द्वैतनये शब्दोपलब्धिक्रमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

प्रसङ्गः[सम्पादयतु]

शब्दो द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मकः शब्दः वायुगुणः । वस्तुगत्या शब्दस्य वर्णात्मकस्य द्रव्यत्वेनाकाशविशेषगुणत्वं नाभ्युपेयते । गुणत्वेऽपि न समवायः सन्निकर्ष इत्युक्तं तर्कताण्डवे । न च शब्दः गुणः सामान्यवत्वे सति अस्मदादिबाह्येन्द्रियग्राह्यत्वादित्यनुमानेन गुणत्वं प्रसाधितमिति चेत्,मैवम् । द्वैतसिध्दान्तरीत्या तमसि व्यभिचारात् । न्यायमतरीत्या प्रकाशप्रभायां व्यभिचाराच्च । तस्मात् वर्णात्मकः शब्दः द्रव्यरुप एव नाकाशविशेषगुणः, अपि तु श्रोत्रेन्द्रियग्राह्य इति । तदुक्तं प्रमाणपध्दतौ –वर्णात्मकस्य शब्दस्य द्रव्यत्वेन आकाशविशेषगुणत्वाभावात् । अतः सर्वेन्द्रियाणां स्वस्वविषयैः स्वस्वविषयप्रतियोगिकाभावेन च साक्षादेव रश्मिद्वारा सन्निकर्षः । अनेनेदमुदितं भवति । नास्मत्सिध्दान्ते तार्किकोक्तदिशा वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दगतिरिष्टा । किन्तु इन्द्रियाणां तैजसत्वेन श्रोत्रस्यैव शब्ददेशं प्रति गमनस्य रश्मिद्वारोपपत्तेः रश्मिवर्तिनामिन्द्रियाणामभेदादेव विषयेन्द्रियाणां साक्षात्सन्निकर्ष इत्युक्तं भवति । अथवा न केवलं चक्षुषः प्रकाशरुपेण व्याप्तिरिष्टा, अपि तु समेषामपीन्द्रियाणाम् । चक्षुषो यथा रश्मिद्वारा विषयसन्निकर्ष उपपद्यते तथैव श्रोत्रादीनामपि रश्मिद्वारा विषयसन्निकर्षोपपत्तेः । शब्द एव वा स्वयं शब्दान्तरमनुत्पायन् श्रोत्रदेशं आगच्छति इत्यपि सुवचम् ।

ध्वनिव्यतिरिक्ताः वर्णाः[सम्पादयतु]

वर्णाः कूटस्थनित्याः सर्वगताश्च । ध्वनयो नाभसाः । उच्चारणेन उत्पद्यन्ते । तदभावे च नश्यन्ति । नाभसाध्वनय एव वर्णव्यञ्जकाः । ध्वनीनां विजातीयत्वादेव वर्णानां नित्यत्वे व्याप्तत्वेऽपि न सर्वदा सर्वेषां वर्णानां सर्वेषां प्रत्यक्षापत्तिः । “पूर्वश्रुतोऽयं गकारः” “श्रुता एव एते वर्णाः” इत्यादि प्रत्यभिज्ञाप्रामाण्यानुरोधेन वर्णानां नित्यत्वं व्याप्तत्वं च प्राक् प्रसाधितम् । ध्वनीनामेव वर्णत्वे क्वचित् ध्वनिश्रवणेऽपि वर्णाश्रवणं नोपपद्यते । ध्वनिरेव श्रुतो न वर्ण इत्यबाधितप्रतीतेश्च ध्वनिवर्णयोर्भेदः स्फुटं विज्ञायते । ध्वनेः वर्णव्यञ्जकत्वमते तु ध्वनिश्रवणेऽपि वर्णाश्रवणमुपपद्यते नाभेदमते । अतः ध्वनिवर्णयोर्भेदमभ्युपगम्य ध्वनेः वर्णव्यञ्जकत्वमेव अङ्गीकरणीयमिति स्थितम् । विस्तरस्त्वादर्शे द्रष्टव्यः । इदं पुनरिह विज्ञेयम् । वक्तृप्रयत्नप्रेरितो वायुरुरः प्रभृतिभिः स्थानैः संयुक्तः तत्र ध्वनिलक्षणं शब्दमुत्पादयति स च देशान्तरे प्रतिशब्दं यः शब्दः कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे समुत्पन्नः तद्गुणो ध्वनिः तस्मिन् व्यज्यमानः वर्णः श्रोत्रेन्द्रियेण गृह्यते । ध्वनेः आशुतरविनाशित्वेन व्यञ्जकाभावे न सर्वदा वर्णोपलब्धिप्रसङ्गः । भूताकाशमेव श्रोत्रं तद्गुण् एव ध्वनिः भूताकाशं च स्वतः सावयवम् । अतः यद्देशवर्ती ध्वनिः तदवच्छिन्नमेव वर्णं व्यञ्जयतीति न सर्वेषामुपलब्धिः । शब्दः देशान्तरं गच्छतीति न्यायमतावष्टम्भेन प्रागुपपादितम् । वस्तुगत्या श्रोत्रस्यैव वा प्रथमशब्दस्यैव वा गमनमस्मत्सिध्दान्तः ।

