कामः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
धर्ममधिकृत्य अस्माभिः पूर्वमेव विवेचितम् । अधुना कामपुरुषार्थम् अधिकृत्य चिन्तयामः । 'श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च' इत्यत्र निर्दिष्टानां पञ्चज्ञानेन्द्रियाणां विषयेषु तृप्तेः वासना एव कामः । तत्र स्पर्शविशेषजन्यं रतिसुखम सर्वश्रेष्ठम् । इत्यतः प्राधान्येन व्यपदेशः इति न्यायेन रतिसंबन्धिनी वासना एव कामः इति प्रायः निगद्यते । 'सर्वेऽपि सुखिनः सन्तु’ इति संकल्पं कृत्वा शास्त्ररचनायां प्रवृत्ताः शास्रकाराः सुखदायिन्यः वासनाः न निन्दन्ति । अपि तु तेषां तृप्तिः अवश्यं कर्तव्या इति दर्शयितुमेव कामः पुरुषार्थरुपेण प्रतिपादितः । अस्माकं भगवान् अपि 'आप्तकामः’ इति वर्ण्यते । एवं कामतत्त्वं न गर्हणीयं न त्याज्यम् अपि तु अवश्यं सेवनीयम् । श्रीमद-भगवद्गीतायां भगवान् श्रीकृष्णः ब्रूते 'भूतेषु कामोऽस्मि भरतर्षभ' इति । चतुर्षु पुरुषार्थेषु अहं कामः अस्मि इति । किन्तु तत्र केवलम् एकः पूर्वसमयरुपेण निर्बन्धः वर्तते । तेन कामेन धर्माविरोधेन भाव्यम् । तत्रोक्तं 'धर्माविरुध्दो भूतेषु कामोऽस्मि भरतर्षभ' इति । एवं यदि कामः नाम वासनातृप्तिः अभिमता शास्त्रकाराणाम् इति विचिन्त्य कोऽपि कामपि लावण्यवतीं ललनां दृष्ट्वा तां धर्षितुम् इच्छेत् वा कस्यापि धनिकस्य वित्तम् आहर्तुं प्रवृत्तो भवेत् तर्हि तत्र धर्मः 'मातृवत् परदारेषु परद्रव्येषु लोष्ठवत्’ इति ब्रुवन् तं वारयेत् ।
धर्मेण व्यष्टिः समष्टिः इत्युभयोः कल्याणार्थं चतुर्विधाः पुरुषार्थाः उपदिष्टाः इत्यस्माभिः दृष्टमेव । एवं कामस्यापि द्विविधो हेतुः –एकः व्यष्टिनिष्ठः अपरः समष्टिनिष्ठः वर्तते । तत्र् व्यष्टिनिष्ठः हेतुस्तु सुखावाप्तिः ।रतिसुखं सर्वाणि अन्यानि सुखानि अतिशेते इति तु विश्रुतमेव । अत एव भारते विषयेऽस्मिन् अधिकं सुखं कथं प्राप्येत्, सुरतिः कथं निष्पद्येत् इति विवेक्तुं वात्स्यायनेन कामसूत्रस्य रचना कृता । कामसूत्रकारः कामम् एवं व्याख्याति –‘स्पर्शविशेषविषयत्वस्याभिमानिकसुखानुविध्दा फलवती अर्थप्रतीतिः प्राधान्येन कामः (का. सू. १-२-१२) इति । अत्र फलवती इत्यनेन शब्देन रतिसुखम् अपि संतानोत्पत्तिरुपप्रयोजनेन सेवितव्यं, सा एव कृतार्थता कामस्य इत्युक्तम् । रघुवंशीयानां वर्णने कालिदासोऽप्याह –‘प्रजायै गृहमेधिनाम्’ इति । एवं सुप्रजाजननं भवति समष्टिनिष्ठि द्वितीयः हेतुः कामस्य । इदं भारतीयविचारधारायाः एव् वैशिष्ट्यम् । संपूर्णसमाजस्य बलम् सुसंततिसापेक्षम् । यदि संततिः निरोगा सुदृढा बलसंपन्ना च स्यात् तर्हि समाजोऽपि तादृशः स्यात् । यदि केवलम् अनिर्बन्धं रतिसुखमेव काम्येत् तर्हि समाजः विच्छिद्येत । अतः समाजकल्याणार्थं तत्र निर्बन्धाः आवश्यकाः सन्ति । समष्टिकल्याणार्थं व्यष्टिसुखस्य संकोचः अपेक्ष्यते । तत्र धर्मस्य अंकुशः कामस्योपरि सुप्रतिष्ठितो भवति । धर्मेण विरुद्धः कामः निन्दितः तिष्ठति । तत्रोक्तं श्रीमद्भगवद्गीतायाम् –
- काम एष क्रोध एष रजोगुणसमुद्भवः ।
- महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥
यथा चतुर्विधेषु पुरुषार्थेषु अन्यतमः पुरुषार्थः भवति कामः तथा षड्रिपुषु अपि भवति अन्यतमः रिपुः कामः । एकः सेव्यः अपरश्च त्याज्यः । एतयोः द्वयोः कः भेदः । तत्रोच्यते –धर्मेण अविरुद्धः कामः रतिसौख्यप्रदानेन व्यष्टेः सुखाय भवति तथा सुप्रजोत्पादनेन समष्टेः अपि कल्याणाय कल्पते । तथा अनियन्त्रितः कामः व्यष्टेः स्वास्थ्यं सौख्यं च नाशयति । अनिर्बन्धेन् कामाचरणेन समाजोऽपि द्रुतगत्या विनाशपथे अग्रेसरो भवति । अतः भारतीय –शास्त्रकारैः पुनः पुनः कामादिविकारेभ्यः सतर्कता उपदिष्टा तत्रोक्त्ं गीतायाम् –
- त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
- कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥१६-२१॥
बाह्यसम्पर्काः
[सम्पादयतु]- About.com page[नष्टसम्पर्कः]
- Kamadeva's holy sacrifice Archived २०१८-०३-२२ at the Wayback Machine