि प्रकाशनमिटावातः कविनैव कृतम्।

महर्षिचरितामृतम्

[सम्पादयतु]

प्रस्तुतनाटकस्य प्रणेता सत्यव्रतो “वेदविशारदो” वर्तते । अस्य जन्म गुर्जरप्रदेशस्य अमरेलीग्रामेऽभवत्।

मुम्बय्याम् आर्यविद्यासभया सञ्चालिते गुरुकुले वयसा चतुर्दशवर्षीयः सत्यव्रतो मायाशङ्करस्याचार्यत्वेऽधीतवान् । ततो वैदिकधर्मस्य दीक्षां गृहीतवान् । १९३६ ख्रिष्टाब्दे ‘वेदविशारद' इत्युपाधिं लब्धवान् । तस्य अधिकतमः समयः आर्यधर्मस्य प्रचारेऽध्यापने च व्यतीतः।

महर्षिचरितामृतनाटकस्य पञ्चाङ्केषु क्रमशः शिवरात्र्युत्सवः, महाभिनिष्क्रमणं, गुरुदक्षिणा, पाखण्डखण्डनं, मृत्युञ्जयत्वञ्च महर्षिदयानन्दस्वामिविषयकाणि प्रकरणानि वर्तन्ते।

अस्य प्रकाशनं १९६५ ईसवीये मुम्बयीतः सञ्जातम् । अस्य प्रतिः प्रयागस्य “गङ्गानाथझानुसन्धान केन्द्रे' समुपलभ्यते ।

शिविवैभवम्

[सम्पादयतु]

शिविवैभवस्य रचयितुः जग्गू-शिंगरार्यस्य जन्म १९०२ ईसवीयाब्दे बभूव , मृत्युश्च १९६० ईसवीयाब्देऽभवत् । प्रस्तुतनाटकातिरिक्तमस्य पुरुषकारवैभवं, अन्योक्तिमाला, ऋतुवर्णनं, ग्रन्थिज्वरचरितं, वेदान्तविचारमाला, युवचरितं चाप्रकाशिताः कृतयः सन्ति ।

शिविवैभवस्य प्रथमाङ्के शिवे देश-विदेशयोः समादरस्य वर्णनमस्ति । द्वितीयाङ्के मनोरञ्जकानां क्रीडानां चर्चा विद्यते । तृतीयाङ्के पालितं कपोतद्वयमानीयते । कपोतयुगलं राजा उड्डाययते । महाश्वेतमेधोदयाभिधानयोः कपतयोः कः उच्चैरुड्डीयते इति महाराज्ञी विलोकयति । तदा गगने श्येनः कश्चिदागत्यैकं कपोतं हतवान् । राज-श्येनयोर्विवादो भवति । अतः परं पौराणिकाख्यानेन तुल्यमेव कथानकं विलसितम्।

परिवर्तनम्

[सम्पादयतु]

काशीहिन्दूविश्वविद्यालस्य धर्मशास्त्रविमागाध्यक्षतनूजस्य राधाप्रसादशास्त्रिणः पुत्रः कपिलदेवद्विवेदी परिवर्तन-नाटकस्य प्रणेता वर्तते। द्विवेदिमहाभाग आशास्तेस्म यत्स्वतन्त्रे भारते भारतीयसंस्कृतेः पुनर्जागरणं भविष्यति । किंतु स्वतन्त्रताप्राप्तौ तद्विपरीतमवलोक्य निराशाप्लुतः प्रस्तुतनाटकं स प्रणिनाय।

रूपकेऽस्मिन् स्नेहलताभिधानायाः कन्यायाः परिणये तस्याः पिता शङ्करः स्वस्य सर्वस्वं विक्रीय दशसहस्रेण कारयानं क्रीत्वा जामात्रे प्रयच्छति । अस्मिन् कर्मणि कन्यायाः पित्रा स्वकीयं गृहं श्रेष्ठिहस्ते विक्रीतम् | गृहस्य कूपं सोपानञ्च श्रेष्ठिने न दास्यामीति स पूर्वमेवाकथयत्। परन्तु श्रेष्ठीलेखकायोत्कोचं प्रदाय तद्द्वयमपि स्वनामतो लेखयति स्म । ततः शङ्करः स्वप्रयासेन पत्नी जीविकानिहायादिश्य मुम्बयीं गतः । तत्र प्रचुरं धनमर्जित्वा निवृत्तः । ततः कूपं श्रेष्ठिनोऽधिकारे दृष्ट्वा पत्नीं च तद्गृहपरिचारिकामवलोक्य सोऽभियोगं न्यायालये प्रावर्तयत् । तत्रापि श्रेष्ठिनो विजय आसन्न आसीत् । परं तु नभोवाणीप्रभावितो न्यायाधीशस्तमभियोगं पञ्चायते निर्णयाय प्रैषयत् । तत्र तु मूलतो ज्ञातृभिः पञ्चायतसदस्यै निर्णयः शङ्करस्य पक्षे निष्पन्नः।

अस्य प्रकाशनं “लखनऊतः” चतुर्थसंस्करणे १९५६ ईसवीयाब्दे समभवत् ।

वासुदेवद्विवेदिनो रूपकाणि

उत्तरप्रदेशस्य देवरिया-जनपदवास्तव्यो वासुदेवद्विवेदी समग्रं जीवनं संस्कृतप्रचाराय समर्पितवान्। द्विवेदिमहाभागेन स्थापितः संस्कृतप्रचारकार्यालयो वाराणस्यां वर्तते । तद्यथानामसंस्कृतप्रचारे निरतः । तेन स्थापिते संस्कृतमहाविद्यालये संस्कृताध्यापनस्य सुष्ठु व्यवस्था विद्यते । शास्त्रिमहोदयेन लघूनि एकाङ्करूपकाणि विरचितानि । इमानि सर्वाण्यपि रूपकाणि भारतीयचरित्रनिर्माणार्थं विलसन्ति । कौत्सस्य गुरुदक्षिणा, भोजराज्ये संस्कृतसाम्राज्यं, स्वर्गीयसंस्कृतकविसम्मेलनं, बालनाटकं चास्य प्रसिद्धाः कृतयः । सर्वेषु रूपकेषु कविः रोचकसंविधानानां संयोजनं विधाय कथानकं हृदयस्पर्शि व्यधात्।

क्षमाशीलो युधिष्ठिरः

[सम्पादयतु]

प्रस्तुतस्य लघुनाटकस्य प्रणेता ओम्प्रकाश-शास्त्री हरियाणाप्रदेशेऽध्यापको वर्तते । अस्य त्रिषु दृश्येषु युधिष्ठिरस्य विद्यार्थिजीवनस्य त्रीणि दृश्यानि सन्ति । अस्य प्रकाशनं भारत्या ३.६ अङ्के संवृत्तम् । आचार्यः द्रोणस्तमशिक्षयत् - सदा क्षमामाचरेत् । एकदा युधिष्ठिरं पाठस्यानभ्यासाद् गुरुरताडयत् । कतिचिद्दिनान्यतीत्य युधिष्ठिरेण कथितं तस्मिन् दिनेऽहं पाठस्य मननं कुर्वाण आसम् । तच्छुत्वा द्रोणोऽब्रवीत् -

उपदेशं प्रकुर्वाणा लभ्यन्ते बहवो नराः।

स्वयमाचारसम्पन्ना दुर्लभा भुवि मानवाः।।

अमर्षमहिमा

[सम्पादयतु]

मैसूर-वास्तव्यः के० तिरुवेङ्कटाचार्य अमर्षमहिमेतिरूपकस्य प्रणेतास्ति । अस्मिन् एकाङ्के पश्चदृश्यानि सन्ति । अमरवाण्या १९५१ तमे ख्रिष्ट-वर्षे प्रकाशितम् । अत्र रामचन्द्रो नाम अधिकारी गृहे स्वादहीनं भोजनं दृष्ट्वा पत्न्या विवमानोऽभुक्त्वैव कार्यालयं गच्छति । तत्र स्व-सहायकेन चन्द्रशेखरेण सह कलहायते । चन्द्रशेखरोऽपि गृहं गत्वा स्वपल्या सह विवदते । सापि स्व-परिचारिकया सह कलहायते ।

सिंहलविजयम्

[सम्पादयतु]

उत्कल-वास्तव्यः सुदर्शनत्रिपाठी सिंहलविजयस्य प्रणेतास्ति । सिंहलविजयं १९५१ वर्षे बेरहामपुरतो प्रकाशितम् । पञ्चाङ्केऽस्मिन्नाटके ‘उडिया-गीतानां' निर्भरता रोचते । अङ्काः दृश्येषु विभक्ताः सन्ति । अत्र कलिङ्गानां सिंहलविजयस्य पुरातनी कथा 'रूपकायिता'।

सुदर्शनत्रिपाठिनामरभारतीति रूपके सत्यवती-पराशरयोः दाम्पत्येन द्वैपायनस्य जन्म, तस्य तपः, वेद-ब्रह्मसूत्र-पुराणानां साहित्य-सौधे प्रतिष्ठापनं, कृष्णजन्म च वर्णितानि । अत्र प्रतिभा, प्राकृता, वेदादयश्च पात्राणि सन्ति । गीति-सौरभं राजते सर्वेष्वङ्केषु । अङ्कानां विभाजनं बहुषु लघुदृश्येषु वर्तते। अमरभारत्याः प्रकाशनं बेरहामपुरतः ( गञ्जाम ) मनोरमेति पत्रिकायां १८८५ शकाब्देऽभवत्।

मालाभविष्यं, लालावैद्यं , हा हन्त शारदे च

[सम्पादयतु]

नागपुरस्य स्कन्दशंकरखोतो मालाभविष्यं, लालावैद्यं , हा हन्त शारदे चेति नाटकत्रयं प्रणीतवान् । लेखकः स्वयमेव स्वकीयनाटकानां प्रकाशकः। १९५१ ई० वर्षे प्रणीते मालाभविष्ये लेखकेन प्रस्तावितम् “राशिभविष्यं वितथं कल्पितं कृत्रिमम्” चेति । मालाभविष्ये मुम्बईनगरस्य वैषम्यपूर्णं परिहासात्मकं च चित्रणं रुचिकरं वर्तते । तत्र संवादाश्चटुलाः सन्ति । मालाचौर्यं प्रधानघटना वर्तते । मनोविनोदार्थं १९५५ ई० वर्षे प्रणीतस्य प्रहसनस्य लालावैद्यस्य कथावस्तु कतिपयवैद्यानधिकृत्य प्रवर्तते । निर्वहणे धूर्ती लालावैद्यो दण्डितो भवति।

१९५६ ई० वर्षे प्रणीतं “हा हन्त शारदे” इति रूपकं लेखकानुसारं सामाजिकं प्रहसनमस्ति । अनया रचनया लेखकः स्वर्णं पुरस्कारं लब्धवान् । अस्य कथावस्तु स्त्रीणामशिक्षया समुत्पन्नवैषम्यमधिकृत्य प्रवर्तते। १९५२ ई० वर्षे प्रणीते ध्रुवावतारे बोधकः (शिक्षकः) ध्रुवप्रह्लादयोश्वरितचर्चां प्रस्तौति । आदर्शो बालकः सुधीरो ध्रुवस्य नवावतार इति विख्याप्यते ।