श्रोत्रशब्दयोः सन्निकर्षः कथमिति शङ्का[सम्पादयतु]

शब्दः शब्दान्तरमुत्पादयन् श्रोत्रदेशं श्रोत्रस्य विषय इति यदुक्तं तत्रेदं विचारणीयम् । कथं विशयेन्द्रियसन्निकर्ष इति । तथा हि – न तावत् श्रोत्रस्य शब्ददेशं प्रति गमनमुपपद्यते श्रोत्रस्यामूर्तत्वात् नापि शब्दस्यागमनेन सम्भवति सन्निकर्षः । शङ्खादौ दृश्यमानो हि शब्दः स्वाश्रयं परित्यज्य कठमन्यत्र गन्तुं समर्थो भवति । न च शङ्खगत एव शब्दः शब्दान्तरमुत्पादयति सोऽपि शब्दान्तरम् । ततश्च वीचीतरङ्गन्यायेन कर्णशष्कुल्यवच्छिन्नशब्दः शाब्दबोधं जनयतीति वाच्यम् । विचीतरङ्गन्यायेन शब्दोत्पत्तिक्रमस्य प्रमाणाभावेन दूषणियत्वात् । न च शब्दस्य शङ्खादिगुणत्वे प्रमाणाभावः शङ्खे शब्दः वीणायां शब्दः इत्यबाधितप्रतीतेः । स्मृतयश्चात्र भवन्ति –

शब्दस्स्पर्शश्च रुपञ्च रसो गन्धश्च पञ्चमः ।

एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥

शब्दः स्पर्शश्च रुपञ्च रसश्चापि द्विजोत्तम ।

अपामेते गुणा ब्रह्मन् कीर्तिताः तव सुव्रत ॥

शब्दस्स्पर्शं च रुपञ्च तेजसोऽथ गुणास्त्रयः ।

शब्दस्स्पर्शञ्च वायौ ते शब्दस्याकाश एव तु ॥

इति महाभारतोक्तेः ।

विशेषस्तु विकुर्वाणात् अम्भसो गन्धवानभूत् ।

परान्वयाद्रसस्पर्शरुपशब्दगुणान्वितः ॥

इति श्रीमद्भागवते पृथिव्यादीनां शब्दगुणत्वोक्तेश्च । ततश्च शब्दस्य शङ्खादिरुपपार्थिवद्रव्यनिष्ठस्यामूर्तस्य गमनासम्भवेन श्रोत्रस्याप्यमूर्तत्वेन गमनासम्भवादेव सन्निकर्षानुपपत्तिः । शब्दस्य श्रोत्रदेशं प्रत्यागमनेन सन्निकर्षोपपदानम् अत्रोच्यते – महाभारतादिस्मृत्यनुसारेण शब्दस्य यत्पञ्चमहाभूतगुणत्वं तत्तथैवेत्यङ्गीकुर्मः । तथापि न सन्निकर्षानुपपत्तिदोषः । तथा हि –श्रोत्रेन्द्रियस्य रश्मिद्वारा गमनोपपत्तेरुक्तत्वात् । शब्दस्याप्यागमनेन सन्निकर्षोपपत्तेश्च । नन्वाश्रयं परित्यज्य शब्दस्यान्यत्र गमनं कथमिति चेत् पुष्पादिगन्धेषु दीपप्रभायां च स्वाश्रयं परित्यज्यान्यत्र गमनस्यानुभूतत्वेनेहापि तथाङ्गीकारे बाधकाभावात् । अत्र च प्रमाणानि –

