"सामवेदः" इत्यस्य संस्करणे भेदः
कालः |
|||
पङ्क्तिः ९: | पङ्क्तिः ९: | ||
== कालः == |
== कालः == |
||
सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा |
सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति। ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। [[यजुर्वेदः|यजुर्वेदे]] रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। [[एतरेयब्राह्मणम्|एतरेयब्राह्मणे]] नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते। |
||
== सामवेदस्य व्याख्या == |
== सामवेदस्य व्याख्या == |
||
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामशब्दस्य प्रयोगः द्वयोरर्थयोरेव प्राप्यते। ऋग्मन्त्राणामुपरि गायनमेव वस्तुतः सामशब्दस्य वाच्योऽस्ति। किञ्च ऋग्मन्त्रेभ्योऽपि सामशब्दस्य प्रयोगो लभते। सामसंहितायाः सङ्कलनमुद्गातृ-नामके ऋत्विजे कृतमस्ति। उद्गाता अयं देवतायाः स्तुतिपरकमन्त्रान् एव आवश्यकतानुसारेण विविधस्वरेषु गायति। अतः समस्याधारः ऋग्मन्त्रा एव भवन्ति।<ref>( ऋचि अष्यूवं साम-छा० उ० १॥६॥१ )</ref> ऋक्सामयोः प्रग्राहमिदं पारस्परिकसम्बन्धं सूचयितुम् उभयोर्मध्ये दाम्पत्यभावस्य अपि कल्पना वर्तते अत्र। पतिः सन्तानोत्पादनाय पत्न्याः आह्वाहनं कुर्वन् कथयति- सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। अहमाकाशोऽस्मि त्वञ्च पृथिव्यसि। अतः आगच्छ। आवां मिलित्वा प्रजानाम् उत्पादनं कुर्वः। |
|||
⚫ | |||
'''अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम्।''' |
|||
[[वेदः|वेदानां]] सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति। अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति। |
|||
'''मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।'''<ref>(बृह० उ० ६॥५॥२०; अ० वे० १४॥२॥७ ऐ० ब्रा० ८॥२७ )</ref> |
|||
“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः। गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति। यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति। यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति। साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते। सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च। आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम्। सामसंहितायाः संकलनमुद्गातुः कृते कृतम्। जैमिनियसूत्रानुसारं गीति एव साम। छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम्। बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम्। येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते। |
|||
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।<ref>(बृह० उ०१।३।२२)</ref> 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति। |
|||
== सामस्य स्वराः == |
|||
⚫ | सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते। |
||
==सामवेदस्य विभागः== |
==सामवेदस्य विभागः== |
१०:३७, २६ मे २०१७ इत्यस्य संस्करणं
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
सामवेद इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते। यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः। अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः। ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते।
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः।
प्रशंसा
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। ऋग्वेदे, अथर्ववेदे चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - 'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।[१] अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — 'उद्गातेव शकुने साम गायसि'।[२] अङ्गिरा-ऋषेः सामस्योल्लेखः अनेकशो लभते— 'अङ्गिरसां सामभिः स्तूयमानाः'।[३] अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।[४] अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – 'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'।[५] अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– 'ऋचं साम यजामहे यासां कर्माणि कुर्वते'।[६]
कालः
सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति। ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। यजुर्वेदे रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। एतरेयब्राह्मणे नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते।
सामवेदस्य व्याख्या
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामशब्दस्य प्रयोगः द्वयोरर्थयोरेव प्राप्यते। ऋग्मन्त्राणामुपरि गायनमेव वस्तुतः सामशब्दस्य वाच्योऽस्ति। किञ्च ऋग्मन्त्रेभ्योऽपि सामशब्दस्य प्रयोगो लभते। सामसंहितायाः सङ्कलनमुद्गातृ-नामके ऋत्विजे कृतमस्ति। उद्गाता अयं देवतायाः स्तुतिपरकमन्त्रान् एव आवश्यकतानुसारेण विविधस्वरेषु गायति। अतः समस्याधारः ऋग्मन्त्रा एव भवन्ति।[७] ऋक्सामयोः प्रग्राहमिदं पारस्परिकसम्बन्धं सूचयितुम् उभयोर्मध्ये दाम्पत्यभावस्य अपि कल्पना वर्तते अत्र। पतिः सन्तानोत्पादनाय पत्न्याः आह्वाहनं कुर्वन् कथयति- सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। अहमाकाशोऽस्मि त्वञ्च पृथिव्यसि। अतः आगच्छ। आवां मिलित्वा प्रजानाम् उत्पादनं कुर्वः।
अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम्।
मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।[८]
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।[९] 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।
सामस्य स्वराः
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
सामवेदस्य विभागः
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च। पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते। विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः।
सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च। पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः। प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति। प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते। प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते। पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते। उत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः। अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति। उत्तरार्चिके मन्त्राणां संख्या १२२५। ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति।
सामवेदस्य शाखाः
सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि दीयन्ते। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च।
सामवेदस्य पदकाराः
गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। निरुक्ते (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते। दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न )। यास्केन तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।[१०] स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते। यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=सूर्यः।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = जलम्, यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या।
सम्बद्धाः लेखाः
सन्दर्भः
- ↑ (ऋ० वे० ५॥४४॥१४)
- ↑ ( २॥४३॥२ )
- ↑ ( ऋ० वे० १।१०७।।२ )
- ↑ 'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)
- ↑ (अथ० वे० ११॥७॥२४)
- ↑ ( अ० वे० ७॥५४।१ )
- ↑ ( ऋचि अष्यूवं साम-छा० उ० १॥६॥१ )
- ↑ (बृह० उ० ६॥५॥२०; अ० वे० १४॥२॥७ ऐ० ब्रा० ८॥२७ )
- ↑ (बृह० उ०१।३।२२)
- ↑ दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६