जैनतीर्थानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जैनतीर्थानि ( /ˈɛɪnətrθɑːnɪ/) (हिन्दी: जैन तीर्थ, आङ्ग्ल: Jain Tirthas) जैनधर्मस्य पवित्राणि यात्रास्थलानि, पूजास्थलानि, वीक्षणीयस्थलानि वा भवन्ति । निखिलभारते जैनतीर्थानि सन्ति । तत्र जैनधर्मानुयायिनः यात्रायै गच्छन्ति । जैनेतराः अपि दर्शनार्थं गच्छन्ति । बहुत्र जैनतीर्थङ्कराणां मन्दिराणि, पादचिह्नानि, स्मारकाणि च भवन्ति । चतुर्विंशतितीर्थङ्कराणां यत्र यत्र जन्म, निर्वाणं च अभवत्, तानि सर्वाणि स्थानानि तीर्थस्थलानि सन्ति । यत्र तीर्थङ्कराः, जैनाचार्याः च यत्र साधनां कुर्वन्ति स्म, तानि स्थलानि अपि तीर्थानि कथ्यन्ते |

पूर्वभारते, पश्चिमभारते, उत्तरभारते, दक्षिणभारते, मध्यभारते च जैनधर्मस्य प्रभावः वर्तते । भारतस्य प्रत्येकस्मिन् राज्ये जैनधर्मस्य अनुयायिनः निवसन्ति । अतः तेन कारणेन तत्र जैनतीर्थानि अपि स्थितानि सन्ति । अनेन प्रकारेण सम्पूर्णे भारते जैनधर्मस्य पवित्रतीर्थस्थलानि सन्ति । भारतस्य विभिन्ननगरेभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः जैनतीर्थानि दर्शनार्थं, भ्रमणार्थं च गच्छन्ति ।

अन्तर्विषयाः

अयोध्यानगरी[सम्पादयतु]

Ayodhya Nagri.jpg

अयोध्या-नगरी भारतस्य प्राचीनतमासु नगरीषु अन्यतमा वर्तते । जैनसाहित्येषु, बौद्धसाहित्येषु, संस्कृतसाहित्येषु च अस्याः नगर्याः वर्णनं प्राप्यते । अयोध्यानगर्यां सप्तकुलकराणां, चतुर्दशतीर्थङ्करेषु ऋषभदेवेत्यादीनां च जन्म अभवत् । अतः इयं नगरी जैनतीर्थं कथ्यते । आचार्यजिनप्रभसूरिणा “कल्पप्रदीपः” इति ग्रन्थे अयोध्यानगर्याः वर्णनं कृतम् अस्ति । अयोध्यानगर्याः विभिन्ननामानि प्राप्यन्ते । यथा - अवज्झा, अउज्झा, विनीता, कुशल. इक्ष्वाकुभूमि, रामापुरी च । यदा ऋषभदेवस्य राज्याभिषेकः अभवत्, तदा शक्रेण विनीतपुरुषः इति नाम्ना सः सम्बोधितः आसीत् । तावदेव अस्याः नाम विनीता अभवत् । इयं नगरी सरयू-नद्याः तटे स्थिता अस्ति ।

जैनमतानुसारम् अयोध्या-नगरी आदितीर्थम्, आदिनगरं च अस्ति । अयोध्यायाः नामानि बहूनि सन्ति । “आवश्यकनिर्युक्तिः” नामके ग्रन्थे विभिन्ननाम्नां कारणानि प्रदत्तानि सन्ति । यथा – “अयोध्यानगर्याः निवासिनां स्वभावः विनम्रः आसीत् । अतः विनीता इति नाम अभवत्” । तथैव “तस्याः नगर्याः जनाः स्वकार्येषु निपुणाः कुशलाः आसन् । अतः कुशला इत्यपि नाम प्रसिद्धम् अस्ति” । इयं भूमिः इक्ष्वाकुवंशीयानां राज्ञां राजधानी आसीत् । अतः इक्ष्वाकुभूमिः इति अपि कथ्यते । यदा बुद्धस्य, महावीरस्य च कालः आसीत्, तदा “साकेत” इति नाम्ना अपि ख्याता आसीत् । योद्धुम् अशक्या इति अयोध्या ।

“रघुवंशीयः दशरथः, रामः, भरतः च अयोध्यानगर्याः राजानः आसन्” इति जिनप्रभुसूरिणा उक्तम् । तेन अयोध्यानगर्याः भौगोलिकस्थितेः, विस्तारस्य च विषये यस्याः खगोलशास्त्रीयमान्यतायाः उल्लेखः कृतः, सा अपि जैनपरम्पराधारिता अस्ति । साम्प्रतम् अयोध्यानगर्यां बहवः श्वेताम्बरदिगम्बराः जिनालयाः सन्ति । ते जिनालयाः अर्वाचीनाः सन्ति [१][२]

अहिच्छत्रा[सम्पादयतु]

अहिच्छत्रा भारतस्य प्राचीनतमासु नगरीषु अन्यतमा अस्ति । बौद्धजैनब्राह्मणशास्त्रेषु अस्याः वर्णनं प्राप्यते । साम्प्रतं तत्र उत्खननेन तस्याः नगर्याः अवशेषाः अपि प्राप्यन्ते । तैः अवशेषैः तस्याः नगर्याः प्राचीनस्थितिः ज्ञायते । अहिच्छत्रा-नगरी जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति । “ज्ञातृधर्मकथा”, “आवश्यकनिर्युक्ति” इत्येत्योः ग्रन्थयोः अस्याः नगर्याः उल्लेखः प्राप्यते । जिनप्रभसूरि इत्याख्येन अपि जैनतीर्थत्वेन अस्याः नगर्याः वर्णनं कृतम् अस्ति ।

जम्बूद्वीपस्य भारतस्य कुरुजाङ्गल-जनपदि शङ्खावती नामिका प्राचीना नगरी आसीत् । एकदा भगवान् पार्श्वनाथः छद्मावस्थायां विचरन् आसीत् । सः शङ्खावती-नगरं प्राप्तवान् । अनन्तरं नगरस्य बहिः एव ध्यानावस्थः अभवत् । तस्मिन् समये कमठ-इत्याख्यः ततः गच्छन् आसीत् । कमठेन भगवान् पार्श्वनाथः दृष्टः । तदा कमठः पूर्वजन्मनः वैरं स्मृतवान् । अनन्तरं सः पार्श्वनाथाय कष्टम् अददात् । स्वस्यतपस्यायाः प्रकोपेण कमठः वृष्टिं चकार । घोरवृष्ट्या तन्नगरं जलमग्नं जातम् । तदा भगवतः शरीरम् अपि अवसीदत् आसीत् । तदा धरणेन्द्रेण स्वस्य फणाभिः भगवतः उपरि छत्रं निर्मितम् आसीत् । यतः भगवता अपि धरणेन्द्रस्य रक्षणं कृतम् आसीत् । अनेन प्रकारेण धरणेन्द्रेण भगवतः रक्षणं कृतम् आसीत् । अतः तस्याः नगर्याः नाम अहिच्छत्रा अभवत् । तस्यां नगर्यां हिरण्यगर्भः, चण्डिकाभवनम्, ब्रह्मकुण्डः, हरिहरः च लौकिकानि तीर्थानि सन्ति । भगवतः कृष्णस्य जन्मभूमिः अपि अस्ति इयं नगरी ।

तत्र उत्खननेन जैनप्रतिमाः अपि प्राप्ताः । तासु बह्वीषु प्रतिमासु कुषाणकालीनाभिलेखाः अपि प्राप्यन्ते । अनेन स्पष्टं भवति यत् – “अहिच्छत्रा-नगरी कुषाणकाले काचन प्रसिद्धा नगरी आसीत्” इति । जैनपरम्परानुसारं कृष्णः नवमः वासुदेवः अस्ति । ब्राह्मणीयपरम्परानुसारं कृष्णः विष्णोः अवतारः मन्यते । द्वयोः धर्मयोः कृष्णस्य जन्मस्थानं मथुरा एव स्वीक्रियते । किन्तु जिनप्रभ इत्याख्येन कृष्णस्य जन्मस्थलम् अहिच्छत्रा प्रदर्शितम् अस्ति । बरेली-मण्डलस्य रामनगरेण सह अहिच्छत्रा-नगरी सम्बध्यते । तत्र द्वयोः सम्प्रदाययोः पृथक्-पृथक् जिनालयौ स्तः [३]

काम्पिल्यपुरम्[सम्पादयतु]

काल्पिल्यपुरम् उत्तरप्रदेश-राज्ये फरुखाबाद-मण्डले कायमगञ्ज-रेलस्थानकात् १० किलोमीटरमिते दूरे अस्ति । अस्य अपरः नाम कम्पिलातीर्थम् अपि अस्ति । काम्पिल्यपुरं पाञ्चालजनपदस्य राजधानी आसीत् । सा भारतस्य प्राचीना नगरी अपि आसीत् । ग्रन्थेषु तस्याः नगर्याः वर्णनं प्राप्यते । महाभारते वर्णनं प्राप्यते यत् – “काम्पिल्यपुरं दक्षिणपाञ्चालस्य राजधानी अस्ति” इति । चतुर्विंशतितीर्थङ्करेषु त्रयोदशस्य तीर्थङ्करस्य विमलनाथस्य जन्म अभवत् । अतः इदं नगरं जैनतीर्थस्वरूपेण प्रसिद्धम् अभवत् । जिनप्रभसूरिणा अस्य तीर्थस्य विषये वर्णनं कृतम् अस्ति ।

जम्बूद्वीपस्य दक्षिणभारतस्य पूर्वदिशि पाञ्चालजनपदि गङ्गायां घोषे काम्पिल्यपुरम् अस्ति । भगवतः विमलनाथस्य पञ्चकल्याणकाः (च्यवन, जन्म, राज्याभिषेकः, दीक्षा, केवलज्ञानम्) तस्मिन् नगरे एव अभवत् । दशम चक्रवर्ती हरिषेणः, द्वादश चक्रवर्ती ब्रह्मदत्तश्च तत्रैव जनीं लेभाते । गाङ्गलिकुमारेण मातृपितृभ्यां सह गणधरगौतमात् दीक्षा प्राप्ता । तस्मिन् नगरे एव पाण्डवैः सह द्रुपदराज्ञः पुत्र्याः द्रौपद्याः विवाहः अभवत् । अस्याः नगर्याः राजा धर्मरुचिः धर्मनिष्ठः आसीत् । यदा काशीराज्ञा सह धर्मरुचेः युद्धम् अभवत्, तदा धर्मरुचिः पुण्यप्रतापेन स्वस्य सेनाम् आकाशमार्गेण नीतवान् आसीत् । इदं नगरं महातीर्थम् अस्ति ।

यः श्रमणः मूलसिद्धान्तानां प्रामाणिकतायां शङ्कां करोति, यः भिन्नप्रकारेण तस्य अर्थं प्रतिपादयति, सः श्रमणः “निह्नव” इति कथ्यते । तादृशानां सप्तजिह्नवानां सम्बन्धः काम्पिल्यपुरेण सह अस्ति । ते – जामालिः, तिस्यगुप्तः, आसाढः, असिमित्रम्, गङ्गः, रोहगुप्तः गोष्ठामिहिलः च । वर्तमाने काम्पिल्यपुरे उत्खननेन गुप्तयुगतः मध्ययुगं यावत् अनेकाः पुरावशेषाः प्राप्ताः । ते अवशेषाः ब्राह्मणीयबौद्धजैनपरम्पराभिः सह सम्बद्धा सन्ति । तत्र जिनालयेषु तीर्थङ्कराणां प्रतिमाः प्रतिष्ठिताः सन्ति । ताः प्रतिमाः कलादृष्ट्या महत्वपूर्णाः सन्ति । अतः प्राप्तपुरावशेषाः लखनऊ-नगरस्य राजकीयसङ्ग्रहालये संरक्षिताः सन्ति [४][५]

कौशाम्बीनगरी[सम्पादयतु]

इलाहाबाद-नगरात् ६४ किलोमीटरमिते दूरे कोईस-इनाम, कोइस-खीराज इत्येतौ द्वौ ग्रामौ स्तः । तौ एव कौशाम्बी-नगरी आसीत् । पुरा कौशाम्बी-नगरी वत्स-जनपदः राजधानी अस्ति । चतुर्विंशतितीर्थङ्करेषु षष्ठ तीर्थङ्करस्य पद्मप्रभोः च्यवनं, जन्म, दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः कौशाम्बीनगर्याम् एव अभवन् । इयं नगरी यमुनानद्याः तटे स्थिता अस्ति । भगवतः महावीरस्य काले कौशाम्बीनगर्याः राजा शतानिकः आसीत् । भगवान् महावीरः एकया कौशाम्बीनगरीं गतवान् । भगवान् महावीरः तत्र प्रवचनं कुर्वन् आसीत् । भगवतः समवसरणं तत्रैव आसीत् । राजा शतानिकः महावीरस्य भक्तः आसीत् । यदा राजा शतानिकः अतिसाररोगेण दिवङ्गतः, तदा तस्य पत्न्या मृगावत्या स्वस्याः पुत्राय उदयनाय राज्यस्य दायित्वं दत्त्वा महावीरात् दीक्षा सम्प्राप्ता । अनन्तरं साध्वीमृगावतिः कौशाम्बी-नगर्याम् एव केवलज्ञानं प्राप्तवती ।

आर्यसुहस्तिसूरीश्वरजी, आर्यमहागिरिसूरिश्वरजी इत्यादयः आचार्याः अपि दर्शनार्थं कौशाम्बीतीर्थं गतवन्तः । भगवता महावीरेण एकः निश्चयः कृतः आसीत् यत् – अहं तस्याः हस्ताभ्याम् एव भक्ष्यामि, “यः राजकुमारी स्यात् किन्तु सा दासीत्वं प्राप्नुयात्” इत्यादयः सङ्कल्पाः आसन् । अतः भगवान् सङ्कल्पं पूर्णीकर्तुं विचरन् आसन् । सर्वे भक्ताः चिन्ताग्रस्ताः आसन् यत् – “महावीरः भोजनं न स्वीकरोति” इति । पञ्चमासेभ्यः अनन्तरं भगवान् सतीचन्दनबालायाः गृहे भिक्षार्थं गतवान् । सतीचन्दनबाला कस्मै अपि. याचकाय भोजनं दानं कर्तुम् इच्छति स्म । महावीरस्य सङ्कल्पानुसारं किन्तु सङ्कल्पानुसारेण सा रुदन्ती नासीत् । अतः महावीरः ततः गच्छन् आसीत् । तस्मिन् समये सतीचन्दनबाला रुदितवती । अनन्तरं भगवतः अभिग्रहः पूर्णः अभवत् ।

भगवतः अभिग्रहे पूर्णे सति इन्द्रादयः देवाः रत्नानां पुष्पाणां च वर्षां चक्रुः । सतीचन्दनबाला शिरसि देवमुकुटं धृतवती । अनन्तरं बहुभिः आभूषणैः सतीचन्दनबाला सज्जा अभवत् । सतीचन्दनबालया पावापुरी-ग्रामे भगवतः महावीरात् दीक्षा प्राप्ता । सा भगवतः महावीरस्य श्रमणसङ्घस्य प्रथमा शिष्या आसीत् । इयं नगरी भारवर्षस्य प्राचीनतमासु नगरीषु अन्यतमा अस्ति” इति । तत्र भगवतः पद्मप्रभोः मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः पद्मप्रभोः त्रिंशत् (३०) सेन्टीमीटरमितम् उन्नतां श्वेतमूर्तिः अस्ति ।

ब्राह्मणपरम्परानुसारं हस्तिनापुरस्य नाशान्ते पौरववंशीयैः राजभिः कौशाम्बी-नगरी राजधानीत्वेन स्वीकृता आसीत् । बुद्धमहावीरौ अपि तत्र गतवन्तौ । जिनप्रभसूरिणा कल्पप्रदीपनामके ग्रन्थे अस्याः नगर्याः वर्णनं कृतम् अस्ति । अस्यां नगर्यां बहूनि मन्दिराणि सन्ति । तेषु मन्दिरेषु नैकाः जिनप्रतिमाः प्रतिष्ठिताः सन्ति । तत्र चन्दनबालायाः अपि सेवां कर्तुम् एका प्रतिमा वर्तते । जैनमतानुसारं भगवतः पद्मप्रभोः विषये जैनग्रन्थेषु विस्तृतं वर्णनं प्राप्यते । भगवतः महावीरस्य प्रथमः अन्नाहारः अस्यां नगर्याम् एव अभवत् [६]

साम्प्रतम् इलाहाबाद-नगरस्य दक्षिण-पश्चिमदिशि कोसम-नामकं स्थलं वर्तते । तत् स्थलम् एव कौशाम्बी-नगरीरूपेण प्रसिद्धम् अस्ति । कोसम-स्थले, समीपस्थेषु क्षेत्रेषु च जिनप्रतिमाः, मानस्तम्भाः, आयागपट्ट इत्यादयः प्राप्ताः । ते स्थानीयपुरातत्त्वसङ्ग्रहालये संरक्षिताः सन्ति । कोसम-स्थलस्य एकस्मिन् गृहे अपि जैनपुरावशेषाः प्राप्ताः । अस्यां नगर्याम् अपि जिनप्रतिमानां पुरावशेषाः प्राप्ताः । ते अवशेषाः अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तकालीनाः सन्ति । चतुर्दशशताब्दी जिनप्रभसूरिणः कालः वर्तते । तस्मिन्काले अपि इयं नगरी जैनतीर्थत्वेन प्रसिद्धा आसीत् । किन्तु तदनन्तरं मुस्लिमशासकैः अस्याः नगर्याः नाशः कृतः [७][८]

चन्द्रावती[सम्पादयतु]

चन्द्रावती-नगरी वाराणसीनगरीतः उत्तरपूर्वदिशि २० मील् दूरे गङ्गानद्याः पश्चिमीतटे स्थिता अस्ति । भारतीयपुरातत्वविभागेन इयं नगरी प्राचीना उद्घोषिता । चतुर्विंशतितीर्थङ्करेषु अष्टम तीर्थङ्करः चन्द्रप्रभुः चन्द्रावती नगर्यां जनिं लेभे । भगवतः चन्द्रप्रभोः च्यवनं, जन्म, दीक्षा, केवलज्ञानम् एते चत्वारः कल्याणकाः चन्द्रावतीनगर्याम् एव अभवन् । जैनधर्मस्य द्वयोः सम्प्रदाययोः ग्रन्थेषु चन्द्रप्रभोः कल्याणकानाम् उल्लेखः प्राप्यते । तथापि तेषु ग्रन्थेषु अस्याः नगर्याः भौगोलिकावस्थितेः किमपि प्रमाणं न प्राप्यते । आचार्यजिनप्रभसूरिणा अस्याः नगर्याः भौगोलिकावस्थितेः चर्चा स्वस्य ग्रन्थे कृता अस्ति । इयं नगरी वाराणसी-नगरीतः सार्धद्वियोजनदूरे स्थिता अस्ति ।

श्वेताम्बरपरम्परायाः तीर्थमालाः मध्ययुगे लिखिताः आसन् । तासु जिनप्रभसुरिणः मान्यतानाम् अनुसरणं क्रियते । यद्यपि दिगम्बरपरम्परायाः ग्रन्थेषु अस्याः नगर्याः कुत्रापि उल्लेखः न प्राप्यते । अतः स्पष्टं भवति यद् अस्यां नगर्यां दिगम्बरपरम्परायाः कोऽपि जिनालयः नासीत् । अस्यां नगर्यां श्वेताम्बरदिगम्बरसम्प्रदाययोः एकैकः जिनालयः अस्ति । दिगम्बरसम्प्रदायस्य जिनालयस्य निर्माणं वि. सं १८९२ तमे वर्षे अभवत् । अनन्तरं श्वेताम्बरसम्प्रदायस्य जिनालस्य निर्माणम् अभवत् ।

वि. सं १९१२ तमे वर्षे गङ्गानद्यां जलविप्लवः अभवत् । तेन जलविप्लवेन नगर्याः स्थितिः जर्जरा अभवत् । भग्नावशेषेषु एका पाषाणपेटिका सम्प्राप्ता । तया पेटिकया ताम्रपत्रद्वयं प्राप्तम् । प्रथमं ताम्रपत्रं वि. सं. ११५० तमस्य वर्षस्य, अपरं वि. स. ११५६ तमस्य वर्षस्य च अस्ति । तयोः द्वितीयताम्रपत्रे भूमिदानस्य विस्तृतं वर्णनम् अस्ति यत् – “चन्द्रदेवेन चन्द्रमाधवाय चन्द्रावतीनगर्यां स्थिताः देवालयाः अदीयन्त” । अनेन स्पष्टं भवति यत् – “विक्रमवर्षस्य द्वादश्यां शताब्द्यां चन्द्रावती-नगर्यां चन्द्रमाधवस्य एकः प्रसिद्धः देवालयः आसीत् । ई. स. १९१२ तमे वर्षे भारतीयपुरातत्त्वविभागेन ताम्रपत्रयोः सर्वेक्षणं कृतम् आसीत् । तदा “दयाराम साहनी” इत्याख्यस्य सर्वेक्षणस्य दायित्वम् आसीत् । तेन कृतस्य सर्वेक्षणस्य अनन्तरम् उक्तं यत् – “साम्प्रतं चन्द्रावतीनगर्याः यः जिनालयः अस्ति, सः पुरा “चन्द्रमाधो का मन्दिर” इति नाम्ना प्रसिद्धः आसीत् । मन्दिरस्य उत्तरीयभित्तौ वि, सं. १७५६ तमवर्षस्य शिलालेखः अस्ति । मन्दिरे वि. सं. १५६४ तमस्य वर्षस्य भगवतः शान्तिनाथस्य प्रतिमा अस्ति” । किन्तु वर्तमानकाले तत्र वि. सं. १७५६ तमवर्षस्य शिलालेखः नास्ति । भगवतः शान्तिनाथस्य प्रतिमा अपि नास्ति । सा प्रतिमा वाराणस्यां भेलूपुरे दिगम्बरजैनमन्दिरे स्थानान्तरिता ।

चन्द्रावतीनगर्याः भौगोलिकस्थितिविषये सर्वप्रथमं कल्पप्रदीपग्रन्थे उल्लेखः प्राप्तः । अस्याः नगर्याः प्राचीनतायाः विषये किमपि वक्तुं न शक्यते । यतः उचितप्रमाणानि न प्राप्तानि । किन्तु ताम्रपत्रैः स्पष्टं भवति यत् – दशम्याम् एकादश्यां वा शताब्द्याम् इयं नगरी प्रसिद्धा आसीत् [९]

प्रयागतीर्थम्[सम्पादयतु]

उत्तरप्रदेशस्य इलाहाबाद-नगरस्य अपरं नाम प्रयागतीर्थम् अस्ति । इदं नगरम् आग्रा-नगरात् ४३३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं हिन्दुजनानां प्रसिद्धतीर्थस्थलं वर्तते । प्राचीनग्रन्थेषु तत्र नदीद्वयस्य (गङ्गा, यमुना च) सङ्गमः मन्यते । किन्तु उत्तरकालीनग्रन्थेषु तत्र नदीत्रयस्य (गङ्गा, यमुना, सरस्वती च) सङ्गमः प्रकल्प्यते । अतः त्रिवेणीसङ्गमः कथ्यते । कालिदासेन अपि रघुवंशमहाकाव्ये त्रिवेणीसङ्गमस्य वर्णनं कृतम् अस्ति । द्वादशवर्षेषु एकं वारं तत्र कुम्भोत्सवः आचर्यते । तत्र नदीषु स्नानस्य महत्त्वं विद्यते । जनाः त्रिवेणीसङ्गमे अस्थिविसर्जनार्थं प्रयागतीर्थं (इलाहाबाद) गच्छन्ति । रामायणे, महाभारते चापि अस्य तीर्थस्य उल्लेखः प्राप्यते । महाभारतकाले मयनामकेन शिल्पिना पाण्डवान् नाशयितुं लाक्षाग्रहस्य निर्माणम् तत्रैव कृतम् आसीत् ।

बौद्धसाहित्येषु अपि अस्याः नगर्याः उल्लेखः अस्ति । किन्तु तत्र प्रयागतीर्थस्य बृहन्नगरत्वेन उल्लेखः न दृश्यते । जैनधर्मस्य ग्रन्थेषु अपि अस्य तीर्थस्य वर्णनं प्राप्यते । श्वेताम्बरदिगम्बरसम्प्रदायानां ग्रन्थेषु “प्रयाग” इति नाम प्राप्यते । अकबर इत्याख्यस्य मुगलशासकस्य समये अस्याः नगर्याः नाम “अल्हाबाद” इति अभवत् ।

दिगम्बरपरम्परायाः ग्रन्थेषु अपि अस्याः नगर्याः नाम “प्रयाग” एव अस्ति । ग्रन्थेषु एका कथा प्राप्यते यत् – “ऋषभदेवेन यदा केवलज्ञानं प्राप्तं, तदा तेन प्रयागे एव जनाः बोधिताः । अनन्तरं जनैः ऋषभदेवस्य पूजनं कृतम् । अतः इदं स्थलं “प्रयागतीर्थम्” इति प्रसिद्धम् । आचार्यरविषेण स्वस्य पद्मपुराणनामके ग्रन्थे उक्तम् अस्ति यत् – “भगवता ऋषभदेवेन तत्र उत्कृष्टत्यागाः कृताः । अतः तस्य नाम “प्रयाग” इति । यद्यपि जिनप्रभसूरिणा रचितेषु ग्रन्थेषु “प्रयागे ऋषभदेवस्य, शीतलनाथस्य च जिनालयाः सन्ति” इति वर्णनं दृश्यते । किन्तु साम्प्रतं तत्र प्राचीनः, मध्यकालीनः वा कोऽपि जिनालयः नास्ति । जिनालयानाम् अवशेषाः अपि न प्राप्ताः । तथापि इलाहाबाद-नगरस्य समीपस्थेभ्यः स्थलेभ्यः जिनप्रतिमाः प्राप्ताः । साम्प्रतं प्रयागतीर्थे श्वेताम्बरदिगम्बरयोः भिन्न-भिन्न जिनालयाः सन्ति ।

त्रिवेणीसङ्गमस्य समीपे एकः दुर्गः वर्तते । तस्मिन् दुर्गे वटवृक्षः अस्ति । तस्य वटवृक्षस्य अधः भगवता ऋषभदेवेन केवलज्ञानं प्राप्तम् । तत्र भगवतः ऋषभदेवस्य मन्दिरम् अपि वर्तते । मन्दिरे भगवतः षष्ठी (६०) से.मी. मितं श्वेतवर्णीया पद्मासनस्था प्रतिमा अस्ति । दुर्गे एकः स्तम्भः अपि वर्तते । तस्य स्तम्भस्य निर्माणं सम्प्रतिमहाराजेन कारितम् आसीत् । तस्मिन् स्तम्भे शिलालेखः अपि अस्ति । इदं तीर्थं पवित्रतमेषु स्थलेषु अन्यतमत्वेन गण्यते [१०][११]

मथुरा[सम्पादयतु]

