द्वादशज्योतिर्लिङ्गानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ज्योतिर्लिङ्गम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
द्वादशज्योतिर्लिङ्गानि is located in India
सोमनाथः
मल्लिकार्जुनस्वामी
महाकाळेश्वरः
ॐकारेश्वरः
वैद्यनाथः
भीमशङ्करः
रामेश्वरम्
विश्वनाथः
त्र्यम्बकेश्वरः
केदारनाथः
ग्रिनेश्वरः
भारते द्वादशज्योतिर्लिङ्गानां स्थाननिर्देशः
Laxmaneshwer linga.jpg

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे । यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः । तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे । तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि । तानि शिवपुराणानुसारम् एवं सन्ति :

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥ ३ ॥
एतानि ज्योतिर्लिड्गानि सायंप्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥

एतेषां द्वादश ज्योतिर्लिङ्गानां माहात्म्यं वर्णनातीतम् । प्रतिदिनं प्रातःकाले ये एतानि ज्योतिर्लिङ्गानि स्मरन्ति तेषां सप्तजन्मकृतं पापं विनश्यति इति शिवपुराणे वर्णितम् अस्ति । न केवलं शिवपुराणे अपि तु रामायणे, महाभारते, इतरेषु अपि धर्मग्रन्थेषु ज्योतिर्लिङ्गानां वर्णनं कृतम् अस्ति । स्कन्दपुराणान्तर्गते काशीखण्डे, सेतुबन्धखण्डे, रेवाखण्डे, अवन्तीखण्डे, केदारखण्डे च क्रमेण काश्याः, रामेश्वरस्य, ओङ्करेश्वरस्य, महाकालस्य, केदारेश्वरस्य च वर्णनम् अस्ति । तैत्तरीयोपनिषदि ब्रह्मा, माया, जीवः, मनः, बुद्धिः, चित्तम्, अहङ्कारः, आकाशः, अग्निः, वायुः, जलं, पृथ्वी इत्येतानि द्वादश तत्त्वानि एव द्वादश ज्योतिर्लिङ्गानि इति उक्तम् । द्वादश आदित्यानां प्रतीकानि द्वादश ज्योतिर्लिङ्गानि इत्यपि भावयन्ति कुत्रचित् । इदानीं सुप्तावस्थायां विद्यमानानां ज्वालामुखीनाम् उद्रेकस्थानानि एव द्वादश ज्योतिर्लिङ्गानि इति अभिप्रायः विज्ञानिनाम्भारतस्य सांस्कृतिक-ऐक्यसाधने एतेषां ज्योतिर्लिङ्गानां योगदानं महदेव अस्ति ।