कश्मीरसंधानम्

[सम्पादयतु]

१९०३ ख्रिष्टाब्दे समुप्पन्नस्य भीमभट्टस्य प्राथमिकशिक्षा कम्मेज-संस्कृतपाठशालायां संजाता । दक्षिणकर्नाटकस्य परेडालसंस्कृतमहाविद्यालये साहित्यशिरोमणिकक्षायाश्चतुर्थे वर्षे पठन्नसौ भीमभट्टः कश्मीरसंधानसमुद्यमं विरचितवान्।

वारद्वयमभिनीतस्य कश्मीरसंधानसमुद्यमनाटकस्य प्रारम्भः श्यामाचरणमुखर्जीमहोदयस्यैकोक्त्या भवति। कश्मीरविभाजनस्यानौचित्यप्रदर्शनमेवास्य लक्ष्यं वर्तते । निर्वहणे नेहरु-शेखयोर्निर्णयेन श्यामाप्रसादः क्षुभितो भवति । अमृतवाण्या १९५२-५३ वर्षयोः प्रकाशितम् । हैदराबादविजयं नीपजेविरचितं द्वितीयं राजनीतिकं नाटकं वर्तते । अमृतवाण्यां प्रकाशितम् । कतिपयदृश्येषु विभक्तेऽस्मिन् रूपके स्वतन्त्रताप्राप्तेरनन्तरं हैदराबादविषयकषड्यन्त्रं नेहरूपटेलप्रभृतिभिस्तन्निराकरणं च कविः सोत्साह निरूपयति।

सीताकल्याण-नाटकम्

[सम्पादयतु]

वेङ्कटरामशास्त्रिणोऽस्मिन्नाटके रामजन्मतः प्रभृति विवाहकालं यावत् कथावस्तु प्रवर्तते । लेखकेन १९५३ ई० वर्षे प्रकाशितम् । अस्य पञ्चाङ्कनाटकस्य अन्तिमेऽङ्केऽन्तर्नाटकमेकं समाविष्टम् । तत्र वेदवत्याः कथा रूपायिता। वेङ्कटरामशास्त्रिणोऽस्मिन्नाटके रामजन्मतः प्रभृति विवाहकाले यावत् कथावस्तु प्रवर्तते।

नपुंसकलिङ्गस्य मोक्षप्राप्तिः

[सम्पादयतु]

श्रीसत्यव्रतशास्त्रिणोऽस्मिँल्लघुरूपके मुख्यतो नपुंसकस्य स्वकीयमहिमगानं वर्तते । भारत्या १९५३ खीष्टाब्वे प्रकाशितम् ।

प्रतारकस्य सौभाग्यम्

[सम्पादयतु]

प्रतारकस्य सौभाग्यमित्यस्मिन् लघुरूपके प्रतारकाणव्यवसायः कथं सम्यक् प्रचलतीति दर्शितम् । मंजूषायां १९५५ ई० वर्षे प्रकाशितम् । तेषां कुकृत्यैरतिखिन्नो दीनश्च राजेन्द्रः कथयति "दैवमपि साधूनां प्रातिकूल्यमसाधूनां चानुकूल्यं विदधदिव प्रतिभाति" ।

अन्धैरन्धस्य यष्टिः प्रदीयते

[सम्पादयतु]

अस्य लघ्वेकाङ्कस्य प्रणेता बङ्गदेशस्य विद्वन्मनीषी डा० क्षितीशचन्द्रचट्टोपाध्यायोऽस्ति । अस्य पिता शरच्चन्द्रो माता च गिरिबालादेवी आस्ताम् । डी० लिट् उपाधिना विभूषितोऽयं न केवलं भारतीयभाषास्वपितु आङ्गलजर्मन-फ्रेञ्चादिविभिन्नवैदेशिकभाषास्वपि निष्णातोऽनुसन्धानात्मकान् बहून् ग्रन्थान् प्रणीतवान् । कोलकातानगरीतः सुप्रसिद्धा मञ्जूषानाम्नी पत्रिका क्षितीशस्य सम्पादकत्वे विलसिता । मंजूषायां १९५५ ई० वर्षे प्रकाशितम्।

“अन्धैरन्धस्य यष्टिः प्रदीयते” इति नाटके खल्वाटतामधिगच्छन् कश्चिन्महाराजो वाराणस्यां मुकुन्दानन्दगोविन्दस्वामिनं चिकित्सितुं निवेदयति । तस्य चिकित्साविधानमनुसृत्य स तदर्थं ब्राह्मणभोजनदक्षिणादिकं सम्पादयितुं निर्दिशति । किन्त्वन्ते “स्वयमेव सर्वथा खल्वाटोऽयम्” इति ज्ञात्वा राजा राजभवनात्तं निस्सार्य कथयति - न खल्वन्धेनान्धस्य यष्टिप्रदानं योग्यम् । कथं स्वयमेव खल्वाटोऽयं मम खल्वाटतां दूरीकरिष्यतीति।

परिणामम्

[सम्पादयतु]

परिणामन्नाम सप्ताङ्क-नाटकं निर्मितं चूडानाथभट्टाचार्येण । श्रीमती नूतनश्री ८।१५ रयूखटोल, काठमाण्डू नेपालतः प्रकाशितम् । चूडानाथोऽयं प्राचार्य आसीत् काठमाण्डू-शासकीयमहाविद्यालये । नाटकेऽस्मिन् योरपीय-सभ्यतायाः संस्कृतेश्च मृगमरीचिकाभिः पाशितानां नवयुवकयुवतीनां पतनोन्मुख-प्रवृत्तयो वर्णिताः।

रामानन्दम्

[सम्पादयतु]

रामानन्दनाटकस्य लेखकोऽयं बी० श्रीनिवासभाट उडुपि-नगरे संस्कृत-महाविद्यालयेऽध्यापकः आसीत् । अस्मिन्नाटके पञ्चाङ्का सन्ति । अङ्का दृश्येषु विभक्ताः सन्ति । नाटकेऽस्मिन् उत्तररामचरितस्य कथावस्तु वर्तते। लेखकेन स्वयमेव १९५५ वर्षे प्रकाशितम् ।

छायाशाकुन्तलम

[सम्पादयतु]

जीवनलालपारिखस्य छायाशाकुन्तलमिति रूपकं उत्तररामचरितस्य तृतीयमङ्कमनुसृत्य प्रणीतम् । सूरतनगरात् १९५७ ई० वर्षे प्रकाशितम् । अत्र तिरस्करिण्याः प्रभावेण शकुन्तला छायारूपेणोपस्थाप्यते।

आदिकविः

[सम्पादयतु]

आदिकवेः प्रणेता बुद्धदेवपाण्डेयः पाटलिपुत्रस्य मीठापुरस्य दयानन्दकन्याविद्यालयस्य अध्यापकोऽस्ति । भारत्या ६१ अंके प्रकाशितम् । प्रकृतनाटके वाल्मीकिः पापवर्तनं विहाय दीक्षां गृहाति । पश्चात् क्रौञ्चवधस्य कथा वर्तते ।

प्रतीकारम्

[सम्पादयतु]

प्रतीकार-प्रणेता दिल्ली-विश्वविद्यालये प्रवाचकः शिञ्जारवस्य रचयिता कृष्णलालो वर्तते । भारस्यां ७-४ अंके प्रकाशितम् । नाटकस्य कथानुसारमष्टावक्रनामा विद्वान् जनकसभामासाद्य कहोडस्य स्वकीय पितुर्जेतारं वन्दिनं विद्वांसं पराजयते । पश्चाद्वन्दिनो निर्देशानुसारं दूरद्वीपे तेनैव बन्दीकृतं स्वपितरं पुनर्लभते ।

भक्तिचन्द्रोदयम्

[सम्पादयतु]

वेंकटकृष्णरावस्येदं नाटकं भारतीयपरम्परानुसारं सुप्रणीतम् । मञ्जूषायां १९५७ ई० वर्षे प्रकाशितम् । नायको भगवान् पुरुषोत्तमो लोकस्य भक्तिवैमुख्येन खिन्नाश्च नारदव्यासशंकररामानुजादयो नितरां भौतिकतां प्रपन्नं लोकं भक्तिमार्गे समानेतुं यतन्ते।

नागराजविजयं, गणाभ्युदयञ्च

[सम्पादयतु]

एम० ए०, डी० लिट् उपाधिविभूषितो डा० त्रिवेदी मध्यभारतस्य राजकीयसेवायामुच्चपदेषु स्थितः सन् भारतीयसंस्कृतिं संस्कृतं चाधिकृत्य बहु लिखितवान् | अयमिन्दौरनगरस्य निवासी। एतेन नागराजविजयं, गणाभ्युदयं चेति नाटकद्वयं विरचितम्।

नागराजविजयस्याभिनयः उज्जयिन्यां निष्पन्नः। संस्कृतप्रतिभायां १९६० ई० वर्षे प्रकाशितम् । अस्मिन्नाटके नागराजः शकान्नुज्जयिनीतो विद्राव्य कुषाणान् भारताद्बहिष्कतुं प्रयतते।

डा० त्रिवेदिनो गणाभ्युदयमिति पञ्चाङ्के नाटके भारतीयगणराज्यानामभ्युदयस्तत्र समागत बाधानां निरसनं च बहुविधरोचकसंविधानैः सम्यक् विशदीकृतम् । दिल्लीतः, संस्कृतरत्नाकरे १९६६ ई० वर्षे प्रकाशितम् ।।

नराणां नापितो धूर्तः

[सम्पादयतु]

नराणां नापितो धूर्त इति नाटकस्य प्रणेता नारायणशास्त्रिकाङ्करो राजस्थानस्य जयपुरनगरवास्तव्यः। प्रकृतस्यैकाङ्कस्य चतुर्षु लघुदृश्येषु नापितस्य रामकिशोरस्य कथा वर्तते । मधुरवाण्यां १९५७ ख्रीष्टाब्दे प्रकाशितम् । व्यापाराय पत्न्या नगरं प्रति प्रेषितोऽसौ मार्गे स्वकीयधूर्ततया दानवानां महतीं श्रियमवाप्तवान्।

शास्त्रिणान्यान्यपि बहूनि लघुरूपकाणि विरचितानि । तेषु स्वातन्त्र्ययज्ञाहुतौ १९४२ ई० काले स्वातन्त्र्यमहायुद्धे भारतीयमहावीराणां योधनशीलानां शासकैः दमनं सकरुणं निरूपितम्। स्वातन्त्र्ययज्ञाहुतेः प्रकाशनं दिल्लीतः १९५६ ई० वर्षेऽभवत् ।