उत्तरप्रदेशराज्यस्य मथुरामण्डलस्य केन्द्रमस्ति मथुरा । मथुरातः देहली-महानगरं १४५ किलोमीटरमिते, आग्रा-नगरं ५४ किलोमीटरमिते च दूरे स्थितम् अस्ति । पुरा मथुरा नगरी शूरसेनजनपदः राजधानी आसीत् । मथुरा भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । रामायणे, महाभारते, बौद्धसाहित्ये, जैनसाहित्ये च मथुरानगर्याः नामोल्लेखः प्राप्यते । रामायणानुसारं शत्रुघ्नेन मधुवने लवण-नामकः राक्षसः हतः । अनन्तरं शत्रुघ्नेन तत्र वने नगर्याः निर्माणं कृतम् आसीत् । शूरसेन-देशस्य राजधानीत्वेन मथुरा-नगरी आसीत् इति महाभारते उल्लेखः प्राप्यते । अस्यां नगर्यां कंसस्य कारागारः आसीत् । तस्मिन् कारागारे भगवान् कृष्णः जनिं लेभे ।

बौद्धमतानुसारं मथुरा-नगर्याः राज्ञः अवन्तिपुत्रस्य काले भगवान् बुद्धः मथुरा-नगरीं गतवान् आसीत् । जैनपरम्परासु अपि एतस्याः नगर्याः विषये बह्व्यः कथाः सन्ति । आचार्यजिनप्रभसूरिणा कल्पप्रदीप-नामके ग्रन्थे अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः कृतः अस्ति । तेन मथुरायां स्थितानां स्तूपानां, प्रमुखस्थानानां च सुन्दरं वर्णनं कृतम् आसीत् ।

एकदा भगवतः सुपार्श्वनाथस्य काले धर्मघोषः, धर्मरुचिः इत्याख्यौ द्वौ मुनी आस्ताम् । तौ वर्षावासं कर्तुं मथुरानगरीं समागतौ । तौ मथुरानगर्याः भूतरमण-नामके उद्याने निवसन्तौ आस्ताम् । कुबेरा-नामिका उद्यानस्य स्वामिनी आसीत् । सा तयोः साधनायाः प्रभाविता जाता । अतः तया श्रमणधर्मः अङ्गीकृतः । अनन्तरं तयोः मुनयोः आज्ञानुसारं कुबेरया एकस्य रत्नमयस्तूपस्य रचना कृता । तस्मिन् स्तूपे सुपार्श्वनाथस्य प्रतिमा स्थापिता । स्तूपस्य निर्माणानन्तरं बौद्धाः स्तूपे स्वस्याधिकारं स्थापयितुम् ऐच्छन् । किन्तु ते निष्फलाः अभवन् ।

एकदा तत्रत्यः राजा लोभवशात् रत्नमयस्तूपस्य रत्नानि प्राप्तुम् ऐच्छत् । तदा देव्या राजा हतः । जनाः भीताः सन्तः देव्याः क्षमाम् अयाचन् । तदा देव्या जिनप्रतिमायाः पूजनं कर्तुम् आदेशः प्रदत्तः । समयान्तरे जनानां मनसि लोभः समुद्भूतः । अतः देव्या स्तूपः इष्टिकाभिः आच्छादितः । वप्पभट्टिसूरि इत्याख्येन अस्य स्तूपस्य जीर्णोद्धारः कृतः । वि. सं. ८२६ तमे वर्षे तेन महावीरस्य प्रतिमा स्थापिता । साम्प्रतमपि तत्र बह्व्यः जिनप्रतिमाः सन्ति । तासां प्रतिमानां रक्षणं देवाः कुर्वन्ति ।

यदा त्रयोदशवर्षात्मकः दुष्कालः आसीत्, तदा स्कन्दिलाचार्येण आगमानां पठनं कृतम् । जितशत्रोः पुत्रः कालवेशिकः मुनिः, राजर्षिशङ्खः, साद्वी कुबेरा, आर्यमङ्गु, मिथ्यादष्टिपुरोहितः, इन्द्रदत्तः, आर्यरक्षितः, वसहपुष्यमित्रम्, घृतपुष्यमित्रम्, दुर्बलिकपुष्यमित्रम्, सुरेन्द्रदत्तः इत्यादयः अनया नगर्या सह सम्बद्धाः सन्ति ।

मथुरा-नगर्यां पञ्चस्थलानि सन्ति । तानि - अर्कस्थलं, वीरस्थलं, पद्मस्थलं, कुशस्थलं, महास्थलं च ।

तत्र द्वादश वनानि सन्ति । तानि – लोहवनं, मधुवनं, विल्ववनं, तालवनं, कुमुदवनं, वृन्दावनं, भण्डीरवनं, खदिरवनं, कामिकवनं, कोलवनं, बहुलावनं, महावनञ्च ।

तत्र पञ्च लौकिकतीर्थानि सन्ति । तानि – विश्रान्तिकतीर्थम् , असितकुण्डतीर्थं, वैकुण्ठतीर्थं, कलिञ्जरतीर्थं, चक्रतीर्थञ्च ।

मथुरायाः जैनस्तूपस्य उल्लेखः प्राचीनजैनसाहित्येषु प्राप्यते । बृहत्कल्पसूत्रभाष्यम्, बृहत्कथाकोषः, यशस्तिलकचम्पू च । तेषु बृहत्कल्पसूत्रभाष्ये लिखितमस्ति यत् – “मथुरानगर्याः जनाः स्वगृहे जिनप्रतिमानां पूजां कुर्वन्ति स्म । जिनप्रभसूरिणा अपि बृहत्कल्पसूत्रे एतदेव उक्तम् अस्ति । स्तूपस्य स्वामित्वविषये सर्वेषु विवादाः अभवन् । किन्तु तेषु विवादेषु अपि जैनाः एव विजयिनः अभवन् । मथुरा-नगर्यां यत् उत्खननम् अभवत्, तस्य फलस्वरूपतया एकः स्तूपः, मन्दिरद्वयस्य अवशेषाः च प्राप्ताः । तेषु अवशेषेषु मूर्तयः, सिंहासनानि, आयागपट्टाः च प्राप्ताः [१२][१३]

प्राप्तपुरावशेषैः ज्ञायते यत् – ई. स. द्वितीय शताब्दीतः एकादश शताब्दीपर्यन्तं मथुरा-नगरी जैनधर्मस्य बृहत्केन्द्रम् आसीत् । मूर्तीषु, सिंहासनेषु, आयागपट्टेषु च लेखाः प्राप्ताः । तेषु लेखेषु कनिष्कः, हुविष्कः, वासुदेवः इत्यादीनां राज्ञां नामोल्लेखः प्राप्यते । अनेन स्पष्टं भवति यत् – “ते लेखाः प्रारम्भिककालसम्बद्धाः सन्ति” । सामाजिकेतिहासदृष्ट्या तेषां लेखानाम् अत्यधिकं महत्त्वं वर्तते । तेषु लेखेषु, गणिका, नर्तकी, लोहकारः, गन्धिकः, सुवर्णकारः इत्यादीनां जनानां नामानि प्राप्यन्ते । अनेन स्पष्टं भवति यत् – “जैनसङ्घे द्विसहस्रात् वर्षेभ्यः प्राक् अपि सर्वव्यवसायानां जनाः धर्मपरायणाः आसन् ।

रत्नवाहपुरम्[सम्पादयतु]

रत्नवाहपुर-नगर्याः अद्यतनं नाम रोनाही अस्ति । इदं स्थलम् अयोध्यातः २४ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्य समीपस्थं रेलस्थानकं ‘सोहावल’ अस्ति । सोहावल-रेलस्थानकात् इदं स्थलं २ किलोमीटरमिते अस्ति । चतुर्विंशतितीर्थङ्करेषु पञ्चदश भगवतः धर्मनाथस्य च्यवनं, जन्म, दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः रत्नवाहपुरे अभवन् । पुरा कोशलजनपदान्तर्गता इयं नगरी आसीत् । अतः इदं स्थलं जैनतीर्थत्वेन विख्यातम् अभवत् ।

इयं नगरी जम्बूद्वीपस्य भारतवर्षस्य कोशलजनपदे घाघरा-नद्याः तटे स्थिता आसीत् । इक्ष्वाकुवंशीयः भानुः तत्रत्यः राजा आसीत् । राज्ञः भानोः पुत्रत्वेन धर्मनाथः जनिं लेभे । तस्य मातुः नाम सुव्रता आसीत् । धर्मनाथस्य दीक्षा, केवलज्ञानं च रत्नवाहपुरनगर्याम् एव अभवत् । अनन्तरं सम्मेदशिखरे भगवतः धर्मनाथस्य निर्वाणम् अभवत् । श्वेताम्बरसम्प्रदायस्य आचार्यजयसागरेण उक्तं यत् – “अस्यां नगर्यां जिनालयद्वयम् आसीत् । जिनालययोः एका चरणपादुका, तिस्रः जिनप्रतिमाः च आसन् । सप्तदशशताब्द्याम् इयं नगरी तीर्थत्वेन प्रसिद्धा अस्ति । साम्प्रतं रत्नवाहपुरनगर्यां दिगम्बरश्वेताम्बरसम्प्रदाययोः प्रत्येकस्य द्वौ जिनालयौ स्तः । ते जिनालयाः, प्रतिमाः च वर्तमानकालिकाः न सन्ति [१४]

वाराणसी[सम्पादयतु]

Jain Ghat, Varanasi, UP, India.jpg

वाराणसी-नगरी भारतस्य उत्तरप्रदेशराज्ये गङ्गायां घोषे स्थिता अस्ति । पुरा इयं नगरी काशी इति नाम्ना ज्ञायते स्म । साम्प्रतमपि काशी इति नाम प्रचलति । अस्यां नगर्यां वरणा, असि इत्येतयोः नद्योः सङ्गमः अस्ति अतः वाराणसी इति नाम अभवत् । भारतस्य विश्वविद्यालयेषु बनारसहिन्दुविश्वविद्यालयः प्रसिद्धः अस्ति । तस्मिन् विश्वविद्यालये सर्वदर्शनानां प्राध्यापकाः सन्ति । जैनसाहित्यस्य अध्ययनाय अपि सौकर्यम् अस्ति । साम्प्रतम् अपि संस्कृतभाषायाः विद्वांसः वाराणसी-नगर्यां सन्ति । “गङ्गायां मृतदेहस्य विसर्जनेन श्रेष्ठगतिः लभ्यते” इति हिन्दुधर्मस्य मान्यता वर्तते । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः उल्लेखः प्राप्यते । इयं नगरी प्राचीनतमासु नगरीषु अन्यतमा वर्तते ।

जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु सप्तमतीर्थङ्करस्य सुपार्श्वनाथस्य, त्रयोविंशतितमस्य तीर्थङ्करस्य पार्श्वनाथस्य च जन्म वाराणसीनगर्याम् अभवत् । अतः इयं नगरी जैनतीर्थत्वेन अपि ज्ञायते । जिनप्रभसूरिणा अपि कल्पप्रदीपे अस्याः नगर्याः नामोल्लेखः कृतः । तेन अस्याः नगर्याः समसामयिकस्थितेः अपि वर्णनं कृतम् । दक्षिणार्द्धभरतक्षेत्रस्य मध्यखण्डे काशी जनपदे स्थिता अस्ति इयं नगरी । वरुणा, असि इत्येते नद्यौ गङ्गायां सम्मिलतः ।

अयोध्यानगर्याः राजा हरिशचन्द्रः स्वस्य राज्यस्य दानं कृत्वा वाराणसीनगरीं पत्नीपुत्राभ्यां सह विक्रयार्थं गतवान् । ये जनाः पापिनः सन्ति, ते अपि मृत्योः अनन्तरं मोक्षं प्राप्नुवन्ति । अस्यां नगर्यां ब्राह्मणाः, परिव्राजकाः, जटाधारिणः,योगिनः इत्यादयः सर्वे निवसन्ति । ते रसविद्यायाः, धातुविद्यायाः, खननविद्यायाः, व्याकरणशास्त्रस्य, वेदस्य मन्त्रशास्त्रस्य, तर्कशास्त्रस्य, निमित्तशास्त्रस्य, नाट्यशास्त्रस्य, अलङ्कारशास्त्रस्य, ज्योतिषशास्त्रस्य च ज्ञातारः भवन्ति । अस्याः नगर्याः भागचतुष्टम् आसीत् । यथा –

  1. प्रथमः - देववाराणसी – अत्र भगवतः विश्वनाथस्य मन्दिरम् अस्ति । विश्वनाथः द्वादशज्योतिर्लिङ्गेषु अन्यतमः वर्तते । तस्मिन् मन्दिरे चतुर्विंशतितीर्थङ्करैः युक्तः एकः पाषाणपट्टः अपि स्थापितः अस्ति ।
  2. द्वितीयः – राजधानीवाराणसी – अत्र यवनाः निवसन्ति ।
  3. तृतीयः – मदनवाराणसी ।
  4. चतुर्थः – विजयवाराणसी ।

वाराणसीनगर्यां लौकिकतीर्थानि अपि सन्ति । दण्डखाततडागस्य समीपे भगवतः पार्श्वनाथस्य जन्म अभवत् । ततः धर्मेक्षास्तूपः, बौद्धमन्दिरं च समीपे अस्ति । सार्धद्वययोजनदूरे चन्द्रपुरी-तीर्थम् अस्ति । तत्स्थलं भगवतः चन्द्रप्रभोः जन्मस्थलं वर्तते ।

काशी-नगर्याः माहात्म्यम् अत्यधिकं वर्तते । यथा अस्याः नगर्याः भागचतुष्टयम् अस्ति । एतादृशी स्थितिः कुत्रापि न दृश्यते । वाराणसी-नगरे देववाराणस्यां भगवतः विश्वनाथस्य मन्दिरस्य निर्माणम् अष्टादशशताब्द्याम् अभवत् । जैनाचार्याः कथयन्ति यत् – “प्राचीनकाशीविश्वनाथमन्दिरे जिनप्रतिमा आसीत् । यद्यपि ब्राह्मणपरम्परायाः मन्दिरे जैनप्रतिमा कथं ? इति अस्वाभाविकम् अस्ति किन्तु असम्भवं नास्ति । राजधानीवाराणस्यां यवनाः निवसन्ति इति उल्लेखः दृश्यते । अतः वर्तमाने वाराणसी-नगर्याम् अलईपुरस्य समीपस्थं क्षेत्रं भवितुं शक्नोति । तत मुस्लिनजनानां जनसङ्ख्या अपि अधिका वर्तते । वाराणसीनगर्यां मदनपुरा क्षेत्रम् अस्ति । तत् क्षेत्रम् एव पुरा मदनवारानसी भवितुं शक्यते । अनन्तरं विजयवाराणसी वर्तमानसमये कदाचित् “छावनी” (कैण्टोनमेण्ट् क्षेत्रम् ) आसीत् । यतः प्राचीनकाले नगरस्य बहिः विजयस्कन्धावारः भवति स्म । सः छावनी अपि कथ्यते स्म । अतः अनुमीयते यत् – “वर्तमानकालस्य कैण्ट् क्षेत्रं विजयवाराणसी भवितुं शक्यते [१५][१६]

ग्रन्थेषु नगर्याः तडागानां विषये वर्णनं प्राप्यते । ग्रन्थेषु वर्णनम् अस्ति यत् – “दण्डखात-नामकस्य तडागस्य समीपं पार्श्वनाथस्य मन्दिरम् आसीत्” । किन्तु अद्यापि वाराणसी-नगर्यां बहवः तडागाः सन्ति । ग्रन्थे दण्डखात-तडागस्य समीपस्थस्य पार्श्वनाथमन्दिरस्य वर्णनं प्राप्यते, तत् मन्दिरम् इदानीं भेलूपुरक्षेत्रे स्थितम् अस्ति । यदा अस्य मन्दिरस्य जीर्णोद्धारः कृतः, तदा उत्खनने भगवतः पार्श्वनाथस्य प्राचीनप्रतिमा प्राप्ता । उत्खनने अन्याः प्रतिमाः कलाकृतयः च अपि लब्धाः । कर्मकाराणां प्रमादेन सा प्रतिमा खण्डिता जाता । स्थापत्यकलानाम् अध्येता प्रो. एम्. ए. ढाकी इत्याख्यः प्रतिमायाः संशोधनं कृतवान् । अनन्तरं तेन उक्तं यत् – “पार्श्वनाथस्य प्रतिमा पञ्चमशताब्द्याः, अन्याः कलाकृतयः नवम्याः एकादश्याः वा शताब्द्याः च सन्ति । यदा मन्दिरस्य निर्माणम् भवत् आसीत्, तदा उत्खनने बह्व्यः प्राचीनकलाकृतयः, अवशेषाः च सम्प्राप्ताः । किन्तु कलाकृतीनाम् अज्ञानेन व्यवस्थापकैः सर्वाः कलाकृतयः मन्दिरस्य आधारे अधोभागे वा उपनिहिताः । तथापि प्राप्तपुरावशेषाणाम् आधारेण निश्चीयते यत् – साम्प्रतं यत्र पार्श्वनाथमन्दिरम् अस्ति, पञ्चमशताब्द्याम् अपि तत्रैव पार्श्वनाथस्य मन्दिरम् अभविष्यत् । वाराणसी-नगर्यां साम्प्रतं विंशत्यधिकाः जिनालयाः सन्ति । किन्तु ते सर्वे अर्वाचीनाः सन्ति ।

श्रावस्तीनगरी[सम्पादयतु]

श्रावस्तीनगरी अयोध्यातः १२० किलोमीटरमिते, लखनऊ तः २०० किलोमीटरमिते दूरे च स्थिता अस्ति । इयं नगरी प्रथमतीर्थङ्करस्य ऋषभदेवस्य कालस्य अस्ति । चतुर्विंशतितीर्थङ्करेषु तृतीयस्य सम्भवनाथस्य च्यवनं, जन्म, दीक्षा, केवलज्ञानम् इत्येते चत्वारः कल्याणकाः श्रावस्तीनगर्याम् अभवन् । भगवतः महावीरस्य काले तत्रत्यः राजा प्रसेनजीतः आसीत् । प्रसेनजीतस्य भगिन्याः विवाहः मगधराज्ञा श्रेणिकेन सह अभवत् । तस्मिन् समये इयं नगरी सम्पन्ना आसीत् । तदा कुणालनगरी, चन्द्रिकापुरी इति नाम्ना विख्याता आसीत् । पुरा श्रावस्ती-नगरी कुणाला-जनपदः राजधानी आसीत् । इयं नगरी भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः वर्णनं प्राप्यते । बुद्धमहावीरौ तत्र विहारं कृतवन्तौ ।

अस्यां नगर्यां राज्ञा सम्प्रतिना, अन्यैः राजभिः च बहूनि मन्दिराणि निर्मापितानि आसन् । भगवान् महावीरः श्रावस्तीनगर्यां विचरणं कर्तु बहुवारं गतवान् आसीत् । स्वस्य दशमः चातुर्मासस्याचरणम् अपि तत्रैव कृतम् । श्रावस्तीनगर्यां भगवतः सम्भवनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः सम्भवनाथस्य ५१ इञ्च् प्रमाणाभूता प्रतिमा वर्तते । वि. स. २०४३ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ तस्याः मूर्तेः प्रतिष्ठा अभवत् ।

जिनप्रभसूरिणा कल्पप्रदीपे अस्य तीर्थस्य उल्लेखं कृत्वा जैनपरम्परापरायां प्रचलितानां कथानां चर्चा कृता अस्ति यत् – “दक्षिणार्द्धभारतवर्षस्य कुणाला-जनपदि श्रावस्तीनामिका नगरी आसीत् । साम्प्रतं “महेठ” इति नाम्ना प्रसिद्धा अस्ति । महावीरस्य शिष्यः, महावीरस्य पुत्र्याः प्रियदर्शनायाः पतिः जामालिः च अस्यां नगर्यां स्थिते चैत्ये प्रथमः निह्नवः अभवत् । जामालिः महावीरस्य शिष्यः अपि आसीत्, महावीरस्य पुत्र्याः पतिः अपि आसीत्” ।

कौशाम्बी-नगर्याः राज्ञः कपिल-नामकः पुत्रः आसीत् । यदा जितशत्रोः मृत्युः अभवत्, तदा कपिलः जितशत्रोः मित्रस्य इन्द्रदत्तस्य पार्श्वे अध्येतुं गतवान् । इन्द्रदत्तः श्रावस्ती-नगर्यां निवसति स्म । कपिलः शालिभद्र-नामकस्य कस्यचित् सज्जनस्य गृहे निवसति स्म । यत्र सः निवसति स्म, तत्र तस्य सेवायै एका सेविका आसीत् । कपिलः तस्याम् आकृष्टः अभवत् । सः स्वर्णस्य याचनां कुर्वन् आसीत् । तस्मिन् समये एव तस्मै ज्ञानम् अभवत् । सः स्वयंबुद्धपदं प्राप्तवान् । अनन्तरं तेन ५०० तस्कराः अवबोधिताः । तदा सः सिद्धपदं प्रापत् ।

जैनमतानुसारं भगवान् सम्भवनाथः तृतीयः तीर्थङ्करः आसीत् । तस्य जन्मस्थानस्य, कल्याणकस्य च विषये जैनसाहित्येषु विस्तृतरूपेण वर्णनं प्राप्यते । जैनग्रन्थेषु श्रावस्तीनगर्याः तिन्दुक-उद्यानस्य, चैत्यस्य च उल्लेखः प्राप्यते । जिनप्रभसूरिणा कल्पप्रदीपे सम्भवनाथस्य जिनालयस्य नाशविषयिकी चर्चा कृता अस्ति । ‘अलाउद्दीन् खिलजी’ इत्याख्यस्य हब्बस् नामकेन सेनापतिना सम्भवनाथस्य जिनालयः नाशितः कृतः । इयं घटना समकालीना अस्ति अतः महत्त्वपूर्णा वर्तते ।

जिनप्रभसूरिणा श्रावस्ती-नगर्यां स्थितानां बौद्धस्मारकाणाम् अपि उल्लेखः कृतः । प्राचीनकाले इयं नगरी बौद्धधर्मस्य केन्द्रत्वेन स्थिता आसीत् । बौद्धधर्मस्य जेतवनविहारः प्रसिद्धः वर्तते । सः श्रावस्ती-नगर्याम् एव स्थितः अस्ति । जिनप्रभसूरिणा समुद्रवंशीयानां, बौद्धधर्मानुयायिनां च राज्ञाम् अपि उल्लेखः कृतः । ते स्थानीयाः शासकाः आसन् । जिनप्रभसूरेः काले अस्याः नगर्याः नाम “महेठ” इति आसीत् । साम्प्रतमपि अस्याः नगर्याः नाम “सहेठ-महेठ” इति ज्ञायते । श्रावस्तीनगरं गहडवाल-युगस्य इष्टिकाभिः निर्मितम् एकं मन्दिरम् अस्ति । इदानीं तु मन्दिरं ध्वस्तम् अभवत् । तत् शोभनाथस्य मन्दिरम् इति कथ्यते । शोभनाथः इति सम्भवनाथस्य एव अपभ्रंशनाम अस्ति । अस्य मन्दिरस्य उत्खनने अनेकाः तीर्थङ्करप्रतिमाः, स्तम्भाः, तोरणाः इत्यादयः लब्धाः । सर्वे अवशेषाः नवम्याः द्वादश्याः वा शताब्द्याः सन्ति । अनेन स्पष्टं भवति यत् – श्रावस्ती-नगरी द्वादशशताब्दीपर्यन्तं समृद्धनगरी आसीत् । किन्तु मुस्लिमशासनकाले अस्याः महत्त्वस्य ह्रासः अभवत् । अलाउद्दीन खिलजी इत्याख्येन अस्याः नगर्याः नाशः कृतः । साम्प्रतं भारतस्य उत्तरप्रदेशस्य गोण्डा-मण्डले राप्ती-नद्याः तटे श्रावस्ती-नगरी “सहेठ-महेठ” इति नाम्ना विद्यमाना अस्ति । तत्र दिगम्बरश्वेताम्बरसम्प्रदाययोः जिनालयाः सन्ति । किन्तु ते जिनालयाः अर्वाचीनाः सन्ति [१७][१८]

शौरीपुरम्[सम्पादयतु]

शौरीपुरं जैनधर्मस्य तीर्थम् अस्ति । इदम् आग्रा-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं तीर्थं कानपुर-आग्रारेलमार्गे स्थितात् शिकोहाबाद-रेलस्थानकात् १४ मीलमिते दूरे स्थितम् अस्ति । चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य नेमिनाथस्य कल्याणकद्वयं तत्र अभवत् । शौरीपुरे भगवतः नेमिनाथस्य जिनालयः अस्ति । वि. सं. १६४० तमे वर्षे आचार्यहीरविजयसूरिणा तस्य जिनालयस्य जीर्णोद्धारः कृतः आसीत् । तस्मिन् जिनालये भगवतः नेमिनाथस्य ७५ सेण्टीमीटरमिता उन्नता प्रतिमा वर्तते । सा प्रतिमा पद्मासनस्था, श्यामवर्णीया च अस्ति ।

समुद्रविजयः, वसुदेवः इत्यादयः दशभ्रातरः आसन् । कुन्ती, माद्री च भगिन्यौ आस्ताम् । शौरीपुरे समुद्रविजयः, मथुरा-नगर्यां कंसः च शासकौ स्तः । समुद्रविजयस्य पुत्रः नेमिनाथः, वसुदेवस्य पुत्रौ कृष्णबलरामौ च आस्ताम् । कृष्णेन स्वस्य मातुलस्य कंसस्य हननं कृत्वा मथुरानगर्याः राज्यं स्वीकृतम् । किन्तु जरासन्धः सर्वं ज्ञात्वा क्रुद्धः जातः । यतः कंसस्य पत्नी जीवयशा जरासन्धस्य भगिनी आसीत् । जरासन्धेन त्रस्ताः यादवाः सौराष्ट्रक्षेत्रस्य द्वारिकानगरीं निवसितुं गतवन्तः ।

शौरीपुरस्य राज्ञः पत्न्याः शिवादेव्याः कुक्ष्याः नेमिनाथस्य जन्म अभवत् । प्राचीनकाले इयं विशालनगरी आसीत् । भगवान् महावीरः अपि शौरीपुरं गतवान् आसीत् । वि. सं. १६६२ तमे वर्षे शौरीपुरे सप्त जिनालयाः आसन् ।

आचार्यजिनप्रभसूरिणा कल्पप्रदीपे चतुरशीतिमहातीर्थसङ्ग्रहकल्पे शौरीपुरस्य उल्लेखः कृतः । तस्मिन् ग्रन्थे अपि नेमिनाथस्य जिनालयस्य वर्णनं वर्तते । प्राचीनकाले शौरीपुरं कुशावर्तजनपदः राजधानी आसीत् । जैनसाहित्येषु अपि अस्याः नगर्याः उल्लेखः प्राप्यते । मध्यकालीनैः श्वेताम्बरदिगम्बरग्रन्थकारैः अपि अस्याः नगर्याः उल्लेखः कृतः । समीपस्थेषु क्षेत्रेषु उत्खननेन मध्यकालीनाः जैनप्रतिमाः अपि लब्धाः । अनेन उच्यते यत् – “मध्ययुगे इदं स्थलं जैनतीर्थत्वेन प्रसिद्धम् आसीत् । शौरीपुरे श्वेताम्बरदिगम्बरयोः विभिन्नानि मन्दिराणि सन्ति । विं. सं. १७२४ तमे वर्षे भट्टारकविद्याभूषणेन दिगम्बरमन्दिरस्य प्रतिष्ठा कृता [१९][२०]

हस्तिनापुरम्[सम्पादयतु]

