अदृश्यत्वाधिकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

शाङ्करमतसङ्क्षेपः[सम्पादयतु]

‘अथ परा यया तदक्षरमधिगम्यते’ (१.१.५) यत्तदद्रेश्यं-------- यद्भूतयोनिं परिपश्यन्ति धीराः (१.१.६) तत्र संशयः । किमदृशत्वादिगुणको भूतयोनिः किं प्रधानमुत शारीरः आहोस्वित् परमेश्वर इति । प्रधानमचेतनं भूतयोनिरिति पूर्वः पक्षः । अचेतनानामेव तत्र दृष्टान्तत्त्वेनोपादानात् ।
ननूर्णनाभिः पुरुषश्च चेतनाविति कथमचेतनानां दृष्टान्तत्त्वेनोपादानमिति चेत् इत्थम् । न हि केवल चेतनस्य सूत्रयोनित्वं केशलोमयोनित्वं वास्ति । किन्तु चेतनाधिष्ठितस्याचेतनस्यैव । तस्मादचेतनमपीह निदर्शनतयोपात्तम् । अदृश्यत्वादयो धर्माश्च सूक्ष्मत्वात् प्रधान उपपद्यन्ते ।
किञ्च अचेतनं विश्वं अचेतनस्य प्रधानस्यैव विकारं भवितुमर्हति । न तु चेतनस्य ब्रह्मणो वैरुप्यात् नूपुरादेर्हेमपरिणामस्य हेमस्वरुपत्वदर्शनात् रज्जुविवर्तस्य भुजङ्गादेः रज्जुसारुप्यदर्शनाच्च । जगतो जडस्य चेतनब्रह्मसारुप्यायोगेन ब्रह्मपरिणामविवर्तत्वायोगात् ‘अक्षरात् सम्भवतीह विश्वम्’ इत्यत्र अचेतनं प्रधानमेव जगदुपादानतयोच्यते ।
यदि च योनिशब्दो निमित्तवाची तदा जीवोप्यदृष्टद्वारा विश्वहेतुः । तदुक्तं भामत्याम्-

परिणामो विवर्तो वा सरुपस्थोपलभ्यते ।
चिदात्मना तु सारुप्यं जडानां नोपपद्यते ॥
जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् ।
योनिशब्दो निमित्तं चेत् कुतो जीवनिराक्रिया ॥ इति ।

एवं प्राप्तेऽभिहितं भगवता-अदृश्यत्वादिगुणको धर्मोक्तेः इति । नात्र अदृश्यत्वादिगुणकः शारीरः प्रधानं वा । एतत् प्रकरणोक्त सार्वज्ञ्यसर्ववित्वाद्यभावात् । न च सारुप्याभावात् कथं ब्रह्मकारणकमिदं विशमिति वाच्यम् । अधिष्ठानाध्यस्यमानयोः सारुप्यनियमाभावस्य पीतश्श्ङ्खः इत्यादौ दर्शनेन ब्रह्मविवर्तमिदं विश्वं न् विकारः इति शुध्दं ब्रह्मैव अदृशत्वादिगुणकम् ।
कथं तर्हि ‘अक्षारात् परतः परः’ इति व्यपदेश इति चेत् उच्यते । अत्राक्षरशब्देन अश्नुते व्याप्नोति स्वकार्यमिति व्युत्पत्त्या, मायाशक्त्यपरपर्यायं नामरुपबीजशक्तिरुपं भूतब्सूक्ष्ममव्याकृतमुच्यते । परात् तस्मात् परः परमात्मेत्यर्थोपपत्तेः । तदुक्तं भामत्याम् –

अक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् ।
यस्सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥
तेन निर्देशसामान्यात् प्रत्यभिज्ञानतः स्फुटम् ।
अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं मतम् ॥
अक्षरात् परत इति श्रुतिस्त्वव्याकृते मता ।
अश्नुते यत्स्वकार्याणि ततोऽव्याक्रुतमक्षरम् ॥
‘----- विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः ।
अनादिवासनोद्भूतो न सारुप्यमपेक्ष्यते’ ॥ इति ।

किञ्च परविद्याविषयं ह्यक्षरमत्रोक्तम् । परमेश्वरादन्यस्य अदृश्यत्वादिगुणकत्वे तत्प्रदिपादिकायास्तस्याः परविद्यात्वमेव न स्यात् । तथा च परापरविद्या विभाग एवानुपपन्नो भवति । निः श्रेयसहेतुत्वाद्धि इयं परविद्या । न च प्रधानविद्या निः श्रेयसफला । अतोऽपि न प्रधानमदृशत्वादिगुणकम् ।
ब्रह्मणः परविद्याविषयत्वमुक्तम् । अत्र ऋगादिरपराविद्या उपनिषत् परविद्या । ऋग्विशेषस्य उपनिषदः परविद्यात्वं तु गोबलिवर्दन्यायेन ।