दस्युरत्नाकरम्

[सम्पादयतु]

दस्युरत्नाकरस्य प्रणेता ध्यानेशनारायणचक्रवर्ती रवीन्द्रभारतीविश्वविद्यालयस्य प्राध्यापकोऽभवत् । मंजूषायां १९६७ ई० वर्षे प्रकाशितम् । रवीन्द्रस्य कतिपयनाटकानि गीतानि च संस्कृतभाषयानूद्य स कृती वर्तते।नान्दीभरतवाक्यप्रस्तावनारहितम् एकाङ्कनाटकं दस्युरत्नाकरं चतुर्षु दृश्येषु विभक्तम् । दस्युरत्नाकरः कालान्तरे वाल्मीकिर्बभूव । तस्य चरित्रविकासार्थं बहुविधानि संविधानानि कविना कथावस्तुनि समावेशितानि।

सावित्री-नाटकम्

[सम्पादयतु]

सावित्रीनाटकस्य रचयिता श्रीकृष्णमणित्रिपाठी पूर्वोत्तरप्रदेशस्य देवरियामंडलवास्तव्यः। वाराणस्या भारतीयसाहित्यमालायां प्रकाशितम् । बहुविषयाचार्योपाधिविभूषितोऽयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालये आचार्यपदमवाप्नोत् । पुराणादिकमधिकृत्य तेन बहुविधग्रन्था विरचिताः । प्रकृतनाटके सावित्रीसत्यवतोः प्रसिद्धं कथावस्तु प्रपञ्चितम्।

भैमीनैपधीयम्

[सम्पादयतु]

सीतारामाचार्यो भैमीनैषधीयस्य प्रणेतास्ति । भारती-पत्रिका १९६७ ई० वर्षे प्रकाशितम् । अस्मिन् एकाङ्के चत्वारि दृश्यानि सन्ति । अत्र दमयन्ती-नलयोः परिणय-वृत्तान्तो वर्तते । भारतीपत्रिकया आयोजितायामेकाङ्कनाटक-प्रतियोगितायामस्य समावेशोऽभवत् ।

श्रीकृष्णदौत्यम्

[सम्पादयतु]

श्रीकृष्णदौत्यमिति लघुनाटकस्य रचयिता भास्कर केशवढोकोऽस्ति । भारत्या ६-११ अंके प्रकाशितम् । अत्र द्रौपदी-भीमयोर्विरोधे सत्यपि युधिष्ठिरस्य निर्देशानुसारं श्रीकृष्णो दौत्येन दुर्योधनं प्रति गच्छति, दौत्यं समाचरति च ।

रत्नावली

[सम्पादयतु]

रत्नावलीरूपकस्य प्रणेता बडौदावास्तव्यो बदरीनाथशास्त्री। बडौदानगरस्य विद्वत्सभायाः पञ्चमे वार्षिकोत्सवे कन्याभिरभिनीतेयम्। अत्र राधाकृष्णयोः प्रणयात्मकमितिवृत्तं रूपकायितम्। संवादाश्चटुलाः सन्ति । वाक्यावली नाट्योचिता सुसरला च वर्तते।

सत्यारोहणम्

[सम्पादयतु]

सत्यारोहणं पाण्डिचेरीनगयोः श्रीमात्रा विरचितम् । रूपकमिदं जीवनदर्शनं विश्लेषयति । पाण्डिचेरीतोऽरविन्दाश्रमात् १९५८ ई० वर्षे प्रकाशितम् । सत्यान्वेषणं कथं कर्तव्यमित्यत्र निदर्शितम् ।

कृषकाणां नागपाशः

[सम्पादयतु]

कृषकाणां नागपाश इति लघुरूपकस्य प्रणेता विद्यावाचस्पतिर्वागीशोपाख्यो व्याकरणाचार्यों भागीरथप्रसादत्रिपाठी अस्ति । काश्याश्चौखम्बा-विद्याभवनतः १९५८ ई० वर्षे प्रकाशितम् । वागीशस्य जन्म मध्यप्रदेशे सागरमंडले विलइया-ग्रामेऽभूत् । वागीशः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेऽनुसंधानसञ्चालको नियुक्तः । त्रिपाठिना हिन्द्या संस्कृतेन च बहुविधानि पुस्तकानि विरचितानि।

रूपकेऽस्मिन् कृषकाणां दुःस्थितिः सम्यक् चित्रिता । तेषां दुर्दशां श्रुत्वा गान्धिमहाभागः भूमौ सार्वजनिकः समानाधिकारः इति नैसर्गिकविधानमूटरीकरोति।

नागेशम्

[सम्पादयतु]

नागेशनाम्न एकाङ्करूपकस्य रचयिता विद्यार्थी इत्युपाख्यो वामदेव उत्तरप्रदेशस्य गढवालनगरस्य निवासी। अस्मिन् रूपके तेन महावैयाकरणस्य नागेशस्यौदात्त्यं वर्णितम् । वामदेवस्य लेखनी भावोत्कर्षिणी विद्यते । देवप्रयागस्य काव्यसदनेन १९५८ ई० वर्षे प्रकाशितम् । रूपकमिदं कथावस्तुसंविधानादिदृष्टया विलक्षणमेव विलसति ।

प्रतिभा-विलासम्

[सम्पादयतु]

मैसूरवासिनो ह० व० भुजङ्गाचार्यस्य प्रतिभाविलासं नाटकं दृश्यत्रयस्यैकाङ्कम् । भारतीय-पत्रिकायाँ १९७५ ई० वर्षे प्रकाशितम् । प्रारम्भोऽस्य बुभुक्षितब्राह्मणस्येकोक्त्या भवति । दैवात्तदैव कालिदासो दृश्यते । ब्राह्मणेन स्वीयदारिद्रयनिवारणाय प्रार्थितोऽसौ । कविनिर्दिशति - मम गृहेऽद्योषित्वा श्वो राजसभामागम्य “त्रिपीडा परिहारोऽस्तु” इति वक्तव्यं भवता।

अपरेद्युः विलम्बाद्राजसभाङ्गतः कालिदासो राज्ञा पृष्टोऽवदत् गुरुसेवायामासमिति । दर्शनार्थमुत्कण्ठितराजाज्ञयासौ ब्राह्मणः समानीतः । स च “त्रिपीडास्तु” इत्युक्त्वैव तूष्णीं बभूव । शापो दत्तोऽनेनेति राज्ञो भावमवलोक्य कालिदासस्तं शापमाशीर्वचनत्वेन सम्यक् व्याख्यातुमवोचत् -

आसने विप्रपीडास्तु शिशुपीडास्तु भोजने ।

शयने दारपीडास्तु त्रिपीडास्तु नरेन्द्र ते।।

तदा परं प्रीतेन भोजेन बहुविधदानैरसौ ब्राह्मणः सम्मानितः ।

पुनःसृष्टिः, सोपानशिला च

[सम्पादयतु]

वैदेशिकशैलीमधिकृत्य प्रणीतं ताताचार्यस्य पुनःसृष्टिः, सोपानशिला चेति नाटकद्वयं प्रसिद्धम् । संस्कृत-प्रतिभायां १९५९-६• ई० वर्षको प्रकाशित नाटकायम् । तत्र प्रथमं दृश्यत्रयस्यैकाङ्के द्वितीयञ्च सप्तदृश्यानामेकाङ्कम्। पुनःसृष्टौ नायिका भास्वती पतिंवरा प्रहर्षणं वरितुमिच्छति । पिता तां नातिसुन्दराय चन्द्रकीर्तये प्रदातुमभिलषति । ततः प्राणान् त्यक्तुकामा सा सख्या धेनुमत्या रक्ष्यते । कृष्णश्चन्द्रकीर्तेः पुनःसृष्टिर्विदधाति। तेनासौ सुन्दरतमः सुकृतः । भास्वती तं वृणोति । प्रहर्षेण धेनुमती उदूढा।

सोपानशिलेति रूपके कापिलजाज्योदम्पत्यं सुखकरं वर्तते । ग्रामप्रधानस्तत्र बाधको भवति । कापिलस्य गृहे जटिता सोपानशिला चौर्येण ग्रामप्रधानः स्वकीये नूतने गृहे प्रयुक्ता। न्यायार्थं कापिलेन प्रयासे कृते प्रमाणाभावात्कापिलविरुद्धो निर्णयो भवति । पश्चाच्चासौ मानहानेरभियुक्तो विधीयते । दैवाद् गृहप्रवेशावसरे ग्रामप्रधानस्य शिरसि बृहन्मृत्तिकाखण्डमापतति, पुत्रश्च तस्य यानदुर्घटनायां म्रियते । स्वपापस्य फलमिदमित्यनुशोच्य प्रायश्चित्तार्थं स्वकीयां कन्यामसौ कापिलस्य पुत्राय समर्पयति ।

रामराज्यम्

[सम्पादयतु]

वि०वि० श्रीमहोदयेन रचिते नाटके रामराज्यम् उत्तमस्य नृपतेरादर्शो वर्णितः । उद्यान-पत्रिकायां १९५९ ई. वर्षे प्रकाशितम्। तत्राङ्काः प्रेक्षणकेषु विभक्ताः । कथारम्भः सीतारामयोः पट्टाभिषेकाद् भवति । रजकात्सीतादूषणं श्रुत्वा सीतया सह रामो वनं गन्तुमभिलषति । नाटके वार्तालापतत्त्वस्य वैशिष्ट्यं वर्तते । संवादा बहुशोऽतिदीर्घाः सन्ति । नाट्यनिर्देशाः कार्यपरा विद्यन्ते।

सरोजिनीसौरभम्

[सम्पादयतु]

सरोजिनीसौरभस्य नाटकस्य प्रणेता आन्ध्रप्रदेशस्य राजमहेन्द्रवरमिति नगरस्य निवासी भारतीसंस्कृतेः परमोपासकोऽनेकविद्याविशारदः श्रीमहीधर वेङ्कटरामशास्त्री । नाटकेऽस्मिन् ग्रामोत्थानयोजना तत्त्वतो दर्शिता । गुणचन्द्रनायकः पितुर्विरोधेऽपि स्वकीयां प्रणयिनीं सरोजिनीं परिणयति । श्रीधरो नामापरः कश्चिन्नायिकाभिलाषी मिथ्याचौयोभियोगबलान्नायकं न्यायालये नयति । किन्तु सत्यमचिरं प्रकटितमेव । गुणचन्द्रेण प्रभावितो राजा तस्मै सेनापत्यादिपदप्रदानक्रमेण राज्यमेव समर्पयति । गुणचन्द्रं रक्षन्ती चिरात्प्रच्छन्ना सरोजिनी राजमहिषी भवति ।

कुचेलवृत्तम्

[सम्पादयतु]

