शासनेषु पुराणप्रभावः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
शासनशास्त्रज्ञानां यथा संस्कृतज्ञानमावश्यकं तथा शासनव्याख्याने पुराणाध्ययनमप्यावश्यकम् । शासनशास्त्रविदः यदि पुराणाध्ययनपरा भवेयुस्तर्हि शासनवाक्यव्याख्याने अपूर्वा दृष्टिर्व्याख्यानुशलता च भवेदिति विचिन्त्यात्र द्वित्रा विषया प्रस्तूयन्ते-
“ | स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
षष्टिं वर्षसहस्त्राणि विष्ठायां जायते क्रिमिः ॥ न विषं विषमित्याहुः ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ |
” |
इति दानप्रशस्तिषु तत्र तत्र इमौ श्लोकौ पठ्येते । गोदावरीतीरगे पिठारपुरे विद्यमानकुन्तीमाधवदेवस्थाने महादेवकारिते शिलालेख इमौ श्लोकौ विद्येते । तथैव देवेन्द्रमहाराजशासने –[१]
“ | षष्टिं वर्षसहस्राणि सर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरकं वसेत् ॥ |
” |
इति श्रूयते । एवं दानपालनपराणां प्रशंसारुपाणि दत्तापहारिणां निन्दापराणि च् वचनानि प्रायः सर्वत्र शासनेषु दृश्यन्ते । अनेनेदं प्रतीयते-दातृणां हृदये अर्वाचीनाः पुत्रपौत्रादयः स्वदत्तां परदत्तां वा भूम्यादिकं पुनराहरेयुर्वेति (दत्तापहारिणो भवेयुर्वेति) भीर्जागर्तीति ।
अर्वाचीनानां विवेकोदयार्थमेव इमौ पुराणगौ व्यासवचनौ उल्लिख्येते । श्लोकयोरनयोः सन्दर्भविशेषानुसन्धानपुरस्सरमध्ययने नूनमपि दत्तापहाररुपात् पापकार्यात् परावर्तन्त अर्वाचीना इति तेषां प्रबोधायैव इमौ श्लोकौ प्रकरणविशेषनिरुपणपुरस्सरं मया विव्रीयेते –
श्रीमद्भागवते दशमस्कन्धे दत्तापहारप्रतिषेधपरा कथैका जागर्ति [२] । एकदा कृष्णपुत्राः साम्बप्रद्युम्नादयः कन्दुकक्रीडारताः निरुदकमेकं कूपं, तत्र भीमकायं च कृकलासमपश्यन् । कूपात् तस्योध्दरणार्थं तैर्महान् यत्नः कृतः । असमर्थास्ते कृष्णाय सर्वमाचचक्षिरे । विदितार्थोऽपि गोविन्दः निरुदके कूपे पतितं कृकलासं कृपया पस्पर्श । स तत्कर्स्पर्शहृताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः दिव्यमङ्गलविग्रहधारी कृष्णं तुष्टाव ।
विदितार्थोऽपि पुत्राणां प्रबोधाय भगवान् श्रीकृष्णस्तं पप्रच्छ । किमर्थमिदं ते रुपमिति ? सोऽवदत् –भगवन् ! अहमासं प्राग्जन्मनि इक्ष्वाकुपुत्रो दानशौण्डो नृगः । यावन्त्यः सिकता भूमेः यावन्त्यो दिवितारकाः । यावन्त्यो वर्षधाराश्च तावतीरददास्म गाः विप्रेभ्यः । भू-हिरण्यादयः प्रदत्ताः ।
परं त्वेकदाऽज्ञानेन पूर्वदिने दत्तामेव गां परदिनेऽन्यस्मै विप्राय दत्तवान् । तेन दोषेण लोप्तः अपार पुण्यभागपि यमशासनेन कृकलासजन्म प्राप्तवान् । त्वदीयकृपया विमोचितश्च तामसशरीरेण ।
“ | स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