विशेषणभेदव्यपदेशाभ्यां च नेतरौ

‘दिव्यो ह्यमूर्तः’ इत्यादिविशेषणस्य ईश्वरादन्यत्रानुपत्तेः न प्रधानं शारीरो वा भूतयोनिः । ‘अक्षरात् परतः परः’ इति प्रधानादक्षरशब्दवाच्याद् भेदाभिधानात् न् प्रधानं भूतयोनिः ।

रुपोपन्यासाच्च[सम्पादयतु]

‘अग्निर्मूर्धा’ इत्यादि सर्वात्मकत्वलक्षणरुपोपन्यासात् न शारीरः प्रधानं वा भूतयोनिः । शारीरप्रधानयोस्सर्वभूतात्मकत्वासम्भवात् । विमर्शः

१. प्रथमे स्पष्टब्रह्मलिङ्गानि द्वितीयतृतीययोस्तु अस्पष्टब्रह्मलिङ्गानि तत्रापि सविशेष निर्विशेष- तया भेद इति भवतां मतम् । एव्ं चास्य निर्विशेषब्रह्मपरत्वे तृतीयपादे प्रवेशापत्तेः ।
२. ब्रह्मविवर्तताया आरम्भणाधिकरणे (२.१.६) वक्ष्यमाणत्वेन विकाराश्रयेणेह पूर्वपक्षानुदयाच्च ।
३. विवर्तपरत्वे श्रुतौ रज्जुसर्पादि दृष्टान्तस्यैव वक्तव्यतया ऊर्णनाभ्यादि दृष्टान्तोक्त्ययोगात् ।
४. विवर्तपरत्वे च ‘यदभूतयोनिम्’ ‘सम्भवतीह विश्वम्’ इति योनिसम्भवपदाद्ययोगाच्च । न् हि रज्जुः सर्पस्य योनिरुच्यते । न वा सर्पः ततः सम्भवति ।
५. किञ्च ‘धर्मोक्तेः’ इति सार्वज्ञादिधर्मैः विशिष्टम् अत एव प्रधानं शारीराद्भिन्नं ब्रह्म कथं वा आरोपाधिष्ठानं भवेत् । यद्यमी धर्मा अतात्विकास्तर्हि तैः प्रधानादि निरासायोगात् सिध्दान्तानुत्थितिः ।
६. किञ्च एतदधिकरणबोध्ये निर्विशेषे भूतयोनिशब्दार्थे ब्रह्मणि तत्वतो दिव्यत्वादिविशेषणस्य भेदस्य चाभावेन ताभ्यां जीवप्रधानव्यावृत्त्ययोगात् ।
७. यच्चोक्तं परविद्या उपनिषद्रुपा अपरा च ऋगादिरुपेति तदसाधु । ‘सर्वे वेदा यत्पदमामनन्ति’ ‘वेदैश्च सर्वैरहमेव वेद्यः’ इत्यादि श्रुतिस्मृतिभिर्ब्रह्मणः सर्ववेदवेद्यत्वात् उपनिषत्स्वपि ज्ञेयशुध्दब्रह्माविषयाणाम् उपसनादिवाक्यानां बहूनां, मन्त्रेष्वपि ज्योतिरधिकरणन्यायेन ब्रह्मपर भागस्य च दर्शनात् ।

रामानुजमतसङ्क्षेपः[सम्पादयतु]

आथर्वणे ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम्’ इत्यारभ्य ‘यद्भुतयोनिं परिपश्यन्ति धीराः अक्षरात्परतः परः’ इत्यादौ किं प्रधानपुरुषौ प्रतिपाद्येते उत परमात्मेति संशयः । किं प्राप्तं प्रकृतिपुरुषाविति ।
पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयमचेतनं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते । तथा ‘अक्षरात्परतः परः’ इति च तस्याधिष्ठाता पुरुष एवेति । अयमाशयः अक्षरात् पुरुषः परः इत्यत्र दृश्यत्वादिविकलं पृथिव्यादिसजातीयं सूक्ष्मरुपमचेतनं प्रधानमेव अत्र प्रतिपाद्यते । तस्मात् परत्वं च समष्टिपुरुषस्यैव । तदधिष्ठितं च प्रधानं महदादिविशेषपर्यन्तं विकारजातं प्रसूते । अत एव यथोर्णनाभिरिति दृष्टान्तत्रयमपि उपपद्यते । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्यौ इति ।
राध्दान्तस्तु –‘उत्तरत्र यः सर्वज्ञः सर्ववित्’ इति प्रधानपुरुषयोरसम्भावितं सार्वज्ञ्यमभिधाय ‘तस्मादेतद ब्रह्म नामरुपमन्नं च् जायते’ इति सर्वज्ञात्सत्यसङ्कल्पाज्जगदुत्पत्ति श्रवणात्पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम् । ‘अक्षरात्परतः परः’ इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञायते । ततश्च अक्षरात् परतः परः इत्यत्र अक्षर शब्दः भूतसूक्ष्ममचेतनं प्रतिपादयति । तस्मात् परः समष्टिजीवः ततः परः परमात्मा इति सूत्रार्थः ।