मद्रासनगरस्य क्वीन मेरीमहाविद्यालयस्य संस्कृतविभागाध्यक्षपदात्सेवानिवृत्ता देवकीमेननेति विदुष्या प्रणीते कुचेलवृत्तमिति संगीतप्रेक्षणके सप्ताङ्काः सन्ति । १९६१ ई० वर्षे संस्कृतप्रतिभायां प्रकाशितम् । संगीतप्राचुर्यादिद 'ओपेरा' इत्यपि कथ्यते । मेरीमहाविद्यालयस्य छात्रैरभिनीतमिदम्। दारिद्रयेणातिपीडितः कुचेलः पत्न्यनुरोधेन कृष्णमुपगम्य पत्नीप्रदत्तपृथुकं तस्मै प्रदातुं नेच्छति लज्जया | पश्चाच्च -

हरिश्च तस्मात्पृथुकं जहार,

प्रदर्शयन् गोकुलबाललीलाम्।

ततः पृथुकमश्नन् कृष्णस्तस्मै बहुधनं प्रददाति । गृहमागत्यात्मनः सर्वैश्वर्यञ्चालोक्यातिविस्मितः कुचेलः सपरिवारो भगवत्पूजनं संकीर्तनश्च विदधाति।

सैरन्ध्री-प्रेक्षणकम्

[सम्पादयतु]

लघुतरेऽस्मिन् सैरन्ध्रीत्येकाङ्कप्रेक्षणके कृष्णासक्तकुब्जायाः कथा प्रवर्तते । कृष्णबलरामयोः आगमनमाकर्ण्य सा भृशं जनसम्मर्देऽपि तावुपगम्याङ्गरागेण तयोरनुरञ्जनं करोति, कृष्णश्चाङ्गस्पर्शेन तस्याः कुब्जात्वं दूरयति । मङ्गलगानेन प्रेक्षणकं समाप्तम्।

पौरव-दिग्विजयम्

[सम्पादयतु]

बङ्गलौर-वास्तव्यः एस० के० रामचन्द्ररावः–पौरव-दिग्विजयस्य लेखकः । १९६० वर्षे संस्कृत-साहित्य-प्रतिभायां प्रकाशितम् । लेखकः ‘आल इण्डिया इंस्टीट्यूट आफ मेण्टल हेल्थ इति संस्थायां बङ्गलौरनगरे प्रवाचक आसीत् । नाटकानुसारं पुरुः स्वयोजनया भारतीय-नृपाणां संघं निर्माय अलक्षेन्द्रेण युद्ध्यते स्म ।

श्रीकृष्ण-दौत्यम्

[सम्पादयतु]

श्रीकृष्ण-दौत्यस्य लेखकः बी० के० ढोक-महाभागो नागपुरवास्तव्य आसीत् । नागपुरे संस्कृत-भवितव्यम्-धारा प्रकाशनमस्य १९५५ ईर्वेऽभवत् । नाटकेऽस्मिन् त्रीणि दृश्यानि सन्ति । श्रीकृष्णस्य दौत्यकर्म स्वीकृत्य दुर्योधनं प्रति गमनमिति महाभारतीया कथा अस्मिन्नाटके वर्णिता । एतस्य त्रिषु दृश्येषु उच्चकोटिकानां गीतानां वैशिष्ट्यं विद्यते ।

श्रीकृष्ण-भिक्षा

[सम्पादयतु]

रूपकस्यास्य लेखकः एच० वी० नारायणशास्त्री बङ्गलौर-वास्तव्य आसीत् । 'पूना-ओरियण्टलिस्ट' इति पत्रिकायां १९५९ वर्षे प्रकाशितम् । अस्मिन्नङ्कद्वये तत्सम्बन्धि-महाभारतीयं कथावस्तु विद्यते।

धर्मरक्षणम्

[सम्पादयतु]

षडङ्कं धर्मरक्षणं नाम नाटकं निर्मितमस्ति तिरूपति-वास्तव्येन वेङ्कटेश्वरविश्वविद्यालयस्य तेलगुविभागस्य प्राध्यापकेन लक्ष्मीनारायणरावेण । १९६१ ई० वर्षे त्रिलिङ्ग ग्रन्थमाला, तिरुपति-नगरतः प्रकाशितम् । अस्मिन्नाटके एकलव्यस्य सुप्रसिद्धा महाभारतीया कथा विद्यते । एतदनुसारं एकलव्यः कर्णस्य प्रार्थनां स्वीकृत्य कौरवपक्षे युद्धायोपक्रमते । कृष्णेन स हतः । नाटकेऽस्मिन् पद्यानामाभावो विद्यते । सम्पूर्णं नाटकं गद्यमयमस्ति।

कृतार्थकौशिकम्

[सम्पादयतु]

कृतार्थकौशिकस्य प्रणेता नैनीतालवास्तव्यः श्रीकृष्णजोशी ( १८८२-१९६५ ई० ) प्रयागस्थ-म्योरमहाविद्यालये उच्चशिक्षा समाप्य कञ्चित्कालं कुमायूँनगरे वाक्कीलव्यवसायानन्तरं देशसेवायां व्यापृतोऽभूत्। पश्चान्मदनमोहनमालवीयस्याकर्षणेन काशी-हिन्दू विश्वविद्यालयेऽशिक्षयत । संस्कृतपाण्डित्यमस्यानुवंशिकमेवासीत् । बहुषु विद्यासु पारङ्गगतो विद्वानयं “अन्तरङ्गमीमांसा’ निर्मायोत्तरप्रदेशशासनस्य १५०० रूप्यकाणां पुरस्कारं लब्धवान् । वाग्वैदग्ध्येन विद्याभूषण-कविसुधांशूपाधिद्वयं लभते स्म । कृतार्थकौशिकं, सत्यसावित्रं, परशुरामचरितं चेति नाटकत्रयमस्योपलभ्यते । कृतार्थकौशिकम् अखिलभारतीयसंस्कृतपरिषदः, लखनऊनगरतः १९६५ ई० वर्षे प्रकाशितम् ।

कृतार्थकौशिकानुसार महाराजो गाधिः स्वकन्याया विवाहमौर्वेण सह सम्पाद्य दस्यून् पराजेतुं स्वकीयां शक्तिं वर्धयते । दस्यवो गाधिपुत्रं विश्वामित्रं तत्सहायकं ऋक्षञ्च बन्दीकुर्वन्ति । तत्र दस्युराजदुहिता “उग्रा” विश्वामित्रं पतिरूपेणाकाङ्क्षत् | आर्यसेनया दस्यूनाक्रम्य विश्वामित्रस्य गुरुरगस्त्यस्तं मोचयितुं प्रायतत | दस्युसेनापतिरात्मनः इष्टदेवस्य साहाय्यमवाप्तुं तस्मै विश्वामित्रं बलिं दातुकामोऽभूत् । किन्तूग्राया साहाय्येन विश्वामित्रस्ततो निष्क्रम्य प्राणान् ररक्ष । गान्धर्वरीत्या तौ परिणीतौ । परं गर्भवतीमुग्रां भैरवो जघान । ततस्तपो विहाय राष्ट्ररक्षार्थमसुरान् पराजेतुं प्रवर्तमानस्यागस्त्यस्य पुत्र्या रोहिण्या विश्वामित्र उदूढः।

षडङ्केऽस्मिन्नाटके पात्राणां संख्यात्यधिका वर्तते । पद्यानामपि संख्या षष्टीति बहुलैव । राष्ट्ररक्षार्थं राष्ट्रियसंघटनस्य सर्वस्वत्यागस्य च प्रतिफलनमत्र साधु कृतम्।

हर्षदर्शनम्

[सम्पादयतु]

हर्षदर्शनस्य रचयिता पुण्यपत्तनवासी डेग्वेकरपाण्डुरङ्गशास्त्री पण्ढरपुरक्षेत्रस्य संस्कृतविद्यालये व्याकरण-न्याय-वेदान्तादिशास्त्राण्यध्यापयति स्म । अस्य संस्कृतसाहित्याध्ययनं सुगभीरमासीत् । स हि १९६१ ख्रीष्टाब्दे दिवङ्गतः। हर्षदर्शनस्य पञ्चाङ्केषु हर्षेण पूर्वभारतविजयस्य कथावस्तु प्रपञ्चितम् । पूर्वसागराञ्चलस्थस्य राज्यस्य नृपतिश्चण्डदेवः शान्तिवर्मणो राज्यं स्वायत्तीकृतवान् । शान्तिवर्मणो दुहिता प्रतिमा तत्सखी चन्द्रिका च युद्धशिक्षामवाप्याश्रयार्थं हर्षं संगम्य चण्डदेवस्य विनाशाय प्रावर्तयताम् । हर्षस्याक्रमणमाशंक्य चण्डदेवः प्रतिरोधाय मगधराजेन शशांकेन सह गुप्ताभिसन्धिं समाचरत् । कुशलतरसाहाय्यबलेन स्वकीयरणकौशलेन च हर्षः आत्मनो भ्रातृघातकं शशांकं चण्डं च निजघान । ततः प्रतिभया सह हर्षस्य चन्द्रिकया सह तन्मित्रस्य चकोरस्य च विवाहः संजातः।

प्रथमेऽङ्केऽरुणवरुणयोः ह्वनसाङ्गविषयकवार्तालापो हेयः स्यात्। नाटकमिदं मुद्राराक्षसमनुहरति । प्रवेशकविष्कम्भकयोरभावो वर्तते । रङ्गपीठे स्थितेष्वप्यन्यपात्रेषु चतुर्थाङ्के हर्षस्यैकोक्तिः विरलप्रयोग एव ।

सत्याग्रहोदयम्

[सम्पादयतु]

बोम्मकण्टिरामलिङ्गशास्त्री उस्मानियाविश्वविद्यालये संस्कृतविभागमध्यक्षयति स्म। प्राच्य-पाश्चात्यविद्यानिकरं गभीरमधीत्य स सम्यक् ग्रन्थते स्म। बहुविधं काव्यमाधुनिकवैदेशिकशैलीमधिकृत्य तेन प्रणीतम् । शास्त्रिणः सर्वाः कृतयः प्रकाशिताः ।

रामलिङ्गस्य नाटकानि सत्याग्रहोदयम् , शुनःशेपम् , मेघानुशासनम् , सुग्रीवसख्यमित्यादीनि प्रकाशितानि सन्ति । सत्याग्रहोदयनाटकस्य कथावस्तु जञ्जीवारद्वीपे गान्धिनः कार्यकलापादारभ्य १९१४ ई० वर्षे जुलाईमासस्याष्टादशतारिकायां संध्यायां जोहान्सबर्गे गान्धिपोलेनवाक-हबीबादीनां वार्तालापं यावत् प्रवर्तते । शास्त्रिणः प्रमुखं नाटकमिदं गान्धिनो वर्षशतकमहोत्सवावसरे १९६६ ई० वर्षे प्रकाशितम् । नाट्यविधानमत्र प्रायेण भारतीयं नास्ति ।