षष्टिं वर्षसहस्त्राणि विष्ठायां जायते क्रिमिः ॥ न विषं विषमित्याहुः ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ इति |
” |
अनयोः श्लोकयोः परस्ताद् विद्यमानकथानुसन्धानपुरस्सरमिमौ श्लोकौ यदि पठ्येते तर्हि नूनं स्वदत्तापहारदोषपराङ्मुखो भवतीत्यत्र न कापि संशीतिः । शासनशास्त्रज्ञानां यदीयं कथा मनसि विजृम्भिता भवेत् यदि च ससन्दर्भम् इयं कथा निरुप्यते तर्हि श्रोतृणां दत्तापहारपापेभ्यः परावृत्तिर्भवेदिति मन्यामहे ।
एवं पुराणेषु वृक्षारोपणे पुण्यफलं, छेदने च दोषाः, वापि-कूप-तटाकादिनिर्माणेन जीवजातोपकारकरणे महत्पुण्यं लभ्यत इति पुण्यलाभोपवर्णनव्याजेन् कथानिरुपणपुरस्सरं प्रोपकारस्य महत्व्ं प्रतिपादितम् ।
बादशाह महमूदराज्याधिकारिण्या हरीरबाईनाम्न्या कारितां वापीप्रशस्तिं पश्यत- [३]
चतुर्दिगायतानेकतृषातुरमनुष्यपशुपक्षिवृक्षादि चतुरशीतिलक्षजीवोपभोगाय वापीं कारयामास । यस्यामगाधामृतपानीयराशिमवलोक्य क्षीरोदधिर्निवासमहरोदिव । सा स्वेदजाण्डजोद्भिज्जरायुजपोषणार्थमाचन्द्रार्कंस्थिरा भूयात् । व्ययीकृतद्रव्यसङ्ख्या ३, २९,०००-००
“ | चतुष्पथे शरच्चारु चतुर्दिग्जनसङ्कुले ।
आचन्द्रार्कमियं वापी मधुरा पीयतां जनैः ॥[४] |
” |
एवमेव नारोदग्रामीय हरदत्तलिखितां वापीप्रशस्तिं पश्यत-
“ | प्रासादमाधुर्यनिकामहृद्यं विराजते यत्र गभीरमम्भः ।
विडम्बयतसत्कविकाव्यबन्धं विशुध्दवर्णाहित चारुशोभम् ॥ अमुक्तमुक्ताफलचारुकान्ति तोयं सदैव प्रतिभाति यत्र । अमूर्ततावाच्यमसोढुकाममुच्चैरभून्मूर्तमिवान्तरिक्षम् ॥ शरन्निशेवामलचन्द्रकान्त्या सरोजलक्ष्म्येव सरोजलर्धिः । अलङ्कृता चारुतया व्यधत्त या निर्वृतिं कस्य न दृश्यमाना ॥ इदं नभः किं द्रवता कुतोऽस्य किं वाऽमृतं तत्कथमत्र चित्रम् । आह्नाय यत्रैति वितर्कयुक्तो जलं न निश्चेतुमलं जनौघः ॥ |
” |
वापिकूपतटाकादयः समेषां जीवानां हिताय निर्मियन्ते । यावत्कालपर्यन्तम् उपकर्तृणां स्मर्तारः भुवि विद्यन्ते, तावत्कालपर्यन्तं तेषां स्वर्गे लोके स्थितिरुपवर्ण्यते । अत एव वापीकॄपतटाकादि निर्माणस्य महत्त्वं पुराणकर्तारः विस्तरेण संवर्णयन्ति । अत्रैका महाभारत सभापर्वगता कथा मम मनसि स्मृतिपथमारुढा ।
इन्द्रद्युम्नो नाम राजर्षिः स्वर्गे लोके स्वीयपुण्यवित्तं उपभुञ्जन् सुखमासीत् । एकदा देवदूताः समागत्य कर्णकठोरान् हृदयविदारिण्यः वाचमब्रुवन् । राजन् तव पुण्यं सर्वमपि उपभुक्तम् । क्षीणे पुण्ये मर्त्यलोकं विशन्ति इति न्यायानुरोधेन गच्छतु भवान् भुवमिति । तदा राजर्षिः तदीय वाक्शल्यताडितः चिरं निन्तयन् पप्रच्छ-महान्तः कथमयं निर्णयः भवाद्भिः कृतः । मन्येऽहं नूनमपि भवद्भिः पुण्यपापसंगणने कश्चन प्रमादः कृत इति ।मया च गोभूहिरण्यादि विप्रेभ्यः दत्ता अपि असङ्ख्या विद्यन्ते । यथा भूमौ असङ्ख्याताः सिकताः समुल्लसन्ति तथैव । तस्माद् भवद्भिः पुण्यपापविलेखनम् पुनः परामर्शनीयम् इति ।
