वास्तुशास्त्रम्
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
वास्तुविज्ञानं सर्वकालोपयोगि
[सम्पादयतु]सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि चास्मिन् भारते देशे बहोः कालादविनष्टा एव विलसन्तीत्यानुभविकम् । न चैतद् यादृच्छिकं भवतुमर्हति । अत्र वास्तुतत्त्वशास्त्रानुसारेण निबध्दानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टाः वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । वास्तुशास्त्रमवश्याध्येयं, विज्ञेयं च सर्वैरपि । वास्तुशास्त्रग्रन्थाः सन्त्यनेकेऽस्मिन् देशे । अत्र तु प्राधान्येन सनत्कुमारप्रणीतगृहवास्तुग्रन्थमवलम्ब्य विशयवैमर्शः कृतः ।
गृहनिर्माणप्रशस्ताः मासाः
[सम्पादयतु]चैत्रमासे गृहनिर्माणे द्रव्यनाशः भयं च । वैशाखे शुभम् । ज्येष्ठे मृतिः । आषाढे पशुनाशः । श्रावणे पुत्रर्ध्दिः । भाद्रपदे पुत्रादीनां रोगभीः । आश्वयुजे कलहः । कार्तिके द्रव्यलाभः । मार्गशीर्षे भयम् । पुष्ये अग्निदाहः । माघे सन्ततिवृध्दिः । फाल्गुने रत्नलाभः । तदुक्तम् –
“ | गृहसंस्थापनं चैत्रे धनहानिर्महाभयम् ।
वैशाखे शुभदं विद्यात् ज्येष्ठे तु मरणं ध्रुवम् ॥ आषाढे गोकुलं हन्ति श्रावणे पुत्रवर्धनम् । प्रजारोगं भाद्रपदे कलहो अश्चयुजे तथा ॥ कार्तिके धनलाभः स्यात् मार्गशीर्षे महाभयम् । पुष्ये चाग्निभयं विद्यात् माघे तु बहुपुत्रवान् । फाल्गुने रत्नलाभः स्यात् मासानां च शुभाशुभम् [१] ॥ |
” |
गृहनिर्माणं शुभवासरे कार्यम्
[सम्पादयतु]न यस्मिन् कस्मिन् वासरे गृहनिर्माणं कर्तव्यम्, अपि तु प्रशस्त एव । तथा हि- भानुवासरे गृहारम्भे अह्निदाहः शुक्लपक्षे सोमवासरे गृहारम्भे वृध्दिः । कृष्णपक्षे सोमवासरे कलहः नाशश्च । कुजवासरे तदंशे, तल्लग्ने स्तम्भप्रतिष्ठादिकरणे गृहदाहः यजमानस्य मृतिश्च । बुधवासरे ऎश्वर्यवृध्दिः । गुरुवासरे सवार्थसिध्दिः । शुक्रे बहुसुखम् । मन्दवासरे चोरभयम् । तस्मात् विहितदिने विहितवासर एव गृहारम्भः कार्यः । तदुक्तम् –
“ | भानुवारे कृतं वेश्म वह्निना दह्यते चिरात् ।
चान्द्रे च वर्धते शुक्ले क्षीयते कृष्णपक्षके ॥ भौमवासरे तदंशे वा तल्लग्ने सप्तमेऽपि वा । दह्यते (तद् गृहं) शून्यं कर्तुर्मरणमेव च ॥ बुधवारे धनैश्वर्यं सुखपुत्रसमन्वितम् । भृत्यवाहनधान्यानि धनान्याङ्गिरसे दिने ॥ भृगुवारे चिरं तिष्ठेत् कर्ता च सुखसम्पदा । चिरं तिष्ठेन्मन्दवारे तस्कराणां भयावहः ॥ [२] |
” |
योग्यनक्षत्राणि
[सम्पादयतु]मृगशीर्षक- हस्ता –रेवती-चित्ता अनुराधा –उत्तराषाढा – उत्तराभाद्रा –श्रवण पुनर्वसु –शतभिषा- धनिष्ठा –अश्विनीनक्षत्राणि गृहारम्भाय सुखदानि च । तदुक्तम्
वास्तुपुरुषपूजा
[सम्पादयतु]शैववैष्णवतन्त्रागमग्रन्थेषु वास्तुपुरुषकथा भिन्नैव श्रूयते । वैष्णवतन्त्ररीत्या वास्तुर्वराहरुपिणो हरेः सुतः । देवतैः भूमौ पातितः । चतुरस्राकृतिः स्थितश्च । तदुपरि ब्रह्मादयः देवाः सन्निहिताः । तान् यथाविधि सम्पूज्य गृहादि निर्मेयम् । तदुक्तम् –
“ | पूजयेद् वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।
देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः । पातितो देवतैर्भूमौ चतुरस्राकृतिः स्थितः ॥[३] |
” |