शुनःशेपमिति रूपकं रोहिताश्वस्यैकोक्त्या प्रारभ्यते । ततोऽकालपीडितस्याजीगर्तस्य रोहिताश्वस्य च विपत्तिनिवारणमधिकृत्य वार्तालापो प्रवर्तते । शुनःशेपो यज्ञे आत्मबलिदानेनाजीगर्त रक्षितुं यतते। विश्वामित्रेण शुनःशेपोऽपि रक्ष्यते। अत्र भावपराः प्रासङ्गिकवृत्तान्ताः रमणीयाः सन्ति । प्रस्तावनाभरतवाक्ययोरभावो वर्तते । प्रथमे दृश्ये रोहिताश्वस्यैकोक्तिमात्रमस्ति ।

पञ्चदृश्यात्मके मेघानुशासनेऽनावृष्टिसंतप्तस्य सपत्नीकचाक्रायणस्येतिवृत्तमधिकृत्य छान्दोग्योपनिषदो मेघगर्जनं, देवासुरमानवानामनुशासनं, दमदत्तदयध्वानां ग्रहणस्योपदेशाख्यानं साधु विलसति । सुग्रीवसख्यस्य षट्स्वतिलघुदृश्येषु सुग्रीवरामयोः मैत्रीभावप्रतिष्ठापनस्वेत्तिमस्ति। मातृगुप्तस्य लघुतरदृश्यद्वये राजतरङ्गिण्यां वर्णितस्य मातृगुप्तस्याख्यानं प्रपञ्चितम्। देवयानीति रेडियोरूपकानुसारं -

रागरोषावेशभरितं देवयानीचरितम् ।

प्रस्तूयते भवतां मुदे रसिका विलोकयादरात्।।

अस्मिन् रूपके देवयान्याः कूपपतनं, ययातिना सह विवाहः, ययातेः शर्मिष्ठया गान्धर्वविवाहः, देवयान्याः क्रोध इति घटनाश्चर्चिताः । पञ्चमे दृश्ये छायापुरुषस्यागमनं छायातत्त्वानुसारि वर्तते। यामिनीति नभोनाट्ये बिल्हणस्य राजकन्याया यामिन्याश्च ललिता संगमनकथा रूपकायिता।

१९६२ ख्रीष्टाब्दे विक्रान्तभारतं रामलिङ्गमहोदयश्चन्द्रगुप्तमौर्यस्य पराक्रमनीतिं वर्णयितुमरचयत् । नैकेतिहासग्रन्थपरायणेन कविना विषयसामग्री संकलय्य प्रणीतमिदं नाटकमिति वैशिष्टयम् । अस्य संगीतरूपान्तरस्य प्रसारणं १९६३ ई० वर्षस्य १५ अगस्तदिवसे हैदराबादनभोवाणीतोऽभवत् । नाटकेऽस्मिन् ग्रीकशासकान् भारताद्बहिनिस्सार्य चाणक्यचन्द्रगुप्ताभ्यां बृहत्साम्राज्यस्थापनस्य वर्णनं वर्तते । पूर्वकविपरम्परानुसारं नूतनसंविधानायोजनेऽत्र लेखकः साधु प्रवर्तते ।

समानवस्तु मे मनः

[सम्पादयतु]

गजाननबालकृष्णपलसुले पुण्यपत्तने संस्कृतप्रगताभ्यास-केन्द्रस्य प्राचार्यः। तेन भारतवाणीति संस्कृतपाक्षिकं सम्पादितम् । बालकृष्णेन बहूनि नाटकानि विरचितानि । तद्यथा - १. समानवस्तु मे मनः, २. धन्येयं गायनी कला, ३. धन्योऽहं धन्योऽहम् ।

१९६१ खोष्टाब्दे भारतप्रशासनस्य वैज्ञानिकसंशोधनसांस्कृतिककार्यविभागद्वारा “भारतस्यैकात्मतान्वेषणम्” इति विषयमालम्ब्य नाटकप्रतिस्पर्धा समायोजिता । तदर्थं “समानमस्तु मे मनः” इति सर्वोत्तमनाटकं विलिख्य पलसुलेमहोदय एकसहस्ररूप्यकाणि पुरस्कारं लब्धवान् ।

भाषानुसारं राज्यनिर्माणकालेऽसमे बंगे च घटिता अशोभना घटना एवास्य नाटकस्य पृष्ठभूमिः । शारदाग्रन्थमालायां प्रकाशितम् । भारतस्यैक्यार्थं पूर्वविहितप्रयासानां तत्फलानाञ्चाकलनं कविना सम्यक् कृतम्।

धन्येयं गायनीकलेत्येकाङ्कनाटके नायकस्य ठणठणपुरस्थस्य चक्रमादित्यस्य चर्या सर्वथा हास्यपूर्णास्ति । कदाचित्कस्यचिद् गायकस्य राज्ये गायनीकला प्रतिष्ठां लभेत इतीच्छां पूरयन् प्रसन्नो राजा कथयति - भस्तिष्के शोभना आयडिया आता कि राज्य में कोई | गद्यभाषण न करे ! सर्वेण पदनीयम् । जो गद्य बोले, उसे मार डाला जाय—इति । फलतो कालान्तरे राजभवनमेव भस्मीभूतम् ।

धन्योऽहं धन्योऽहमिति नाटके स्वातन्त्र्यं संग्रामेऽग्रगण्य-सेनानायकस्य सावरकरस्य समग्रमुदात्तचरितं चित्रितम् । भाषायाः सारल्यमत्र सर्वथा नाट्योचितं, किन्तु दीर्घभाषणं न कथमपि समीचीनम्।

संयुक्तापृथ्वीराजम्

[सम्पादयतु]

संयुक्ता-पृथ्वीराजमिति नाटकस्य प्रणेता पण्डितप्रवरो योगेन्द्रमोहनः ( १८८६-१९७३ ) आसीत् । नाटकमिदमैतिहासिकं वर्तते । अत्र संयुक्तापृथ्वीराजयोः प्रणयकथा प्रपञ्चिता ।

भारतीविजयम्

[सम्पादयतु]

शठकोपविद्यालंकारस्य भारतीविजयमिति नाटके हिन्दी, उत्कली, द्राविडी, आन्धी, बङ्गो चेत्यादिभाषाः परस्परं संवदन्ति । भारत्या १०:८-९ अङ्कयोः प्रकाशितम् । प्रथमे दृश्ये सरस्वती भुवि समागत्य नृत्यगीतादिकं चरति । द्वितीये ब्रह्मणः सामगानं भवति सरस्वती च वीणां वादयति । तदनन्तरमेकदा आङ्गलः भारतमागत्य स्वीयकूटनीत्या भारतीयभाषाः परस्परं विभेदयितुं ताश्च शासितुं प्रयतते । कदाचिन्नारदाद् “भारतीयभाषा भ्रष्टाः” इति श्रुत्वा ब्रह्मा कमपि महात्मानं भुवि प्रेषयति | सरस्वती च समागता सरस्वत्युपदेशतो भारतीयभाषा आङ्गल्या दुष्प्रभावाद् विमुक्ता भवन्ति । महात्मना कथितम् - न केवलं भारते एव भारतीविजयः, अपि तु विदेशेष्वपि भारतीविजयः उद्घोषितो मया इति ।

चतुर्वाणी

[सम्पादयतु]

चतुर्वणी चतुर्णामेकाङ्करूपकाणां संग्रहो वर्तते । अत्र प्रतिज्ञाकौत्सम्, आनूरवम् , ऐकलव्यम् , पद्मावतीचरण-चारण-चक्रवर्ती चेति चतस्रो नाट्यः संकलिताः । चतुर्वाणी गुण्टुरुतः प्रकाशिता ।

तत्र प्रतिज्ञाकौत्से रघुवंशस्थपञ्चमसर्गस्य कथा प्रथिता । आनूरवे महाभारतस्य कदूविनतयोः कथानकमस्ति । ऐकलव्ये महाभारतप्रसिद्धस्यैकलव्यस्येतिवृत्तं वर्तते । पद्मावतीचरण-चारण-चक्रवर्ती शिवशंकरस्वामिना विरचितान्ध्रनाटिकाया अनुवादमात्रमाभाति। चतुर्वाण्याः प्रणेता कोगण्टिसीतारामाचार्यों न केवलं कविरेवापित्वध्यात्मविद्यायां शास्त्रेषु, तन्त्रादौ च निष्णात आसीत्।

सरस्वती-पूजनम्

[सम्पादयतु]

अङ्कद्वयात्मकस्य सरस्वतीपूजनस्य प्रणेता हेमन्तकुमारतवं तीर्थों वंगीयोऽध्यापको महाकविश्च मन्यते। रूपकेऽस्मिन् गङ्गासरस्वत्योः प्रणयात्मकस्य कलहस्य काल्पनिकं वर्णनं प्रवर्तते । प्रणवपारिजातस्य तृतीचवर्षे प्रकाशितम् । कलहे लक्ष्म्या आक्षेप उपेक्षितः । ततो नारायणस्य माध्यस्थ्येन कथा समाप्यते । अत्र संवादाः सरसाः सन्ति । किंविधं रूपकमिति कोटिं निर्धारयता लेखकेनेदं “रूपकप्रायं किञ्चित्” इति कथितम् ।

अङ्गुष्ठदानम्

[सम्पादयतु]

पञ्चाङ्कस्याङ्गुष्ठदानमिति नाटकस्य प्रणेता उत्तरप्रदेशस्य एटामंडले जातो रामकिशोरो बालकविः। उत्तरप्रदेशे कायमगंजतः १९९३ ई० वर्षे प्रकाशितम् । नाटकेऽस्मिन् महाभारतस्यैकलव्याख्यानं नवतरसंविधानैः संवलितं साधुरूपकायितश्च। रामकिशोरस्यापरं नाटकं ध्रुवमिति पौराणिककथामनुहरति ।

नवोढा वधूः वरश्च

[सम्पादयतु]

प्रहसनस्यास्य प्रणेता कलिकाताविश्वविद्यालय पट्टाभिरामशास्त्री वर्तते । अत्र विविधहास्यसर्जनं सर्वथा शिष्टमुत्कृष्टं चास्ति । कोमलाङ्गी कृष्णकुमारेणोदूढा । किन्तु मनोरमाया विभिन्नव्याजैर्नानयोः संगमनं बहुदिनानि यावद्भवति । निर्वहणे कोमलाङ्गी रहसि “जीवनपर्यन्तं न त्यक्ष्यामि'' इति पत्युः शपथग्रहणेन सत्यं निवेदयति यदहं नपुंसकेति। दिव्यज्योतिः पत्रिका १९६५ में प्रकाशितम् ।

साक्षात्कारः, अजेयभारतञ्च

[सम्पादयतु]

एम० ए०, एम० ओ० एल० इत्युपाधिविभूषितो होशियारपुरे विश्वेश्वरानन्दमंथानस्य प्राध्यापकः शिवप्रसादभारद्वाज उच्चकोटिकः कविः, नाटककारः, निबन्धलेखकश्च । स साक्षात्कारः, अजेयभारतम् , केसरिचंक्रमम् च नाटकानि विरचितवान् ।