Hastinapur Jain Mandir.jpg

भारतस्य उत्तरप्रदेशराज्यस्य मेरठ-मण्डले हस्तिनापुरं स्थितम् अस्ति । इदं मेरठ-नगरात् ३३ किलोमीटरमिते दूरे स्थितम् अस्ति । पुरा इयं नगरी कुरु-जनपदस्य राजधानी आसीत् । ब्राह्मणीयबौद्धजैनसाहित्येषु अस्याः नगर्याः विषये उल्लेखः दृश्यते । इयं प्राचीनभारतस्य नगरीषु अन्यतमा वर्तते । जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु षोडश तीर्थङ्करस्य शान्तिनाथस्य, सप्तदशतीर्थङ्करस्य कुन्थुनाथस्य, अष्टादशतीर्थङ्करस्य अरनाथस्य च अस्यां नगर्यां जन्म अभवत् । अतः इयं नगरी जैनतीर्थत्वेन प्रसिद्धा वर्तते । आचार्यजिनप्रभसूरिणा कल्पप्रदीपे हस्तिनापुरकल्पः, हस्तिनापुरतीर्थस्तवः इत्येतौ कल्पौ लिखितौ । तयोः कल्पयोः हस्तिनापुरविषयिणी चर्चा कृता अस्ति यत् – “ऋषभदेवस्य शतं पुत्राः आसन् । तेषु कुरुः अपि अन्यतमः आसीत् । कुरुणा एव कुरुक्षेत्रं स्थापितम् । कुरोः पुत्रः हस्ती आसीत् । हस्तिना हस्तिनापुर-नामकस्य नगरस्य स्थापना कृता आसीत् ।

शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य च इत्येतेषां च्यवनं, जन्म, दीक्षा, केवलज्ञानम् एते कल्याणकाः अस्यां नगर्याम् एव अभवन् । अस्यां नगर्यामेव विष्णुकुमारेण नमुचेः राज्यं पादत्रयेण मापितम् आसीत् । सनत्कुमारः, महापद्मः, सुभूमः, परशुरामः, कौरवाः, पाण्डवाः इत्यादयः महापुरुषाः अनया नगर्या सह सम्बद्धाः सन्ति । हस्तिनापुरे शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य, अम्बादेव्याः च चैत्यालयाः सन्ति । जैनसाहित्येषु ऋषभदेवस्य पुत्रस्य कुरोः उल्लेखः प्राप्यते । किन्तु कुरोः पुत्रस्य हस्तिनः चर्चा एव नास्ति । तथापि जिनप्रभसूरिणा कुरुहस्तिनोः पितापुत्रयोः सम्बन्धः प्रदर्शितः । कस्य ग्रन्थस्य आधारेण तेन सम्बन्धः प्रदर्शितः ? इति विषये साम्प्रतम् अपि मतभेदः अस्ति । यतः ब्राह्मणग्रन्थानुसारेण भरतदोषयन्ति इत्याख्यस्य पुत्रः हस्ती आसीत् । तस्य नाम्ना एव हस्तिनापुरम् इत्यभवत् ।

शान्तिनाथस्य, कुन्थुनाथस्य, अरनाथस्य च जन्मादयः कल्याणकविषयकं विवरणं जैनपरम्परानुसारम् अस्ति । द्वयोः सम्प्रदाययोः ग्रन्थेषु अस्य विस्तृतरूपेण उल्लेखः प्राप्यते । श्वेताम्बरजैनपरम्परायां सनत्कुमारस्य, महापद्मस्य, सुभूमस्य च गणना क्रमशः चतुर्थाष्टमनवमचक्रवर्तित्वेन क्रियते । परशुरामस्य कथा अपि आवश्यकचूर्णी-नामके ग्रन्थे, विशेषावश्यकभाष्ये च प्राप्यते । पाण्डवाः पाण्डुपुत्राः आसन् । ते हस्तिनापुरस्य राजानः आसन् । जैनपरम्परायाः ग्रन्थेषु पाण्डवविषयकं वर्णनम् अपि प्राप्यते ।

गङ्गदत्त, कार्तिकश्रेष्ठी इत्याख्ययोः विषये भगवतीसूत्रे विस्तृतरूपेण वर्णनं प्राप्यते । तस्मिन् ग्रन्थे “तौ हस्तिनापुरस्य निवासिनौ आस्ताम्” इति वर्णनं लभ्यते । ताभ्यां मुनिसुव्रतात् दीक्षा प्राप्ता । अनन्तरं तयोः मोक्षः अभवत् । यद्यपि साम्प्रतं हस्तिनापुरे जिनप्रभसूरिणः कालस्य कोऽपि जिनालयः नास्ति । तथापि उत्खनने ऋषभदेवस्य प्रतिमा लब्धा । अतः स्पष्टं भवति यत् चतुर्दशशताब्द्यां हस्तिनापुरं प्रसिद्धजैनतीर्थम् आसीत् । उत्तर-मध्यकालीनेषु ग्रन्थेषु जैनग्रन्थकारैः अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति । वर्तमाने काले अपि मेरठ-मण्डले इदं नगरं विद्यमानम् अस्ति । साम्प्रतं हस्तिनापुरे श्वेताम्बरदिगम्बरपरम्पराणां जिनालयाः सन्ति [२१][२२]

कुण्डग्रामः[सम्पादयतु]

भारतस्य बिहार-राज्यस्य मुजफ्फरपुर-मण्डले स्थितोऽयं कुण्डग्रामः । अस्मिन् ग्रामे चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य तीर्थङ्करस्य भगवतः महावीरस्य जन्म अभवत् । महावीरस्य पिता सिद्धार्थः कुण्डपुरस्य राजा आसीत् । तस्य माता वैशाली-नगर्याः राज्ञः चेटकस्य भगिनी आसीत् । महावीरस्य काले अस्य ग्रामस्य भागद्वयम् आसीत् । प्रथमं क्षत्रियकुण्डपुरं, द्वितीयं ब्राह्मणकुण्डपुरं च । तयोः क्षत्रियकुण्डपुरे एव भगवतः महावीरस्य जन्म अभूत् । बहुत्र कुण्डपुरं कुण्डग्रामः इति नाम्ना अपि वर्णितम् अस्ति ।

कुण्डलग्रामस्य भौगोलिकस्थितिविषये जैनपरम्परायां भ्रान्तिः अस्ति । दिगम्बर-सम्प्रदायस्य ग्रन्थेषु भगवतः महावीरस्य जन्मस्थानं नालन्दा-नगर्याः समीपस्थः कुण्डलपुर-ग्रामः मन्यते । किन्तु श्वेताम्बर-सम्प्रदायस्य ग्रन्थेषु भगवतः जन्मस्थानं मुङ्गेर-मण्डलस्य क्षत्रियकुण्डग्रामः मन्यते । चतुर्दशशताब्द्यां वास्तविकः कुण्डग्रामः एव भगवतः जन्मभूमिः मन्यते स्म [२३][२४]

कोटिशिला[सम्पादयतु]

साम्प्रते काले कोटिशिला-तीर्थस्य भौगोलिकस्थितिः निश्चिता नास्ति । दिगम्बरपरम्परानुसारं कोटिशिला-तीर्थं सिद्धक्षेत्रं वर्तते । कोटिशिलातीर्थे बहवः मुनयः अभवन् । जिनप्रभसूरिणा विविधतीर्थकल्पे वर्णितं यत् – “भरतक्षेत्रस्य मगधदेशे कोटिशिला-तीर्थं स्थितम् अस्ति । तत्तीर्थं साम्प्रतमपि देवदानवैः पूज्यते । अयं पर्वतः १ योजनोन्नतः, विस्तृतश्च अस्ति । नववासुदेवैः स्वशक्तिपरीक्षणाय अयं पर्वतः उत्तोलितः । प्रथमवासुदेवेन अयं पर्वतः छत्रम् इव उत्तोलितः । द्वितीयवासुदेवेन मस्तकपर्यन्तं, तृतीयवासुदेवेन ग्रीवापर्यन्तं, चतुर्थवासुदेवेन वक्षस्थलपर्यन्तं, पञ्चमवासुदेवेन उदरपर्यन्तं, षष्ठवासुदेवेन कटिपर्यन्तं, सप्तमवासुदेवेन जङ्घापर्यन्तम्, अष्टमवासुदेवेन जानुपर्यन्तं, नवमवासुदेवेन कृष्णेन एकाङ्गुलिपरिमितः च उत्तोलितः । यद्यपि अवसर्पिण्याः प्रभावेण मनुष्याणां बलस्य ह्रासः भवति । किन्तु सर्वेषां तीर्थङ्कराणां बलं सदैव समानम् एव भवति ।

शान्तिनाथस्य प्रथमः गणधरः चक्रायुधः अत्रैव मोक्षं प्रापत् । शान्तिनाथस्य, कुन्थुनाथस्य च काले कोट्याधिकाः मुनयः अत्र मोक्षं प्रापन् । अरनाथस्य, मल्लिनाथस्य, सुव्रतनाथस्य, नमिनाथस्य च काले अपि कोट्यधिकैः मुनिभिः मोक्षः प्राप्तः । अतः अस्य तीर्थस्य नाम कोटिशिला अभवत् । दिगम्बरसम्प्रदायस्य हरिवंशपुराण-नामके ग्रन्थे अपि कोटिशिला-तीर्थस्य वर्णनं प्राप्यते । अस्य तीर्थस्य भौगोलिकस्थितेः विषये प्राचीनकालादेव मतभेदाः सन्ति । “पउमचरिउ” इत्यस्मिन् ग्रन्थे कोटिशिलापर्वतः सिन्धुदेशे सम्मेतशिखरस्य समीपं प्रदर्शितः अस्ति । “पण्डित नाथुराम प्रेमी” ऋषिगिरिपर्वतेषु स्थितां कलाशिलाम् एव कालशिलारूपेण मन्यते [२५]

चम्पापुरी[सम्पादयतु]

भारतस्य बिहार-राज्यस्य, भागलपुर-मण्डले गङ्गानद्याः तटे चम्पापुर-नगरं स्थितम् अस्ति । तन्नगरं चम्पापुरी अपि कथ्यते । पुरा इयं चम्पापुरीनगरी अङ्ग-जनपस्य राजधानी आसीत् । ब्राह्मणजैनबौद्धग्रन्थेषु अस्याः नगर्याः उल्लेखः लभ्यते । चीनीयात्रिभिः स्वयात्राणां वर्णने अस्याः नगर्याः उल्लेखः कृतः अस्ति । जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु द्वादशतीर्थङ्करस्य वासुपूज्यस्य चम्पापुरीनगर्यां जन्म अभवत् । भगवतः वासुपूज्यस्य जन्म इत्यादयः पञ्च कल्याणकाः चम्पानगर्याम् एव सम्पन्नाः । महावीरेण अपि चम्पानगर्यां वर्षावासत्रयम् अतिवाहितम् ।

जिनप्रभसूरिणा स्वस्य ग्रन्थे अस्याः नगर्याः उल्लेखः कृतः अस्ति यत् – “वासुपूज्यस्य पुत्रः मधवः आसीत् । सः चम्पानगर्याः राजा आसीत् । चम्पानगर्याः समीपे एकः सरोवरः अपि आसीत् । “भगवता महावीरेण चम्पानगर्यां वर्षावासः कृतः” इत्यस्य विषये कल्पसूत्रम्, आवश्यकनिर्युक्तिः, कल्पसूत्रवृत्तिः इत्यादिषु जैनग्रन्थेषु वर्णनं प्राप्यते । आचार्यशय्यम्भवसूरिणा चम्पानगर्यां दशवैकालिकसूत्र-ग्रन्थस्य रचना कृता । चम्पानगर्यां जिनदत्त-नामकः सज्जनः आसीत् । तस्य पुत्री सुभद्रा आसीत् । सुभद्रा सतीषु अन्यतमा आसीत् । जैनग्रन्थेषु सुभ्रदायाः विषये अपि वर्णनं प्राप्यते । राजा कर्णः, सुदर्शनः इत्यादयः जनाः चम्पानगर्याः सह सम्बद्धाः आसन् । श्वेताम्बरसम्प्रदायस्य ग्रन्थेषु तेषां वर्णनं प्राप्यते [२६][२७]

पाटलीपुत्रः[सम्पादयतु]

भारतस्य बिहारराज्ये इयं नगरी अस्ति । पटना-नामिका नगरी बिहारराज्यस्य राजधानी पाटलिपुत्रः भारतस्य प्राचीनासु नगरीषु अन्यतमा अस्ति । अद्यत्वे इयं नगरी पटना इति नाम्ना प्रसिद्धा अस्ति । इयं नगरी शिशुनागः, नन्दः, मौर्यः, शुङ्गः इत्यादिनां राज्ञां राजधानी आसीत् । ब्राह्मणबौद्धजैनग्रन्थेषु अस्याः नगर्याः उल्लेखः प्राप्यते । जिनप्रभसूरिणा अपि अस्याः नगर्याः विषये स्वस्य ग्रन्थे लिखितम् अस्ति यत् – “पुरा श्रेणिक-नामकः कश्चन राजा आसीत् । कुणिकः (अजातशत्रुः) इत्याख्यः श्रेणिकस्य पुत्रः आसीत् । श्रेणिकस्य मृत्योः अनन्तरं कुणिकेन चम्पा-नगरीं स्वस्य राजधानीत्वेन उद्घोषिता । श्रेणिकस्य मृत्योः अनन्तरं तस्य पुत्रः उदायी-इत्याख्यः राज्यस्य सञ्चालनं कुर्वन् आसीत् । पितुः मृत्युशोकेन उदायी-इत्याख्येन गङ्गानद्याः तटे पाटलीपुत्र-नामकं नगरं स्थापितम् । तत्र तेन सुन्दराणि भवनानि, उद्यानानि च निर्मापितनि । तत्र एकः जिनालयः अपि निर्मापितः । तस्मिन् क्षेत्रे पाटली-नामकः वृक्षाः अधिकमात्रायाम् आसन् । अतः एव तस्य नाम पाटलिपुत्रम् इति कारितम् ।

मौर्यवंशस्य राजभिः अपि अस्यां नगर्यां शासनं कृतम् आसीत् । चाणक्यस्य साहाय्येन चन्द्रगुप्तः राजा अभवत् । अनन्तरं बिन्दुसारः, अशोकः, सम्प्रतिः इत्यादयः राजानः अभवन् । सम्प्रतिराज्ञा अनार्यदेशेषु अपि जैनधर्मस्य प्रचारः कृतः आसीत् । भद्रबाहुः, महागिरिः, सुहस्ती, वज्रस्वामी इत्यादिभिः आचार्यैः अस्यां नगर्यां विहारः कृतः । मूलदेवः प्रसिद्धः कलाविद् आसीत् । सः अपि अस्यां नगर्याम् एव निवसति स्म । अस्याः नगर्याः जनाः अष्टादशविद्यानां, स्मृतीनां, पुराणानां, मन्त्राणां, तन्त्राणां, रसविद्यानां, अञ्जनगुटिकानां, पादप्रलेपस्य स्त्रीपुरुषपशूनां लक्षणानां च ज्ञातारः आसन् । इयं नगरी गौडदेशे स्थिता अस्ति ।

जिनप्रभसूरिणा स्वस्य ग्रन्थे यः उल्लेखः कृतः, सः जैनग्रन्थेषु अपि प्राप्यते । इदं केन्द्रं महत्वपूर्णं वर्तते । अतः बहवः छात्राः विद्यार्जनाय तत्र गच्छन्ति । इयं नगरी प्राचीना आसीत् [२८][२९]

पावापुरी[सम्पादयतु]

पावापुरी-नगरी बिहार-राज्यस्य नालन्दा-मण्डले स्थिता अस्ति । इयं नगरी पटना-नगरात् ६० किलोमीटर्मितं दूरे स्थिता अस्ति । भगवान् महावीरः ऋजुवालिका-नद्याः तटे केवलज्ञानं प्राप्तवान् आसीत् । अनन्तरं महावीरः पावापुरी-नगरीं प्राप्तवान् । अनन्तरं चतुर्विधसङ्घस्य स्थापनां चकार । भगवान् पावापुर्यां प्रवचनं करोति स्म । बहवः राजानः भगवतः प्रवचनं श्रोतुं पावापुरीं गच्छन्ति स्म । अस्यां नगर्यां भगवतः महावीरस्य ३५ इन्चपरिमिता मूर्तिः अस्ति । तत्र प्राचीनतमः कूपः अपि अस्ति । तस्मिन् कूपे स्तुपः अस्ति । पुरा तस्य कूपस्य जलं घृतवत् स्निग्धम् आसीत् । तेन जलेन दीपान् प्रज्वालयितुं शक्यते स्म ।

भगवान् महावीरः सर्वत्र विचरणं करोति स्म । अन्ते यदा सः स्वस्य निर्वाणकालं ज्ञातवान् आसीत्, तावदेव सः अनशनं कर्तुं सज्जः अभवत् । अनशनान्ते भगवतः निर्वाणम् अभवत् । पुरा पावापुर्याः नाम अपापापुरी आसीत् । भगवतः निर्वाणानन्तरम् अस्याः नाम पावापुरी अभवत् । भगवतः निर्वाणस्थले जिनालयः अस्ति । तस्मिन् जिनालये भगवतः महावीरस्य प्रतिमा अस्ति ।

तस्यां नगर्यां सरोवरे जलमन्दिरं वर्तते । भगवतः नन्दीवर्धननामकः ज्येष्ठभ्राता आसीत् । नन्दीवर्धनेन भगवतः अन्तिमसंस्कारस्थले जलमन्दिरं निर्मापितम् । तस्मिन् मन्दिरे भगवतः महावीरस्य चरणपादुका स्थापिता । तन्मन्दिरम् एव जलमन्दिरम् इति विख्यातम् अस्ति । भगवतः चरणपादुकयोः उपरि छत्रम् अस्ति । आश्विन-मासस्य कृष्णपक्षस्य अमावस्यां तिथौ बहवः यात्रिकाः गच्छन्ति । तस्मिन् दिवसे यात्रायाः महत्वम् भवति । चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य महावीरस्य निर्वाणं पावापुरी-नगर्याम् एव अभवत् । अतः पावापुरी जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति ।

जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे पावापुरी-नगर्याः वर्णनं कृतम् अस्ति । कल्पप्रदीपे कल्पद्वयं लिखितमस्ति जिनप्रभसूरिणा । प्रथमः अपापापुरीकल्पः, अपरम् अपापाबृहत्कल्पः । अपापापुरीकल्पे महावीरस्य निर्वाणस्य उल्लेखः वर्तते । किन्तु अपापाबृहत्कल्पे सम्प्रति-आर्य-महावीराणां संवादस्य विवरणं प्राप्यते । तस्मिन् ग्रन्थे पावापुरी-नगर्याः भौगोलिकीस्थितेः अपि विचारः कृतः अस्ति । यतः साम्प्रतं पावापुरी-नगर्याः भौगोलिकीस्थितिविषये बहवः विवादाः सन्ति ।

साम्प्रतं दिगम्बरश्वेताम्बरसम्प्रदायाभ्यां पावापुरी नगरी महावीरस्य निर्वाणस्थलत्वेन स्वीकृता । तत्र सरोवरे एकः जिनालयः स्थितः अस्ति । किन्तु आगमेषु पावापुरीविषये यद्वर्णनं प्राप्यते, तेन अनुसारेण इयं नगरी मल्लानां राज्ये स्थिता भवेत् इति विचार्यते । प्राचीनग्रन्थानुसारं केचित् विदांसः उत्तरप्रदेश-राज्यस्य देवरिया-मण्डलस्य सठियांव-नामकं ग्रामं प्राचीना पावापुरी-नगरी इति मन्यन्ते । अनेन शङ्का भवति यत् यदि प्राचीन पावापुरी आसीत्, तदा नूतनायाः पावापुरीनगर्याः कल्पना कथम् अभवत् ? अस्याः शङ्कायाः निवारणं तु नाभवत् । किन्तु निश्चितमस्ति यत् चतुर्दश्यां शताब्द्यां वर्तमानपावापुरी-नगर्याः अस्तित्त्वम् आसीत् [३०][३१]

मिथिलापुरी[सम्पादयतु]

भारतस्य बिहार-राज्यस्य दरभङ्गा-मण्डलस्य उत्तरदिशि नेपालदेशस्य सीमायां जनकपुर-नामकं नगरं स्थितम् अस्ति । जनकपुरम् एव मिथिला-नगर्याः अद्यतनं नाम वर्तते । पुरा मिथिला विदेह-जनपदस्य राजधानी आसीत् । प्राचीनतमासु नगरीषु अन्यतमा वर्तते इयं नगरी । रामायणे, महाभारते, बौद्धजैनग्रन्थेषु च अस्याः नगर्याः वर्णनं प्राप्यते । जैनमतानुसारम् अस्यां नगर्यां चतुर्विंशतितीर्थङ्करेषु एकोनविंशतितमस्य, एकविंशतितमस्य च तीर्थङ्करस्य मल्लिनाथनमिनाथयोः जन्म अभवत् । अतः एव इयं नगरी जैनतीर्थत्वेन प्रसिद्धा वर्तते । महावीरेण अपि मिथिला-नगर्यां विचरणं कृतम् आसीत् ।

मिथिला-नगर्यां कदलीफलस्य बहवः वृक्षाः प्राप्यन्ते । अस्यां नगर्याम् बहवः कूपाः, बह्व्यः वाप्यः च सन्ति । साम्प्रतम् इदं स्थलं “जगई” इति नाम्ना विख्यातमस्ति । तत्र मल्लिनाथनमिनाथयोः च्यवनं, जन्म., दीक्षा, केवलज्ञानं च एते चत्वारः कल्याणकाः अभवन् । भगवता महावीरेण मिथिला-नगर्यां वर्षावासः अपि कृतः आसीत् ।

सीतायाः जन्म अपि मिथिला-नगर्याम् एव अभवत् । सीतायाः जन्मस्थाने एकः वटवृक्षः, तस्याः विवाहस्थलं – साकल्लकुण्डः, पातललिङ्गं, कनकपुरम् इत्यादीनि तीर्थानि स्थितानि सन्ति । अस्यां नगर्यं मल्लिनाथस्य, नमिनाथस्य च पार्थक्येन जिनालयः अस्ति । मल्लिनाथस्य जिनालये वैरुट्यादेव्याः, कुबेरयक्षस्य च प्रतिमा अस्ति । नमिनाथस्य जिनालये गन्धारिदेव्यः भृकुटीयक्षस्य च प्रतिमा अस्ति ।

वर्तमानस्य बिहारप्रदेशस्य उत्तरभागः प्राचीनकाले विदेहजनपदे स्थितः आसीत् । गुप्तकालात् तस्य नाम तीरभुक्तिः इति प्रसिद्धम् आसीत् । तीरभुक्तिः अर्थात् “नदीनां तटे स्थितः प्रदेशः” इति । यतः तत्र तडागाः, नद्यः, कूपाः च बहवः सन्ति । अस्य नाम्नः अपभ्रंशकारणात् “तिरहुत” इति नाम अभवत् । साम्प्रतं तिरहुत इति नाम प्रसिद्धम् अस्ति । मल्लिनाथस्य, नमिनाथस्य च मातापितृविषयकं, जन्मादिकल्याणकविषयकं च वर्णनं जैनसाहित्येषु प्राप्यते । कल्पसूत्रानुसारं महावीरेण स्वस्य षड्वर्षावासाः मिथिलानगर्याम् एव अतिवाहिताः । जिनप्रभसूरिणा स्वस्य ग्रन्थे अपि महावीरस्य वर्षावासस्य उल्लेखः कृतः अस्ति किन्तु कति वारं वर्षावासः कृतः इति नोल्लिखितः । महावीरस्य अष्टम गणधरस्य अकम्पितस्य जन्म अपि मिथिलानगर्याम् एव अभवत् । तस्य उल्लेखः आवश्यकनिर्युक्तौ, विशेषावश्यकभाष्ये इत्यादिषु ग्रन्थेषु प्राप्यते ।

श्वेताम्बरसम्प्रदायस्य ग्रन्थेषु मिथिलानरेशस्य नमेः विस्तृतरूपेण वर्णनं प्राप्यते । जिनप्रभसूरिणा तेषां ग्रन्थानाम् आधारेण एव उल्लेखः कृतः अस्ति । ब्राह्मणीयग्रन्थानुसारं मिथिला-नगर्याः राजा जनकः आसीत् । यदा सः कृषिः कुर्वन् आसीत्, तदा भूम्याः सीता प्राप्ता । रामेण सह सीतायाः विवाहः अभवत् । अतः मिथिला-नगरी हिन्दुधर्मस्य अपि पवित्रतीर्थम् मन्यते । जिनप्रभसूरेः काले मल्लिनाथनमिनाथयोः भिन्नभिन्नचैत्यालयाः आसन् । किन्तु साम्प्रतं मिथिला-तीर्थं विच्छिन्नम् अभवत् [३२][३३]

राजगृही-तीर्थम्[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले स्थिता इयं राजगृही-नगरी । इयं नगरी जैनधर्मस्य पवित्रतमेषु तीर्थेषु अन्यतमं वर्तते । अस्याः नगर्याः बहूनि नामानि प्राप्यन्ते यथा – गिरिव्रजः, वसुमतिः, ऋषभपुरं, कुशाग्रपुरं चेत्यादीनि । राजगृही-नगरी अतीव प्राचीना नगरी वर्तते । राजा सुमित्रः राजगृही-नगर्याः शासकः आसीत् । तस्य पत्नी पद्मावती आसीत् । पद्मावत्याः कुक्ष्याः एकस्य बालकस्य जन्म अभवत् । तस्य नाम सुव्रतनाथः इति अभवत् । मुनिसुव्रतः चतुर्विंशतितीर्थङ्करेषु विंशतितमः तीर्थङ्करः अस्ति । राजगृही-नगर्यां भगवतः सुव्रतनाथस्य कल्याणकचतुष्टयम् (च्यवनं, जन्म, दीक्षा, केवलज्ञानं च ) अभवत् ।

राजगृही-नगर्यां मुख्यजैनमन्दिरे भगवतः मुनिसुव्रतनाथस्य प्राचीनाः, नूतनाः च प्रतिमाः सन्ति । तस्य मन्दिरस्य पृष्ठे गौतमस्वामिनः प्राचीना प्रतिमा अपि विद्यते । तस्य पार्श्वे धर्मशाला भोजनशाला च वर्तते । तत्र दिगम्बर-सम्प्रदायस्य मन्दिराणि, धर्मशाला चापि अस्ति । राजगृहीतीर्थे पञ्चगिरयः सन्ति । ते – १ विपुलगिरिः, २ रत्नगिरिः, ३ उदयगिरिः, ४ सुवर्णगिरिः, ५ वैभारगिरिः च । इतः परम् अपि तत्र बहूनि वीक्षणीयस्थलानि सन्ति । यथा – अजातशत्रोः दुर्गः, अजातशत्रोः स्तूपः, आम्रवनं, वेणुवनं, त्रयोदश जलप्रपाताः, बुद्धमन्दिराणि च [३४]

