देवयज्ञः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
स्वस्य इष्टदेवतायाः उपासनाय परब्रह्मणः परमात्मने अग्नौ हवनमेव देवयज्ञ इति व्यपदिश्यते । अस्यैव अग्निहोत्रम् इत्यपि नामान्तरं विद्यते ।
- यत्करोषि यदश्नासि यज्जुहोसि ददासि यत् ।
- यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
इति भगवद्वचनात् सिद्धं यत् परमात्मैव सर्वयज्ञानाम् आश्रयदातेति । अग्निं प्रज्ज्वाल्य वेदमन्त्रान् उच्चरन्तो विभिन्नदेवेभ्यो घृतादिपदार्थानाम् आहुतिं गृहस्थाः प्रददति स्म । एवं देवानां प्रीत्यर्थं स्तवनं हवनादिकं कर्म नित्यं यद् गृहस्थैः क्रियते तदेव देवयज्ञशब्देन अभिधीयते । यज्ञेन प्रीताः देवाः यजमानाय तानि तानि फलानि प्रयच्छन्तीति महती आस्था ।
- देवान्भावयतानेन ते देवा भावयन्तु वः ।
- परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
इति, 'यज्ञभाविताः देवाः इष्टान् भोगान् दास्यन्ते’ इति , 'तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः स्तेनः’ इति 'यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व किल्बिषैः’ इति , 'तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्’ इत्यादिभिः गीतोक्तवचनैः यज्ञानुष्ठानफलं ज्ञायते । नित्यनैमित्तिकभेदेन देवाः द्विधा विभक्ताः । तत्र रुद्रगणः, वसुगणः, इन्द्रादयो नित्यदेवा कथ्यन्ते । ग्रामवनगृहदेवाश्च नैमित्तिका उच्यन्ते ।
- अग्नौ प्रास्ताहुतिः सभ्यगदित्यमुपतिष्ठते ।
- आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ [ मनु ३.७६ ]
इति मनुवचनात् सर्वप्रत्यक्षदेवाय सूर्यनारायणाय आहुतिदानेन, तस्मात् वृष्टिः, वृष्टेश्चान्नं, ततः प्रजाजीवनमिति देवमनुष्ययोः परस्परं भावनान्विता इति ज्ञायते ।