सौराष्ट्रे विद्यमानं सोमनाथमन्दिरम्

सोमनाथः - सौराष्ट्रम्

सौराष्ट्रे सोमनाथम् इति यद् प्रथमपङ्क्त्याम् अस्ति तत्र निर्दिष्टं सौराष्ट्रं नाम इदानीन्तनं गुजरातराज्यम् । तत्रत्यं सोमनाथमन्दिरम् अद्यापि अत्यन्तं प्रसिद्धम् एव | तत् क्षेत्रं "प्रभासक्षेत्रम्" इत्यपि उच्यते । तत्र समुद्रतीरे विराजमानः अस्ति सोमनाथः । इदानीं तत्र महदेव सोमनाथमन्दिरं निर्मितम् अस्ति । अस्मिन् नगरे अनेकानि मन्दिराणि सन्ति । नूतनमन्दिरसमीपे एव राज्ञ्या अहल्यादेव्या निर्मितं मन्दिरम् अपि अस्ति । अत्र शिवलिङ्गं परितः पार्वत्याः, लक्ष्म्याः, गङ्गायाः, सरस्वत्याः, नन्देः इतरेषां देवानां च विग्रहाः सन्ति । लिङ्गस्य उपरिभागे अहल्येश्वरनामकः शिवविग्रहः अस्ति । अत्र सुन्दरं लक्ष्मीनारायविग्रहयुक्तं मनोहरमन्दिरम् अपि अस्ति । उद्यमी बिर्ला अस्य मन्दिरस्य निर्माणम् अकारयत् । अत्र भित्तिषु गीताश्लोकाः, देवदेवतानां सुन्दराणि चित्राणि च सन्ति । अमृतशिलया नुर्मितम् एतत् मन्दिरं ध्यानयोग्यम् अस्ति । अस्य गीतामन्दिरस्य समीपे एव प्राचीनं बलराममन्दिरम् अस्ति । तत्र बलरामस्य महामूर्तिः अस्ति । तत्पार्श्वे एव बलरामेण महाशेषरूपेण पातालं गतः गुहामार्गः अपि अस्ति । अनतिदूरे एव भगवतः श्रीकृष्णस्य देहोत्सर्गस्थानम् अस्ति । तत्र कश्चन प्राचिनः अश्वत्थवृक्षः अस्ति । तत्समीपे पादद्वयम् अस्ति । भालुकक्षेत्रे केनचित् व्याधेन प्रयुक्तः बाणः श्रीकृष्णं व्रणितम् अकरोत् । तदेव निमित्तीकृत्य श्रीकृष्णः प्रभासक्षेत्रम् आगत्य देहत्यागम् अकरोत् । तस्य देहोत्सर्गस्थाने हिरण्यानद्याः तीरे यादवस्थाली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति ।
आन्ध्रप्रदेशस्य श्रीशैलपर्वते विद्यमानं मल्लिकार्जुनमन्दिरम्

मल्लिकार्जुनः - श्रीशैलम्

प्रथमपङ्क्त्यामेव वर्णितं "श्रीशैले मल्लिकार्जुनम्" इति यदस्ति तत् श्रीशैलक्षेत्रम् अस्ति इदानीन्तन-आन्ध्रप्रदेशराज्ये । आन्ध्रप्रदेशे कृष्णानदीतीरे श्रीशैलपर्वतस्य उपरि विराजमानः अस्ति मल्लिकार्जुनदेवालयः । एतस्य क्षेत्रस्य दर्शनेन मुक्तिः प्राप्यते इति उच्यते । "श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते" इति लोकोक्तिः नितरां प्रसिद्धा एव । कर्नूलुजनपदस्य नन्दिकोटकूरुतालूक्प्रदेशे प्रसृतायां नल्लमलैपर्वतश्रेण्यां वनमध्ये कृष्णानद्याः दक्षिणभागे स्थितम् अस्ति इदं श्रीशैलक्षेत्रम् । अत्र प्रवहन्ती कृष्णानदी अत्यन्तं गभीरेषु खातेषु प्रवहति । एषा एव नदी "पातालगङ्गा" इति उच्यते । मल्लिकार्जुनमन्दिरस्य पश्चिमभागे भ्रमराम्बिकायाः मन्दिरम् अस्ति । अत्र महाशिवरात्रिः महता वैभवेन आचर्यते । एतत् क्षेत्रं बौद्धानां पवित्रं क्षेत्रम् । बौद्धतत्त्वज्ञानी आर्यनागार्जुनः अस्मिन् क्षेत्रे तपः आचरत् इति । आर्यनागार्जुनः रसविद्यायाम्, आयुर्वेदे, मन्त्रशास्त्रे, ज्योतिष्ये च निपुणः आसीत् । राज्ञे भोजदेवाय बौद्धधर्मस्य दीक्षाम् अयच्छत् आर्यनागार्जुनः एव । अयम् आर्यनागार्जुनः नलन्दाविश्वविद्यालयस्य संस्थापकेषु अन्यतमः अपि ।
मध्यप्रदेशस्य उज्जयिन्यां विद्यमानं महाकालमन्दिरम्