तस्याः स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा ।

रसा दिशः खं प्रतिपेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥

इति पूतनाशब्दस्य सर्वत्रगमननोक्तेः । तथा –

प्रगायतीनामरविन्दलोचनं गोपाङ्गनानां दिवमस्पृशद् ध्वनिः ।

दध्नश्च निर्मन्थनशब्दघोषः प्रलीयते येन दिशाममङ्गलम् ॥

इत्यत्र दध्नः निर्मन्थनशब्दघोषः दिवमस्पृशदिति शब्दस्यागमनं स्फुटं प्रतीयते । तथैव श्रीमद्भागवते –

तदैव तस्मिन् निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् ।

यं वै स्वधिष्ण्योपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे ॥

इति नृसिंहनिनादस्य दूरगमनप्रतिपादनेन शब्दस्यैवागमनेन श्रोत्रसन्निकर्षोपपत्तेः न काऽप्यनुपपत्तिः ।

शब्दस्य दूरगमनाभ्युपगमे काशीशब्दः महीशूरे श्रूयेत् इत्याद्यापादननिराकरणम् ननु यदि शब्दस्यान्यत्र गमनमिष्यते तर्हि काशीशब्दः महीशूरमागच्छेदिति चेत्, अत्रोच्यते । यथा बलवता पुरुषेण निक्षिप्तः पाषाणः तद्बलानुसारेण दूरप्रदेशं गच्छति तद्वत् कारणशक्त्यनुसारेण कार्यस्य शब्दस्य दूरगमनं नासम्भावितम् । यदि शब्दः पूर्वदेशोत्पन्नः पश्चिमदेशं प्रधावति तर्हि तत्पूर्वदेशस्थैः तद्द्क्षिणोत्तरदेशस्थैश्च नोपलभ्येत इति शङ्का तु शब्दस्य दीपप्रभावत् सूर्यप्रभावच्च युगपदेव सर्वदेशगमनाभ्युपगमेन परिहरिष्यते । शब्दो हि गोधावत् सर्पवद्वा गच्छन् सूर्यप्रभावत् सर्वदेशेषु व्यापक एव गमनागमनादिकं करोतीति किमनुपपन्नम् । सर्वदेशावच्छिन्नपुरुषाणामपि मया भेरीशब्दः श्रुत इत्यनुभावादुक्त एवार्थ उपपद्यते । ननु आद्यस्यैव शब्दस्य सर्वत्र गमनाभ्युपगमे सर्वैरपि पुरुषैः एकरुपतथैव (तारतथैव) शब्दः श्रूयेत । न चैवम् । अतः कथं शब्दः प्रभावद् व्याप्त इति वाद उपपद्यत इति चेत्, न । यथा दूरगामी पुरुषः म्लानवदनो दृश्यते, दीपाश्रयतः दूरगा प्रभा यथाऽस्पष्टा भवति तथैव दूरदेशगतस्यापि शब्दस्य मन्द्रत्वोपपत्तेः । यद्यप्ययं दोषः शब्दसन्तानवादिनामेव अशनिपात इव दुष्परिहरः नास्माकमिति न विस्मर्तव्यम् । शब्दस्य सजातीयशब्दारम्भकत्वध्रौव्यात् तारशब्दस्य मन्द्रशब्दानारम्भकत्वात् । अन्यथा वीणाशब्दः भेरीशब्दारम्भकस्स्यात् ।