वैभारगिरि[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले इदं तीर्थस्थलं स्थितमस्ति । राजगृही-नगर्याः समीपे पञ्च पर्वताः सन्ति । ते – वैभारगिरिः, विपुलगिरिः, गृद्धकूतगिरिः, पाण्डवगिरिः, ऋषिगिरिः च । तेषु वैभारगिरिः, विपुलगिरिः च तीर्थस्थलत्वेन प्रसिद्धौ स्तः । जिनप्रभसूरिणा कल्पप्रदीपे वैभारगिरिकल्पस्य रचना कृता अस्ति । तस्मिन् कल्पे वैभारगिरिः, राजगृहस्य, नालन्दायाः वर्णनं कृतम् अस्ति । एतेषां स्थलानां विषये चर्चा अपि जिनप्रभसूरिणा कृता अस्ति यत् – “ वैभारपर्वते नानाप्रकारकाः ओषधयः, जलपाताः, शीतोष्णजलस्य कुण्डाः च सन्ति । सरस्वती-नद्यः उद्गमः अपि तत्रैव भवति ।

“शालिभद्र धन्ना” इत्याख्येन ऋषिणा अपि वैभारपर्वतस्य शिलासु कायोत्सर्गः कृतः आसीत् । तत्र बहवः जिनालयाः सन्ति । तेषु जिनालयेषु महावीरस्य प्रतिमा, अन्याः खण्डिताः प्रतिमाः च सन्ति । पर्वते बहूनि लौकिकतीर्थानि सन्ति । समीपे बौद्धविहाराः अपि सन्ति । तत्र बहूनां बौद्धभिक्षुकाणां निर्वाणम् अभवत् । पर्वते एका अन्धकारमयी गुहा अस्ति । तस्यां पर्वतगुहायां रोहिणादयः तस्कराः निवसन्ति स्म ।

पर्वतस्य समीपे राजगृह-नगरी अस्ति । तस्याः नगर्याः बहूनि प्राचीननामानि सन्ति । यथा – ऋषभपुरं, क्षितिप्रतिष्ठः, चणकपुरं, कुशाग्रपुरं च । नालन्दा-नगरं तस्याः नगर्याः समीपे एव अस्ति । नालन्दा- नगरे महावीरेण चतुर्दशवर्षावासाः अतिवाहिताः । तस्य एकादशगणधराणां निर्वाणम् अपि तस्मिन् नगरे एव अभवत् । अरासन्धः, श्रेणिकः, कुणिकादयः राजानः, हल्लः, विहल्लः, अभयकुमारः, नन्दिसेणादयः राजकुमाराः, जम्बूस्वामी, शय्यम्बवसूर्यादयः ऋषयः, पतिव्रताः स्त्रियः, शालिभद्रः इत्यादयः सर्वे अनेन नगरेण सह सम्बद्धाः सन्ति । नगरे कल्याणकाः स्तूपाः, मन्दिराणि च सन्ति । तत्रत्येषु जनेशु सार्धं जनाः जैनधर्मस्य, सार्धं जनाः बौद्धधर्मस्य च अनुयायिनः सन्ति । जिनप्रभसूरिणा स्वस्य ग्रन्थे वैभारपर्वतस्य यादृशं वर्णनं कृतम् अस्ति, तादृशं दृश्यं साम्प्रतमपि दृश्यते [३५][३६]

पुण्ड्रपर्वतः, कोटिभूमिः च[सम्पादयतु]

पुण्ड्रपर्वतः पुण्डवर्धनः इति नाम्ना अपि ज्ञायते । कोटिभूमिः कोटिवर्षम् इति नाम्ना ज्ञायते । ते स्थाने प्राचीने स्तः । ते तीर्थस्थले प्राचीने काले बङ्गालराज्यस्य उत्तरभागे स्थिते आस्ताम् । महावीरस्य कालतः ह्वेनसाङ्ग-पर्यन्तं बङ्गाल-राज्ये जैनधर्मस्य व्यापकता आसीत् । किन्तु पालानां, सेनानां च शासनकाले बौद्धब्राह्मणीयधर्मौ एव प्रचलितौ आस्ताम् । तस्मिन् समये जैनधर्मस्य ह्रासः अभवत् । तस्मिन् समये जैनधर्मस्य अनुयायिनां सङ्ख्या न्यूना आसीत् । यतः तस्य कालस्य केचन जैनानुयायिनः पश्चिमभारतं गतवन्तः । तस्य स्थलस्य सामान्यैः कृषकैः, व्यापारिभिश्च स्वस्य सामर्थ्यानुसारं जिनालयानां जिनप्रतिमानां निर्माणं कारितम् । तेषां जिनालयानाम् अवशेषाः प्राप्ताः । किन्तु तथापि स्पष्टरूपेण कथयितुं न शक्यते यत् – ते स्थले जैनतीर्थे एव आस्ताम् । जनैः प्राचीनपरम्परायाः आधारेण ते स्थले तीर्थत्वेन मन्येते[३७]

कलिङ्गदेशः[सम्पादयतु]

कलिङ्गक्षेत्रं भारतस्य उडीसा-राज्ये स्थितम् अस्ति । जैनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे कलिङ्गदेशस्य उल्लेखः कृतः अस्ति । “तत्र गोम्मटश्रीऋषभदेवस्य मन्दिरम् आसीत्” इति तस्मिन् कल्पे जिनप्रभसूरिणा उल्लिखितम् अस्ति । पुरा कलिङ्गदेशस्य राजधानी काञ्चनपुरम् आसीत् । जैनग्रन्थेषु कलिङ्गदेशस्य, काञ्चनपुरस्य च उल्लेखः वर्तते । किन्तु ऋषभदेवस्य मन्दिरविषयकं वर्णनं कल्पप्रदीपग्रन्थं विहाय केषुचिदपि जैनग्रन्थेषु न प्राप्यते [३८]

माहेन्द्रपर्वतः[सम्पादयतु]

भारतवर्षस्य ओडिशा-राज्ये माहेन्द्रपर्वतशृङ्खला स्थिता अस्ति । वर्तमाने ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितः पर्वतः माहेन्द्रपर्वतः इति मन्यते । जैनसाहित्येषु अस्य पर्वतस्य उल्लेखः प्राप्यते । अयं पर्वतः जैनतीर्थम् अस्ति इति कुत्रापि न प्राप्यते । केवलं जिनप्रभसूरिणा एव स्वस्य कल्पप्रदीपनामकस्य ग्रन्थस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे माहेन्द्रपर्वतः तीर्थत्वेन वर्णितः अस्ति [३९]

अवन्तीदेशस्थः अभिनन्दनदेवकल्पः[सम्पादयतु]

मालवा-प्रान्ते मङ्गलपुर-नगरी आसीत् । तस्याः नगर्याः समीपे अभिनन्दननाथस्य जिनालयः आसीत् । एकदा म्लेच्छैः सः जिनालयः नाशितः । तैः जिनालयस्य प्रतिमा नवखण्डेषु विभाजिता । तत्रत्यैः जनैः ते नवखण्डाः संरक्षिताः । समयान्तरे “वाइजा” इत्याख्यः कश्चन जैनश्रावकः व्यापारार्थं तत्र गतवान् आसीत् । तत्रत्यैः जनैः सा खण्डिता प्रतिमा वाइजा इत्याख्याय जैनश्रावकाय प्रदर्शिता । सः जैनश्रावकः प्रतिदिनं तस्याः प्रतिमायाः दर्शनानन्तरम् एव भोजनं करोति स्म । तेन श्रावकेण तस्याः प्रतिमायाः नवखण्डान् क्रोडीकृत्य चन्दनस्य लेपनं कृत्वा प्रतिमा पूर्ववत् सज्जीकृता । अनन्तरं सा प्रतिमा पिप्पलवृक्षस्याधः प्रस्थापिता । तत्रत्याः मठाधीशाः तस्याः प्रतिमायाः संरक्षणं कुर्वन्ति स्म । तस्याः प्रतिमायाः चमत्कारान् श्रुत्वा मालवाधीशः जयसिंहः जिनालयस्य पूजां चकार । जिनालयस्य व्ययार्थं जयसिंहेन भूमिः प्रदत्ता [४०]

ओङ्कारपर्वतः[सम्पादयतु]

भारतस्य मध्यप्रदेश-राज्यस्य खण्डवा-मण्डले द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ओङ्कारेश्वरज्योतिर्लिङ्गं स्थितम् अस्ति । सः ओङ्कारेश्वरः एव ओङ्कारपर्वतः मन्यते । यद्यपि ओङ्कारपर्वतस्य अन्यत्र कुत्रापि वर्णनं न प्राप्यते । किन्तु जिनप्रभसूरिणा कल्पप्रदीपे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे ओङ्कारपर्वतस्य उल्लेखः कृतः अस्ति । ग्रन्थे पार्श्वनाथस्य जिनालयस्य अपि चर्चा प्राप्यते । जैनसाहित्येषु अस्य पर्वतस्य उल्लेखः एव न प्राप्यते । ततः जैनपुरावशेषाः अपि न प्राप्ताः । अतः निश्चितरूपेण इदं स्थलं जैनतीर्थत्वेन न गण्यते । ओङ्कारेश्वरज्योतिर्लिङ्गं नर्मदानद्यः तटे स्थितम् अस्ति । तत् स्थलं शैवानां तीर्थस्थलं वर्तते । तत्र शिवालयः वर्तते । नर्मदायाः अपरे तटे दिगम्बराणां सिद्धवरकूट-नामकं तीर्थम् अस्ति । तत्र वर्तमानकालीनाः जिनालयाः विद्यमानाः सन्ति [४१]

कुडुङ्गेश्वरनाभेयदेवकल्पः[सम्पादयतु]

भारतवर्षस्य मध्यप्रदेशराज्यस्य उज्जैन-नगर्यां कुडुङ्गेश्वर-नामकः जिनालयः आसीत् । अवन्तिसुकमाल-इत्याख्यस्य पुत्रेण पितुः मरणस्थले श्वेताम्बरपरम्परानुसारम् अयं जिनालयः निर्मापितः आसीत् । किन्तु समयान्तरे तस्मिन् जिनालये हिन्दुजनाः स्वाधिकारं प्रस्थापितवन्तः । विक्रमादित्यस्य शासनकाले आचार्यसिद्धसेनदिवाकरः तत्र गतवान् । तेन स्वतपसा शिवलिङ्गात् तीर्थङ्करस्य उद्भाविता । अनन्तरं तस्मिन् जिनालये पुनः जैनानाम् अधिकारः अभवत् । कस्मिँश्चित् ग्रन्थे ऋषभदेवस्य प्रतिमा उद्भूता इति वर्णनम् अस्ति, कुत्रचित् पार्श्वनाथस्य प्रतिमायाः वर्णनं प्राप्यते च । किन्तु मूलकथायां पार्श्वनाथस्य प्रतिमायाः वर्णनम् अस्ति । तस्य नामान्तरेण “वामासूनु”, “वामेय” इत्यादीनि नामानि जिनप्रभसूरेः ग्रन्थे सन्ति । किन्तु तस्य ग्रन्थस्य प्रतिलिप्यां लेखकस्य त्रुटिवशात् “नाभिसूनु”, “नाभेय” इत्यादीनि नामानि परिवर्तितानि । अतः तस्य परिणामेन तीर्थकल्पेषु कुत्रचित् “कुडुङ्गेश्वरनाभेयदेवकल्पः”, कुत्रचित् “श्रीकुडुङ्गेश्वरपार्श्व” चेति नामोल्लेखः प्राप्यते ।

चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे ऋषभदेवस्य तीर्थस्थानानां नामावल्यां कुडुङ्गेश्वर, उज्जैन इत्येतयोः नामोल्लेखः एव न प्राप्यते । किन्तु पार्श्वनाथस्य तीर्थस्थानानां नामावल्यां “महाकालान्तरपातालचक्रवर्ती” इति अस्ति । अतः स्पष्टं भवति यत् – शिवलिङ्गात् पार्श्वनाथस्य प्रतिमा समुद्भूता [४२]

चन्देरी[सम्पादयतु]

भारतस्य मध्यप्रदेश-राज्यस्य गुना-मण्डले बेटवा-नद्याः तटे स्थितमस्ति चन्देरी-नगरम् । पुरा चन्देरी-नगरं चेदि-जनपदस्य राजधानी आसीत् । बौद्धजैनसाहित्येषु अस्य उल्लेखः दृश्यते । महाभारतपुराणेषु अपि अस्य वर्णनं प्राप्यते । पुरा चेदिजनपदं वत्सजनपदस्य दक्षिण-पश्चिमदिशि (नैर्ऋत्यकोणे) स्थितः आसीत् । अस्य पूर्वदिशि काशी-नगरी, दक्षिणदिशि विन्ध्यपर्वतः, पश्चिमदिशि अवन्ती-नगरी, उत्तरपश्चिमदिशि (वायव्यकोणे) शूरसेनजनपदं च स्थितः आसीत् । पूर्वमध्ययुगे तत्र “कल्चुरि” इत्याख्यानां शासनम् आसीत् । अतः चेदिकुलम् अपि कथ्यते । राजनीतेः कारणात् चन्देरी-नगरे कदाचित् चन्देलशासकानां, कदाचित् कल्चुरीशासकानां च शासनम् आसीत् । ग्रीक-भाषीयैः इतिहासकारैः अस्य नगरस्य नाम चन्द्रावती, सन्द्रावती वा उल्लिखितम् । तस्य नगरस्य उत्खनने चन्देलनरेशस्य कीर्तिवर्मणः कालस्य एकः शिलालेखः प्राप्यते । अतः ज्ञायते यत् – चन्देलनरेशेन तत्र दुर्गः निर्मापितः । अतः तस्य दुर्गस्य नाम कीर्तिदुर्गः अभवत् ।

अस्य नगरस्य चन्द्रपुर इति नाम अपि प्राप्यते । “अलबिरूनी”, “इब्नबतूता” इत्येताभ्याम् अपि अस्य नगरस्य चर्चा कृता । “पृथ्वीराजरासो”, “आइन-ए-अकबरो” इत्येतयोः अपि नामोल्लेखः प्राप्यते । चन्देरी-नगरे, चन्देरि-नगरस्य समीपस्थेषु क्षेत्रेषु च मध्यकालीनानाम् अनेकासां प्रतिमानां, मन्दिराणां च अवशेषाः प्राप्ताः । तेषु अवशेषेषु जैनमन्दिराणां, तीर्थङ्कराणां च प्रतिमाः सन्ति । वि. सं १४५७ तमे वर्षे “चन्देरीपट्ट” इति स्थलस्य स्थापना जाता । चन्देरी-नगरात् ८ मीलमिते दूरे अटेर्-नदी अस्ति । तस्य दक्षिणतटे “बूढीचन्देरी” “प्राचीनचन्देरी” वा स्थितम् अस्ति । साम्प्रतं तत्स्थलं जीर्णम् अभवत् । तत्र दशमशताब्द्याः, द्वादशशताब्द्याः च मन्दिराणां, भवनानाम् अवशेषाः सन्ति ।

चन्देरी-नगरस्य समीपे “गुरिल का पहाड”, “खण्डारपहाडी” इत्येतौ पर्वतौ स्तः । ततः अपि जैनमन्दिराणां, प्रतिमानाम् अवशेषाः च प्राप्ताः । चन्देरी-नगरे जैनधर्मस्य त्रीणि मन्दिराणि सन्ति । तेषु मन्दिरद्वयं दिगम्बरसम्प्रदायस्य, एकं मन्दिरं श्वेताम्बरसम्प्रदायस्य च अस्ति । ते जिनालयाः अर्वाचीनाः सन्ति । दिगम्बरजिनालयस्य प्रतिमासु लेखाः अपि प्राप्यन्ते । बूढीचन्देरी-ग्रामे अपि एकादशशताब्द्याः, द्वादशशताब्द्याः च मन्दिराणां, भवनानाम् अवशेषाः प्राप्यन्ते ।

चन्देरी-नगरात् ६ किलोमीटरमिते दूरे सिद्धपुरा-नामकः ग्रामः अस्ति । तस्मिन् ग्रामे गुरिलागिरि-नामकः लघुपर्वतः वर्तते । तस्मिन् लघुपर्वते शान्तिनाथस्य मन्दिरम् अस्ति । तस्य मन्दिरस्य निर्माणं द्वादशशताब्द्यां “पाडाशाह” इत्याख्येन जैनश्रावकेन कृतम् आसीत् । समयान्तरे तत्र बहूनि मन्दिराणि निर्मापितानि । किन्तु साम्प्रतं तेषु मन्दिरेषु द्वे मन्दिरे स्तः । तयो मन्दिरयोः एकस्मिन् मन्दिरे भगवतः शान्तिनाथस्य प्रतिमा अस्ति । अन्यस्मिन् मन्दिरे तीर्थङ्कराणां प्रतिमाः सन्ति । द्वे मन्दिरे दिगम्बर-सम्प्रदायस्य स्तः । यद्यपि चन्देरी दिगम्बर-सम्प्रदायस्य प्रमुखं केन्द्रम् आसीत्, किन्तु दिगम्बर-श्वेताम्बरसम्प्रदाययोः ग्रन्थेषु चन्देरी-नगरस्य जैनतीर्थत्वेन उल्लेखः एव न प्राप्यते । केवलं जिनप्रभसूरेः ग्रन्थे एव तीर्थत्वेन उल्लिखितम् अस्ति इदं चन्देरी-नगरम् [४३]

ढींपुरी[सम्पादयतु]

प्राचीनकाले भारतवर्षे विमलयशो नामा राजा आसीत् । तस्य पुष्पचूल, पुष्पचूला इत्याख्यम् अपत्यद्वयम् आसीत् । तयोः पुष्पचूलः उद्दण्डः आसीत् । अतः जनाः तं वङ्कचूलः इति अकथयन् । एकदा अयोग्याचरणात् पुष्पचूलः राज्यात् निष्कासितः । पुष्पचूला अपि पुष्पचूलेन सह निर्गता । मार्गे बहूनि कष्टानि अभवन् । भील-जातीयैः तयोः रक्षणं कृतम् । अनन्तरं भीलजनाः तौ स्वस्य “पल्ली” इत्याख्यं निवासस्थानं नीतवन्तः । भीलजनैः वङ्कचूलाय पल्लीपतिपदं प्रदत्तम् । सा पल्ली सिंहपल्ली इति नाम्ना ज्ञायते स्म । साम्प्रतं “सिंहपल्ली” “ढींपुरी” इति नाम्ना प्रसिद्धा अस्ति । तस्यां नगर्यां वङ्कचूलेन चर्मण्वती-नद्याः तटे महावीरस्य जिनालयः स्थापितः । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य प्रतिमा वर्तते । अतः अयं जिनालयः “चेल्लण पार्श्वनाथः” इति नाम्ना प्रसिद्धा अभवत् । तस्मिन् जिनालये ऋषभदेवस्य नेमिनाथस्य चापि प्रतिमे स्तः । प्रतिवर्षं पौष-मासस्य दशम्यां तिथौ तत्र उत्सवः आचर्यते । यद्यपि अस्य तीर्थस्य उल्लेखः केषुचिदेव जैनग्रन्थेषु प्राप्यते । समयान्तरे इदं तीर्थं विच्छिन्नम् अभवत् [४४]

दशपुरम्[सम्पादयतु]

भारतदेशस्य मध्यप्रदेश-राज्ये शिवना-नद्याः तटे मन्दसौर-नगरं स्थितम् अस्ति । तन्नगरम् एव पुरा दशपुरम् इति नाम्ना ज्ञायते स्म । जिनप्रभसूरिणा चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य नगरस्य वर्णनं कृतम् अस्ति । तस्मिन् नगरे पार्श्वनाथस्य मन्दिरस्य चर्चा कृता अस्ति । तेन पाटलिपुत्रकल्पे अपि दशपुर-नगरस्य उल्लेखः प्राप्यते । दशपुर-नगरं भारतस्य प्रमुखप्राचीनतमेषु नगरेषु अन्यतमं वर्तते । सांस्कृतिकराजनैतिकदृष्ट्या अस्य नगरस्य महत्त्वं वर्तते स्म । पुरा इदं नगरम् औलिकरराज्ञां राजधानी आसीत् ।

संस्कृतजगति कालिदासः महाकविः अस्ति । कालिदासेन, वाराहमिहिरेण च अपि अस्य नगरस्योल्लेखः कृतः अस्ति । मार्कण्डेयपुराणे, स्कन्दपुराणे च अस्य नगरस्य चर्चा वर्तते । किन्तु बौद्धग्रन्थेषु अस्य कुत्रापि उल्लेखः न दृश्यते । जैनसाहित्येषु अस्य नगरस्य सौन्दर्यस्य, व्युत्पत्तेः च विस्तृतरूपेण वर्णनं प्राप्यते । जैनधर्मानुसारं जैनग्रन्थेषु अस्य नगरस्य अर्थविषयिणी कथा अस्ति यत् –

“महावीरस्य काले सिन्धु-सौवीरदेशस्य उदायन-नामकः राजा आसीत् । तस्य पार्श्वे महावीरस्य चन्दनकाष्ठस्य प्रतिमा आसीत् । सा प्रतिमा “जीवन्तस्वामी” इति नाम्ना विख्याता आसीत् । उदायनस्य पत्नी प्रतिदिनं तस्याः प्रतिमायाः पूजनं करोति स्म । पत्न्याः मृत्योः अनन्तरम् उदायनेन स्वस्य देवदत्ता-नामिकायै दास्यै सा प्रतिमा पूजां कर्तुं प्रदत्ता । समयान्तरे उज्जैन-नगर्याः राज्ञा चण्डप्रद्योतेन तस्याः दास्याः अपहरणं कृतम् । दासी सा प्रतिमां सहैव नीतवती । यदा उदायन-राजा अपहरणस्य सन्देशं प्राप्तवान्, तदा सः चण्डप्रद्योतम् अन्वगच्छत् । उदायनस्य चण्दप्रद्योतेन सह युद्धम् अभवत् । तस्मिन् युद्धे चण्डप्रद्योतः पराजितः जातः । उदायनेन चण्डप्रद्योतः बन्दीकृतः । समयान्तरे उदायनेन चण्डप्रद्योतः मुक्तः कृतः । उदायनेन चण्डप्रद्योताय जीवन्तस्वामिनः प्रतिमा प्रदत्ता । अनन्तरं सः पुनः स्वदेशं गच्छन् आसीत् । तेन सह दश राजानः अपि आसन् । मार्गे वर्षर्तुः आरब्धाः । अतः तैः वने एव वर्षावासः कृतः । ते दश राजानः आसन् । तत्रैव सर्वैः नगरं निर्मापितम् । अतः तस्य नगरस्य नाम दशपुरम् अभवत् । जीवन्तस्वामिनः प्रतिमा जिनालये स्थापिता ।

वीरनिर्वाणस्य ५२२ वर्षाण्यनन्तरम् आर्यरक्षितसूरिणः अस्मिन् नगरे जन्म अभवत् । तस्य पिता सोमदेवः, माता च रुद्रसोमा आसीत् । आर्यरक्षितसूरिणा तोसलीपुत्रात् दीक्षा सम्प्राप्ता । वैरस्वामिनः नवपूर्वाणाम् अध्ययनं कृतं तेन । तस्य परिवारजनैः जैनधर्मस्यैव दीक्षा अङ्गीकृता । दशपुर-नगरे एव तस्य मृत्युः अभवत् । गोष्ठामिहिल-इत्याख्यः आर्यरक्षितसूरिणः शिष्यः आसीत् । सः अस्य नगरस्य सप्तमः निह्नवः अभवत् ।

मध्ययुगे इदं नगरं जैनधर्मस्य केन्द्रम् आसीत् । यतः मन्दसौर-नगरे, मन्दसौर-नगरस्य समीपस्थेषु कोथली, कोहला, घुसइ, चैनपुर, निमथूर, कुक्कुडेश्वर, केथुली, मचलपुर, वैखेडा, पूरागिलाना, सन्धारा इत्यादिषु स्थानेषु च मध्यकालीनानां जैनप्रतिमानां, मन्दिराणां च भग्नावशेषाः प्राप्ताः । अतः स्पष्टं भवति यत् – “मध्ययुगस्य प्रारम्भे एव अस्मिन् नगरे जैनधर्मः विद्यमानः आसीत् [४५]

विदिशा[सम्पादयतु]

विदिशा-नगरी भारतस्य मध्यप्रदेश-राज्ये स्थिता अस्ति । पुरा इयं दशार्णजनपदस्य राजधानी आसीत् । इयं नगरी भारतदेशस्य प्रमुखनगरीषु अन्यतमा अस्ति । बौद्धजैनब्राह्मणीयग्रन्थेषु अस्याः नगर्याः विषये वर्णनं प्राप्यते । मौर्यकाले, गुप्तकाले च इयं नगरी प्रसिद्धा आसीत् । किन्तु पूर्वमध्यकाले विदिशा-नगर्याः अस्तित्त्वं नासीत् । पूर्वमध्यकाले “भाइलस्वामिगढ” इत्येतस्य नगरस्य अस्तित्त्वम् आसीत् । मन्यते यत् – “तस्मिन् नगरे एकं सूर्यमन्दिरम् आसीत् । सूर्यस्य प्रतिमायाः नाम भाइलस्वामी आसीत्” इति ।

एकादशशताब्द्याम् अलबिरूनी इत्याख्येन, द्वादशशताब्द्यां च हेमचन्द्राचार्येण च अस्याः नगर्याः उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपे चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्याः नगर्याः वर्णनं कृतमस्ति । उज्जैन-नगर्याः राज्ञा चण्डप्रद्योतेन विदिशा-नगर्याः नाम भाइलस्वामिन् इति कृतम् आसीत् । तत्र तेन एकः जिनालयः अपि निर्मापितः । उदायनेन प्राप्तां जीवन्तस्वामिनः प्रतिमां चण्डप्रद्योतः तस्मिन् जिनालये स्थापितवान् । आर्यमहागिरिः, सुहस्तिः च तस्याः प्रतिमायाः दर्शनार्थं गतवन्तौ आस्ताम् । अतः अनेन स्पष्टं भवति यत् – जैनधर्मः प्राचीनकालादेव अनेन तीर्थेन सह सम्बद्धः अस्ति ।

विदिशा-नगर्याः समीपे दुर्जनपुर-ग्रामः वर्तते । ततः राजा रामगुप्तस्य शासनकालस्य अभिलेखयुक्ताः तिस्रः जिनप्रतिमाः प्राप्ताः । तैः अभिलेखैः गुप्तकालस्य जैनधर्मस्य स्थितिः ज्ञातुं शक्यते । विदिशा-नगर्याः समीपे उदयगिरि-पर्वते विंशति गुहाः अपि सन्ति । तासु गुहासु प्रथमा, विंशतितमा च गुहा जैनसम्बद्धा अस्ति । पूर्वमध्ययुगे, मध्ययुगे च तस्मिन् क्षेत्रे जिनालयानां, जिनप्रतिमानां च निर्माणम् अभवत् । तेषां जिनालयानां, प्रतिमानां च अवशेषाः विदिशा-नगर्यां, विदिशा-नगर्याः समीपस्थेषु स्थलेषु च प्राप्यन्ते । यथा – उदयगिरिः, ग्यारसपुरं, बडोह, उदयपुरं, वरनगरं च [४६]

अर्बुदगिरि[सम्पादयतु]

