सदस्यः:Bhavana.cbz/प्रयोगपृष्ठम्8

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

उत्थानद्वादशी[सम्पादयतु]

<nowiki>

Date(s) फलकम्:Infobox date field metadata
Participants ...

<nowiki>

शेषशयनः नारायणः
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कार्त्तीकमासस्य शुक्लपक्षे द्वादश्यां तिथौ उत्थानद्वादशी आचर्यते । तद्दिने सोमवासरः उत्तराषाढनक्षत्रं च भवतः चेत् प्रशस्तम् इति वदन्ति । एतस्य पूर्वदिनं प्रबोधिनी अथवा देवोत्थापिनी इति वा वदन्ति । तद्दिने तन्नाम प्रबोधिनीदिने एकादशीव्रतम् आचर्य द्वादश्यां प्रातः कुम्भदानं कुर्वन्ति ।

“प्रातर्दत्वा शुभान् कुम्भान् प्रयाति हरिमन्दिरम् ।“ इति उक्तम् अस्ति ।

चातुर्मास्यस्य आरम्भे सुप्तं देवम् अद्य सुप्रभातमङ्गलपुरस्सरम् उत्थापयन्ति । प्रातः स्नानादिकर्माणि समाप्य सङ्कल्पं कृत्वा “इदं विष्णुर्विचक्रमे” इति मन्त्रेण नारायणः उत्थापनीयः ।

“ओं ब्रह्मेन्द्र-रुद्राग्नि-कुबेर-सूर्य-सोमादिभिर्वन्दित वन्दनीय ।
बुद्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव ॥
इयं तु द्वादशी देव प्रबोधार्थं विनिर्मिता ।
त्वय्येव सर्वलोकानां हितार्थं शेषशायिना ॥
उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ।
त्वयि सुप्ते जगन्नाथ जगत्सुप्तं भवेदिदम् ॥
उत्थिते चेष्टते सर्वम् उत्तिष्ठोत्तिष्ठ माधव
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ॥
उत्तिष्ठ कमालाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
गता मेघा वियच्चैव निर्मलं निर्मला दिशः ।
शारदानि च पुष्पाणि ग्रहाण मम केशव ॥“

इत्येवं गायन्तः भगवतः चातुर्मास्यव्रतस्य समाप्तिमङ्गलं कुर्वन्ति । अनन्तरम् उत्तिथस्य देवस्य वाद्यसहितं शोभायात्रां कुर्वन्ति । चातुर्मास्ये येषां पदार्थानां नियमः आचरितः तान् पदार्थान् ब्राह्मणेभ्यः दानं कुर्वन्ति । षोडशोपचारपूजां कुर्वन्ति । सायङ्काले नारायणं तुलसीं च पुनः षोडशोपचारैः पूजयित्वा तयोः विवाहं कुर्वन्ति । तुलस्यै मङ्जलस्नानं कारयित्वा हरिद्राकुङ्कुमं समर्पयन्ति । तुलसीसस्यस्य पुरतः श्रीकृष्णस्य विग्रहं संस्थाप्य मध्ये अन्तरपटं स्थापयन्ति । मङ्गलाष्टकं पठित्वा अन्तरपटम् अपसार्य द्वयोः उपरि अपि आर्द्राक्षताः संस्थाप्य दमोदरस्य हस्ते तुलसीं स्थापयन्ति । अनन्तरं

“देवीं कनकसम्पन्नां कनकाभरणैर्युताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥“ इति वदन्तः शोभनाक्षताजलेन तां देवाय यच्छन्ति ।

तुलस्याः कृते देवस्य हस्तस्पर्शं कारयित्वा विवाहमन्त्रान् वदन्ति ।

“अर्घ्यं ग्रहाण भगवन् सर्वकामप्रदो भव ।
अक्षया सन्ततिर्मेऽस्तु दामोदर नमोस्तुते ॥“

इति षोडशोपचारपूजां प्राप्तवते भगवते अर्घ्यं समर्पयन्ति । अनन्तरं दक्षिणां समर्प्य शान्तिसूक्तं विष्णुकूक्तं च वदन्ति । तुलसीसहितस्य विष्णोः मङ्गलारतिं कृत्वा ब्राह्मणान् भोजयन्ति । फलयुक्ताम् आमलकशाखाम् आनीय तुलसीसस्येन सह योजयित्वा बध्नन्ति । तत्र तस्यां शाखयां भगवन्तं नारायणम् आवाह्य तुलस्या सह तस्य विवाहं कुर्वन्ति । श्रीफला, धात्री, अमृता, शिवा, शन्ता, वृष्ठा, रोचनी इत्यादिभिः नामभिः पूज्यमानायाम् आमलक्यां त्रिमूर्तयः (ब्रह्मा, विष्णुः, शिवः च) सन्ति । सा श्रीदेवीस्वरूपिणी । अतः उत्थानद्वादशीदिने आमलकहारं समर्पयन्ति देवाय । आमलकवृक्षस्य पूजां कुर्वन्ति । तस्मिन् गोघृतेन दीपं ज्वालयन्ति । आमलकचूर्णेन स्नानं कुर्वन्ति । देवस्य नैवेद्यं कृत्वा प्रसादरूपेण भोजनारम्भे खादन्ति । एवं करणेन (आमलकस्य उपयोगेन) तद्दिने बहुविधलाभाः सन्ति आरोग्यप्राप्तये ।

“धात्र्यां वत्स नृणां धात्री मातृवत्कुरुते दयाम् ।
दद्यादायुः पयःपानात् स्नानाद्वै धर्मसञ्चयम् ॥
अलक्ष्मीनाशनं सद्योऽप्यन्ते निर्वाणमेव च ।
विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम् ॥
बिल्वस्य च तुलस्याश्च ये गुणाः कथितास्सखि ।
ते ते गुणास्सर्व एव आमलक्यां समाहिताः ॥ इति आमलकीं वर्णयन्ति शास्त्राणि ।