श्रोत्रदेशं प्रति शब्दागमनपक्षे तत्त्वप्रकाशिकासुधाविरोधशङ्कापरिहारः ननु शब्दागमनेन श्रोत्रसन्निकर्षव्युत्पादनं न मनोरमम् । सुधाविरोधात् । तथा हि – सुधायां “ चक्षुर्वत् श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः “इत्युक्तेः, चक्षुर्वत् श्रोत्रस्यैव गमनोपपत्तेः” इति तत्त्वप्रकाशिकोक्तेश्चेति चेत्, अत्र ब्रूमः । मनुष्यादिश्रोत्रस्य गत्यभावेऽपि वराहश्रोत्रस्य गतिसद्भावेन तयोस्तद्विषयत्वात् । गृध्रस्य दूरस्थपदार्थदर्शनं यथा शास्त्रसिध्दं तथैव वराहश्रोत्रस्य दूरगमनोपपत्तेः । यद्वा चक्षुरिन्द्रियवत् श्रोत्रादिज्ञानेन्द्रियाणामपि प्रकाशरुपव्याप्त्यभ्युपगमेन गुणगुणिनोश्चाभेदेन श्रोत्रागमनस्य प्रमाणसिध्दत्वेन नानुपपत्तिगन्धोऽपि ।

वीचीतरङ्गन्यायेन शब्दान्तरोत्पादप्रक्रियानिराकरणे न तत्त्वनिर्णयविरोधः ननु वीचीतरङ्गन्यायेन शब्दपरम्परोत्पादः नाभ्युपगम्यते, अपित्वेक एव शब्दः देशान्तरं गच्छतीति यदुक्तं तन्न समीचीनम् । तत्त्वनिर्णयटीकाविरोधात् । तथा हि – तत्र “ वक्तृप्रयत्नप्रेरितो वायुः उरः प्रभृतिभिः स्थानैः सांयुक्तः तत्स्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रतिशब्दम् । यस्तु कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे तद्गुणो ध्वनिः तस्मिन् व्यज्यमानो वर्णः श्रोत्रेण गृह्यते” इति शब्दान्तरोत्पादनप्रतिपादनात् इति चेत्, अत्रोच्यते- नात्र तत्त्वनिर्णयटीकायां शब्दपरम्परोत्पादः सिध्दान्ततया अभिहितः । किन्तु वर्णानां नित्यत्वे व्याप्तत्वे चाङ्गीक्रियमाणे सर्वदोपलब्धिप्रसङ्ग इति परेणाक्षिप्ते तत्परिहारार्थं व्यञ्जकध्वनिसदसद्भावयोः वर्णग्रहतद भावौ उपपन्नाविति निरुपयितुं परसिध्दान्तावलम्बनेन वर्णपरम्परोत्पादनप्रकारस्य निरुपितत्वेन विरोधाभावात् । वीचीतरङ्गन्यायेन शब्दान्तरोत्पत्तिवादस्तु प्रमाणबहिर्भूतः शब्दात् शब्दान्तरोत्पत्तिः न श्रुतिस्मृत्यादिप्रमाणसिध्दा । अपि तु देवदत्तवक्त्रोत्पन्नस्यैकस्यैव शब्दस्य सर्वैरपि श्रुतत्वानुभवेन शब्दान्तरोत्पादकल्पनायाः निर्मूलत्वात् । अन्यथा भेरीदण्डसंयोगजन्यस्य शब्दस्य शब्दान्तरोत्पत्त्यनन्तरं प्राथमिकस्य नष्टत्वेन पुनश्शब्दान्तरस्यैवान्यैः श्रुतत्वेन “ अयं शब्दः भेरिशब्द” इति वक्तुमशक्यत्वाच्च । श्रूयमाणस्य तदजन्यत्वात् न च साजात्यविषयिणीयं प्रतीतिः । भेरीशब्दस्य कदाप्यननुभूतत्वेन तत्साजात्यग्रहायोगात् तस्मात् शब्दपरम्परोत्पादस्य अद्यापि प्रमाणासिध्दत्वेनैक एव शब्दः स्वाश्रयं परित्यज्य दूर आगच्छतीति वक्तव्यम् । अत्र च श्रोत्रदेशं प्रति शब्दागमनप्रतिपादनपराणि प्रमाणानि प्रागुक्तान्येव । श्रोत्रेन्द्रियं वा प्रकाशरुपेण व्याप्तं विषयसन्निकृष्टं शाब्दबोधजनकम् इति न दोषगन्धः । अयं च विषयः पदवाक्यप्रमाणपारावारपारीणैः श्रीमत्सत्यनाथतीर्थश्रीमच्चरणैः अभिनवताण्डवे विस्तरेणोपपादित इति तत्रैवानुसन्धेयः सुधीभिरिति नेह विस्तार्यते ।