Jain temple Mt.Abu.jpg

भारतस्य राजस्थान-राज्यस्य सिरोही-मण्डले स्थितोऽयम् अर्बुदपर्वतः । साम्प्रतम् अयं पर्वतः “आबुपर्वत”, “माउण्ट् आबु” वा इति नाम्ना प्रसिद्धः अस्ति । अर्बुदगिरिः जैनधर्मस्य प्रसिद्धतीर्थम् अस्ति । जैनसाहित्येषु अस्य तीर्थस्य विस्तृतरूपेण वर्णनं प्राप्यते । तत्र विमलवसही, लूणवसही इति नामकौ द्वौ जिनालयौ स्तः । तौ जिनालयौ कलायै विश्वविख्यातौ स्तः । जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । पूर्वकाले श्रीरत्नमालनगरी आसीत् । तस्याः नगर्याः राजा श्रीपुञ्जः आसीत् । श्रीमाता नामिका तस्य एका पुत्री आसीत् । सा वानरमुखी आसीत् । श्रीमात्रा स्वस्याः पूर्वजन्मनः वृत्तान्तः श्रीपुञ्जाय श्रावितः । सर्वं ज्ञात्वा श्रीपुञ्जः स्वस्य पुत्रीम् अर्बुदपर्वतं प्रेषितवान् । अर्बुदपर्वते कस्मिँश्चित् कुण्डे सा स्वस्याः मुखं न्यमज्जयत् । तेन तस्याः मुखं स्त्रीवत् अभवत् । सा तत्रैव साधनां, तपश्चर्यां कुर्वती आसीत् । एकद ततः कश्चन योगिपुरुषः गच्छन् आसीत् । सः योगिपुरुषः तां दृष्टवान् । सः तया आकृष्टः जातः । सः तया सह विवाहं कर्तुम् ऐच्छत् । किन्तु श्रीमात्रा छलेन सः योगिपुरुषः हतः । सा आजीवनं ब्रह्मचर्यस्य पालनं कृतवती । अनन्तरं सा स्वर्गं प्राप्तवती । राज्ञा श्रीपुञ्जेन श्रीमातुः एकं मन्दिरं निर्मापितम् ।

लौकिकग्रन्थेषु अर्बुदगिरि इति नामविषयिणी सामान्या कथा अपि अस्ति यत् – “अयं पर्वतः हिमालयस्य पुत्रः आसीत् । तस्य नाम नन्दिवर्धनः आसीत् । समयान्तरे अर्बुद-नामकः सर्पः तत्र अनुष्ठानं कर्तुम् आगतः । अतः तस्य पर्वतस्य नाम अर्बुदगिरिः इति अभवत् । अस्य पर्वतस्य नामकरणविषयकं वर्णनं महाभारते, पुराणेष च प्राप्यते । तस्मिन् पर्वते बहवः सुन्दराः वृक्षाः सन्ति । तेषु वृक्षेषु बह्व्यः ओषधयः अपि सन्ति । तत्र वसिष्ठाश्रमः, मन्दाकिनी, अचलेश्वरः, गोमुखयक्षः इत्यादीनि लौकिकतीर्थानि सन्ति ।

वि. सं. १०८८ तमे वर्षे मन्त्रीश्वरेण विमलेन “विमलवसही” इत्याख्यः जिनालयः निर्मापितः । तथैव वि. सं. १२८८ तमे वर्षे तेजपालेन “लूणवसही” इत्याख्यः जिनालयः निर्मापितः । किन्तु मुस्लिमशासकैः तौ जिनालयौ नाशितौ कृतौ । समयान्तरे वि. सं १३७८ तमे वर्षे महणसिंहस्य पुत्रेण लल्ल-इत्याख्येन, “विमलसही”-जिनालयः, चण्डसिंहस्य पुत्रेण पेथड-इत्याख्येन “लूणवसही”-जिनालयः च पुनर्निर्मापितः । चालुक्यवंशीयः राजा कुमारपालः तस्य पर्वतस्य शिखरे भगवतः महवीरस्य एकं चैत्यं निर्मापितवान् आसीत् ।

अर्बुदपर्वते श्रीमातुः मन्दिरमेकं स्थितम् अस्ति । तत्रत्यैः जनैः श्रीमाता देवी मन्यते स्म । भगवतः रामस्य गुरोः वसिष्ठस्य आश्रमः अपि अर्बुदपर्वते स्थितः अस्ति । सः आश्रमः वसिष्ठाश्रमः कथ्यते । वि. सं. १३९४ तमे वर्षे वसिष्ठाश्रमस्य निर्माणं कारितम् । अर्बुदपर्वते गोमुखकुण्डः वर्तते । तत्र पाषाणनिर्मितायाः गवेः मुखात् जलधारां निरन्तरं निपतति । जिनप्रभसूरिणा अपि कल्पप्रदीपे ग्रन्थे “गोमुखयक्ष” इति तीर्थस्य वर्णनं कृतम् अस्ति । तत्तीर्थम् एव साम्प्रतं “गोमुखकुण्डः” इति नाम्ना विख्यातम् अस्ति । तत्र अचलेश्वरः, मन्दाकिनी इत्यादीनि तीर्थानि सन्ति । अचलगढ-स्थलस्य आधारे अचलेश्वरमहादेवस्य प्राचीनमन्दिरम् अस्ति । ब्राह्मणीयग्रन्थानुसारम् अचलेश्वरमहादेवः अधिष्ठातृदेवः मन्यते ।

पुरा अर्बुदतीर्थे परमारवंशजानां, चाहमानवंशजानां शासनम् आसीत् । चाहमानवंशजैः अचलेश्वरमहादेवः कुलदेवत्वेन मन्यते स्म । इदं मन्दिरं प्राचीनम् अस्ति । किन्तु अस्य मन्दिरस्य बहुवारं जीर्णोद्धारः अभवत् । अचलेश्वरमहादेवमन्दिरस्य समीपं मन्दाकिनी-नामकः कुण्डः अस्ति । सः कुण्डः ९०० पादपरिमितः दीर्घः, २४० पादपरिमितः विस्तृतः च अस्ति [४७]

उपकेशपुरम्[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य जोधपुर-मण्डले ओसिया-नामकः ग्रामः स्थितः अस्ति । ओसिया-ग्रामस्य पुरातनं नाम उपकेशपुरम् आसीत् । अस्य ग्रामस्य अपराणि नामानि अपि सन्ति । यथा – उवएस, ऊकेश इति । अयं ग्रामः जोधपुर-नगरात् उत्तर-पश्चिमदिशि ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । चाहमानशासनकाले इदं नगरं प्रसिद्धम् आसीत् । अष्टम्यां शताब्द्यां प्रतिहारनरेशस्य वत्सराजस्य शासनकाले उपकेशपुरे भगवतः महावीरस्य जिनालयस्य निर्माणम् अभवत् । वत्सराजस्य मृत्योः अनन्तरम् आभीर-शासकैः अस्मिन् ग्रामे शासनं कृतम् आसीत् । प्रतिहारचाहमानयोः युगे उपकेशपुरं ब्राह्मणीयधर्मस्य, जैनधर्मस्य च प्रसिद्धं केन्द्रम् आसीत् । मध्ययुगे अपि अस्य नगरस्य महत्त्वम् अधिकम् आसीत् । साम्प्रतं तस्मिन् नगरे षोडशाधिकानि मन्दिराणि विद्यमानानि सन्ति । तेषां मन्दिराणां कला दर्शनीया अस्ति । तानि मन्दिराणि कलादृष्ट्या महत्त्वपूर्णानि सन्ति ।

उपकेशपुरे स्थितेषु जैनमन्दिरेषु भगवतः महावीरस्य मन्दिरं सर्वोत्कृष्टं वर्तते । महावीरस्य जिनालये बहवः अभिलेखाः प्राप्तः । तैः अभिलेखैः ज्ञायते यत् – “वत्सराजस्य काले एव तस्य निर्माणम् अभवत् । पुनश्च एकादशशताब्द्याम् अस्य मन्दिरस्य जीर्णोद्धारः अभवत्” इति । तत्र सचियादेव्याः मन्दिरम् अष्टमशताब्द्यां, पीपलादेव्याः मन्दिरं दशमशताब्द्यां च निर्मापितम् आसीत् । सचियादेव्याः मन्दिरे बहवः अभिलेखाः विद्यमानाः सन्ति । जैनधर्मे ओसवाल-ज्ञातिः वर्तते । “ओसवालज्ञातिजनानाम् उत्पत्तिं नवमशताब्द्याम् उपकेशपुरे अभवत्” इति मन्यते । तत्पूर्वम् अस्याः ज्ञातेः उल्लेखः न दृश्यते । श्वेताम्बरसम्प्रदायस्य बह्व्यः शाखाः सन्ति । तेषु “उपकेशगच्छ” अपि अन्यतमा शाखा वर्तते । अस्याः शाखाः स्थापना उपकेशपुरे एव अभवत् । उपकेशगच्छ इत्यस्याः शाखायाः बहूनि नामानि प्राप्यन्ते । यथा – उएस, ओसवाल, कडवा इति । इयं शाखा भगवतः पार्श्वनाथस्य परम्परया सह सम्बद्धा अस्ति ।

यदा मुस्लिमशासकैः आक्रमणं कृतम् आसीत्, तदा अस्य ग्रामस्य जिनालयाः क्षतिग्रस्ताः अभवन् । तथापि जनैः मन्दिराणां जीर्णोद्धारः, नूतनप्रतिमानां निर्माणं च कारितम् । तानि मन्दिराणि स्थापत्यकलादृष्ट्या महत्त्वपूर्णानि सन्ति [४८]

करहेटक[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य चित्तौडगढ-नगरात् ५० किलोमीटरमिते दूरे भूपालसागर-ग्रामे स्थितम् अस्ति करेडा-तीर्थम् । वर्तमानकाले करहेटक-स्थलं करेडा इति नाम्ना प्रसिद्धमस्ति । साम्प्रतं तत्र भगवतः पार्श्वनाथस्य जिनालयः वर्तते । सः जिनालयः “बावन जिनालय” इति नाम्ना प्रसिद्धः अस्ति । इदं स्थलं जैनतीर्थस्थलं वर्तते । तस्मात् जिनालयात् एकः शिलालेखः प्राप्तः । सः शिलालेखः वि. सं. १०३६ तमस्य वर्षस्य अस्ति । वि. सं. १३२६ तमस्य वर्षस्य एकः शिलालेखः अपि ततः प्राप्तः । तस्मिन् शिलालेखे “करहेडा” इति नामोल्लिखितम् अस्ति । अपि च जिनालये स्थितायं प्रतिमायां वि. सं. १६५६ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । तेन लेखेन तस्य जिनालयस्य जीर्णोद्धारविषयकं चर्चा अस्ति । तस्य जिनालयस्य उपरिभागः यवनप्रार्थनागृहम् (मस्जिद्) इव निर्मापितः आसीत् । यतः “मुस्लिमशासकानाम् आक्रमणात् तस्य जिनालयस्य संरक्षणं भवेत्” इति । आचार्यजिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे करहेटक-तीर्थस्य उल्लेखः कृतः अस्ति । इदं राजस्थान-राज्यस्य प्रसिद्धतीर्थेषु अन्यतमं वर्तते [४९]

नन्दिवर्धनः[सम्पादयतु]

वर्तमानकाले नन्दिवर्धन-स्थलं नान्दिया इति नाम्ना प्रसिद्धम् अस्ति । भारतस्य राजस्थान-राज्यस्य सिरोही-मण्डले स्थितमिदं तीर्थम् । इदं तीर्थं सिरोही-नगरात् २४ किलोमीटरमिते दूरे स्थितम् अस्ति । सिरोहीरोड-रेल्वेस्थानकात् १० किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । अस्य तीर्थस्य बहूनि नामानि प्रचलितानि सन्ति । यथा – नन्दिग्रामः, नन्दिपुरं, नान्दिया च । तत्रत्यानां जनानां मतानुसारम् अस्य तीर्थस्य नामकरणविषयकं वर्णनं प्राप्यते यत् – “नन्दिवर्धन-इत्याख्यः भगवतः महावीरस्य ज्येष्ठभ्राता आसीत् । नन्दिवर्धनेन अस्य ग्रामस्य स्थापना कृता आसीत् । अतः तस्य ग्रामस्य नाम नन्दिवर्धनः इति कृतम् । ग्रामात् बहिः भगवतः महावीरस्य प्राचीनः जिनालयः अपि विद्यामानः अस्ति । तस्मिन्जिनालये सप्तसप्ततिः जिनप्रतिमाः सन्ति । साम्प्रतं मुम्बई-नगरस्थेन श्वेताम्बरजैनसङ्घेन अस्य जिनालयस्य जीर्णोद्धारः कारितः । आचार्यजिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नन्दिवर्धन-तीर्थस्य उल्लेखः कृतः अस्ति [५०]

नागहृद[सम्पादयतु]

भारतस्य मध्यप्रदेश-राज्ये नागदा-नगरम् अस्ति । तन्नगरम् एव प्राचीनकाले “नागहृद” इति नाम्ना विख्यातम् आसीत् । अस्य नगरस्य प्राचीनानि नामानि अपि विद्यन्ते । यथा – नागद्रहः, नागदाहः, नागहृद इति । इदं नगरं नागैः सह सम्बद्धम् अस्ति । नागादित्यः इत्याख्यः गुहिलवंशीयः शासकः आसीत् । “तेन एव अस्य नगरस्य स्थापना कृता” इति मन्यते । नागदा-नगरं गुहिलवंशजानां राजधानी आसीत् । इदं नगरं जैनवैष्णवशैवानां प्रसिद्धतीर्थम् अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नागदा-तीर्थस्य उल्लेखः कृतः अस्ति ।

साम्प्रतं नागदा-नगरे प्राचीनजिनालयद्वयम् अस्ति । प्रथमः जिनालयः “अलाउ पार्श्वनाथ” इति नाम्ना विख्यातः अस्ति । देहली-साम्राज्यस्य इल्तुतमिश-इत्याखेन शासकेन अस्य जिनालयस्य नाशः कृतः आसीत् । अनन्तरं पुनः तस्य जीर्णोद्धारः अभवत् । अस्य जिनालयस्य स्थापत्यकलादृष्ट्या मन्यते यत् – “अयं जिनालयः एकादशशताब्द्यां निर्मापितः आसीत् । द्वितीये जिनालये भगवतः शान्तिनाथस्य प्रतिमा अस्ति । सः जिनालयः “अद्भुतजी” इति नाम्ना अपि ज्ञायते । शान्तिनाथस्य प्रतिमा ९ पादपरिमिता उन्नता अस्ति । तस्मिन् नगरे अन्ये अपि लघवः जिनालयाः सन्ति [५१]

नाणा[सम्पादयतु]

भारतवर्षस्य राजस्थान-राज्यस्य जोधपुर-मण्डले नाणक-तीर्थं स्थितम् अस्ति । तत् तीर्थं “नाना” इत्यपि कथ्यते । नाणा इति नाम पुरातनं वर्तते । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे नाणा-तीर्थस्य उल्लेखः कृतः अस्ति । दशमशताब्दीतः पञ्चदशशताब्दीपर्यन्तम् इदं नगरं विकासशीलम् आसीत् । तस्मिन् नगरे जीवन्तस्वामिनः प्रतिमा अस्ति । अतः तेनैव कारणेन इदं नगरं जैनधर्मस्य केन्द्रत्वेन स्थितम् आसीत् । तत्रस्थितात् भगवतः महावीरस्य जिनालयात् दशमशताब्द्याः एकः लेखः प्राप्तः । तस्य लेखस्याधारेण अनुमीयते यत् – “तस्य जिनालयस्य निर्माणं दशमशताब्द्याम् अभवत्” इति । अन्ये अपि बहवः लेखाः उत्कीर्णाः सन्ति । किन्तु केषुचित् लेखेषु लेखनकालं न निर्दिष्टम् ।

नाणा-नगरात् एव श्वेताम्बरसम्प्रदायस्य नाणकीयगच्छ-ज्ञातेः स्थापना अभवत् । नाणकीयगच्छ-ज्ञातेः अपराणि बहूनि नामानि सन्ति । यथा – नाणगच्छ, नाणागच्छ, नाणावालगच्छ, ज्ञानकीयगच्छ इत्यादयः । आचार्यशान्तिसूरिः अस्याः ज्ञातेः पुरातनाचार्यः मन्यते । ततः परं सिद्धसेनसूरिः, धनेश्वरसूरिः, महेन्द्रसूरिः च ज्ञातिनायकः आसीत् [५२]

पल्ली(पाली)[सम्पादयतु]

भारतस्य राजस्थान-राज्ये पाली-नगरम् अस्ति । जोधपुर-नगरात् दक्षिण-पश्चिमदिशि ७२ किलोमीटरमिते दूरे स्थितमस्ति इदं नगरम् । पूर्वमध्ययुगे राजनैतिकधार्मिकदृष्ट्या इदं नगरं महत्त्वपूर्णम् आसीत् । पालीवालब्राह्मणानां, पालीवालवणिजां च उत्पत्तिः अस्मिन्नगरे एव अभवत् । अभिलेखेषु अस्य नगरस्य बहूनि नामानि प्राप्यन्ते । यथा – पाल्लिका, पल्लिका, पल्ली च । स्थापत्यकलादृष्ट्या अपि पाली-नगरस्य अत्यधिकं महत्त्वम् अस्ति । पश्चिमभारतस्य “महागूर्जर”, “महामारु” इत्येताभ्यां स्थापत्यशैलिभ्यां पाली-नगरस्य मन्दिराणां निर्माणम् अभवत् । नौलखा-मन्दिरं तयोः स्थापत्यशैल्योः उत्तमम् उदाहरणम् अस्ति ।

नौलखा-मन्दिरे भगवतः पार्श्वनाथस्य प्रतिमा वर्तते । तस्मात् मन्दिरात् वि. सं. ११४४ तमवर्षतः १२०१ तमवर्षपर्यन्तस्य बहवः लेखाः सम्प्राप्ताः । तैः लेखैः अनुमीयते यत् – सः जिनालयः जैनतीर्थम् आसीत् । वि. सं.१६८६ तमे वर्षे अस्य मन्दिरस्य जीर्णोद्धारः अभवत् [५३]

फलवर्द्धिका[सम्पादयतु]

फलवर्द्धिकादेवी-मन्दिरं जैनानुयायिनां प्रसिद्धतीर्थं वर्तते । इदं मन्दिरं फलवर्द्धि-ग्रामे स्थितम् अस्ति । वर्तमानकाले अयं ग्रामः फलौधी इति नाम्ना प्रसिद्धः अस्ति । फलवर्द्धिकादेव्याः मन्दिरेण एव अस्य ग्रामस्य नाम फलवर्द्धिः अभवत् । जिनप्रभसूरिणा स्वस्य ग्रन्थे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । अपि च तस्मिन् ग्रामे पार्श्वनाथस्य मन्दिरम् अपि स्थितम् अस्ति ।

जिनप्रभसूरिणा कल्पप्रदीपग्रन्थे वर्णितम् अस्ति यत् – “सपादलक्षदेशे मेडता-नामिका नगरी अस्ति । तस्य समीपे फलवर्द्धि-नामकः ग्रामः वर्तते । तस्मिन् ग्रामे फलवर्द्धिकादेव्याः मन्दिरम् अस्ति । पूर्वम् अयं ग्रामः समृद्धः आसीत् । किन्तु समयान्तरे अस्य स्थितिः क्षीणा अभवत् । समयान्तरे वणिजः तत्र निवसितुं गताः । तेषु वणिक्षु द्वौ जैनश्रावकौ आस्ताम् । तौ – धांधल, शिवङ्करः च । धांधल इत्याख्यः श्रीमालवंशीयः, शिवङ्करः ओसवालवंशीयश्चासीत् । तौ स्वनादेशात् भगवतःपार्श्वनाथस्य प्रतिमां प्राप्तवन्तौ । वि. सं. ११८१ तमे वर्षे ताभ्याम् एकस्मिन् जिनालये सा प्रतिमा प्रस्थापिता । समयान्तरे “सुलतान सहाबुद्दीन गोरी” इत्याख्येन शासकेन जिनालये आक्रमणं कृतम् । किन्तु जिनालयस्य अधिष्ठातृदेवेन म्लेच्छाः रोगैः पीडिताः । तेन कारणेन “सुलतान सहाबुद्दीन गोरी” इत्याख्येन निश्चितं यत् - “तत्र कदापि आक्रमणं न करिष्यामि” इति । आक्रमणे अधिष्ठितदेवस्य प्रतिमा खण्डिता जाता । अतः जनैः अपरां प्रतिमां स्थापयितुं विचारितम् । किन्तु जनाः असमर्थाः अभवन् । साम्प्रतम् अपि सा प्रतिमा खण्डितरूपेण एव सम्पूज्यते” ।

वर्तमानकाले फलौधी-ग्रामे भगवतः पार्श्वनाथस्य मन्दिरमस्ति । “तदेवप्राचीनमन्दिरं भवेत्” इति मन्यते । यतः तस्मात् जिनालयात् द्वौ प्राचीनाभिलेखौ प्राप्तौ । तेषु एकः अभिलेखः वि. सं. १२२१ तमस्य वर्षस्य आसीत् । द्वितीये अभिलेखे कालनिर्देशः एव नास्ति [५४]

मुण्डस्थलम्[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य सिरोहीमण्डले मुङ्गथला-नामकः ग्रामः स्थितोऽस्ति । सः एव ग्रामः पुरा मुण्डस्थलम् इति नाम्ना प्रसिद्धः आसीत् । तस्मिन् ग्रामे एकः शिवालयः स्थितः अस्ति । सः शिवालयः वि. सं. ८९५ तमस्य वर्षस्य अस्ति । अतः अनुमीयते यत् –“नवमशताब्द्याम् अस्य ग्रामस्य अस्तित्त्वम् आसीत् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि मुण्डस्थलस्य उल्लेखः कृतः अस्ति । तस्मिन् ग्रामे भगवतः महावीरस्य प्राचीनमन्दिरम् अस्ति । अतः एव मन्दिराणां प्राचीनतायाः कारणेन अयं ग्रामः प्रसिद्धः वर्तते । पूर्वमध्ययुगे एव अयं ग्रामः जैनतीर्थत्वेन प्रसिद्धः अभवत् । महावीरस्य जिनालयस्य निर्माणविषयकः उल्लेखः कुत्रापि न प्राप्यते ।

शुद्धदन्ती[सम्पादयतु]

शुद्धदन्ती-नगरी वर्तमाने काले “सोजत” इति नाम्ना ज्ञायते । भारतस्य राजस्थान-राज्यस्य पाली-मण्डले इदं नगरं स्थितम् अस्ति । अस्मिन् नगरे दश जिनालयाः सन्ति । जिनप्रभसूरिणा कल्पप्रदीपे ग्रन्थे शुद्धदन्तीनगर्याः अपि वर्णनं कृतम् अस्ति । तस्मिन् नगरे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । पुर्वकाले अयोध्यानगर्याः राजा दशरथः आसीत् । तस्य श्रीपद्मनामकः पुत्रः आसीत् । सः अष्टमबलदेवः आसीत् । श्रीपद्मेन स्वस्य प्रकोष्ठे भगवतः पार्श्वनाथस्य रत्नमयी प्रतिमा प्रस्थापिता । किन्तु अधिष्ठायकदेवेन सा प्रतिमा शुद्धदन्ती-नगर्यां भूमौ स्थापिता । अधिष्ठायकदेवेन सा प्रतिमा पाषाणमयी कृता । समयान्तरे आचार्यविमलसूरिणा सा प्रतिमा स्वप्ने दृष्टा । स्वप्ने तस्याः प्रतिमायाः परिवर्तितं स्थलं दृष्टम् । अनन्तरम् आचार्यः तां प्रतिमां प्राप्य एकस्मिन् नूतनजिनालये स्थापितवान् ।

समयान्तरे तुर्कदेशीयैः तस्मिन् ग्रामे आक्रमणं कृतम् । तैः पार्श्वनाथस्य प्रतिमायाः शिरः पृथक्कृतम् । किन्तु एकस्मिन् अजापालकेन यदा प्रतिमायाः शिरः पुनः शरीरे स्थापितम्, तदा सः शिरः पुनः संयुक्तम् । साम्प्रतमपि सा एव प्रतिमा सम्पूज्यते । सिद्धसेनसूरिणा रचिते सकलतीर्थस्तोत्रे अस्य स्थलस्य प्राचीनतायाः विषये वर्णनम् अस्ति यत् – एकादशशताब्द्याम् इदं स्थलं तीर्थत्वेन पूज्यते स्म । हेमहंससूरिणा अपि स्वस्य ग्रन्थे अस्य स्थलस्य उल्लेखः कृतः अस्ति ।

शुद्धदन्ती-नगर्यां दश जिनालयाः सन्ति । ते जिनालयाः सप्तदशशताब्दीतः नवदशशताब्दीपर्यन्तं निर्मिताः आसन् । अतः स्पष्टम् अस्ति यत् इदं तीर्थम् एकादशशताब्दीतः एव जैनतीर्थत्वेन प्रतिष्ठितम् अस्ति [५५]

सत्यपुरम्[सम्पादयतु]

सत्यपुरस्य आधुनिकं नाम सांचोर इति अस्ति । इदं तीर्थस्थलं भारतस्य राजस्थानराज्यस्य जालौर-मण्डले लूणी-नद्याः तटे स्थितम् अस्ति । जोधपुरनगरात् २१२ किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । तत्र पञ्च जिनालयाः स्थिताः सन्ति । किन्तु ते जिनालयाः आधुनिकाः सन्ति । तस्य तीर्थस्य प्राचीनजिनालयः प्रायशः नष्टः जातः ।

सत्यपुरं जैनानुयायिनां प्रसिद्धतीर्थम् अस्ति । जिनप्रभसूरिणा कल्पप्रदीपे अस्य तीर्थस्य उल्लेखः कृतः अस्ति यत् – “नाहडराय इत्याख्यः कश्चन राजपुत्रः आसीत् । जैनाचार्यजज्जिगसूरिणः प्रेरणया नाहडराय इत्याख्येन जिनालयस्य निर्माणं कारितम् । तस्मिन् जिनालये महावीरस्य पित्तलधातोः प्रतिमा प्रस्थापिता । समयान्तरे जज्जिगसूरिणा सा प्रतिमा नूतनजिनालये स्थापिता । वि. सं. १०८१ तमे वर्षे गजनीपतिः हम्मीर इत्याख्यः सत्यपुरं प्राप्तवान् । सः इमं जिनालयं नाशयितुं प्रयासान् चकार । किन्तु सः विफलः जातः । बहवः शासकाः सत्यपुरं नाशयितुं विचारितवन्तः । किन्तु कोऽपि सफलाः न अभवन् । किन्तु वि. सं. १३६७ तमे वर्षे “अलाउद्दीन खिलजी” इत्याख्येन सत्यपुरे आक्रमणं कृतम् । तेन जिनालयः नाशितः कृतः । जिनालयस्य प्रतिमा अपि सः देहली-नगरं नीतवान् ।