साक्षात्कारः शिवप्रसादस्यानुत्तमो भाणः । अस्य पन्था सर्वथा नवीनः । भाणेऽस्मिन् वामदेवनाम्नोऽभ्यर्थिनोऽध्यापकपदाय साक्षात्कारो विद्यते। विश्वसंस्कृते १९६४ ई० वर्षे प्रकाशितः । चयनसमितेरप्रासंगिक-प्रश्नैः शोषणप्रवृत्या च सुशिक्षिता अपि अभ्यर्थिनः कीदृशं क्षुभिता भवन्तीति हास्यरसमालम्ब्यात्र सम्यक् चित्रितम् । अश्लीलतत्त्वानां सर्वथाभाव एतस्य परं विशेषः । अजेयमभारतं शिवप्रसादस्य ध्वनिरूपकमस्ति । विश्वसंस्कृते १९६३ ई० वर्षे प्रकाशितम् । अत्र चीनभारतदेशयोर्युद्धं निदर्शितम् । सर्वे भारतवासिनश्चरमत्यागेन शत्रूणां पराजयाय समर्थीभूताः । केसरि-चक्रमे ध्वनिरूपके स्वातन्त्र्यसेनान्यो लालालाजपतरायस्य समग्रं जीवनं विशदीकृतम् । अत्र नागरिकाणां हृदि लोकसेवाया राष्ट्रसम्मानरक्षणस्य च भावानुद्भावयितुं लेखकः सम्यग् यतते । १९६५ ई० वर्षे विश्वसंस्कृते प्रकाशितम् ।

भूपो भिषक्त्वं गतः

[सम्पादयतु]

भूपो भिषक्त्वं गतः इति रूपकस्य प्रणेता पाण्डुरङ्गतनयो गणेशशास्त्रिलोण्ढे महोदयः पुण्यपत्तनस्य महाविद्यालये कार्यरत आसीत्। नाटकानुसारं प्रोषितभर्तृका निर्मला रुग्णा वर्तते । अर्थाभावात्तस्याश्चिकित्सा न संभवति स्म । तस्याः पुत्रश्चिन्तितः सन् चिकित्सायोजनाय राजमार्गे परिभ्रमति । प्रच्छन्नवेषः सुदर्शननामा राजा तयोर्महान् सहायको भवति, दारिद्रयमेव तयोः सर्वथा निराकरोति । निर्मला बुभुक्षिता आसीन्न खलु रुग्णा । तस्याः दौर्बल्यं चिरं भोजनदानेन चिकित्सितम्। राष्ट्रियभावनामुद्भावयितुं चारित्र्यविकासाय संस्कृतिसमुन्नत्यै चैवंविधनाटकस्याभिनय उपयुक्तोऽस्ति ।

पाणीनीयनाटकम्

[सम्पादयतु]

काशीवास्तव्यो गोपालशास्त्री साहित्य-व्याकरणाचार्यन्यायतीर्थ-पण्डितराज-दर्शन केसरीत्याद्यूपाधिभिरलंकृतः । स्वभावसरलोऽयं स्वातन्त्र्यसेनानी काशीविद्यापीठे ( १९२१ ई०-१९४७ ई०) प्राध्यापकोऽभवत् । वृद्धावस्थायामपि चमोली-मण्डलान्तर्गत-ज्योतिर्मठस्थस्य बदरीनाथ-वेद-वेदाङ्ग-महाविद्यालये प्रधानाचार्य आसीत् । शास्त्रिमहोदस्य पाणिनीयनाटकम्, नारीजागरणम् , गोमहिमाभिनयश्चेति नाटकत्रयं सुप्रसिद्धम्। आययोः प्रकाशनं चौखम्बा विद्याभवनतस्तृतीयस्य च विश्वविद्यालयप्रकाशनतोऽभवत् । पाणिनीयनाटकेऽष्टाध्याय्याः सौविधयेन ज्ञानार्थं योजना प्रकटीकृता । पाणिनेरितिहास-प्रसंगे व्याकरणविकासस्यानुक्रमो रूपायितः । संस्कृत-साहित्य-क्षेत्रे नारीजागरणविषयकं साहित्यं स्वल्पतरमेवास्ति । तत्पूर्तये शास्त्रिमहोदयेन नारीजागरणाख्यं नाटकं प्रणीतम्। भारतीयसंस्कृतिपराणामनेकनारीणामत्र वर्णनं वर्तते। गोमहिमाभिनयनाटके लोकस्याभ्युदयार्थं गवां माहात्म्यं सन्दर्शितम् ।

हर्षदर्शनम्

[सम्पादयतु]

हर्षदर्शनस्य रचयिता डा० बलदेवसिंहवर्मा हिमाचलप्रदेशे शिमलाविश्वविद्यालयस्य प्राचार्यो विभागाध्यक्षश्च। १९१६ ख्रीष्टाब्दे विश्वसंस्कृते प्रकाशितम् । एकाङ्केऽस्मिन् हर्षों स्वभ्रातृघातकं शशांकं पराजयते । अत्र ह्वेनसाङ्गमिलनं यावत्कथा प्रथिता । हर्षस्यौदार्यम्, भारतस्य समृद्धिशालिता, सांस्कृतिकादर्शश्च हर्षेण सहामात्य-बाण-ह्वेनसाङ्गादीनां वार्तालापेन निदर्शिताः। भाषा सरला भावाश्च चरित्रोत्कर्षांधायकाः सन्ति ।

पद्मावती-वरूथिनी

[सम्पादयतु]

यज्ञनारायणेन पद्मावती-वरूथिनी चेति नाटकद्वयं प्रकाशितम्। तत्र पद्मावतीति सप्ताङ्करूपकस्य वर्ण्यविषयो ब्रह्माण्डादिपुराणे वर्णितः । पद्मावत्या सह श्रीनिवासस्य विवाहो वर्तते । अनेकस्थलेष्वत्र रुचिराणि गीतानि लसन्ति । १९६७ ई० वर्षे आन्ध्रप्रदेशस्य गुण्टूरतः प्रकाशितम् ।

तीर्थयात्रा-प्रहसनम्

[सम्पादयतु]

तीर्थयात्राप्रहसनस्य प्रणेता श्रीरामकुबेरो मालवीयः काशीहिन्दूविश्वविद्यालयात् साहित्याचार्यस्योपाधिमवाप्य तत्रैवाध्यापको नियुक्तः । पश्चात्स सेवाकार्यस्यान्तिमे भागे वाराणसेयसंस्कृतविश्वविद्यालयस्य प्राचार्यः साहित्यविभागाध्यक्षश्चाभवत् । अस्य कवित्वं चारु शोभते । १९७३ ई० वर्षेऽयं दिवंगतः ।

तीर्थयात्रा-प्रहसनस्य प्रथमोऽभिनयः संस्कृतविश्वविद्यालपस्य स्थापनादिवसावसरे समायोजितः । अस्य पात्राणि स्वकीयदुराग्रहेण मौर्ख्येण च जनान् सपरिहासं रञ्जयन्ति। १९६६ ई० वर्षे सूर्योदयस्य हीरकजयन्ती-विशेषाङ्के प्रकाशितम् ।

शिववैभवम्

[सम्पादयतु]

बोकिलस्य जन्म १८६० ई० वर्षे सतारामंडले मध्यमवर्गीये परिवारेऽभूत् । एम० ए० उपाधिविभूषितां विद्वानयं महाराष्ट्रशिक्षाविभागस्य निरीक्षको नियुक्तः । पश्चादेष पुण्यपत्तने प्राध्यापकोऽभवत् । अस्य शिववैभवम्, श्रीकृष्णरुक्मिणीयम् , रमामाधवञ्चैतन्नाटकत्रयं सुप्रसिद्धम्।

शिववैभवे शिवाजीमहाराजस्य चारु चरितावली ग्रथिता । श्रीकृष्ण रुक्मिणीये रुक्मिण्या सह श्रीकृष्णस्य विवाहो वर्णितः । रमामाधवे माधवरावपेशवा-प्रथमस्य पराक्रमो विशदीकृतः । स एवात्र चरितनायकोऽस्ति । रमा तस्य पत्नी वर्तते । नाटकमिदमैतिहासिकं राष्ट्रियभावनापरञ्च विलसति।

नाट्य-पञ्चगव्यम्

[सम्पादयतु]

नाट्यपञ्चगव्यस्य कविः पण्डितकुलमण्डनो डा० राजेन्द्रमिश्रः प्रयोगविश्वविद्यालये संस्कृतव्याख्यातृत्वे सेवारतः आसीत्। १९७१ ई० वर्षे जौनपुरस्य द्रोणीपुरतः प्रकाशितम् । वामनावतरण-महाकाव्येन तस्य प्रौढकाव्यसर्जनत्वं सुप्रसिद्धम्।

नाट्यपञ्चगव्यस्य पञ्चसु रूपकेषु प्रथमं कविसम्मेलनं वर्तते । अत्र कालिदासाश्वघोषादिभिः अष्टकविभिः सूत्रधारसाहचर्येणानेके विषयाः वर्णिताः। द्वितीये राधामाधवीये मथुरां प्रति प्रस्थिते कृष्णेन राधाया आश्वासनं चर्चितम्। तृतीये फन्टूसचरितमिति भाणे हास्यं शिष्टतया प्रयुक्तम् । अत्र मातुलपुत्रिकाया वागुरायाः प्रणयी विटस्थानीयो वर्तते । चतुर्थे नवरसप्रहसने प्रतीकपात्राणां नवरसानां साहचर्येण वीरभद्रस्य रौद्रपाणिकन्यया विवाहः सम्पादितः। पञ्चमे कचाभिशापे पुराणेतिहासप्रसिद्धं कचदेवयान्योः कथावस्तु प्रपञ्चितम् ।

प्रबुद्ध-भारतम्

[सम्पादयतु]

प्रबुद्धभारतस्य रचयिता रामकैलासपाण्डेयः प्रतिभाशाली कविः मन्यते । १९६१ लीडाब्दे सूर्योदयपत्रिकायां प्रकाशितम् । तेन विरचितस्य भारतशतकस्य प्रौढिः समादृता वर्तते । प्रबुद्धभारते पात्रद्वयमस्ति । पात्रे व्याख्यानात्मकसंवादैर्देशस्य जागरणमधिकृत्य स्वकीयविचारान् प्रकटीकुरुतः । स्वीयं पुराणेतिवृत्तं प्रस्तुतीकृत्य भारतमाता लोकान् प्रोत्साहयति यदद्य पाकस्तानस्य कश्मीराधिग्रहणप्रयासस्य वैफल्येन मम क्रोडस्थली धन्या विलसति ।

सत्सङ्ग-विजयम्

[सम्पादयतु]