अहं ब्रह्मास्मीति श्रुत्यर्थविचारः[सम्पादयतु]

‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेव वेदाहं ब्रह्मास्मी’ति बृहदारण्यके वाक्यं श्रूयते । एतादृशवाक्यं जीवब्रह्मणोरभेदं ब्रूते । अहं शब्दः जीवे प्रयुक्तः । तथा चाहं ब्रह्मास्मीति जीवः जानाति । एवमेव “ य एष आदित्ये पुरुषो दृश्यते, सोऽहमस्मि” (छा), तथा “योऽसावसौ पुरुषः, सोऽहमस्मि, “कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति, “ नान्योऽतोऽस्ति द्र्ष्टा”, द्वितीयाद्वै भयं भवति” “निरञ्जनः परमं साम्यमुपैतीत्यादयः श्रुतयः जीवब्रह्मणोरेकत्वं बोधयन्तीत्यद्वैतिनामाशयः ।

श्रीमध्वाचार्याणामयमत्र सिध्दान्तः

अहं शब्दः जीवान्तर्यामिणि मुख्यः । तदुपष्टम्भकतया –

सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते ।

एषोऽहं त्वमसौ चेति न तु सर्वस्वरुपतः ॥

इति स्मृतिश्चात्र प्रमाणम् । अतः जीवान्तर्यामिणि परमात्मन्यहंशब्दप्रयोगः । तथा चाहं ब्रह्मास्मीति विष्णुः जानाति इत्यर्थः । एवमेव “ अहं नामा हरिर्नित्यं अहेयत्वात्प्रकीर्तित” इति श्रुतिरपि वदति । “अहं मनुरभवं सूर्यश्च” इत्यत्रान्तर्यामिण्यहंशब्दप्रयोगसद्भावाच्च । तथा चान्तर्याम्यैक्यमुच्यते । न तु जीवब्रह्मणोरेकत्वमित्याशयः । “ एवं य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि” इति छान्दोग्यवाक्यमपि नाभेदं बोधयति । कुत इति चेत् “ स एनान्ब्रह्म गमयति” इति भेदप्रतिपादकोत्तरवाक्यविरोधः भवति । यदुक्तं “ योऽसावसौ पुरुषः सोऽहमस्मीति” ईशावास्योपनिषदवाक्यमभेदं वदतीति तदपि न । “वायुरनिलममृत अथेदं भस्मान्तं शरीरं” इत्युत्तरवाक्यविरोधो भवति । तत्र शरीरस्थितवायोरेव यद्यमृतत्वं, तदा वायुस्थपरमात्मन अमृतत्वं कैमुतिकन्यायेन सिध्दमित्युच्यते । न तु तत्र जीवाभेदः प्रतिपाद्यते । तदुक्त्ं खण्डार्थे श्रीराघवेन्द्रतीर्थैः – “ ननौ परमेश्वरस्य यत्कल्याणरुपत्वमुक्तं, यच्च सोऽहमस्मीति जीवान्तर्गतस्य नित्यास्तित्वमुक्तं तन्न युक्तम् देहनाशस्य प्रत्यक्षादिसिध्दतया ।

टिप्पणी[सम्पादयतु]

१. प्र.प.p -१४५ २. प्र.प.आ – ४३० ३. श्रीमद्भा. २-५-२९ झ्-५२ ४. शीमद्भा. १०-७-१३ ५. श्रीमदभा. ७-८-१६ ६. अ.तां.झ्. ४५-४८