सत्यपुरस्य उल्लेखः सर्वप्रथमं चौलुक्यनरेशय मूलराजस्य (प्रथमस्य) दानशासने प्राप्तः । तदैव सत्यपुरस्थस्य जिनालयस्य उल्लेखः सर्वप्रथमं परमारनरेशस्य मन्त्रिणा धनपालेन रचिते सत्यपुरमहावीरजिनोत्साह-नामके स्तोत्रे कृतः अस्ति । अतः एतेषां ग्रन्थानाम् आधारेण निश्चीयते यत् –“दशमशताब्द्याम् अस्य तीर्थस्य अस्तित्त्वं भवेत् । एकादशशताब्द्यां तत्र जिनालयस्य निर्माणम् अभवत्” इति । ततः परं चौलुक्यनरेशस्य अजयपालस्य दण्डनायकेन आल्हण इत्याख्येन जिनालये महावीरस्य प्रतिमा संस्थापिता । वि. सं. १२८८ तमे वर्षे प्रायः वस्तुपालेन अस्यतीर्थस्य गिरनारपर्वते “सत्यपुरीयावतार” नामकं मन्दिरस्य निर्माणं कृतम् । अनेन स्पष्टं भवति यत् – “द्वादश शताब्दीतः चतुर्दशशताब्दीपर्यन्तम् इदं स्थलं प्रसिद्धतीर्थत्वेन प्रतिष्ठितम् आसीत् । अस्य तीर्थस्य प्रसिद्धिकारणादेव अधर्मिभिः शासकैः अस्य तीर्थस्य नाशः कृतः [५६]

अजाहरा[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य जूनागढ-मण्डले स्थितमस्ति अजाहरा-तीर्थम् । वर्तमानकाले ‘अजारी’ इति नाम्ना प्रसिद्धम् अस्ति । ऊना-नगरात् पञ्चकिलोमीटरमिते दूरे स्थितम् अस्ति इदं स्थलम् । तत्र भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । जिनप्रभसूरिणा अपि अस्य स्थलस्य उल्लेखः कृतः अस्ति यत् – “अजाहरा जैनतीर्थम् अस्ति । गुजरात-राज्यस्य शासकस्य अहमदशाह इत्याख्यस्य श्रेष्ठिना गुणराजेन अजाहरा, पिण्डवाडा, सालेरा चेत्यादीनां स्थलेषु स्थितानां जिनालयानां जीर्णोद्धारः, नूतनजिनालयानां निर्माणं च कारितम्” । तीर्थमालाचैत्यवन्दन-नामके ग्रन्थे अपि अस्य तीर्थस्य उल्लेखः प्राप्यते ।

साम्प्रतं तस्मिन् ग्रामे भगवतः महावीरस्य एकः जिनालयः अपि विद्यते । तस्मिन् जिनालये ११७ प्रतिमाः पाषाणनिर्मिताः, ५३ प्रतिमाः धातुनिर्मिताः च प्रतिष्ठिताः सन्ति । अजाहरा-ग्रामे विशेषरूपेण भगवतः पार्श्वनाथस्य जिनालयः वर्तते । भगवतः पार्श्वनाथस्य प्रतिमायाः प्राचीनतायाः अनुमानम् अपि न क्रियते । राज्ञा अजयपालेन अस्याः प्रतिमायाः प्रतिष्ठा कृता । इयं प्रतिमा जलकुण्डात् प्राप्ता आसीत् । यतः यदा अजयपालः रोगग्रस्तः आसीत्, तदा अनया प्रतिमया एव तस्य रोगस्य निवारणम् अभवत् । अतः अजयपालेन तत्र ग्रामः स्थापितः । तस्मिन् ग्रामे मन्दिरस्य निर्माणं कृत्वा प्रतिमा संस्थापिता [५७]

अम्बुरिणी[सम्पादयतु]

भारतस्य गुजरातराज्यस्य जामनगर-मण्डले अयं ग्रामः विद्यते । साम्प्रतम् अयं ग्रामः आमरण इति नाम्ना विख्यातः अस्ति । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अम्बुरिणीग्रामविषयकं वर्णनं प्राप्यते यत् – “अस्य ग्रामस्य मध्ये एकः जिनालयः विद्यमानः अस्ति । तस्य जिनालयस्य निर्माणं वि. सं. १९७५ तमे वर्षे अभवत् । तस्मिन् जिनालये मुनिसुव्रतनाथस्य प्रतिमा अस्ति” [५८]

अण्हिलपुरम्[सम्पादयतु]

साम्प्रतम् इयं नगरी पाटण इति नाम्ना विख्याता अस्ति । भारतस्य गुजरात-राज्यस्ये स्थिता अस्ति नगरीयम् । इयं नगरी पुरा गुर्जरदेशस्य राजधानी आसीत् । पश्चिमभारतस्य प्रमुखासु नगरीषु अन्यतमा वर्तते स्म । चावडावंशस्य संस्थापकः “वनराजः चावडा” इत्याख्यः आसीत् । तेन एव अस्य नगर्याः स्थापना कृता आसीत् । जैनग्रन्थेषु अस्याः नगर्याः विस्तृतवर्णनं प्राप्यते । जिनप्रभसूरिणा स्वस्य कल्पप्रदीपे ग्रन्थे अस्याः नगर्याः उल्लेखः कृतः अस्ति । तस्मिन् ग्रन्थे चापोत्कटवंशस्य, चौलुक्यवंशस्य, वघेलावंशस्य चेत्यादयः वंशानां राज्ञां वंशावलीनाम् अपि उल्लेखः कृतः अस्ति यत् – “कन्नौजदेशात् यक्षानामकः वणिक् व्यापारार्थम् अणहिलपुर-पत्तनं प्राप्तवान् । वर्षाकाले सः तत्रैव निवसन् आसीत् । एकदा रात्रौ स्वप्ने अम्बिकादेवी आगता । अम्बिकादेवी भूम्याः जिनप्रतिमां निष्कासयितुं, जिनालये स्थापयितुं च तम् निर्दिष्टवती । प्रातःकाले सः वणिक् देव्याः निर्देशानुसारं निर्दिष्टस्थानं सम्प्राप्य ततः जिनप्रतिमाः सम्प्राप्तवान् । तेन वणिजा जिनालयं निर्माप्य प्रतिमाः प्रस्थापिताः ।

एकदा ब्रह्माणगच्छीयः आचार्ययशोभद्रसूरिः तत्र भ्रमणार्थं गतवान् । तेन जिनालये प्रतिमायाः पूजनं कृतम् । अनन्तरं मार्गशीर्ष-मासस्य पूर्णिमायां तिथौ जिनालयस्य ध्वजारोहणमहोत्सवः आचरितः । अयं महोत्सवः वि. सं ५०२ तमे वर्षे सम्पन्नः अभूत् । तावदेव प्रतिवर्षं ध्वजारोहणमहोत्सवः आचर्यते । वि. सं. ८०२ तमे वर्षे चापोत्कटवंशीयेन राज्ञा वनराजेन पाटण-नगरी (अण्हिलपुरपाटण) स्थापिता । तस्य वंशे आहत्य सप्त राजानः अभवन् । ते – वनराजः, जोगराजः, क्षेमराजः, भूअड, वयरसिंहः. रत्नादित्यः, सामन्तसिंहः च ।

तदनन्तरं चौलुक्यवंशीयानां राज्ञां शासनम् आरब्धम् । ते - लवणप्रसाद, वीरधवलः, वीसलदेवः, अर्जुनदेवः, सारङ्गदेवः, कर्णदेवः च । ततः परं गुर्जरप्रदेशे ‘अलाउद्दीन खिलजी’ इत्याख्येन शासनं प्रस्थापितम् [५९][६०]

भृगुकच्छ (भरुच)[सम्पादयतु]

भारतस्य गुजरात-राज्ये भरुच-नामकं नगरम् अस्ति । तन्नगरं पुरा ‘भृगुकच्छ’ इति नाम्ना प्रसिद्धम् आसीत् । इदं नगरं भारतस्य प्रसिद्धनगरेषु अन्यतमम् अस्ति । अस्य बहूनि नामानि सन्ति । यथा – भरुकच्छ, भारुकच्छ, भरुअच्छ इत्यादीनि नामानि प्राप्यन्ते । जिनप्रभसूरिणा अपि कल्पप्रदीपे अस्याः प्राचीननगर्याः उल्लेखः कृतः अस्ति । वर्णने भृगुकच्छस्य उत्पत्तिविषयिणी चर्चा अपि अस्ति यत् – “एकदा मुनिसुव्रतः कैवल्यप्राप्त्यनन्तरं विचरन् जितशत्रोः अश्वं प्रतिबोधयितुं नमर्दातटस्थां भृगुकच्छ-नगरीं प्राप्तवान् । तत्र भगवता प्रवचनं प्रदत्तम् । प्रवचने सः अश्वः अपि तत्र गतवान् आसीत् । मुनिसुव्रतेन तस्य अश्वस्य पूर्वभवस्य वृत्तान्तं कथितम् । स्वस्य पूर्वभवस्य वृत्तान्तं श्रुत्वा अश्वेन अनशनं कृतम् । अन्ते देवलोकं गतवान् । अतः अस्याः नगर्याः नाम अश्वावबोधतीर्थम् अभवत् । अन्येषु जैनधर्मेषु अपि अस्य तीर्थस्य उल्लेखः प्राप्यते ।

यदा मुस्लिमशासनम् आसीत्, तदा बहूनि मन्दिराणि, जैनतीर्थानि च मुस्लिम-उपासनागृहेषु (मस्जिद्) परिवर्तितानि । तस्यां नगर्यां जामामस्जिद् इति अस्ति । तदेव शकुनिका-विहारः आसीत् । साम्प्रतं नर्मदानद्याः तटे स्थितमस्ति जामामस्जिद् । अस्य मुस्लिम-उपासनागृहस्य संरचना जैनमन्दिरम् इव अस्ति । अतः अनेन अनुमीयते यत् – “तत् जामामस्जिद् पुरा जैनमन्दिरम् आसीत् । तस्मिन् मन्दिरे वि. सं १३७८ त्मस्य वर्षस्य एकः लेखः उत्कीर्णः अस्ति । साम्प्रतं भरुच-नगरे द्वादश जिनालयाः सन्ति । तेषु चत्वारः उत्तार-मध्यकाले निर्मिताः । शेषाः जिनालयाः वर्तमाने काले निर्मिताः [६१]

उर्जयन्तिगिरि (गिरनार)[सम्पादयतु]

वर्तमाने इदं स्थलं भारतस्य गुजरात-राज्यस्य जूनागढ-मण्डले स्थितम् अस्ति । अहमदाबाद-नगरात् ३२१ किलोमीटरमिते दूरे जूनागढ-रेलस्थानकम् अस्ति । अस्य तीर्थस्य वर्तमानकालिकं नाम गिरनार इति । इदं तीर्थं हिन्दुधर्मस्य, जैनधर्मस्य च प्रमुखतीर्थम् अस्ति । प्राचीनकाले गिरनार-पर्वतः गिरिराजः, उज्जयन्तगिरिः, रैवतगिरिः, रैवताचलजी, सुवर्णगिरिः, नन्दभद्रः, नेमिनाथपर्वतः इत्यादीनि अस्य नामानि आसन् । अस्मिन् पर्वते षोडश उद्धाराः अभवन् ।

जैनमतानुसारं चतुर्विंशतितीर्थङ्करेषु भगवतः नेमिनाथस्य कल्याणकत्रयम् (दीक्षा, केवलज्ञानं, निर्वाणञ्च) अस्मिन् तीर्थे एव अभवत् । जिनप्रभसूरिणा कल्पप्रदीपे उर्जयन्तगिरिविषयकाः चत्वारः कल्पाः रचिताः । ते रैवतकगिरिकल्पसंक्षेपः, उज्जयन्तस्तव, उज्जयन्तमहातीर्थकल्प, रैवतकगिरिकल्पः च । तेषु रैवतकगिरिकल्पे ऐतिहासिकं विवरणं प्राप्यते । तद्यथा – “पश्चिमदिशि रैवतकगिरेः शिखरे नेमिनाथस्य जिनालयः विद्यते । एकदा काश्मीरदेशात् श्रावकद्वयम् आगतम् । ताभ्यां भगवतः पूजा कृता । किन्तु स्नानादिक्रियाभिः भगवतः प्रतिमा गलिता । तेन कारणेन सङ्घपतिना अजितेन नूतना प्रतिमा प्रस्थापिता । वि. सं. ११८५ तमे वर्षे तत्र भगवतः नेमिनाथस्य मन्दिरं निर्मापितम् । मालववंशीयेन भावडशाह इत्याख्येन मन्दिरे स्वर्णकलशः स्थापितः ।

गिरनारपर्वतस्य तले तेलपालेन स्वस्य नाम्ना एकं नगरं स्थापितम् । तस्य नगरस्य नाम तेजलपुरम् इति अभवत् । तेन तत्र पितुः नाम्ना आसराजविहारः, मातुः नाम्ना कुमरसरोवरः च निर्मापितः । अन्यग्रन्थेषु अपि एतद्विवरणं प्राप्यते । दशमशताब्दीपर्यन्तम् अस्मिन् तीर्थे दिगम्बराणाम् अधिकारः आसीत् । ततः परं श्वेताम्बराणाम् आधिपत्यम् अभवत् [६२][६३]

काशहृद[सम्पादयतु]

काशहृद-तीर्थं प्राचीनभारतस्य नगरीषु अन्यतमा वर्तते । अस्मिन् तीर्थे भगवतः आदिनाथस्य मन्दिरं वर्तते । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्याः नगर्याः उल्लेखः कृतः अस्ति । मैत्रकवंशीयस्य शासकस्य करगृहप्रथमस्य कस्मिँश्चित् अभिलेखे प्राप्यते यत्- “काशहृद" इत्येषा काचन नगरी आसीत् । बहूनां राज्ञां शासनकालस्य दानशासने अस्याः नगर्याः उल्लेखः प्राप्यते । प्रभावकचरिते ग्रन्थे अपि तत्रत्यस्य सर्वदेवनामकस्य ब्राह्मणस्य उल्लेखः अस्ति । सः चतुर्ण्णां वेदानां ज्ञाता आसीत् ।

प्रबन्धचिन्तामणि, पुरातनप्रबन्धसङ्ग्रहः इत्येतयोः ग्रन्थयोः अनुसारं परमारनरेशमुञ्जस्य पुत्रेण सिंहलेन गुर्जरप्रदेशे काशहृद-नगर्याम् एव शिबिरं स्थापितम् । वस्तुपालः, तेजपालः इत्येतौ महामात्यौ आस्ताम् । तौ तीर्थयात्रां कुर्वन्तौ आस्ताम् । तस्मिन् काले वस्तुपालेन काशहृद-नगर्याम् एकः अम्बालयः निर्मापितः, तेजपालेन आदिनाथस्य जिनालयस्य जिर्णोद्धारः कृतः च । जिनालयस्य गूढमण्डपं, देवकुलिका च ई. स. १०३१ तमे वर्षे निर्मिता आसीत् । पुरातनप्रबन्धसङ्ग्रहे ग्रन्थे अपि आदिनाथस्य जिनालयस्य चर्चा अस्ति ।

अहमदाबाद-नगरात् दक्षिण-पश्चिमदिशि २० किलोमीटरमिते दूरे कासीन्दरा नामकं स्थलम् अस्ति । कासीन्दरा-स्थलेन सह काशहृद-नगरी सम्बद्ध्यते । तस्मिन् स्थले कोऽपि जिनालयः नास्ति । किन्तु समीपस्थे ग्रामे प्राचीनजिनालयः विद्यते । सः जिनालयः भगवतः आदिनाथस्य वर्तते । अर्बुदगिरेः तले अपि काशहृद-नामकं प्राचीनस्थलं वर्तते । तत्र शान्तिनाथस्य प्राचीनजिनालयः अस्ति । श्वेताम्बर-सङ्घस्य काशहृदगच्छ इत्याख्यायाः शाखायाः स्थापना अपि काशहृद-स्थाने अभवत् । अस्मिन् क्षेत्रे ई. स. ११७८ तमे वर्षे चौलुक्यनरेशस्य बालमूलराजस्य ‘महमुद गोरी’ इत्याख्येन सह युद्धम् अभवत् । तस्मिन् युद्धे ‘महमूद गोरी’ पराजितः । अपि च तत्रैव ई. स. ११९७ तमे वर्षे देहलीशासकस्य ‘कुतुबुद्दीन ऐबक’ इत्याख्यस्य चौलुक्यनरेशेन भीमद्वितीयेन सह युद्धम् जातम् । तस्मिन् युद्धे भीमद्वितीयः पराजितः । अतः काशहृद-नामकं स्थलद्वयं विद्यते । द्वे एव स्थले जैनसम्बद्धे स्तः ।[६४]

कोकावसति पार्श्वनाथकल्प[सम्पादयतु]

गुर्जरप्रदेशे अण्हिलपुर-नामिका नगरी आसीत् । सा नगरी चौलुक्यानां राजधानी आसीत् । सा पश्चिमभारतस्य प्रमुखासु नगरीषु अन्यतमा अपि आसीत् । एकदा अभयदेवसूरिः विचरन् अण्हिलपुरं प्राप्तवान् । सः नगरस्य बहिरेव न्यवसत् । यदा राजा जयसिंहः ततः गच्छन् आसीत्, तदा तेन मलिनवस्त्रधृतः अभयदेवसूरिः दृष्टः । जयसिंहेन प्रणम्य अभयदेवसूरिणे निवासाय घृतवसही-ग्रामस्य समीपे उपाश्रयः प्रदत्तः । सः प्रतिदिनम् घृतवसही-ग्रामं गत्वा व्याख्यानं करोति स्म । किन्तु एकस्मिन् दिने घृतवसही-ग्रामस्य जनैः अभयदेवसूरिणः व्याख्यानम् अवरोधितम् । अनेन श्रावकाः दुःखिताः अभवन् । अनन्तरं श्रावकैः कस्माच्चित् कोका-नामकात् श्रेष्ठिनः घृतवसही-ग्रामस्य समीपे भूमिः प्राप्ता । तस्यां भूमौ श्रावकैः जिनालयः निर्मापितः । तस्मिन्जिनालये भगवतः पार्श्वनाथस्य प्रतिमा प्रस्थापिता । तस्य जिनालयस्य नाम अपि यातुः श्रेष्ठिनः नाम्ना “कोकावसतिपार्श्वनाथचैत्यालयः” इति कारितम् ।

चौलुक्यनरेशभीमस्य शासनकाले मालवा-प्रान्तस्य राज्ञा अस्यां नगर्याम् आक्रमणं कृतम् । तेन अस्याः नगर्याः नाशः कृतः । नगर्याः चैत्यालये स्थिता भगवतः पार्श्वनाथस्य प्रतिमा अपि ध्वंसिता । समयन्तरे “रामदेव आसधर” इत्याख्येन श्रेष्ठिना चैत्यालयस्य पुनर्निमाणं कारितम् । अनन्तरं वि. सं. १२६६ तमे वर्षे देवानन्दसूरिणा जिनालये भगवतः पार्श्वनाथस्य प्रतिमा स्थापिता [६५]

खेटक[सम्पादयतु]

भारतस्य गुजरात-राज्ये खेडा-नगरम् अस्ति । खेटक-नगरं वर्तमानकालिकेन खेडा-नगरेण सह सम्बद्धम् अस्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहे खेटक-नगर्याः उल्लेखः कृतः अस्ति । अस्यां नगर्यां भगवतः महावीरस्य प्रतिमा अस्ति । इयं नगरी मैत्रकवंशीयशासनकाले आहारनगरी इति नाम्ना ज्ञायते स्म । तस्यां नगर्यां नैकानां राज्ञां ताडपत्राणि प्राप्तानि । ई. स. ९४९ तमस्य वर्षस्य दानशासने अस्याः नगर्याः “खेटकमण्डल” इति नाम उल्लिखितम् अस्ति । पद्मपुराणे अपि दिव्यनगरीत्वेन अस्याः नगर्याः उल्लेखः वर्तते । संस्कृतजगतः कविना दण्डिना विरचिते दशकुमारचरिते गद्यकाव्येऽपि खेटक-नगर्याः उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा रचिते सकलतीर्थस्तोत्रे अपि अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः वर्तते । जैनप्रबन्धग्रन्थेषु अपि खेटक-नगर्याः वर्णनं लभ्यते । पुरातनप्रबन्धसङ्ग्रहे अपि अस्याः नामोल्लेखः कृतः । प्रभावकचरितस्य बप्पभट्टिसूरिचरितानुसारं नन्नसूरिः, गोविन्दसूरिः च खेटकाधारमण्डले निवसतः स्म । खेडा-नगरस्य समीपे भगवतः सुमतिनाथस्य मन्दिरम् अस्ति । तस्य मन्दिरस्य प्रवेशद्वारम् आकर्षकम् अस्ति [६६]

खङ्गारगढ[सम्पादयतु]

कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहे खङ्गारगढ-ग्रामस्य उल्लेखः प्राप्यते । तस्मिन् ग्रामे भगवतः आदिनाथस्य मन्दिरम् अस्ति । रैवतगिरिकल्पे अपि अस्य ग्रामस्य उल्लेखः दृश्यते । रैवतगिरिकल्पे अन्ये द्वे नामनि अपि प्राप्येते । उग्रसेनगढ, जीर्णदुर्गः च । वि. सं. १२८९ तमे वर्षे भगवतः आदिनाथस्य जिनालयस्य सर्वप्रथमम् उल्लेखः विजयसिंहसूरिणा विरचिते रैवतगिरिरासु-ग्रन्थे प्राप्यते । प्रबन्धकोशे अपि खङ्गारगढ-ग्रामस्य जिनालयस्य उल्लेखः अस्ति ।

मुस्लिमशासनकाले मुस्लिमशासकैः बहवः जिनालयाः मुस्लिम-उपासनागृहत्वेन (मस्जिद्) परिवर्तिताः । तत्र स्थितः भगवतः आदिनाथस्य जिनालयः अपि “महमूद बेगडा” इत्याख्यस्य शासनकाले मुस्लिम-उपासनागृहत्वेन (मस्जिद्) परिवर्तितः । तस्य मुस्लिम-उपासनागृहस्य (मस्जिद्) वास्तुकलया, स्तम्भानाम् आकृत्या च स्पष्टं भवति यत् – “पुरा तत् जिनालयः आसीत्” । तस्मात् ग्रामात् भगवतः पार्श्वनाथस्य प्रतिमाद्वयं प्राप्तम् । तयोः प्रतिमयोः वि. सं. १३४३ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । अतः अनेन ज्ञायते यत् – “एते प्रतिमे पुरा आदिनाथस्य जिनालये एव स्थापिते ।

वि. सं. १९०१ तमे वर्षे खङ्गारगढ-ग्रामे स्थितस्य भगवतः आदिनाथस्य जिनालयस्य शिखरस्य निर्माणम् अभवत् । तस्मिन् जिनालये अष्ट पाषाणप्रतिमाः, षड् धातुप्रतिमाः च सन्ति । एकस्यां प्रतिमायं वि. सं. १८१३ तमस्य वर्षस्य लेखः अपि उत्कीर्णः अस्ति । तस्मिन् ग्रामे प्राचीनग्रन्थानां कोषः अपि सुरक्षितः वर्तते [६७]

तारण (तारङ्गा)[सम्पादयतु]

Taranga2.jpg

भारतस्य गुजरात-प्रदेशस्य महेसाणा-मण्डले स्थितमिदं पर्वतीयक्षेत्रं तारङ्गा इति नाम्ना विख्यातम् अस्ति । इदं तीर्थं श्वेताम्बरदिगम्बरसम्प्रदाययोः पूजनीयस्थलं वर्तते । इदं स्थलं जैनतीर्थेषु अन्यतमं वर्तते । गुजरात-प्रदेशस्य पर्वतीयतीर्थप्रदेशेषु अस्य तीर्थस्य अत्यधिकं महत्त्वं वर्तते । अहमदाबाद-महानगरात् १४० किलोमीटरमिते दूरे स्थितमस्ति इदं तीर्थम् । इदं पर्वतीयक्षेत्रं जैनसिद्धक्षेत्रम् अपि कथ्यते । तत्र दिगम्बरसम्प्रदायस्य पञ्च मन्दिराणि, श्वेताम्बरसम्प्रदायस्य पञ्च मन्दिराणि च सन्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य तीर्थस्य उल्लेखः कृतः अस्ति । “तत्र भगवतः अजितनाथस्य मन्दिरम् अस्ति” इति ज्ञायते ।

जैनग्रन्थेषु जैनतीर्थमालासु अपि अस्य तीर्थस्य बहूनि नामानि प्राप्यन्ते । यथा – तारणगिरिः, तारावरनगरं, तारापुरं च । कुमारपालप्रतिबोधग्रन्थानुसारं कथ्यते यत् – “तत्र राज्ञा वत्सराजेन तारादेव्याः मन्दिरं स्थापितम् आसीत् । सः बौद्धधर्मानुयायी आसीत् । अतः इदं स्थलं तारापुरम् इति नाम्ना विख्यातम् अभवत् । अनन्तरम् आर्यखपुटाचार्यस्य उपदेशानुसारं राज्ञा वत्सराजेन जैनधर्मः अङ्गीकृतः । पुनः तेन तत्र सिद्धायिकादेव्याः मन्दिरं स्थापितम् । प्रभावकचरितग्रन्थानुसारेण वि. सं. १२२२ तमे वर्षे चौलुक्यनरेशेन कुमारपालेन तारणगिरौ २४ गजप्रमाणात्मकः उन्नतः जिनालयः निर्मापितः । तस्मिन् जिनालये भगवतः अजितनाथस्य १०१ इन्च् प्रमाणात्मिका उन्न्ता प्रतिमा प्रस्थापिता ।

पुरातनप्रबन्धसङ्ग्रहग्रन्थानुसारम् उल्लेखः प्राप्यते यत् - “यदा अजयपालः शासनं कर्तुम् आगतः, तदा तेन कुमारपालेन निर्मापिताः जिनालयाः नाशिताः । अजयपालः सर्वाणि मन्दिराणि नाशयन् आसीत् । यदा तारङ्गा-ग्रामस्य जैनतीर्थं नाशयितुम् अजयपालः गतवान्, तदा तस्य ग्रामस्य केनचित् श्रेष्ठिना जिनालयानां रक्षणार्थं निवेदनं कृतम् । शीलनागः इत्याख्येन अधिकारिणा अपि जैनानां साहाय्यं कृतम् । शीलनागेन अपि तारङ्गा-ग्रामस्य जिनालयानां रक्षणं कृतम् आसीत् । प्रबन्धचिन्तामणि-ग्रन्थे अपि अस्य जिनालयस्य रक्षणोल्लेखः वर्तते । १२८५ तमे वर्षे वस्तुपालेन अस्य जिनालयस्य सिंहद्वारस्य समीपे एकः विशालः अग्रमण्डपः निर्मापितः ।

आबू-स्थलस्य समीपे स्थिते लूणवसही-ग्रामे वि. सं १२९६ तमस्य वर्षस्य लेखे अपि तारङ्गा-ग्रामस्य अजितनाथस्य जिनालयस्य उल्लेखः वर्तते । ईडर-ग्रामस्य गोविन्द-नामकेन केनचित् श्रेष्ठिना वि. सं. १४७९ तमे वर्षे अस्य जिनालयस्य जीर्णोद्धारः कारितः । जिनालयस्य दक्षिणद्वारे एकः शिलालेकः उत्कीर्णः वर्तते । तस्मिन् शिलालेखे लिखितमस्ति यत्- “वि. सं. १६४२ तमस्य वर्षस्य आषाढ-मासस्य दशम्यां तिथौ विजयसेनसूरिणा अस्य तीर्थस्य जीर्णोद्धारः कारितः” । तत्र प्रतिमाद्वयम् अन्यस्मात् स्थानात् आनीतम् आसीत् । तयोः प्रतिमयोः वि. सं १३०४ तमस्य वर्षस्य, वि. सं १३०५ तमस्य वर्षस्य च लेखः उत्कीर्णः अस्ति । ते द्वे प्रतिमे अजितनाथस्य स्तः । तत्र अन्ये द्वे प्रतिमे अपि स्तः । ते प्रतिमे कायोत्सर्गमुद्रायां स्थिते स्तः[६८]