सत्सङ्गविजयस्य प्रणेतारं नवनीतशास्त्रिणमधिकृत्य सूत्रधारः कथयति -

योऽसौ सुगन्धपुरवैजकुलप्रसूतो

राजादिरामतनयो रघुनाथशिष्यः।

सत्तर्कशास्त्रपरिशीलनतत्परोऽस्ति

श्रीजीवनाश्रितजनः खलु मोहमय्याम्।।

सत्सङ्गविजयं प्रतीकं नाटकं वर्तते । अत्र कुमतिः, व्यभिचारः, दुराग्रहः, दुष्टसिद्धान्तः, मिथ्याभिशापश्च विपक्षीभूय सत्सङ्गं पराजेतुं काङ्क्षन्ति, किन्तु स्वयमेव विजिताः सन्ति । १९६५-६६ ई० वर्षयोः संविदि प्रकाशितम् ।

समीहित-समीक्षणम्

[सम्पादयतु]

सुब्रह्मण्यशर्मणः समीहितसमीक्षणे चतुषु दृश्येषु गुरोः शिष्याणां चित्रभानु-माधव-हरिदासादीनां दुष्प्रवृत्तयो वर्णिताः। १९६७ ई० वर्षे अमृतलतायां प्रकाशितम् ।

नाटये च दक्षा वयम्

[सम्पादयतु]

अस्य प्रहसनस्य प्रणेता वा० का० क्षीरसागरः प्राध्यापकोऽस्ति । सूर्योदये ४३-४-५ अंकयोः प्रकाशितम् । एतदनुसारं विक्रमोर्वशीयस्याभिनयः कस्याञ्चित् प्रतियोगितायां सूत्रधारः प्रयोक्तुं यतते । किन्तु पदे पदे पात्राणां दुर्व्यवहारैरतिखिन्नोऽसौ निर्वहणे कथयति -

“भगवति नाट्यदेवते ! रक्षात्मानमीडशेभ्यो नटवरेभ्यो नाटकेभ्यश्च” इति।

उपनिषद्-रूपकाणि

[सम्पादयतु]

उपनिषद्रूपकाणां रचयिता के० वी० पाण्डुरङ्गी बंगलौर-महाविद्यालयस्य संस्कृत-विभागाध्यक्षः आसीत् । १९६८ ई• वर्षे बंगलौरतः प्रकाशितम् । अस्मिन् रूपकसंग्रहे रूपकचतुष्टयं प्रकाशितम् । एतेषां प्रसारणं बंगलौर-धारवाड-नभो वाणीभ्यामभवत् ।

प्रथमे रूपके छान्दोग्योपनिषदः सत्यकाम-जाबालयोः कथा वर्तते । द्वितीयं रूपकं “जनकराजसभा'' इत्यस्ति | तृतीयचतुर्थे क्रमशः ‘कं ब्रह्म खं ब्रह्म’ ‘क्व एष विज्ञानमयः पुरुष' इति च स्तः । पाण्डुरङ्गीप्रणीते तपः फलमित्येकाङ्के कुमारसंभवानुसारं पार्वतीतपोवर्णनं विलसति।

जवाहरलालनेहरु-विजयम्

[सम्पादयतु]

जवाहरलालनेहरुविजयमिति नाटकस्य रचयिता साहित्य-व्याकरणायुर्वेदाचार्यो रमाकान्तमिश्रश्चम्पारण्ये नरकटियागंजस्य संस्कृतविद्यालये प्रधानाध्यापकत्वेन दायित्वान् आसीत्। १९६८ ख्रीष्ट्राब्दै चौखम्बा-विद्याभवनतः प्रकाशितम् । नाटकमिदमाधुनिकशैलीविशिष्टं वर्तते । प्रधानतोऽत्र जवाहरलालमस्य गौणतस्तस्य परिवारस्य च भारतस्य स्वतन्त्रतायै त्यागो वर्णितः । निर्वहणे भारतस्वतन्त्रं भवति, नेहरुश्च प्रथमप्रधानमंत्रिपदमलंकरोति।

कलिकौतुकम्

[सम्पादयतु]

आचार्यो विश्वनाथमिश्रः पूर्वोत्तरप्रदेशवास्तव्यः सुदीर्घकालतो बीकानेरस्य शार्दूलविद्यापीठे प्राचार्यपदम् अलङ्कृतवान्। तेन प्रणीतानि नाटकानि विद्यापीठस्य वार्षिकोत्सवेषु प्रायशोऽभिनीतानि सन्ति । तस्य कलिकौतुकं, वामनविजयं, कविसम्मेलनं च प्रसिद्धानि नाटकानि। कलिकौतुकमाधुनिकशैलीविशिष्टं प्रतीकात्मकमेकाहूं वर्तते । श्री श्रार्दूलसंस्कृतविद्यापीठ-पत्रिकायां (१९६६-६७ ) प्रकाशितम् । अत्र परीक्षितस्य राज्यकाले कलेः कुकृत्यानि विशदीकृतानि। वामनविजयाख्ये नाटके पुराणप्रसिद्धो वामनावतारो वर्णितः। भारस्यां १९-११ अंके प्रकाशितम् । कविसम्मेलनं प्रहसनमेव । अत्र कवयोः विविधभाषामिश्रपदावलीविशिष्टं पद्यं परिहासात्मकं श्रावयन्ति । भारत्या २१. १ अंके प्रकाशितम् ।

एकलव्य-गुरुदक्षिणम्

[सम्पादयतु]

षडङ्केषु विभक्तस्यास्य नाटकस्य प्रणेता दुर्गाप्रसन्नदेवशर्मा बंगवासी वर्तते । १९७० ई० वर्षे संस्कृतपरिषदि प्रकाशितम् । अस्याभिनयः कालिकातायाः संस्कृत-साहित्यपरिषदो वार्षिकोत्सवे प्रयोजितः । रूपकमिदं द्रोणाचार्यस्य दैन्यविशिष्टवैषम्यादारभ्य एकलव्यस्याङ्गुष्ठदानं यावन्महाभारतानुसारं प्रवर्तते ।

मेघोदयम्

[सम्पादयतु]

सुब्बूरामस्य मेघोदये विभाण्डपुत्रो बालब्रह्मचारी ऋष्यशृङ्गः राज्ञो लोमपादस्यानुरोधेन तस्य राज्ये मेघान् वर्षयति । राजा स्वकन्यां तस्मै समर्पयति । १९७० ख्रीष्टाब्दे संस्कृतप्रतिभायाः द्वितीयविलासे प्रकाशितम् ।

महागणपति-प्रादुर्भावम्

[सम्पादयतु]

कर्नाटकवास्तव्यो हारीतोपनामा साम्बदीक्षितो महागणपतिप्रादुर्भावमिति नाटकस्य प्रणेता वर्तते । १९७४ ई० वर्षे प्रकाशितम् । विद्वानसौ वेद-व्याकरणादेः श्रौतस्मार्त-कर्ममाण्डस्य च मर्मज्ञः सुप्रसिद्धः। नित्यानन्दचरितमिति संस्कृतकाव्यं तस्य कवित्वं प्रकटयति । नाटकमिदं तेन तरुणावस्थायां निष्पादितम् । पञ्चाङ्कनाटकमिदं गणेशचतुर्दश्यामभिनययोग्यमस्ति । अत्र सिन्धुरनाम्नो दैत्यस्योत्पातैः प्रपीडितान् देवान् रक्षितुं शिवस्य पुत्रो महागणपतिः पराक्रमते।

पातव्रत्यम्

[सम्पादयतु]

सुखभयस्य पातिव्रत्यं विद्यामन्दिरं चेति प्रसिद्धमेकाङ्कद्वयम् । पातिव्रत्ये मनसादेव्याः पूजनप्रवर्तिका कथा विलसति । बेहुला स्वकीयपातिव्रत्यबलेन देवान् प्रसाद्य मृतं स्वामिनं पुनर्जीवयति । कौटुम्बिकनाटकमिदमादर्शपरं मनोहरमेव । विद्यामन्दिरे भारतीय-विद्यालयानां दुरवस्था चर्चिता । प्रधानतस्तत्र छात्राणां दुष्प्रवृत्तयः संकेतिताः सन्ति।

देवी-प्रशस्ति-नाटकम्

[सम्पादयतु]

काव्यव्याकरणस्मृतितीर्थ-विद्याविभूषणो बङ्गदेशस्य वर्धमानमण्डले पुराणपुरग्रामे समुत्पन्नः पण्डितो ललितमोहनो देवी-प्रशस्ति-नाटकस्य प्रणेता । अत्र राज्यच्युतस्य राज्ञः सुरथस्य विरक्तस्य समाधिनाम्नो वैश्यस्य च देव्याः प्रसादेनाभ्युदयकथा प्रस्तुता ।

हकीकतराय-नाटकम्

[सम्पादयतु]

एकाङ्कस्य हकीकतरायनाटस्य प्रणेता हजारीलालशर्मा हरियाणाप्रदेशे लज्जारामसंस्कृतमहाविद्यालये प्रधानाचार्यः आसीत्। प्रणवपारिजाते १४.२, १६.१ अङ्कयोः प्रकाशितम् । अस्य प्रकाशनं लेखकेन स्वयं कृतम् । नाटकेऽस्मिन् वीरबालकस्य हकीकतरायस्यादर्शचरितं चित्रितम् । धर्मान्धाभ्यां काजीन्यायाधीशाभ्यां मृत्युङ्गमितोऽसौ वीरः । तत्सर्वं विज्ञापितः सम्राट् शाहजहाँ काजीन्यायाधीशयो रावीजले समाधिं प्रापितवान् । सम्राड् आत्मानं हकीकतरायस्थानीयं घोषयित्वा हकीकतस्य पित्रोः सपुत्रतां विहितवान्।

विवेकानन्द-विजयम्

[सम्पादयतु]

विवेकानन्दविजयस्य प्रणेता श्रीधरभास्कराचार्यवर्णेकरः संस्कृतवाग्धाराप्रवाहकः सुप्रसिद्ध एव । नितरां कर्मठोऽयं मनीषी नागपुरविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः प्राचार्यश्चासीत् | डी० लिट् उपाधिविभूषितोऽयं मनीषी विविधकाव्यविधासु रचनाभिः सुरभारतीं समृध्यति। चरितात्मकेऽस्मिन् विवेकानन्दविजयाख्ये दशाङ्कनाटके भाषायाः सारल्यं नाट्योचितं वर्तते । किन्तु बहुत्रातिदीर्घाः संवादा व्याख्यानवत्प्रतिभान्ति । राष्ट्रियचरित्रनिर्माणे विवेकानन्दविजयाभिनयस्य सामर्थ्यमन्यूनमेवास्ति ।

पाददण्डम्

[सम्पादयतु]