महाकालः - उज्जयिनी

उज्जयिन्यां महाकालम् इत्युक्तं यद् तत् प्रसिद्धम् उज्जयिनिनगरं विद्यते इदानीन्तनमध्यप्रदेशराज्ये । तत् नगरम् "अवन्तिकापुरी" इत्यपि उच्यते । एषा अवन्तिकापुरी सप्तमोक्षपुरीषु अन्यतमा । तत्र शिप्रानदीतीरे देदीप्यमानः अस्ति महाकालेश्वरःप्रदोषकालस्य पूजासमये महाकालेश्वरस्य दर्शनं महत् भाग्यकरम् इति उच्यते । अस्मिन् मन्दिरे आहत्य पञ्च अट्टाः सन्ति । तेषु एकः अट्टः भूम्याः अन्तः अस्ति । गर्भगृहस्य अन्तः प्रकाशः न भवति इत्यनेन सर्वदा तैलदीपः ज्वलन् भवति तत्र । नागपरिवेष्टितं महाकालस्य शिवलिङ्गं विशालम् अस्ति । एकदा देवाय अर्पितं पुष्पं पुनः न समर्प्यते कुत्रापि । किन्तु ज्योतिर्लिङ्गानां तथा नास्ति । एकदा अर्पितं बिल्वपत्रं प्रक्षाल्य पुनः अर्प्यते । शिवपुराणे महाकालसम्बद्धा काचित् कथा एवम् अस्ति – अवन्तीनगरे कश्चन धार्मिकः ब्राह्मणः वसति स्म । तस्य नगरस्य पार्श्वे रत्नमालानामकः गिरिः आसीत् । तत्र दूषणनामकः राक्षसः वसति स्म । सः राक्षसः अवन्तिनगरस्य जनान् सर्वदा पीडयति स्म । कदाचित् अवन्तीनगरस्थाः ब्राह्मणस्य समीपम् आगत्य अस्मान् रक्षतु इति प्रार्थितवन्तः । तदा ब्राह्मणः उग्रं तपः आचरत् । तपसा सन्तुष्टः शिवः भूमिं विदार्य बहिरागत्य राक्षससंहारम् अकरोत् । अनन्तरं भक्तानाम् इच्छानुसारं अवन्तिकायां महाकालरूपेण स्थितः । स्कन्दपुराणे एतत् क्षेत्रं “महाकालवनम्” इति एव निर्दिष्टम् अस्ति । एतदेकं सर्वोत्कृष्टं तीर्थम् इति वदति अग्निपुराणम् । उज्जयिन्यां महाकालस्य दर्शनेन अकालमृत्युः नश्यति, मुक्तिः अपि प्राप्यते इति ।
मध्यप्रदेशे नर्मदातीरे विराजमानम् ओङ्कारेश्वरमन्दिरम्

ओङ्कारेश्वरः - अमलेश्वरम्

ओङ्कारममलेश्वरम् इति यदुक्तं तत्र निर्दिष्टम् ओङ्कारेश्वरक्षेत्रम् अस्ति इदानीन्तनमध्यप्रदेशराज्ये । एतत् क्षेत्रं नर्मदानदीतीरे विराजते । एतस्य क्षेत्रस्य "मान्धाता" इति नामान्तरमपि अस्ति । अत्र एकस्मिन् एव क्षेत्रे ज्योतिर्लिङ्गद्वयम् अस्ति । ओङ्कारेश्वरः अमलेश्वरः च । ओङ्कारेश्वरमन्दिरं प्राचीनबौद्धविहारः इव दृश्यते । इदानीं विद्यमानम् ओङ्कारेश्वरमन्दिरं राज्ञी अहल्याबाई निरमापयत् । अत्रत्यस्य शिवलिङ्गस्य स्थानान्तरं कृतम् इव दृश्यते । तत् शिखरस्य अधः वा पार्श्वे वा अपसारितम् इव अस्ति । यवनानाम् आक्रमणात् शिवलिङ्ग्स्य रक्षणार्थं मूललिङ्गं गोपयित्वा तत्स्थाने अन्यत् लिङ्गं स्थापितम् इति श्रूयते । एतत् लिङ्गं परितः सर्वदा जलं स्थितं भवति । अत्र ओङ्कारेश्वरस्य पार्श्वे एव पार्वत्याः पञ्चमुखीगणेशस्य च विग्रहः अस्ति । मन्दिरस्य द्वितीये अट्टे महाकालेश्वरलिङ्गम् अस्ति । तृतीये अट्टे वैद्यनाथेश्वरलिङ्गम् अस्ति ।