तेऽब्रुवन् – यदि ते नास्मासु विनिश्चयः तर्हि, गच्छ भुवम् । पृच्छ च यङ्कमपि जन्तुं यदि कोऽपि भवदीयोपकारस्मर्ता विद्यते तर्हि, पुनर्भवन्तं सादरं, सबहुमानं, सप्रश्रयम् त्रिदशालयमिमं प्रवेक्ष्यामह इति । तदा भुवमागतो राजर्षिः मध्येमार्ग्ं पर्यटनपरं भगवन्तं मार्कण्डेयम् साञ्जलिबन्धं पप्रच्छ –भगवन् जानासि माम् इन्द्रद्युम्नं राजर्षिप्रवरम् इति । सोऽवदत् – राजन्, हृदिगृहीतरुचिरहरिविहारानुभावस्य आत्मप्रवणस्य ग्रामैकरात्रसञ्चारिणः
कर्मन्दिवृन्दारकाराधितकमनीयचरणस्य परमहंसप्रिव्राजकाचार्यस्य किमनेन विषयवासनाविदूषितान्तः करणावार्तालापेन इति । तेन च प्रत्याख्यातः तदुपदिष्टमार्गेण प्रावारकर्णनामानं उलूकं पप्रच्छ । तेनाप्यविदितः तत्सूचितवर्त्मना नालिजङ्घनामानं बकं पप्रच्छ । तदुपदिष्टमार्गेण कस्मिंश्चन सरसि बहोः कालत् निवसन्तं कच्छपं आहूय तमभिमुखीकृत्य बभाषे –जानासि माम् इन्द्रद्युम्नं राजर्षिप्रवरम् इति । राजर्षेः इन्द्रद्युम्नस्य नामश्रवणमात्रेण बाष्पपूर्णनयनः तदुपकारस्मरणदक्षदीक्षः कच्छपः प्रत्यवदत्- भगवन् कथमहं न् स्मरामि इन्द्रद्युम्नं राजर्षिप्रवरम् । यत्कृपालेशविनिर्मिते अस्मिन् सरसि सहस्रसमाः पुत्रपौत्रप्रपौत्रैर्वृतः सुखमहं वसामि । तस्य राजर्षेः कृतमुपकारं न कदापि विस्मरामः इति । वाचमिमं श्रुत्वा देवदूताः भुवमागत्य स्वीयापराधम् अभ्युपगम्य राजर्षिप्रवरम् इन्द्रद्युम्नं दिवमानिन्युः ।
“ | दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स् शब्दो भवति तावत्स्वर्गे महीयते ॥ अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कर्हिचित । स पतत्मधमान लोकान् यावच्छब्दः प्रकईर्त्यते । तस्मात् कन्याणकृतः स्यात् दाता तावन्नरो भुवि । विहाय वृत्तं पापिष्ठं धर्ममेव समाश्रयेत् । देवा मनुष्या गन्धर्ग पितरोरगरक्षसाः । स्यावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ |
” |
अनया कथया इदं विज्ञायते –वापीकूपतटाकादिनीर्माणं जन्तुजातस्य उपकाराय भवति इति । अत एव शासनेषु यावत् कालपर्यन्तं पुण्यकर्मणां स्मर्तारः भुवि विद्यन्ते तावत्कालपर्यन्तं स्वर्गे लोके भोगैः परमानन्दानुभवः, यावत्कालपर्यन्तं अस्मदपकारस्मर्तारः विद्यन्ते तावत्कालपर्यन्तं घोरेषु नरकेषु महती शिक्षा भवतीति निरुप्यते । एवं तत्र तत्र शासनेषु पुराणोक्ताः अभिप्रायाः श्लेकाश्च विराजन्ते । एतादृशश्लोकनिर्माणप्रकरणानुसन्धानपुरस्सरं यदि शासनशास्त्राध्ययनं भविष्यति तर्हि अपूर्वा परिपूर्णा च दृष्टिः अध्येतृणां व्याख्यातृणां च लभिष्यति इति नातीव प्रतिपादनीयम् अस्ति ।