सागर-विश्वविद्यालयस्य प्रवाचिका श्रीमती डा० वनमाला भवालकरमहोदया मराठीभाषया संस्कृतभाषया भारती-भण्डारं सुष्ठ सम्भृतवती । सा न केवलं लेखिका, अपि तु स्वयमेव प्रयोग-निर्देशिका, संगीतज्ञाभिनेत्री च सुप्रवीणा | उत्तरप्रदेशशासनेन पुरस्कृते पाददण्डमिति नाटके नायकः सुधीरः युद्धे एकपादहीनः पूर्वत एव प्रणयानुबद्धां ललितामुद्वाह्य पाददण्डं सजीवं लभते । रामवनगमनमिति संगीतिकायां विविधतालरागादिनिष्पन्नगीतैः यथानाम रामस्य वन-गमनकथा वर्णिता | पार्वतीपरमेश्वरीयमिति संगीतिकायां महादेवस्योद्वाहोऽभिनेयतां प्रणीतम्। एतानि सर्वाणि नाटकानि सागर वि.वि. संस्कृत-परिषदः प्रकाशितानि ।

इन्दिरा-विजयम्

[सम्पादयतु]

वेङ्कटरत्नप्रणीतस्यास्य नाटकस्य कथा मुजीबस्य बन्धनकालादारभ्य बांगलादेशस्योत्पत्तिकालपर्यन्तं प्रवर्तते । तत्र पदे पदे इन्दिरायाः औदार्यादिगुणाः पाकिस्तानशासकानां दुष्प्रवृतयश्च वर्णिताः।

बंगलादेश-विजयम्

[सम्पादयतु]

बंगलादेशविजयस्य रचयिता उत्तरप्रदेशस्य पिथौरागढमण्डले सिंगौली-ग्राम-वासी पद्मशास्त्रीं सम्प्रति राजस्थानस्य भीलवाडामंडले राजकीयोत्तरमध्यविद्यालयस्य संस्कृताध्यापकः आसीत् । १९७३ ई० वर्षे प्रतिभायाः १०२ अङ्के प्रकाशितम् । यद्यपि नाम्नेवास्य कथानकं स्पष्टं तथापि प्रधानामात्येनामदेन साकं नारदेन्द्रादीनां वार्तालापः, इन्द्रिया च नारदादि प्रति माल्यार्पणमित्यादिप्रसंगास्तत्र सविशेषमुपन्यस्ताः । तेन खलु लेखकस्य हृदिस्थं रामणीयकं प्रकटीभवति ।

वरूथिनी-प्रवरम्

[सम्पादयतु]

विजयपट्टनस्य ए० वी० एस० कलामहाविद्यालये व्याख्यातृपदे नियुक्तो वेङ्गुलसुब्रह्मण्यशास्त्री वरूथिनीप्रवरमिति नाटकस्य प्रणेता । १९७४ ख्रीष्टाब्दे वाक्टेयरनगरे प्रकाशितम् । एकाङ्केऽस्मिन् “प्रवरः चामत्कारिकेणौषधिविशेषप्रयोगेण यथेच्छस्थानं हिमालयं क्षणातन्तरमेवोपगच्छति । तस्य लेपः कुत्रापि विलुप्तः । तत्र दैवादागताप्सरा वरूथिनी तं प्रत्यासक्ता । तां तिरस्कृत्य पलायितवानसौ । तस्य वियोगे रुदत्योऽप्सरसः समाश्वासनाय समागताभिः सखिभिर्मायाप्रवरो निर्मितः । तेन सा परिणीता । तयोः समागमेन मनुस्वारोचिरजायत।

प्रेम-पीयूषम्

[सम्पादयतु]

प्रेमपीयूषस्य प्रणेता डा० राधावल्लभत्रिपाठी सागरविश्वविद्यालये संस्कृतविभागस्य व्याख्यातृपदे सम्प्रतिष्ठितः। १९७४ वर्षे सागर वि० संस्कृतपरिषदा प्रकाशितम् । हिन्दीसंस्कृतरचनाभिः स बहुशः पुरस्कृतः। सप्ताङ्केऽस्मिन् प्रेमपीयूषनाटके महाकविभवभूतेः जीवनचरितं समुपनिबद्धम् । तत्र ललितादित्ययशोवर्मणो_ विग्रहो यशोवर्मणः पराजयश्चैतिहासिकी घटना कलात्मकसंविधानैः सम्पृक्ता सम्यक् प्रपञ्चिता ।

भारतमस्ति भारतम्

[सम्पादयतु]

श्रीहरदेवोपाध्यायस्य भारतमस्ति भारतमिति रूपकानुसारं याहियाखानस्य सैनिकैः प्रपीडितं बंगलादेशस्य कञ्चित्परिवारं कश्चिद्भारतीयो भारतमानयति । स तेषां शरण्यो भवति । १९७३ संस्कृतप्रचारक-पत्रिकायां प्रकाशितम् ।

च्यवनभार्गवीयम्

[सम्पादयतु]

अहमदनगरस्य विदुषः कविराजस्य डा० दे० ख० खरवण्डीकरस्य प्रवेशपञ्चके विभक्तेऽस्मिँल्लघुनाटके प्रस्तावना नास्ति | कथा मूलतः शतपथब्राह्मणाश्रिता प्रवर्तते । १६७४ ई० वर्षे नाटकमिदं लेखकेनैव प्रकाशितम्।

कचदेवयानीयम्, पाशुतपतञ्च

[सम्पादयतु]

मेदिनीपुरस्थोऽधीरकुमारसरकारः कचदेवयानीयम् , पाशुपतं चेति नाटकद्वयं विरचितवान् । तत्र प्रथमे देवासुरसंग्रामप्रसंगे समागता कथा वर्तते । पाटलश्रियां १९७३ इ० वर्षे प्रकाशितम् । द्वितीयं किरातार्जुनीयमनुसरति । तदनुसारमर्जुनः शिवात् पाशुपतास्त्रं लभते । पाटलाश्रय १९७३ ६० वर्षे प्रकाशितम् ।

यमनचिकेतसीयम्

[सम्पादयतु]

जगदीशप्रसादसेमवालस्य अस्मिँल्लघुनाटके आध्यात्मिकं जीवनदर्शनं सम्यग् विश्लेषितम् । प्रणवपारिजाते १६.८-९ अङ्कयोः प्रकाशितम् । कथा मूलतः कठोपनिषदमुपजीवति । तत्र कतिपय संविधानानि कविनाविष्कृतानि ।

परमसन्धिक्षणे देवपुरुषकारौ

[सम्पादयतु]

एम० ए० उपाधिधारी चण्डीदासनन्दशर्मा “परमसन्धिक्षणे दैवपुरुषकारौ” इति रूपके रामरावणयोः पुरुषकारदैवयोः, कर्णार्जुनयोः, तुलसीदासतच्छ्शुरयोश्च संवादा विलसन्ति । निर्वहणे देवपुरुषकारौ नारायणसदनं गच्छतः । नारायणस्तावाश्लिष्य कथयति “नास्ति पृथक् प्रतीतिरावयोः” इति । नाटकं नितान्तं रोचकं निष्पन्नम् ।

सुधाभोजनम्

[सम्पादयतु]

सुधाभोजनस्य प्रणेता डा० अशोककुमार कालिया लखनऊविश्वविद्यालयस्य व्याख्याता नियुक्तः । १९७४ ई० वर्षे लखनऊपुरीतः “अखिलभारतीयभंस्कृतपरिषदि” प्रकाशितम् । सुधाभोजने देवराजस्य शक्रस्य चतसॄणां कन्यानां स्वकीयश्लेष्ठताविषयकविवादस्तस्य निर्णयश्च वर्तते । नाटके गीतिप्रवणता नाट्योचितैवास्ति । कृतावस्यां कवेः काचिन्नूतना नाट्यसरणिरभिनन्दनीया।

कः श्रेयान्

[सम्पादयतु]

कः श्रेयानिति नाटकस्य प्रणेता गजेन्द्रशंकरलालशंकरपण्ड्या गुर्जरदेशीयो हास्यकविरस्ति | प्रहसनेऽस्मिन् धूर्तपुरपाठशालाया आचार्यः शौनकः सामाजिकवैषम्यं भ्रष्टाचारं च सविनोदं प्रपञ्चयति । १९७६ ई० वर्षे संविदि प्रकाशित।

नचिकेतश्चरितम्

[सम्पादयतु]

नचिकेतश्चरितमित्येकाङ्कस्य कवयित्री ब्रह्मचारिणी वेलादेवी एम० ए०-तर्क-वेदान्त-व्याकरणतीर्थोपाधिभिः समलंकृता वर्तते । नाटकस्य कथावस्तु कठोपनिषदमुपजीवति । अभिनवसंविधानैः संवलितमिदं बालेभ्यः साधु रोचते । प्रणवपारिजातस्य १९७६ वर्षस्याकेषु प्रकाशितम् ।

कोङ्ग्रेसपराभवम्

[सम्पादयतु]

डा० रेवाप्रसाद्विवेदिनो जन्म १९३५ ई० वर्षे मध्यप्रदेशस्य नर्मदातटे नादनेरनाम्नि ग्रामेऽभूत् । बाल्ये संस्कृतज्ञेन पित्रा शिक्षितोऽयं काशीहिन्दूविश्वविद्यालयस्य साहित्याचार्योपाधिमर्जित्वा जबलपुरविश्वविद्यालयस्य डी० लिट् इत्युपाधिं शोधनिबन्धेनावाप्तवान् । सीतारितचमहाकाव्यस्य प्रणेतायं मनीषी विविधकाव्यादिरचनाभिः सुरभारती समृध्यन् काशीहिन्दुविश्वविद्यालये संस्कृतसाहित्यविभागाध्यक्षपदे प्रतिष्ठितः । द्विवेदिना कांग्रेसपराभवं यूथिका चेति नाटकद्वयमद्यावधि विरचितम् ।

कांग्रेसपराभवस्य कथावस्तु प्रयागोच्चन्यायालयेन भूतपूर्वप्रधानमंत्रीन्दिराया निर्वाचनस्य निरसनात् प्रारभ्यते । निर्णयानुसारमिन्दिरया पदं त्याज्यमासीत् । किन्तु कालान्तरे सौभाग्यवशात् सर्वोच्चन्यायालयेन प्रयागीयनिर्णयो निरस्तः । इन्दिरायाः कूटनीत्योदग्रीभूताः क्रान्तिपरा नेतारः इन्दिराशासनं समापयितुं कृतप्रयत्ना अभवन् | तेषां दमनाय सा आपातस्थित्यासंख्यकान् निरपराधजनान् बन्दीकारितवती । किन्तु १९७७ ई० वर्षस्य केन्द्रीयनिर्वाचने तस्याः कांग्रेसदलेन्यक्कृतम् । अनेन प्रकारेण राजमदान्विताविमृश्यकारिता दुष्परिणमिता।

डा० द्विवेदिनो “यूथिका” नाटिका शेक्सपीयरस्य रोमियोजुलियटमिति नाटकमुपजवति । अस्याः प्रणयनं प्रकाशनञ्च १९७६ ई० वर्षेऽभवताम् । अत्र भाषाभावयोः सामञ्जस्यं सर्वथा नट्योचितं वर्तते।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=विंशतिशतकस्य_नाटकानि&oldid=439254" इत्यस्माद् प्रतिप्राप्तम्