वैद्यनाथः - परली

परल्यां वैद्यनाथेश्वरम् इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । अत्र वैद्यनाथेश्वरनामकं ज्योतिर्लिङ्गमस्ति । कुष्ठरोगिणः अत्र सेवां कृत्वा रोगमुक्ताः भवन्ति इति प्रतीतिरस्ति । एतस्य क्षेत्रस्य "चिताभूमिः" इत्यपि नामान्तरमस्ति ।
महाराष्ट्रे डाकिन्यां विद्यमानं भीमश्ङ्करमन्दिरम्

भीमशङ्करः - डाकिनी

डाकिन्यां भीमशङ्करम् इति यदुक्तं तत् क्षेत्रमपि इदानीन्तनमहाराष्ट्रराज्ये एव अस्ति । पुणेजनपदस्य खेड्-उपमण्डले भीमातीरे अस्ति एतत् क्षेत्रम् । एतत् खेड्तः ५० कि मी दूरे, पुणेतः १०० कि मी दूरे अस्ति । पुरा अत्र 'डाकिनी' इति ग्रामः आसीत् इति । अयं देवालयः सह्यपर्वतस्य उपरि अस्ति । भीमाशङ्करं भीमानद्याः उद्भवस्थानम् । भीमानदी कृष्णानद्याः उपनदी अस्ति । भीमानदी कर्णाटकराज्यस्य रायचूरुसमीपे कृष्णानद्या मिलति । भीमाशङ्करे वन्यमृगाणाम् अभयारण्यमपि अस्ति ।
तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्

रामेश्वरः - रामेश्वरम्

सेतुबन्धे तु रामेशम् इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनतमिळुनाडुराज्ये । अत्रत्यः देवः अस्ति रामनाथेश्वरः । अत्र श्रीरामः 'रावणेन सह कृतात् युद्धात् जातेभ्यः सर्वेभ्यः पापेभ्यः मुक्तः भवेयम्' इति प्रार्थितवान् इति श्रूयते । जीवने एकवारं वा रामनाथेश्वरस्य दर्शनं करणीयमिति प्रतीतिरस्ति । एतत् क्षेत्रं रामेश्वरम् इत्येव प्रसिद्धम् अस्ति । रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकरराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
गुजरातराज्ये दारुकावने विद्यमानं नागेश्वरमन्दिरम्

नागेश्वरः - द्वारका (दारुकावनम्)

नागेशं दारुकावने इति यदुक्तं तत् क्षेत्रमस्ति द्वारकासमीपे । द्वारकानगरं वर्तते इदानीन्तनगुजरातराज्ये । “नागेशं दारुकावने” इति शिवपुराणस्य द्वादशज्योतिर्लिङ्गस्तोत्रे यत् क्षेत्रं निर्दिष्टं तत् इदानीं “द्वारका” इति प्रसिद्धम् अस्ति । द्वादश ज्योतिर्लिङ्गेषु अन्यतमः अयं नागेश्वरः । द्वारकातः बेटद्वारकां प्रति गमनमार्गे अस्ति एतत् क्षेत्रम् । द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् एतत् दशमं ज्योतिर्लिङ्गम् अस्ति ।


विश्वेश्वरः - काशी (वाराणसी)