विशेषणभेदव्यपदेशाभ्यां च नेतरौ(१.२.२३)[सम्पादयतु]

विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरमेकविज्ञानेन सर्वविज्ञानादिना । एकविज्ञानेन सर्वविज्ञानं प्रतिपादितमत्र । तथा प्रधानपुरुषाभ्यां अक्षरस्य भेदश्च व्यपदिश्यते, अक्ष्रात्परतः परः इत्यादिना । तथाहि स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठां इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता । परविद्यैव च सर्वविद्या प्रतिष्ठा ।
ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये – ब्रह्मविषये परोक्षापरोक्षरुपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम् ।
तयोर्ब्रह्मप्राप्त्युपायभूतमपरोक्षं ज्ञानम् । तच्च भक्तिरुपापन्नम् यमेवैष वृणुते तेन लभ्यः (मु.३.२.३) इत्यत्रैव विशेप्यमाणत्वात्, तदुपायश्चागमजन्यं विवेकादिसाधनसप्तकानुगृहीतं ज्ञानम्, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.४.२२) इति श्रुतेः । आह च भगवान् पराशरः –तत्प्राप्ति- र्हेतुज्ञानं च कर्मचोक्तं महामुने । आगमोत्थं विवेकाच्च द्विधा ज्ञानं तयोच्यते (वि.पु.६.५.६०) इति । तत्रापरा ऋग्वेदो यजुर्वेदः इत्यादिना धर्मशास्त्राणि इत्यन्तेन आगमोक्तं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । तथा ‘अक्षरात्परतः पर्ः’ इत्यक्षरादव्याकृतात्परतोऽवस्थितात्पुरुषात्पर इति पुरुषाच्चास्य भूतयोन्यक्षरस्य भेदो व्यपदिश्यते । अतश्च न प्रधानपुरुषौ । अपि तु परमात्मैवात्र निर्दिष्टः ।

रुपोपन्यासाच्च (१.२.२४)[सम्पादयतु]

‘अग्निर्मूर्ध्दा’ इत्यादिना समस्तस्य चिदचिदात्मकप्रपञ्चस्य भूतयोन्यक्षररुपत्वेनोपन्यासाच्चायमदृश्यत्वादिगुणकः परमात्मा । विमर्शः

१. अदृश्यत्वादिगुणकत्वं प्रधानस्य अक्षरात् परतः परत्वं तु जीवस्येति यदुक्तं तन्न –

दिव्यो ह्यमूर्तः पुरुषः स् बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्रो अक्षरात्परतः परः ॥ इति अमूर्तत्वव्याप्तत्वाप्राणत्वादिविशिष्टत्वेन श्रुते अक्षरात् परतः परे जीवत्वशङ्कानुदयात् ।

२. परोक्षज्ञानमपरविद्या, भक्तिरुपमारोक्षज्ञानं तु परविद्येति यदुक्तं तन्न । श्रुतौ ऋगादीनामपरविद्यात्वेनोक्तत्वात्, यया तदक्षरमधिगम्यते इति । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इति च ज्ञानकरणस्यैव परविद्यात्वेनोक्तत्वाच्चेह विद्याशब्दस्य ज्ञानार्थत्वायोगात् । न च अधिगम्यते इत्यस्य प्राप्यत इत्यर्थः, अधिपूर्वस्य गमेर्ज्ञाने प्रसिध्देः ।
३. यद्यपि व्रजयजोर्भावे क्यप् इत्यनेन सूत्रेण भावे क्यपप्रत्ययो विहितः । तथाऽपि संज्ञायां समजनिषदनिपतमनविद इति सूत्रे वृत्तौ, भाव इति न् स्वर्यते इत्युक्तत्वात्, समजन्ति तस्यामिति समज्या, निषीदन्ति तस्यामीति निषद्येति समज्यादिशब्दानां भावार्थत्वाभावस्योक्तत्वाच्च क्यबन्तोऽपि विद्याशब्दो वेदनकरणेऽपि मुख्य एव ।
४. आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते । इति पराशरवचनं तु अगमोत्थत्वविवेकोत्थत्वाभ्यां ज्ञानस्य द्वैविध्यमाह, न त्वत्रत्ज्यपरापरशब्दयोः परोक्षापरोक्षज्ञानार्थताम् ।
५. ऊर्णनाभ्यादिरपि निमित्तमेवेत्यन्यत्रोक्तम् ।
"https://sa.wikipedia.org/w/index.php?title=अदृश्यत्वाधिकरणम्&oldid=388497" इत्यस्माद् पुनः प्राप्तिः