दिगम्बरपरम्परायाम् अपि अस्य तीर्थस्य महत्वम् अस्ति । दिगम्बरपरम्परानुसारं बहुभिः जनैः तारापुरनगरस्य समीपे मुक्तिः प्राप्ता । ते – वरदत्तः, वराङ्गः, सागरदत्तः इत्यादयः । अन्यैः सार्धत्रिकोटिमुनिभिः अपि तत्र मोक्षः प्राप्तः । साम्प्रते काले अजितनाथस्य जिनालयः श्वेताम्बरसम्प्रदायस्य अधीने वर्तते [६९]

द्वारका[सम्पादयतु]

भारतस्य गुजरातप्रदेशे स्थितमस्ति द्वारकातीर्थम् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि द्वारका-तीर्थस्य उल्लेखः कृतः अस्ति । तस्मिन् तीर्थे चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं स्थितमस्ति । पुराकाले द्वारका-नगरी सौराष्ट्रजनपदस्य राजधानी आसीत् । सा नगरी वैष्णधर्मस्य प्रसिद्धतीर्थत्वेन मन्यते । अस्याः नगर्याः पुरातनं नाम “कुशस्थली” इति । प्राचीनजैनसाहित्येषु अपि अस्याः नगर्याः उल्लेखः प्राप्यते । किन्तु तेषु ग्रन्थेषु जैनतीर्थत्वेन न दृश्यते ।

जिनहर्षगणिना वस्तुपालचरितम् इत्ययं ग्रन्थः रचितः अस्ति । तस्मिन् जिनहर्षगणिना लिखितं यत् – “वस्तुपालेन तत्र एकस्य जिनालयस्य निर्माणं कारितम् । वर्तमानकाले द्वारका-नगर्यां द्वारकाधीशस्य मन्दिरं विद्यते । केचन जैनधर्मानुयायिनः कथयन्ति यत् – “तत् मन्दिरम् अपि वस्तुपालेन निर्मितः जिनालयः एव अस्ति । ब्राह्मणीयधर्मानुयायिभिः तत् मन्दिरं स्वस्य अधिकारे कृतम्” इति । किन्तु तदेव नास्ति । यतः तस्य मन्दिरस्य निर्माणशैल्या स्पष्टं भवति यत् - “अस्य मन्दिरस्य कश्चन भागः सिद्धराजजयसिंहस्य शासनकाले निर्मितः । अपि च वैष्णवशिल्पकलायाः चिह्नानि अपि प्राप्तानि सन्ति ।

अहमदाबाद-महानगरात् ४५० किलोमीटरमिते दूरे स्थिता अस्ति इयं नगरी । जामनगरतः १५० किलोमीटरमिते दूरे अस्ति द्वारका-नगरी । अस्याः नगर्याः परितः समुद्रः वर्तते । इदम् एकं वीक्षणीयस्थलम् अपि वर्तते । हिन्दुधर्मानुयायीनाम् अपि तीर्थस्थलम् अस्ति द्वारिका । द्वारावती इत्यपि अस्य अपरं नाम वर्तते [३०]

नगरमहास्थानम्[सम्पादयतु]

नगरमहास्थानं वर्तमानकाले वडनगरम् इति नाम्ना विख्यातम् अस्ति । भारतस्य गुजरात-राज्यस्य महेसाणा-मण्डले स्थितमस्ति इदं नगरम् । नगरेऽस्मिन् भगवतः आदिनाथस्य मन्दिरं स्थितम् अस्ति । प्राचीनकाले अस्य नगरस्य बहूनि नामानि आसन् । यथा – आनन्दपुरं, नगरं, वृद्धनगरं च । जैनपरम्परासु आनन्दपुरस्य विशिष्टं महत्त्वं विद्यते । मैत्रकवंशीयशासकानां दानपत्रेषु अस्य नगरस्य आनन्दपुरम् इति नाम्ना उल्लेखः कृतः । तेषु दानपत्रेषु “ब्राह्मणेभ्यः आनन्दपुरं प्रदत्तम्” इति उल्लेखः प्राप्यते । पुरातनकालादेव तस्मिन् नगरे ब्राह्मणाः निवसन्ति । आयुर्वेदस्य भाष्यकारः उव्वटः अपि अस्मिन् नगरे निवसति स्म । वि. सं. १३४६ तमस्य वर्षस्य एकस्मिन् लेखे अस्य नगरस्य चमत्कारपुरम् इति नामोल्लेखः दृश्यते ।

वडनगरं ब्राह्मणानां, जैनानुयायिनां च प्रसिद्धतीर्थस्थलं वर्तते । नागर-ब्राह्मणानां मूलस्थानम् अस्ति इदं नगरम् । तत्र नागर-ब्राह्मणानां हाटकेश्वरतीर्थम् अपि विद्यते । तस्मिन् नगरे एकः जिनालयः अपि स्थितः अस्ति । जिनालये भगवतः आदिनाथस्य प्रतिमा वर्तते । अस्य जिनालस्य अधोभागः दशमशताब्द्यां निर्मितः आसीत् । समयान्तरे जिनालयस्य गूढमण्डपस्य जीर्णोद्धारः कारितः । तस्मिन् नगरे अन्ये पञ्च जिनालयाः अपि सन्ति । तेषु जिनालयेषु भगवतः महावीरस्य जिनालयः सर्वोत्कृष्टः वर्तते । तस्मिन् जिनालये द्विपञ्चाशत् देवकुलिकाः सन्ति । नागर-वणिग्भिः तस्मिन् मन्दिरे भगवतः महावीरस्य प्रतिमा प्रस्थापिता [७०]

पाटलानगरम्[सम्पादयतु]

भारतस्य गुजरात-राज्ये शङ्खेश्वरतीर्थात् सार्धचत्वारः मीलमिते दूरे स्थितमस्ति इदं नगरम् । पाटलानगरं वर्तमानकालिकेन पाटलाग्रामेण सह समीकृतम् अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं विद्यते स्म । मध्ययुगस्य प्रारम्भे यदा नेमिनाथस्य मन्दिरं निर्मापितं, तावदेव इदं नगरं तीर्थत्वेन पूज्यते । प्रभावकचरित-नामकस्य ग्रन्थस्य बप्पभट्टिसूरिचरिते अस्य नगरस्योल्लेखः प्राप्यते । जिनकुशलसूरिणा अस्य तीर्थस्य यात्रा कृता आसीत् । वि. सं. १३७८ तमे वर्षे जिनप्रभसूरिण विरचिते तीर्थयात्रास्तोत्रे अपि अस्य तीर्थस्य चर्चा अस्ति । अनेन स्पष्टं भवति यत् – “त्रयोदश चतुर्दश वा शताब्द्याम् इदं स्थलं जैनतीर्थत्वेन प्रसिद्धम् आसीत् । तस्यानन्तरम् अस्य नगरस्य कुत्रापि उल्लेखः न दृश्यते । साम्प्रतं तस्मिन् नगरे कोऽपि जिनालयः नास्ति [७१]

प्रभासपाटन[सम्पादयतु]

वर्तमानकालिकः सोमनाथः एव प्रभासपाटन इति अस्ति । भारतदेशस्य गुजरात-राज्यस्य जूनागढमण्डले स्थितमिदं नगरम् । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । द्वादशज्योतिर्लिङ्गेषु सोमनाथज्योतिर्लिङ्गः अपि वर्तते । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे प्रभासस्य जैनतीर्थत्वेन उल्लेखः कृतः अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अष्टमः चन्द्रप्रभोः जिनालयः वर्तते । साम्प्रतमिदं नगरं ब्राह्मणीयधर्माणां केन्द्रम् अस्ति । किन्तु मध्ययुगे इदं नगरं जैनधर्मानुयायिनां प्रसिद्धं केन्द्रमासीत् । धनेश्वसूरिण विरचिते शत्रुञ्जयमहात्म्ये चन्द्रप्रभोः जिनालयस्य उल्लेखः प्राप्यते । जैनग्रन्थानुसारं वर्णनं प्राप्यते यत् – “चन्द्रप्रभोः, अम्बिकायाः च प्रतिमा देवपत्तनम् आनीता । प्रभासस्य अपरं नाम देवपत्तनम् अपि अस्ति ।

एकादशतः त्रयोदशशताब्दीपर्यन्तम् इदं स्थलं दिगम्बराणां केन्द्रम् आसीत् । कुमारपालेन स्वस्य शासनकाले तत्र पार्श्वनाथस्य चैत्यालयः निर्मापितः । वस्तुपाल-तेजपालाभ्यां तत्रापि जिनालयानां निर्माणं कारितम् आसीत् । जैनग्रन्थानुसारं प्राप्यते यत् – “ वि. सं. १२८९ तमे वर्षे वस्तुपालेन तत्र अष्टापदप्रासादः निर्मापितः” । तत्र स्थितस्य चन्द्रप्रभोः जिनालयस्य भूगर्भे एकस्मिन् भग्नपाषाणखण्डे वि. सं. १३४३ तमस्य वर्षस्य लेखः उत्कीर्णः अस्ति । मुस्लिमशासकानां शासनात् प्राक् तत्र षड्जिनालयाः आसन् । यतः मुस्लिमशासकानाम् आक्रमणैः गुजरात-राज्यस्य ब्राह्मणीयमन्दिराणां, जैनमन्दिराणां च क्षतिः अभवत् । प्रभासतीर्थस्य मन्दिराणि अपि मुस्लिम-उपासनागृहेषु (मस्जिद्) इत्येतेषु परिवर्तितानि आसन् । अतः एव तत्र स्थितेषु मुस्लिम-उपासनागृहेषु (मस्जिद्) इत्येतेषु जैनमन्दिराणाम् अवशेषाः प्राप्यन्ते [३५]

मोढेरक (मोढेरा)[सम्पादयतु]

मोढेरक-नगरस्य आधुनिकनाम मोढेरा अस्ति । इदं नगरं भारतस्य गुजरात-राज्ये स्थितम् अस्ति । पाटण-नगरात् ३० किलोमीटरमिते, अहमदाबाद-महानगरात् १०६ किलोमीटरमिते च दूरे स्थितम् अस्ति । नगरेऽस्मिन् प्रसिद्धं सूर्यमन्दिरं स्थितम् अस्ति । तत् मन्दिरं गुजरात-राज्यस्य प्रमुखेषु मन्दिरेषु अन्यतमं वर्तते । अस्य मन्दिरस्य निर्माणं चौलुक्यनरेशस्य भीमस्य (प्रथम) शासनकाले अभवत् ।

संस्कृतसाहित्यग्रन्थेषु, अभिलेखेषु च अस्य नगरस्य उल्लेखः प्राप्यते । सूत्रकृताङ्गचूर्णी, सूत्रकृताङ्गवृत्तिः, स्कन्दपुरानधर्मारण्यखण्डः इत्यादिषु ग्रन्थेषु मोढेरा-नगरस्य उल्लेखः प्राप्यते । मूलराजस्य (प्रथम) वि. सं. १०४३ तमस्यवर्षस्य, भीमस्य (द्वितीय) वि. सं.१२३५ तमस्य वर्षस्य च दानशासने अपि अस्य नगरस्य वर्णनं ग्रामस्वरूपे अभवत् । मोढेरा-नगरं जैनतीर्थत्वेन अपि प्रसिद्धम् आसीत् । सिद्धसेनसूरिणा विरचिते सकलतीर्थस्तोत्रे जैनतीर्थस्थानेषु मोढेरा-तीर्थस्य अपि उल्लेखः वर्तते । प्रबन्धग्रन्थेषु भगवतः महावीरस्य मन्दिरस्य अपि चर्चा प्राप्यते । हेमचन्द्राचार्यस्य पितरौ श्रीमोढवणिक्कुलस्य आस्ताम् । साम्प्रतम् इदं नगरं सूर्यमन्दिराय प्रसिद्धम् अस्ति[७२]

रामसैन[सम्पादयतु]

अयं ग्रामः भारतस्य गुजरात-राज्यस्य बनासकाठा-मण्डले स्थितात् डीसा-नगरात् उत्तर-पश्चिमदिशि २५ किलोमीटरमिते दूरे स्थितः अस्ति । जिनप्रभसूरिणा विरचिते कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे रामसैन-इत्यस्य तीर्थस्य उल्लेखः प्राप्यते । “तस्मिन् ग्रामे भगवतः महावीरस्य मन्दिरं विद्यते” इति उल्लेखः प्राप्यते । प्राचीनकाले अयं ग्रामः रामसैन्यः इति नाम्ना प्रसिद्धः आसीत् । तस्मिन् ग्रामे भगवतः ऋषभदेवस्य एकः प्राचीनः जिनालयः अपि अस्ति । अष्टादशशताब्द्याः जैनग्रन्थकारेण शीलविजयेन तीर्थमालाग्रन्थे अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति । वर्तमाने अस्मिन् जिनालये अष्टपाषाणनिर्मिताः, षड्धातुनिर्मिताः च प्रतिमाः सन्ति । तासु प्रतिमासु पार्श्वनाथस्य प्रतिमायां वि. सं. १२८९ तमस्य वर्षस्य एकः लेखः उत्कीर्णः अस्ति [७३]

वलभी[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले वला-नामकेन ग्रामेण सह वलभी-नगरी समीकृता । तस्मिन्ग्रामे वि. सं. १९६० तमे वर्षे निर्मितः भगवतः पार्श्वनाथस्य जिनालयः विद्यमानः अस्ति । कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे उल्लिखितः यत् – “वलभी-नगरी जैनतीर्थम् अस्ति । तस्मिन् ग्रामे चतुर्विंशतितीर्थङ्करेषु अष्टमस्य भगवतः चन्द्रप्रभोः जिनालयः वर्तते । पुरा वलभी-नगरी पश्चिमभारतस्य, मैत्रकवंशीयानां राज्ञां च राजधानी आसीत् । वि. सं ५२७ तः ८४० तमवर्षपर्यन्तं मैत्रकराज्ञां शासनकाले इयं नगरी शैक्षणिकदृष्ट्या, धार्मिकदृष्या, राजनैतिकदृष्ट्या च महत्त्वपूर्णा आसीत् ।

पाणिनिना अस्याः नगर्याः सर्वप्रथमः उल्लेखः कृतः आसीत् । कथासरित्सागरे दशकुमारचरिते च वलभी-नगर्याः उल्लेखः प्राप्यते । मैत्रकवंशीयराज्ञैः अस्याः नगर्याः सर्वाङ्गीणः विकासः कृतः । तस्मिन् काले इयं नगरी बौद्धधर्मस्य प्रसिद्धकेन्द्रम् आसीत् । पुरा तत्र चीनदेशीयः यात्री ह्वेनसांग अपि गतवान् आसीत् । सः अपि उक्तवान् यत् – “इयं नगरी हीनयान-सम्प्रदायस्य केन्द्रम् आसीत् । इत्सिन् इत्याख्येन इयं नगरी विद्याकेन्द्रत्वेन उल्लिखिता । जैनपरम्परासु अपि अस्याः नगर्याः अत्यधिकं महत्त्वं वर्तते । वास्तविकरूपेण वलभी-नगरी मैत्रकयुगे बौद्धानां प्रसिद्धं केन्द्रम् आसीत् । यतः मैत्रकनरेशः बौद्धधर्मानुयायी आसीत् । तत्र अन्येषां सर्वे धर्माणां जनाः निवसन्ति स्म । जैनधर्मस्य बहवः जनाः निवसन्ति स्म ।

हरिवंशपुराणे लिखितम् अस्ति यत् – “इयं नगरी वि. सं. ७८३ तमे वर्षे एव नष्टा जाता । तथापि अस्याः नगर्याः अस्तित्त्वम् आसीत् । प्रभावकचरितग्रन्थेन ज्ञायते यत् – “कुमारपालः अपि तत्र गतवान् आसीत् । तेन आदिनाथस्य, पार्श्वनाथस्य च प्रतिमे नवनिर्मिते प्रासादे प्रस्थापिते । वस्तुपालेन अपि वलभी-ग्रामे स्थितस्य आदिनाथस्य जिनालयस्य जीर्णोद्धारः कृतः [७४][७५]

वायड[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य साबरकाठा-मण्डले स्थितोऽयं वायड-ग्रामः । पाटण-नगरात् २३ किलोमीटरमिते दूरे स्थितः अस्ति । कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अपि अस्य ग्रामस्य नामोल्लेखः कृतः अस्ति । तस्मिन् ग्रामे भगवतः महावीरस्य मन्दिरं विद्यमानमस्ति । सकलतीर्थस्तोत्रे वायड-ग्रामस्य जैनतीर्थत्वेन सर्वप्रथमः उल्लेखः दृश्यते । जैनप्रबन्धग्रन्थेषु अपि अस्य तीर्थस्य चर्चा कृता अस्ति ।

प्रभावकचरिते, प्रबन्धकोशे च उल्लेखः प्राप्यते यत् – “वायड-ग्रामे वायुदेवस्य मन्दिरम् आसीत् । स्कन्दपुराणान्तर्गतस्य धर्मारण्यखण्डे अपि वायुदेव-मन्दिरस्य उल्लेखः वर्तते । प्रबन्धकोशानुसारम् अयं ग्रामः अण्हिलपुर-पत्तनस्य महास्थानम् आसीत् । पुरातनप्रबन्धसङ्ग्रह-ग्रन्थानुसारं वर्णनं प्राप्यते यत् – “सिद्धराजकुमारपालयोः उदयन-नामकः मन्त्री आसीत् । उदयनस्य प्रथमास्याः पत्न्याः मृत्युः अभवत् । तस्य पुत्रः वाहड इत्याख्यः आसीत् । वाहड-इत्याख्यस्य अपरं नाम वागभट्टः आसीत् । तेन वायड-ग्रामे स्वपितुः विवाहः निश्चितः । तस्मिन् ग्रामे एव जैनधर्मस्य वायडगच्छ-शाखायाः उत्पत्तिः अभवत् । आचार्यजिनदत्तसूरिः अपि वायडगच्छ-शाखायाः प्रसिद्धाचार्यः आसीत् । तेन विवेकविलास-नामकस्य ग्रन्थः रचितः । वि. सं १२६५ तमे वर्षे सः वायड-ग्रामं गतवान् । तत्र तेन बहवः जनाः दीक्षिताः । आचार्यजिनदत्तसूरिः वस्तुपालेन सह शत्रुञ्जयपर्वतस्य यात्रायै गतवान् आसीत् ।

वस्तुपालेन वायड-महास्थाने स्थितस्य भगवतः महावीरस्य जिनालस्य जीर्णोद्धारः कारितः । वि. सं १२३२ तमे वर्षे इदं जीर्णोद्धारकार्यं समाप्तं जातम् । “वृद्धाचार्यप्रबन्धावली”-ग्रन्थे अपि महावीरजिनालयस्य उल्लेखः अस्ति । अनेन स्पष्टं भवति यत् – “पूर्वमध्ययुगे वायड-ग्रामः ब्राह्मणीयधर्मस्य, जैनधर्मस्य च प्रसिद्धतीर्थम् आसीत् । तस्मिन् ग्रामे वासुदेवस्य, महावीरस्य च जिनालयाः अपि आसन् । साम्प्रते काले वायड-ग्रामे क्वचिदपि प्राचीनमन्दिरं नास्ति । केवलं वि. सं. १९५० तमे वर्षे निर्मितः भगवतः सम्भवनाथस्य जिनालयः विद्यते [७६]

शत्रुञ्जयपर्वतः[सम्पादयतु]

Shetrunjay Palitana Jain Temples drawing 1866.jpg

शत्रुञ्जयपर्वतः भारतस्य गुजरात-राज्यस्य सौराष्ट्रप्रान्तस्य भावनगर-मण्डले स्थितात् पालिताणा-पत्तनात् ७.८ किलोमीटरमिते दूरे स्थितः अस्ति । अयं पर्वतः शत्रुञ्जी-नद्यः तटे स्थितः अस्ति । प्राचीनकालादेव एषः पर्वतः जैनतीर्थत्वेन पूज्यते । कल्पप्रदीपग्रन्थानुसारम् अस्य पर्वतस्य बहूनि नामानि सन्ति । ते – सिद्धक्षेत्रं, तीर्थराजः, मरुदेवः, भगीरथः, विमलाचलः, बाहुबली, सहस्रकमलः, तालध्वजः, कदम्बः, शतपत्रं, नगाधिराजः, अष्टोत्तरशतकूटः, सहस्रपत्र, ढङ्कः, लौहित्यः, कपर्दिनिवासः, सिद्धशिखरः, शत्रुञ्जयः, मुक्तिनिलयः, सिद्धिपर्वतः, पुण्डरीकश्च । शत्रुञ्जयपर्वतः महातीर्थत्वेन पूज्यते । यतः अस्मिन् पर्वते बहूनां मुनीनां निर्वाणम् अभवत् । चतुर्विंशतितीर्थङ्करेषु त्रयोविंशतितीर्थङ्करैः अस्मिन् पर्वते प्रवचनं प्रदत्तम् आसीत् । जैनधर्मग्रन्थेषु ग्रन्थकारैः शत्रुञ्जयपर्वतः तीर्थाधिराजः उक्तः । भविष्यत्कालस्य चतुर्विंशतितीर्थङ्करेषु प्रथमः भगवान् पद्मनाभः शत्रुञ्जयपर्वतं प्राप्स्यति ।

शत्रुञ्जयगिरिराजः शाश्वततीर्थं मन्यते । यतः अयं पर्वतः अनन्तकालात् विद्यमानः अस्ति, भविष्यत्काले अपि विद्यमानः भविष्यति च । अस्य पर्वतस्य आकारः परिवर्तनशीलः अस्ति । अतः तस्य प्रमाणं निश्चितं न भवति । प्रथमे कालखण्डे अस्य तीर्थस्य प्रमाणम् अशीतियोजनम् आसीत् । अनन्तरं द्वितीये कालखण्डे सप्ततिः-योजनं, तृतीये कालखण्डे षष्टि-योजनं, चतुर्थे कालखण्डे पञ्चाशत्-योजनं च अस्य तीर्थस्य प्रमाणम् आसीत् । साम्प्रतं पञ्चमे कालखण्डे द्वादश-योजनम् अस्ति शत्रुञ्जयपर्वतस्य प्रमाणम् । भविष्यत्काले षष्ठे कालखण्डे सप्तहस्तप्रमाणात्मकम् अयं पर्वतः भविष्यति । तथापि अस्य तीर्थस्य माहात्म्यह्रासः न भविष्यति । भविष्यत्काले अपि बहवः तीर्थङ्कराः, मुनयश्च शत्रुञ्जयपर्वते निर्वाणं प्राप्स्यन्ति । अतः एव इदं तीर्थं मोक्षनिवासः अपि कथ्यते ।

अस्य पर्वतस्य षोडशधा जीर्णोद्धाराः अभवन् । सर्वप्रथमं भगवतः ऋषभदेवस्य शतपुत्रेषु अन्यतमः भरतः अस्य पर्वतस्य उद्धारं चकार । तेन अस्मिन् पर्वते सुवर्णमयानि मन्दिराणि निर्मापितानि । अन्याः अपि बहव्यः प्रतिमाः तेन स्थापिताः । इतः परं तेन चतुविंशतितीर्थङ्कराणां जिनालयाः अपि निर्मापिताः । तस्मिन् समये गौमुखनामकः यक्षः, चक्रेश्वरी नामिका शासनदेवी च शत्रुञ्जयपर्वतस्य रक्षणं कुरुतः स्म । शत्रुञ्जयपर्वतस्य द्वितीयः जीर्णोद्धरः चक्रवर्तिनः भरतस्य वंशजेन राज्ञा दण्डवीर्येण कारितः । अनन्तरं तृतीयः जीर्णोद्धरः देवलोकस्य ईशान-नामकेन इन्द्रेण कारितः । ततः परं देवलोकस्य माहेन्द्र-नामकेन इन्द्रेण चतुर्थः जीर्णोद्धरः कारितः । ब्रह्मेन्द्र-इत्याख्येन इन्द्रेण पञ्चमः जीर्णोद्धरः कारितः । षष्ठः जीर्णोद्धरः चमरेन्द्र-नामकेन इन्द्रेण कारितः । भगवतः अजितनाथस्य काले द्वितीयः चक्रवर्ती सगरः अभवत् । तेन शत्रुञ्जयपर्वतस्य सप्तमः उद्धारः कारितः । अभिनन्दननाथस्य शासनकाले व्यन्तरेन्द्रेण अस्य तीर्थस्य अष्टमः उद्धारः, चन्द्रप्रभोः शासने राज्ञा चन्द्रयशसा नवमः जीर्णोद्धरः, शान्तिनाथस्य शासनकाले राज्ञा चक्रधरेण दशमः जीर्णोद्धरः च कारितः ।

मुनिसुव्रतस्य शासनकाले भगवान् रामः विजयी भूत्वा अयोध्यां पुनरागतवान् । तदा भरतेन सर्वेषाम् उत्सवपूर्वकं स्वागतं कृतम् आसीत् । भरतः भगवते रामाय राज्यं प्रदत्तवान् । अनन्तरं भरतः देवभूषणमुनेः दीक्षां सप्रापत् । सहस्राधिकैः मुनिभिः सह भरतः शत्रुञ्जयपर्वतं प्राप्य अनशनं चकार । तत्र तस्य निर्वाणम् अभवत् । तदा रामेण तस्मिन् पर्वते मन्दिराणां निर्माणं कारयित्वा जीर्णोद्धरः कारितः । भग्वतः नेमिनाथस्य शासनकाले पाण्डवैः अस्य पर्वतस्य द्वादशः जीर्णोद्धरः कारितः । अस्य पर्वतस्य पञ्चमकालखण्डे जावडशा-इत्याख्येन त्रयोदशः जीर्णोद्धरः कारितः । बाहडमन्त्रिणा तीर्थस्यास्य चतुर्दशः जीर्णोद्धरः कारितः । पञ्चदशः जीर्णोद्धरः समराशा-इत्याख्येन कारितः आसीत् । कर्मशाह-इत्याख्येन शत्रुञ्जयपर्वतस्य षोडशः जीर्णोद्धरः कारितः ।

अजितनाथेन, शान्तिनाथेन च अस्मिन् पर्वते बहवः वर्षावासाः अतिवाहिताः । मधुमती-नगर्याः जावडशाह-इत्याख्येन निवासिना तत्र एकः जिनालयः निर्मापितः । तस्मिन् जिनालये तेन ऋषभदेवस्य, चक्रेश्वरीदेव्यः, कपर्दियक्षस्य च प्रतिमाः स्थापिताः । जैनधर्मानुयायिनः अस्य तीर्थस्य यात्रां कुर्वन्ति । अस्य तीर्थस्य यात्रया शतगुणं पुण्यं प्राप्यते । पर्वते भगवतः आदिनाथस्य भव्यजिनालयः अस्ति । तस्य वामदिशि सत्यपुरीयावतारमन्दिरं, पृष्ठे च अष्टापदजिनालयः विद्यमानः अस्ति । पर्वते बहूनि शिखराणि सन्ति । तेषु शिखरेषु श्रेयांसनाथस्य, शान्तिनाथस्य, नेमिनाथस्य, ऋषभदेवस्य, महावीरस्य च चैत्यालयाः सन्ति । मन्त्रीश्वरेण वाग्भट्टेन तत्र ऋषभदेवस्य चैत्यः निर्मापितः । इदं तीर्थं मन्दिराणां नगरं कथ्यते । यतः अस्मिन् पर्वते शताधिकानि जैनमन्दिराणि स्थितानि सन्ति । पञ्चदशाधिकाष्टशतं (८१५) लघुमन्दिराणि सन्ति । चतुर्नवत्यधिकैकादशसहस्रं (११०९४) पाषाणनिर्मिताः, पञ्चषष्ट्युत्तरषड्शतं (६६५) धातुनिर्मिताः च प्रतिमाः सन्ति । शत्रुञ्जयपर्वते नवशिखराणि सन्ति । तेषु शिखरेषु आहत्य एकषष्ट्युत्तरनवशताधिकाष्टसहस्रं (८९६१) पादुकाः विद्यमानाः सन्ति ।