वाराणस्यां तु विश्वेशम् इति यदुक्तं तत् क्षेत्रमस्ति परमपवित्रं काशीक्षेत्रम् । तदस्ति इदानीन्तने उत्तरप्रदेशराज्ये । एतदपि क्षेत्रमस्ति सप्तमोक्षपूरीषु अन्यतमम् । अत्रत्यः देवः अस्ति विश्वनाथः । विश्वनाथः प्रकाशमानः अस्ति गङ्गानदीतीरे । एतदेव क्षेत्रं वाराणसी इत्यपि उच्यते । जीवने एकवारं वा काशीरामेश्वरदर्शनं करणीयमिति काङ्क्षते प्रत्येकः अपि हिन्दुः । एतत् भारतस्य अत्यन्तं प्राचीनं तीर्थक्षेत्रम् अस्ति । “काश्यां मरणान्मुक्तिः” इति उक्तिरेव अस्ति । परमपवित्रायाः गङ्गायाः तटे स्थितम् एतत् दिव्यक्षेत्रं भारतीयानां तत्रापि शिवभक्तानां परमं श्रद्धाकेन्द्रम् । काश्याः उल्लेखः वेदेषु, उपनिष्त्सु, रामायणे, महाभारते, पुराणेषु, बौद्ध-जैनसाहित्येषु सर्वत्र अपि अस्ति एव । स्कन्दपुराणस्य काशीखण्डे अस्य नगरस्य महत्त्वं वैभवं च वर्णयन्तः १५,००० श्लोकाः सन्ति । महाभारतानुसारं दिवोदासनामकः राजा इन्द्रस्य इच्छानुसारम् एतत् नगरं निर्मितवान् इति । एतत् नगरं शिवस्य देवसाम्राज्यस्य राजधानी । एतत् सप्तमोक्षदायकेषु नगरेषु अपि अन्यतमम् ।
महाराष्ट्रे नासिक्प्रदेशे विद्यमानं त्र्यम्बकेश्वरमन्दिरम्

त्र्यम्बकेश्वरः - नासिक्

त्र्यम्बकं गौतमीतटे इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । महाराष्ट्रे नासिकसमीपे वर्तते एतत् क्षेत्रम् । ब्रह्मगिरिपर्वतप्रान्ते गोदावरीनदीतीरे विराजते त्र्यम्बकेश्वरः । अत्रैव लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तितवान् इति । सरस्वत्याः तीरे दानेन, नर्मदातीरे तपसा, गङ्गातीरे शरीरत्यागेन यत् फलं प्राप्यते तत् सर्वमपि फलं गोदावर्याः सान्निध्ये प्राप्यते इति वदति गोदामाहात्म्यम् । गोदावर्याः दक्षिणाभिमुखः प्रवाहः दुर्लभः मोक्षदायकः च । सः नासिकक्षेत्रं प्रति आगतैः प्राप्यते । अत्र बहूनि मन्दिराणि सन्ति । पञ्चवट्याः रामकुण्डसमीपे कपालेश्वरमन्दिरम् अस्ति । अत्र शिवस्य पुरतः नन्दी नास्ति । सुन्दरनारायणमन्दिरम् अत्रत्यं प्राचीनं मन्दिरम् । तत् मन्दिरं नाशयित्वा तत्स्थाने यवनाः स्मशाननिर्माणं कृतवन्तः आसन् । क्रि श १७५६तमे वर्षे अत्र तत् मन्दिरं पुनर्निर्मितम् । गर्भगृहे कृष्णशिलायाः विष्णुमूर्तिः अस्ति । तस्याः मूर्तेः दक्षिणे वामे च भागे वृन्दायाः लक्ष्म्याः च विग्रहौ स्तः । प्रतिवर्षं मार्चमासस्य २०तमे वा २१तमे वा दिनाङ्के सूर्यस्य किरणाः साक्षात् विष्णुविग्रहस्य चरणयोः यथा पतेत् तथा एतत् मन्दिरं निर्मितम् अस्ति । पञ्चवट्यां रामस्य कुटीरं यत्र आसीत् तत्रैव कालराममन्दिरम् अस्ति ।
हिमालये विद्यमानं केदारेश्वरमन्दिरम्

केदारेश्वरः - केदारम्

हिमालये तु केदारम् इति यदुक्तं तत् क्षेत्रम् अस्ति इदानीन्तने उत्तराञ्चलराज्येचमोलीजनपदे मन्दाकिनीनद्याः तीरे विराजते अयं शिवदेवालयः । ३५६४ मीटर्यावदौन्नत्ये विद्यमानः एषः देवालयः एप्रिलमासान्ततः नवेम्बरप्रथमसप्ताहपर्यन्तं केवलं दर्शनार्थम् उद्घाटितः भवति । अत्यन्तं शीतलवातावरणस्य कारणतः षण्मासान् यावत् देवालयोयं पिहितः भवति । हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । गङ्गायाः यमुनायाः च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कारयन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्रीकृषणस्य शिवस्य पार्वत्याः च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।
महाराष्ट्रस्य एल्लोरायां विद्यमानं घुश्मेश्वरमन्दिरम्

