वसिष्ठः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
ब्रह्मणो मानसपुत्रोऽयं कश्चन ब्रह्मर्षिः । अस्य पत्नी महापतिव्रताऽरुन्धती । इयं नारदस्य सहोदरी । शक्तिर् अस्याः पुत्रः । पराशरोऽस्याः पौत्रः । वसिष्ठो मित्रावरुणेनोर्वश्यां जननं प्राप्तवान् । अयं वरुणस्य पुत्रः । कार्तवीर्यार्जुनेनास्याऽऽश्रमो दग्धो जातः । वसिष्ठस्य समीपे विद्यमानां कामधेनुं प्राप्तुं न शक्तः इत्यतो विश्वामित्रोऽस्मै द्विषति । ब्रह्मर्षिणा मया भवितव्यम् इति चिन्तयन् घोरं तपः आचरति । अन्ते वसिष्ठस्यानुग्रहेणैव विश्वामित्रो ब्रह्मर्षिपदं प्राप्नोति । इक्ष्वाकुवंशस्य वसिष्ठः पुरोहितः आसीत् इत्यतः सूर्यवंशस्य राज्ञां पुरोहितानां सामान्यनिर्देशो 'वसिष्ठः' इत्येव भवति स्मेति भाति । प्रजापतितो मरीचिर् जातः । तस्य पुत्रः एव कश्यपः । अनेनादित्यां यमलौ जातौ । एतौ एव मित्रावरुणौ । एताभ्यां क्रियमाणाय भव्ययज्ञाय देवताः, गन्धर्वाः, पितरश्चागताः आसन् । तत्राप्सरासु लावण्ययुतोर्वशी चागताऽऽसीत् । अयं दीक्षाबद्धयोर् मित्रावरुणयोर् दृष्टिपथम् आगता । तस्याः दर्शनेन तौ विकारवशौ जातौ । अखण्डनिष्ठया पालितं ब्रह्मचर्यं शिथिलतां गतम् । उभयोर् वीर्यस्खलनं जातम् । तत् कुम्बेऽरक्षन् । ततः उभौ शिशुरत्नौ अजायताम् । प्रथमः शिशुरेवागस्त्यः । कुम्भे विद्यमानं जलं सरोवरे यदा क्षिप्तं तदा तत्र विद्यमानो द्वितीयः शिशुस् तरन् कस्यचन कमलदलस्योपर्य् उपाविषत् । विशिष्टरीत्या जातः इत्यतो देवोऽयं 'वसिष्ठः'इति निर्दिष्टवन्तः ।
आपवनामकः प्रजापतिर् विसिष्ठो(ब्रह्मदेवो)ऽत्यन्तं सौन्दर्यवतीं काञ्चित् स्त्रीं निर्मितवन्तः । सैव प्रपञ्चस्य प्रथमा स्त्रीति कथ्यते । 'शतरूपे'ति तस्याः नाम । इयं महातपस्विन्य् आसीत् । वसिष्ठः इमां पत्नीरूपेण स्व्यकरोत् । अनयोः पुत्रः एव वीरः (हरिः) ।
दक्षप्रजापतिः स्वस्य पुत्रीम् ऊर्जलां वसिष्ठायायच्छत् । वसिष्ठेनैतस्यां सप्त पुत्राः पुण्डरीका नामिका कुमारी चाजायन् । एते सप्त पुत्राः एव सप्तर्षयः इति प्रसिद्धाः ।
वसिष्ठः श्वेतवर्णीयः । स्वस्य जटां शिरसः उपरी भागे दक्षिणपार्श्वेऽयं बध्नाति स्म । स्ययभोः पत्न्याः शतरूपायाः पुत्री देवहूतिः कर्दमर्षेः पत्नी । अनयोः पुत्रः कपिलः । अस्याः सहोदर्येवारुन्धतिः । अरुन्धतिः कश्यपस्य पुत्रीति वायुपुराणे उल्लेखो दृश्यते । वसिष्ठ-अरुन्धत्योः पुत्रः एव शक्तिः । शक्तेः पत्न्य् अदृश्यन्ति । अनयोः पुत्रः एव पराशरर्षिः । अस्य पुत्रः एव वेदव्यासः ।
तृत्सुर् नामको राजा शत्रुणा सह युद्धं कृत्वा पलायितः सन् वसिष्ठं शरणम् अगच्छत् । वसिष्ठः इन्द्रस्य साहाय्येन जयं सम्पाद्यायच्छत् ।
कदाचिज् जरूथनामको दैत्यो यज्ञं नाशयितुम् आरब्धवान् । तदा वसिष्ठोऽग्नेः सहाय्येन तम् अमारयत् ।
हरिश्चन्द्रस्य सत्यसन्धतायाः विषये विश्वामित्रेण सह जाते वाग्विवादे वसिष्ठः एव जयं प्राप्तवान् ।