राष्ट्रियपर्वाणि
The topic of this article may not meet Wikipedia's उल्लेख्यतामधिकृत्य सामान्यनिर्देशाः. |
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः "उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु 'पर्व' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते ।
- १ धार्मिकपर्वाणि
- २ प्रादेशिकपर्वाणि
- ३ राष्ट्रियपर्वाणि
- ४ जयन्त्युत्सवाः च इति ।
राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति एव । धार्मिकपर्वाणि प्रादेशिकपर्वाणि जयन्त्युत्सवान् च तत्सम्बद्धाः केवलम् आचरन्ति । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन "वयं सर्वे भारतीयाः" इति ऐक्यं वर्धते । तादृशानि ५ पर्वाणि राष्ट्रियपर्वाणि इति घोषितम् अस्ति भारते सर्वकारेण एव । तानि च -