घुश्मेश्वरः - एल्लोरा (शिवालयः)

घुश्मेशं च शिवालये इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । अयं घुश्मेशदेवालयः गुहान्तर्गतदेवालयः अस्ति । अत्र स्थितस्य सरोवरस्य नाम अस्ति "शिवालयः" इति । एतं देवालयं "कैलासदेवालयः" इत्यपि वदन्ति । औरङ्गाबादनगरतः ३० कि मी दूरे विद्यमानः अयं प्रदेशः राष्ट्रकूटराजवंशीयैः निर्मितः । अयं प्रदेशः गुहानां निमित्तम् अत्यन्तं प्रसिद्धः अस्ति । इदानीं सः प्रदेशः "एल्लोरा" इत्येव प्रसिद्धम् । सुप्रसिद्धात् एल्लोरातः अर्धमैल् दूरे अस्ति घुश्मेश्वरक्षेत्रम् । अस्मात् क्षेत्रात् अनतिदूरे धारेश्वरनामकं शिवलिङ्गम् अस्ति । अत्रैव एकनाथमहाराजस्य गुरोः श्रीजनार्दनमहाराजस्य स्मारकम् अपि अस्ति । घृष्णेश्वर-देवगिरिदुर्गयोः मध्ये सहस्रलिङ्गपातालेश्वरमन्दिरं, सूर्येश्वरमन्दिरं, सूर्यकुण्ड-शिवकुण्डनामकौ द्वौ सरोवरौ च सन्ति ।
क्रमः ज्योतिर्लिङ्गानि चित्रम् राज्यम् स्थितिः वर्णनम्
सोमनाथः Somanatha view-II.JPG गुजरात् प्रभास पाटना, सौराष्ट्रम् श्री सोमनाथः सौराष्ट्रम्, (गुजरातराज्यस्य) प्रभासक्षेत्रे विराजमानः अस्ति । प्राचीनकाले एतत् मन्दिरं षट् वारं विध्वंसितं सत् पुनः निर्मितं च । क्रि.श.१०२२तमे सम्भूतस्य महम्मदगझनेः आक्रमणेन महत् नष्टम् सञ्जातम् ।
मल्लिकार्जुनः Srisailam-temple-entrance.jpg आन्ध्रप्रदेशः कर्नूल् आन्ध्रप्रदेशराज्यस्य कृष्णामण्डले कृष्णनद्याः तीरे श्रीशैलपर्वतस्य मस्तके श्रीमल्लिकार्जुनः विराजते । एतत् स्थानं दक्षिणस्य कैलासः इति कथयन्ति ।
महाकालेश्वरः Mahakal Temple Ujjain.JPG मध्यप्रदेशः महाकालः, उज्जैन श्रीमहाकालेश्वरः मध्यप्रदेशस्य मालवमण्डलस्य क्षिप्रानद्याः तीरे पवित्रे उज्जैन नगरे सुशोभते । उज्जयिनी नगरस्य प्राचीनं नाम अवन्तिपुरम्/अवन्तिका इति ।
ओङ्कारेश्वरः Omkareshwar.JPG मध्यप्रदेशः नर्मदानद्यां कस्मिंश्चित् द्वीपे मालवक्षेत्रे श्रीॐकारेश्वरः नर्मदानद्याः मध्ये स्थिते द्वीपे विराजते । उज्जैयिनीतः खाण्डवा गमनस्य रेल्मार्गे मोरटक्का इति निस्थानमस्ति । तत्र अवतीर्य १०कि.मी. चलितं चेत् एतत् क्षेत्रं मिलति । अत्र ओङ्कारेश्वरः अमलेश्वरः चेति द्वे शिवलिङ्गे स्तः । किन्तु एतत् एकस्यैव लिङ्गस्य रूपद्वयं भवति । एतत् श्रीॐकारेश्वरलिङ्गं स्वयम्भूः इति विश्वासः अस्ति ।