शैवग्रन्थेष्वन्यैव कथा श्रूयते – अन्धकासुरसंहारे क्रुध्दस्य शूलिनः स्वेदबिन्दुः भूमौ पतितः । स्वेदबिन्दुरेव द्यावापृथिवीमभिव्याप्य वास्तुपुरुषरुपेणोदतिष्ठत् सर्वभयङ्करः । ततश्च देवतैर्भूमौ पातितः । मन्दिरादिनिर्माणकाले तत्पूजनाय वरश्च देवैः प्रदत्तः । तदुक्तम् –
“ | सङ्ग्रामेऽन्धकरुद्रयोश्च पतितः स्वेदो महेशात् क्षितौ
तस्माद् भूटमभूच्च भीतिजननं द्यावापृथिव्योर्महत् । तद्देवैः सहसा निगृह्य भूमावधोवक्तृकं देवानां वचनाच्च वास्तुपुरुषस्तेनैव पूज्यो बुधैः[४] ॥ इति |
” |
गृहनिर्माणक्रमः
[सम्पादयतु]भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य लोष्टाश्मास्थिविवर्जिते देशे गृहं निर्मेयम् । पूर्वस्यां दिशि स्नानगृहं कार्यम् । आग्नेये पाकशाला विधेया । दक्षिणस्यां दिशि स्वापशाला । नैऋत्यां दिशि आयुधशाला । पश्चिमे भोजनशाला । वायव्ये पशुशाला । उत्तरस्यां दिशि द्रव्यनिक्षेपगृहं कार्यम् । ईशान्ये देवमन्दिरम् । तदुक्तम् –
“ | स्नानागारं दिशि प्राच्याम् आग्नेय्यां पचनालयम् ।
दक्षिणे शयनागारं नैऋत्यां शस्त्रमन्दिरम् ॥ पश्चिमे भोजनागारं वायव्ये पशुमन्दिरम् । भण्डारं चोत्तरस्यां तु ईशान्यां देवमन्दिरम् ॥[५] |
” |
उक्तं चान्यत्र –
“ | स्नाताम्मि पाकशयनास्रभुजेश्च
धान्यभाण्डारदैवतगृहाणि च पूर्वतः स्युः । तन्मध्यतोऽथ मथनाज्यपुरीष- विद्याभ्यासाख्यरोदनरतौषधसर्वधाम ॥ [६] |
” |
वापीकूपतटाकनिर्माणम्
[सम्पादयतु]कूपादिनिर्माणं उत्तरस्यां पूर्वपश्चिमदिशि च प्रशस्तम् । द्वारहीनो जलाशयः कूपशब्देन व्यपदिश्यते । द्वारेणैकेन भूषितः वापिसंज्ञकः । अनेकद्वारविशिष्टा पुष्कलजलाधारा पुष्करिणीत्युच्यते । तदुक्तम् –
“ | द्वारहीनौ भवेत्कूपः द्वारेणैकैन वापिका ।
नैकद्वारा पुष्करिणी दीर्घाकारा तु दीर्धिका । कुल्या विधूततोयाश्च तटाकाः परिकीर्तिताः ॥ |
” |
कूपादिनिर्माणम् आग्नेय नैऋत्य-वायव्यदिशि परित्याज्यम् । उत्तर –पूर्व –पश्चिमदिशि शस्तम् । तदुक्तं वराहमिहिरेण
“ | आग्नेये यदि कोणे ग्रामस्य गृहस्य वा भवति कूपः ।
नित्यं करोति दाहं जलमपि तत्रैव चञ्चलप्रायम् । नैऋते कोणे बालक्षयं च वनिताक्षयं वायव्ये । दिक्त्रयमेतत्त्यक्त्वा शेषास्तु शुभावहाः प्रोक्ताः ॥ इति |
” |
एवं अन्यत्र च –
“ | स्नानाग्निस्वपिवभोजनपशुद्रव्यामरोकस्थितिं
पूर्वादौ जलमीशितुर्दिशि परं वायोरपाङ्मूत्रकम् । आल्पे शक्तिभुवो यथारुचि परे गेहस्य दक्षे घट- द्दाम्बूलूखलचुल्लिकापितृपदप्रक्षालनान्यूचिरे ॥ |
” |
गृहलक्षणम्
[सम्पादयतु]भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य शुचिप्रदेशे गृहादिकं निर्मेयम् । सनत्कुमारवास्तुशास्त्रोक्तदिशा वक्ष्यमाणक्रमानुरोधेन गृहं निर्मेयं भवति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- World Architecture Community
- Architecture.com, published by Royal Institute of British Architects
- Architectural centers and museums in the world Archived २००९-१०-०९ at the Wayback Machine, list of links from the UIA
- Architecture Week Archived २००३-०८-०१ at the Wayback Machine
- American Institute of Architects
- Glossary of Architecture Terms Archived २०१५-०१-२५ at the Wayback Machine (with dictionary definitions)
- Cities and Buildings Database - Collection of digitized images of buildings and cities drawn from across time and throughout the world from the University of Washington Library