महाभारतम्
विकिपीडिया इत्यस्मात्
अष्टादश-पर्व-संवलितः अयं ग्रन्थ: महाभारतम् महर्षि वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासो विद्यते । अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषय-रूपेण वर्णितमस्ति । मानव-जीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्त-पुरुषार्थाः अत्र विशाल-ग्रन्थे सन्निवेशिताः । अस्य महाभारतस्य भीष्म-पर्वणि श्रीमद्भगवद्गीता विद्यते । भगवता कृष्णेन मोहग्रस्तं अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः । अस्यां गीतायामपि अष्टादश-संख्यकाः अध्यायाः वर्णिताः । मानव-जीवनस्य विविध-विषयाः अत्र सुप्रतिपादिताः । इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव ।
अन्तर्विषयाः |
[संपादयतु] नामधेयम्
पूर्वे अस्य नाम जयसंहिता आसीत्। यथा प्रसिद्धः श्लोकः प्रत्येकस्य अध्यायस्य आदौ प्राप्यते-
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।
ततः पश्चात् अस्य श्लोकानां संख्या पश्चाद्वर्तिविद्वद्भिः वृद्धीकृता नामधेयं च भारतमिति प्रसिद्धम्। अन्त्ये चक्रे अस्य महाकाव्यस्य पुनः संवर्धनपश्चात् अस्य श्लोकानां संख्या एक-लक्षमिता जाता। तदा इदं महाभारतमिति प्रसिद्धम्। महाभारतस्य अन्तः प्रमाणाः अपि अस्य श्लोकानां संख्या एक-लक्षमिति मन्यन्ते। श्लोकोऽयं तत्र प्राप्यते-
उक्तं शतसहस्राणां श्लोकानामिदमुत्तमम्।
अस्य ग्रंथस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति।
[संपादयतु] अधुनातने जनजीवने
संस्कृतस्य काव्यमिदं अद्यापि जनजीवने सुविख्यातः, रुचिकरः, प्रेरणाप्रदश्च तिष्ठति। दूरदर्शने रामायण इति धारावाहिकस्य लोकप्रियताम् अनु महाभारत इति धारावाहिकं खे प्रसारितम्। बी.आर.चोपडावर्येण सृष्टमिदं धारावाहिकम् न केवलात् स्वकीयात् गभीराध्ययनपूर्वकात् चित्रणात् अपितु तस्य प्राक् प्रसारितात् गीतादपि बहुभ्यः रोचते स्म, तद् गीतम् "भारत की ये कहानी सदियों से भी पुरानी है ज्ञान की ये गंगा ऋषियों की अमर वाणी" इति शब्दैः अद्यापि जनस्मृतौ विद्यते। धारावाहिकमिदं दूरदृष्टियंत्रे, बहुवाहिनीभिः समृद्धे युगेऽस्मिन्नपि पुनः पुनः प्रसार्यते।
[संपादयतु] संबंधित कड़ियाँ
- महाभारतम् (विकिस्रोत पर)
- महाभारतम् (संस्कृत विकिपुस्तक पर)
- Mahābhārata (अंग्रेज़ी विकिपीडिया पर)
- Mahabharat (अंग्रेज़ी विकिस्रोत पर)
- महाभारत (हिन्दी विकिपीडिया पर)
- महाभारत (नेपाली विकिपेडियामा)