केदारनाथः Kedarnath Temple.jpg उत्तराखण्डः केदारनाथः श्रीकेदारनाथः हिमालयस्य केदारः इति शृङ्गे स्थितः अस्ति । शिखरस्य पूर्वस्यां दिशि अलकनन्दा इति नदी प्रवहति । तस्य तटे श्रीबदरीनाथः विराजते । मन्दाकिनीनद्याः तटे केदारनाथः शोभते । एतत् स्थानं हरिद्वारतः १५०मैल् दूरे अपि च हृषिकेशतः १३२ मैल् दूरे उत्तराञ्चलराज्ये अस्ति ।
भीमाशङ्करः Bhimashankar.jpg महाराष्ट्रम् भीमाशङ्करः श्री भीमशङ्कस्य स्थानं मुम्बैतः पूर्वं पुणेनगरतः उत्तरे भीमानद्याः तीरे सह्याद्रेः मस्तके नासिकनगरात् १२०मैलिदूरे अस्ति । सैह्याद्रेः कस्यचित् एकस्य शिखरस्य नाम डाकिनी इति तस्मिन् स्थितः भीमशङ्करः ।
काशीविश्वनाथः उत्तरप्रदेशः वाराणसी वाराणसीक्षेत्रे स्थितः काशीश्रीविश्वनाथः सर्वप्रधानं ज्योतिर्लिङ्गम् अस्ति । गङ्गायाः तटे स्थितस्य विश्वनाथस्य दर्शनं हैन्दवानाम् अतीव पुण्यकार्यम् ।
त्र्यम्बकेश्वरः Trimbakeshwar Shiva Temple, Trimbak, Nashik district.jpg महाराष्ट्रम् त्र्यम्बकेश्वर श्री त्र्यम्बकेश्वरः ज्योतिर्लिङ्गं महाराष्ट्रस्य नासिकमण्डालस्य पञ्चवटीप्रदेशात् १८कि.मी दूरे ब्रह्मगिर्याः निकटं गोदावर्याः तीरे अस्ति ।
वैद्यनाथः झारखण्डराज्यम् देवघरमण्डलम् शिवपुराणानुसारं वैद्यनाथः चिताभूमौ अस्ति । झार्खण्डराज्यस्य प्रधानकेन्द्रस्य परगना क्षेत्रस्य जसीडीह निश्थानकस्य समीपं वैद्यनाथ इति ग्रामे श्री वैद्यनाथेश्वरमन्दिरं विराजते । अस्य स्थानस्य एव चिताभूमिः इति व्यवहारः । महाराष्ट्रस्य परभनी नामकस्य नगरस्य अनतिदूरे विद्यमानस्य परली ग्रामस्य समीपे कश्चित् वैद्यनाथदेवालयः अस्ति । तत् अपि ज्योतिर्लिङ्गत्वेन साधकाः विश्वसन्ति ।
१० नागेश्वरः Nageshwar Temple.jpg गुजरात् दारुकावनम्, द्वारका बड़ौदा क्षेत्रान्तर्गतस्य गोमतीनदी द्वारकायाः ईशान्य भागे प्रवहति । अस्याः तटे श्रीनागेश्वरः विराजते ।
११ रामेश्वरः Ramanathar-temple.jpg तमिल-नाडु रामेश्वरः श्रीरामेश्वरः तमिलनाडुराज्यस्य रामनाडमण्डले अस्ति। अत्र श्रीरामचन्द्रः लङ्कां विजित्य आगतः स्वाराध्यदेवं परशिवम् आरधयत् । एतत् स्थानम् एव श्री रामेश्वरः अथवा श्री रामलिङ्गेश्वरः इति कथ्यमानं ज्योतिर्लिङ्गक्षेत्रम् ।[१]
१२ घुश्मेश्वरः Grishneshwar Temple.jpg महाराष्ट्रम् एल्लोरा, औरङ्गाबादमण्डलम् श्री घुष्मेश्वरः ज्योतिर्लिङ्गक्षेत्रं महाराष्ट्रराज्यस्य दौलाबाद इति नगरात् १२कि.मी.दूरे बेरूल इति ग्रामस्य समीपे अस्ति ।

आधाराः[सम्पादयतु]

  1. For Rameshvara as one of the twelve "Pillars of Light", see: Chakravarti 1994, पृष्ठम् 140.