वि. सं. १३६९ तमे वर्षे म्लेच्छजनैः मन्दिराणि नाशितानि । अनन्तरं वि. सं. १३७१ तमे वर्षे समराशाह-इत्याख्येन सङ्घपतिना चैत्यानां पुनर्निमाणं कारितम् । शत्रुञ्जयपर्वतस्य समीपे पालिताणा-नगरी अस्ति । सा अपि जैनतीर्थत्वेन गण्यते । तस्यां नगर्यां पार्श्वनाथस्य, महावीरस्य च जिनालयौ स्तः । भद्रबाहुस्वामिना शत्रुञ्जयकल्पस्य रचना कृता आसीत् । उदयनस्य पुत्रेण वाग्भट्टेन अपि वि. सं. १२११ तमे वर्षे शत्रुञ्जयपर्वते नूतनप्रासादस्य निर्माणं कारितम् । साम्प्रतं तत्र यः प्राचीनः जिनालयः विद्यमानः अस्ति, सः वाग्भट्टेन निर्मितः अस्ति । साम्प्रतं शत्रुञ्जयपर्वते, पालिताणा-नगर्यां च आहत्य अष्टशताधिकाः जिनालयाः विद्यमानाः सन्ति ।

यदा चौलुक्यानां, वघेल-वंशजानां च शासनम् आसीत्, तदा तैः बहवः जिनालयाः निर्मापिताः । किन्तु मुस्लिमशासकैः बहूनि मन्दिराणि नाशितानि । अनन्तरं पञ्चदशतः नवदशतमायं शताब्द्यां पुनः नैकानां मन्दिराणां निर्माणं कारितम् । तेन कारणेन सम्पूर्णः पर्वतः मन्दिरैः आच्छादितः [७७][७८]

शत्रुञ्जयस्य भव्याभिषेकः[सम्पादयतु]

ई. स. १९९० तमस्य वर्षस्य दिसम्बर-मासस्य त्रयोविंशति-तमे (२३-१२-१९९०) दिनाङ्के वि. सं. २०४७ तमस्य वर्षस्य पौष-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ शत्रुञयगिरिराजस्य भव्याभिषेकस्य आयोजनम् आयोजितम् आसीत् । अस्मिन् प्रसङ्गे लक्षाधिकाः श्रद्धालवः समुपस्थिताः आसन् । सप्तविंशतिः आचार्याः, द्वात्रिंशत् साधवः, साध्व्यश्च अपि प्रसङ्गे समागताः आसन् । समवसरणमन्दिरे पद्मसरोवरः निर्मापितः । भारतस्य सरस्वती, सिन्धुः, ब्रह्मपुत्रा, तापी, मही, गङ्गा, नर्मदा, शत्रुञ्जी इत्यादीनां प्रसिद्धनदीनां जलम् आनीय पद्मसरोवरे क्षेपितम् । गवां पञ्चशतलीटर्मात्रात्मकं क्षीरं, हिमालयस्य वनस्पतयः, सुगन्धितद्रव्याणि, अक्षताः, स्वर्णं, रजतं, माणिक्यानि, हीरकाः च आनीताः, पद्मसरोवरे क्षेपिताः । एतेषां सर्वेषां वस्तूनां मिश्रणं कृत्वा द्वादश-वादने अष्टादशनिमिषे नवक्षणे (12:18:09 PM) गिरिराजस्य भव्याभिषेकः आरब्धः [७९]

हस्तगिरिः[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले स्थितात् पालिताणा-पत्तनात् १८ किलोमीटरमिते दूरे स्थितम् अस्ति । अयं पर्वतः १२५० पादोन्नतः वर्तते । चक्रवर्तिनः राज्ञः भरतस्य पुत्रेण हस्तिसेन-नामाख्येन अत्र अनशनं कृतम् आसीत् । अतः अस्य स्थलस्य नाम हस्तिसेनगिरिः अभवत् । समयान्तरे अपभ्रंशत्वात् साम्प्रतम् अयं पर्वतः हस्तगिरिः इति ज्ञायते । पर्वतेऽस्मिन् एकं लघुमन्दिरं वर्तते । तस्मिन् मन्दिरे भगवतः ऋषभदेवस्य चरणचिह्नानि सन्ति । इदं तीर्थं प्राचीनं, पवित्रं च अस्ति [८०]

शङ्खेश्वरः[सम्पादयतु]

शङ्खेश्वर-तीर्थं भारतस्य गुजरात-प्रान्तस्य महेसाणा-मण्डले स्थितम् अस्ति । इदं श्वेताम्बरानुयायिनां प्रसिद्धतीर्थम् अस्ति । श्वेताम्बरजैनसाहित्येषु अस्य तीर्थस्य विषये विस्तृतं वर्णनं प्राप्यते । जिनप्रभसूरिणा अपि अस्य तीर्थस्य उल्लेखः कृतः अस्ति यत् – “पुरा राजगृह-नगर्याः राज्ञा जरासन्धेन कृष्णोपरि आक्रमणं कृतम् । तस्मिन् समये अरिष्टनेमिना पाञ्चजन्यशङ्खः वादितः । अतः तत्स्थानं शङ्कपुरम् इति नाम्ना प्रसिद्धम् अभवत् । यदा जरासन्धस्य प्रहारैः कृष्णस्य सेना रोगग्रस्ता अभवत्, तदा अरिष्टनेमिनः निर्देशानुसारं कृष्णः तपस्यां चकार । तपस्यया कृष्णः पातालस्थितां पार्श्वनाथस्य प्रतिमां प्रापत् । अनन्तरं कृष्णेन सा प्रतिमा स्नापिता । पुनश्च तज्जलेन सेना मार्जिता । मार्जितेन जलेन सेना स्वस्था अभवत् । अन्ते जरासन्धः पराजितः । पार्श्वनाथस्य प्रतिमा शङ्खपुरे एव प्रस्थापिता ।

शङ्खेश्वर-ग्रामे भगवतः पार्श्वनाथस्य इष्टिकानिर्मितः प्राचीनः जिनालयः स्थितः अस्ति । किन्तु साम्प्रतं सः जिनालयः अर्मकत्वेन स्थितः अस्ति । तस्य समीपे नूतनजिनालयः निर्मापितः । वि. सं ११५५ तमे वर्षे जयसिंहसिद्धराजस्य मन्त्रिणा दण्डनायकेन सज्जनेन रुपेन-नद्याः तटे शङ्खेश्वर-मन्दिरस्य निर्माणं कृतः आसीत् । वि. सं. १२८६ तमे वर्षे आचार्यवर्धमानसूरिणः निर्देशानुसारं वस्तुपालतेजपालाभ्याम् अपि चैत्यालयस्य जीर्णोद्धारः कारितः । ताभ्यां चैत्यशिखरे स्वर्णमयः कलशः अपि प्रस्थापितः । चतुर्दशशताब्द्यं मुस्लिमशासकैः तद् मन्दिरं नाशितम् ।

षोडशशताब्द्याम् आचार्यविजयसेनसूरीश्वरस्य मार्गदर्शने पुनः नूतनजिनालस्य निर्माणम् अभवत् । तस्मिन् जिनालये द्विपञ्चाशत्प्रतिमाः प्रस्थापिताः । नूतनजिनालयस्य मुख्यद्वारस्य वामभागे वि. सं. १८६८ तमस्य वर्षस्य भाद्रपद-मासस्य शुक्लपक्षस्य दशम्याः तिथ्याः एकः लेखः उत्कीर्णः अस्ति । तस्मिन् लेखे जिनालयस्य दानविषयकं, व्ययविषयकं च विवरणं च अस्ति । नूतनजिनालये स्थितासु प्रतिमासु वि. सं. १२१४ तः १९१६ तमवर्षपर्यन्तं कालस्य लेखाः उत्कीर्णाः सन्ति । तेषु एकविंशतिलेखेषु कालनिर्देशनं कृतम् अस्ति । किन्तु शेषाः त्रयः लेखाः कालनिर्देशविहीनाः सन्ति [८१][८२]

उपरियाळातीर्थम्[सम्पादयतु]

इदं रमणीयतीर्थं भारतस्य गुजरात-राज्यस्य सुरेन्द्रनगर-मण्डलस्य दसाडा-उपमण्डले स्थितम् अस्ति । गुजरात-राज्यस्य अहमदाबाद-महानगरात् इदं तीर्थं ८६ किलोमीटरमिते दूरे स्थितम् अस्ति । शङ्खेश्वर-तीर्थात् ६२ किलोमीटरमिते दूरे स्थितमस्ति इदं स्थलम् । उपरियाळा-ग्रामे कलात्मकः, काचमयश्च जिनालयः विद्यमानः अस्ति । तस्मिन् जिनालये भगवतः ऋषभदेवस्य चन्दनवर्णीया, पद्मासनस्था च ७६ सेण्टीमीटरमिता उन्नता प्रतिमा स्थिता अस्ति । वि. सं. १९४४ तमस्य वर्षस्य माघ-मासस्य त्रयोदश्यां तिथौ अस्य मन्दिरस्य प्रतिष्ठा अभवत् ।

पुराकाले उपरियाळा-ग्रामस्य नरसी-नामकः कुम्भकारः रात्रौ स्वप्नं दृष्टवान् । स्वप्ने सः एकस्मिन् स्थाने उत्खननेन जिनप्रतिमाः प्रापत् । आगामिदिने अयं स्वप्नवृत्तान्तः तेन ग्राम्यजनेभ्यः श्रावितः । किन्तु केनापि विश्वासः न कृतः । तथापि सः स्वप्ने दृष्टं स्थानं गत्वा खननम् आरब्धवान् । अन्ते सः ततः चतस्रः जिनप्रतिमाः प्राप्तवान् । तस्मिन् दिवसे वि. सं. १९१९ तमस्य वैशाख-मासस्य शुक्लपक्षस्य पौर्णिमा-तिथिः आसीत् । तासां प्रतिमानां लाञ्छनेन ज्ञातं यत् – “ताः प्रतिमाः ऋषभदेवस्य, शान्तिनाथस्य, पार्श्वनाथस्य, नेमिनाथस्य च अस्ति” इति । तासु प्रतिमासु ऋषभदेवस्य, शान्तिनाथस्य, पार्श्वनाथस्य च प्रतिमा चन्दनवर्णीया, नेमिनाथस्य प्रतिमा कृष्णवर्णीया च आसीत् । एताः प्रतिमाः यस्मात् स्थानात् प्राप्ताः, तत्र वि. सं २००४ तमे वर्षे माघ-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ ऋषभदेवस्य चरणचिह्नानि स्थापितानि [८३]

सिंहपुरम्[सम्पादयतु]

सिंहपुरं भारतस्य गुजरात-राज्यस्य भावनगर-मण्डलान्तर्गतेन सिहोर-नगरेण सह सम्बद्धम् अस्ति । सिहोर-नगरस्य नैकानि नामानि सन्ति । तानि – सिंहपुरं, सिंहगढ, सारस्वतपुरं च । नगरेऽस्मिन् भगवतः विमलनाथस्य, नेमिनाथस्य च जिनालयौ स्तः । जैनमान्यतानुसारं चतुर्विंशतितीर्थङ्करेषु एकादशः भगवतः श्रेयांसनाथस्य जन्मस्थानं सिंहपुरम् इति । किन्तु जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे श्रेयांसनाथस्य सिंहपुरेण सह सम्बन्धः एव न प्रदर्शितः । जिनप्रभसूरिणा विमलनाथनेमिनाथयोः सम्बन्धः सिंहपुरेण सह उक्तः प्रदर्शितः अस्ति । इदं तीर्थम् अतीव प्राचीनम् अस्ति । अतः स्कन्दपुराणे अपि अस्य उल्लेखः प्राप्यते ।

स्थलमिदं पर्वतीयक्षेत्रम् अस्ति । तेषु पर्वतीयक्षेत्रेषु खानिजाः अपि प्राप्यन्ते । अस्य तीर्थस्य भौगोलिकस्थितिः अपि चिन्तनीया अस्ति । यतः द्वारकानगर्या, स्तम्भतीर्थेण च सह अस्य तीर्थस्योल्लेखः प्राप्यते । अतः इदं तीर्थं गुजरात-प्रदेशे भवितव्यम् इति । तेन कारणेन इदं तीर्थं भावनगर-मण्डलान्तर्गतेन सिहोर-नगरेण सह सम्बद्धम् अस्ति । साम्प्रतं तत्र भगवतः अजितनाथस्य, कुन्थुनाथस्य, पार्श्वनाथस्य च जिनालयाः सन्ति । किन्तु ते जिनालयाः वर्तमानकालीनाः सन्ति । सिहोर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । ब्रह्मकुण्डः, गौतमेश्वरमहादेव-मन्दिरं, नवनाथ-मन्दिरम् इत्यादीनि । अस्मिन् नगरे भगवतः शिवस्य नैकानि मन्दिराणि सन्ति । अतः इदं नगरं लघुकाशी इति नाम्ना ज्ञायते [८४]

भद्रेश्वरतीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डलस्य मुन्द्रा-उपमण्डले स्थितमिदं भद्रेश्वरतीर्थम् । इदं जैनधर्मस्य महत्वपूर्णतीर्थं मन्यते । अस्याः नगर्याः प्राचीनं नाम भद्रावती आसीत् । अस्याः नगर्याः आधुनिकं नाम भद्रेसर इति अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः पार्श्वनाथस्य जिनालयः विद्यते । जिनालये भगवतः पार्श्वनाथस्य कृष्णवर्णीया प्रतिमा अस्ति । अस्य जिनालयस्य स्थापत्यकला सर्वेभ्यः जिनालयेभ्यः भिन्ना वर्तते । अतः सुन्दरः जिनालयः जनान् आकर्षति । वि. सं. १६८२ तमे वर्षे ‘वर्धमान शाह’ इत्याख्येन सज्जनेन भगवतः महावीरस्य ६१ से. मी. प्रमाणात्मिका श्वेतवर्णीया प्रतिमा संस्थापिता ।

भद्रेश्वर-तीर्थस्य षोडशजीर्णोद्धाराः अभवन् । तेषु प्रथमः जीर्णोद्धारः वीरनिर्वाण सं. २२३ तमे वर्षे सम्प्रतिमहाराजेन, द्वितीयः कपिलाचार्यस्य भागिनेयेन, तृतीयः वनराजेन, चतुर्थः, कनकेन, पञ्चमः श्रीमालीश्रेष्ठिभिः, षष्ठः कुमारपालेन, सप्तमः जगतचन्द्रसूरिणा उपदेशानुसारं, अष्टमः वस्तुपाल-तेजपालाभ्यां, नवमः ‘जगडुशा’ इत्याख्येन, दशमः सारङ्गदेवेन, एकादशः ‘जामरावळ’ इत्याख्येन द्वादशः जैनसङ्घेन, त्रयोदशः भारमलेन, चतुर्दशः वर्धमानेन, पञ्चदशः जैनसङ्घेन, षोडशः मीठाबाई इत्याख्यया च कारितः । साम्प्रतं बहवः श्रद्धालवः यात्रां कुर्वन्ति । भद्रेश्वरतीर्थस्य जैनतीर्थेषु अधिकं महत्त्वं वर्तते [८५]

तेरातीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छमण्डलस्य अबडासा-उपमण्डले स्थितमिदं तेरातीर्थम् । कच्छप्रदेशे बहूनि जैनतीर्थानि सन्ति । तेषु तेरातीर्थम् अन्यतमम् अस्ति । तत्र जिनालयद्वयं स्थितम् अस्ति । प्रथमः जिनालयः भगवतः जीरावाला-पार्श्वनाथस्य अस्ति । द्वितीयः जिनालयः भगवतः शामळिया-पार्श्वनाथस्य अस्ति । जीरावाला-पार्श्वनाथस्य जिनालयः प्राचीनः विद्यते । किन्तु शामळिया-पार्श्वनाथस्य जिनालयः अर्वाचीनः अस्ति ।

जीरावाला-पार्श्वनाथस्य प्रतिमा श्वेतवर्णीया, पद्मासनस्था, ६८ से.मी. उन्नता च वर्तते । अस्य मन्दिरस्य कला सौन्दर्यं च आकर्षकम् अस्ति । नवशिखरध्वजैः इदं मन्दिरं शोभते । वि. स. १९१५ तमस्य वर्षस्य माघ-मासस्य पञ्चम्यां तिथौ (वसन्तपञ्चमी) सोमवासरे आचार्यरत्नसागरसूरिश्वरस्य मार्गदर्शने अस्य जिनालयस्य प्रतिष्ठा अभवत् । अस्य मन्दिरं परितः चन्द्रप्रभोः, सुमतिनाथस्य, कुन्थुनाथस्य, अजितनाथस्य, सम्भवनाथस्य मन्दिराणि सन्ति । भगवतः शामळिया-पार्श्वनाथस्य मन्दिरं काचमयम् अस्ति । “अस्य मन्दिरस्य प्रतिष्ठा प्रायः ३०० वर्षेभ्यः प्राक् अभवत्” इति मन्यते । तस्य निवासाय धर्मशाला, भोजनाय भोजनालयः अपि विद्यते । यात्रिकाणां सौकर्याय व्यवस्था अपि दीयते [८६]

स्तम्भनकम्[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य आणन्द-मण्डले स्थितेन थामणा-ग्रामेण सह सम्बद्धम् अस्ति । इदं तीर्थं पश्चिमभारतस्य, प्राचीननगरीषु अन्यतमं वर्तते । किन्तु साम्प्रतं तत्र जिनालयः एव नास्ति । अतः अस्य तीर्थस्य अस्तित्त्वम् अपि नष्टं जातम् । कल्पप्रदीपे स्तम्भनकतीर्थसम्बद्धाः त्रयः कल्पाः रचिताः । श्रीपार्श्वनाथकल्पः, श्रीस्तम्भनकल्पः, स्तम्भनपार्श्वनाथकल्पशिलोञ्छ च । तेषु कल्पेषु प्रथमे श्रीपार्श्वनाथकल्पे पार्श्वनाथस्य महिमा वर्णिता । द्वितीये कल्पे पार्श्वनाथस्य प्रतिमाप्राकट्यस्य कथा अस्ति । तृतीये कल्पे नागार्जुनस्य कथा, अभयदेवसूरिणा प्रतिमाप्राकट्यस्य कथा च विस्तृतरूपेण वर्णिता अस्ति । स्तम्भन-पार्श्वनाथकल्पशिलोञ्छ-इत्यस्मिन् कल्पे कथा प्राप्यते यत् – “ढङ्क-नामके पर्वते वासुकीभोपलदेव्योः पुत्रः नागार्जुनः निवसति स्म । सः ओषधिज्ञः आसीत् । सः जैनाचार्यपादलिप्तसूरेः गगनगामिनीविद्याम् अधीतवान् । एकदा नागार्जुनः सेढी-नद्याः तटे पार्श्वनाथस्य प्रतिमायाः समक्षं रससिद्धिविद्याभ्यासं कुर्वन् आसीत् । किन्तु तस्मिन् अभ्यासे सः निष्फलोऽभूत् । तेन कारणेन नागार्जुनस्य हत्या अभवत् । पार्श्वनाथस्य प्रतिमा भूमौ प्राविशत् । तदा तत्र रसः स्तम्भितः । अतः एव तस्य स्थलस्य नाम “स्तम्भनकम्” इति” ।

समयान्तरे जैनाचार्यः अभयदेवसूरिः तत्र गतवान् । तेन तत्र जयतिहुअणस्तोत्रं पठितम् । तेन ततः पार्श्वनाथस्य प्रतिमा उद्भूता । अभयदेवसूरिणा एकं जिनालयं निर्माप्य सा प्रतिमा स्थापिता । प्रबन्धकोशे उल्लेखः प्राप्यते यत् – “कुमारपालः, वस्तुपालः, तेजपालश्च अस्य तीर्थस्य यात्रां कृतवन्तः । वि. सं. १२८८ तमे वर्षे वस्तुपालतेजपालाभ्यां निर्मापितेषु शिलालेखेषु अपि स्तम्भनक-तीर्थस्य उल्लेखः अस्ति । वस्तुपालचरिते अपि तयोः स्तम्भनकतीर्थस्य यात्रायाः चर्चा प्राप्यते । स्तभनकतीर्थे साम्प्रतं क्वचिदपि जिनालयः नास्ति [८७]

स्तम्भतीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य आणन्द-मण्डले स्थितेन खम्भात-पत्तनेन सह सम्बद्धम् अस्ति इदं तीर्थम् । पश्चिमभारतस्य प्रमुखनगरीषु अन्यतमम् अस्ति स्तम्भतीर्थम् । अस्य तीर्थस्य बहूनि नामानि सन्ति । यथा – खम्भायत, खय्यात, त्रम्बवती, ताम्रलिप्ति, महीनगर, भोगावती, पापवती इत्यादीनि । तेषु नामसु खम्भात, स्तम्भतीर्थं च अत्यधिकं प्रचलितं नाम अस्ति । राष्ट्रकूटनरेशस्य गोविन्दतृतीयस्य दानशासने अस्य तीर्थस्य उल्लेखः प्राप्यते । इदं पत्तनं सोलङ्कीराज्ञां शासनकाले भारतस्य प्रमुकपत्तनत्वेन स्थितम् आसीत् । व्यावसायिकदृष्ट्या, धार्मिकदृष्ट्या च अस्य पत्तनस्य महत्त्वम् अधिकम् आसीत् । सोलङ्कीशासकानां युगे स्तम्भतीर्थं शैव-वैष्णव-जैन-धर्माणां प्रमुखकेन्द्रत्वेन स्थितम् आसीत् ।

वि. सं. ११५४ तमे वर्षे हेमचन्द्राचार्येण देवचन्द्राचार्यगुरोः अस्यां नगर्याम् एव दीक्षा अङ्गीकृता । तस्मिन् काले तत्र जेतला-नामकः कश्चन श्रेष्ठी निवसति स्म । तेन एकः जिनालयः निर्मापितः । सिद्धराजजयसिंहः, कुमारपालस्य मन्त्री उदयनः च तस्यां नगर्यामेव निवसति स्म । तेन तत्र उदयनवसही इत्याख्यः जिनालयः निर्मापितः । वि. सं. ११६५ तमे वर्षे मोढवंशीयस्य जैनश्रेष्ठिनः पत्न्या बहिडाबाई इत्याख्यया अपि पार्श्वनाथस्य जिनालयः निर्मापितः ।

वस्तुपालतेजपालौ स्तम्भतीर्थस्य विकासं चक्रतुः । वि. सं. १२७९ तमे वर्षे वस्तुपालेन स्वस्य पुत्राय जैत्रसिंहाय स्तम्भतीर्थस्य राज्यपालस्य दायित्वं प्रदत्तम् । वि. सं. १५२७ तमे वषे घोघा इत्याख्येन श्रेष्ठिना जिनालयस्य निर्माणं कारितम् । किन्तु सः जिनालयः साम्प्रतं न विद्यते । भारतस्य चतुर्षु स्थानेषु जैनग्रन्थानां विशालभण्डागाराः सन्ति । तेषु एकः भण्डागारः स्तम्भतीर्थे, खम्भातपत्तने वा स्थितः अस्ति [८८][८९]

कोल्हापुरम्[सम्पादयतु]

भारतस्य महाराष्ट्र-राज्ये स्थितमिदं कोल्हापुरतीर्थम् । इदं नगरं महाराष्ट्रस्य प्रमुखनगरेषु अन्यतमं वर्तते । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे कोल्हापुरतीर्थस्य उल्लेखः प्राप्यते । “तत्र भगवतः आदिनाथस्य मन्दिरं वर्तते” इति तस्मिन् ग्रन्थे लिखितम् अस्ति । “प्रतिष्ठानपुराधिपतिसातवाहननृपचरिते” अपि अस्योल्लेखः दृश्यते । कोल्हापुरनगरे स्थितस्य महालक्ष्म्याः मन्दिरस्य अपि चर्चा प्राप्यते ।

द्वादशशताब्दीतः पञ्चदशशताब्दीपर्यन्तं कोल्हापुर-नगरं जैनधर्मस्य महत्वपूर्णकेन्द्रत्वेन आसीत् । ई. स. १११७ तमस्य वर्षस्य, ई. स. ११३५ तमस्य वर्षस्य च अभिलेखद्वयं प्राप्तम् । तयोः अभिलेखयोः दानस्य चर्चा अस्ति । साम्प्रते काले कोल्हापुर-नगरे त्रयः जिनालयाः सन्ति । ते जिनालयाः वर्तमानकालीनाः सन्ति । किन्तु मन्दिरेषु स्थिताः काश्चित् जिनप्रतिमाः मध्यकालीनाः सन्ति । आधुनिके कोल्हापुर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तानि – महालक्ष्मीमन्दिरं, छत्रपतिसाहुसङ्ग्रहालयः, पनहला-दुर्गः, काशीविश्वेश्वरमन्दिरं, जोतिबामन्दिरं, दाजीपुराभयारण्यम् इत्यादिनी । कोल्हापुर-नगरं पुणे-नगरात् २२८ किलोमीटरमिते, बेङ्गळुरु-नगरात् ६१५ किलोमीटरमिते, हैदराबाद-नगरात् च ५३० किलोमिटरमिते च दूरे स्थितम् अस्ति । सह्याद्रीपर्वतशृङ्खलया समीपे इदं नगरं स्थितम् अस्ति [९०]

डाकिनीभीमशङ्करः[सम्पादयतु]

भीमशङ्करः भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमः वर्तते । इदं तीर्थं भारतस्य महाराष्ट्र-राज्ये स्थितात् पुणे-नगरात् ११० किलोमीटरमिते, खेड-ग्रामात् ५० किलोमीटरमिते च दूरे स्थितम् अस्ति । सह्याद्रेः पश्चिमीघट्टे स्थितमिदं स्थलम् । इदं तीर्थं भीमा-नद्याः तटे स्थितम् अस्ति । जिनप्रभसूरिणा विरचितस्य कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे डाकिनीभीमशङ्करस्य उल्लेखः प्राप्यते । चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः पार्श्वनाथस्य मन्दिरम् अपि तत्र विद्यते इत्यपि तत्र उल्लिखितम् अस्ति ।

जैनसाहित्ये अन्यत्र कुत्रापि अस्य तीर्थस्य उल्लेखः न दृश्यते । इदं स्थलं प्रसिद्धशैवतीर्थम् अस्ति । अत्र तत्र जनाः दर्शनार्थं, यात्रार्थं च गच्छन्ति । भीमाशङ्करज्योतिर्लिङ्गस्य वर्णनं पुराणेष्वपि प्राप्यते । शिवपुराणे उक्तम् अस्ति यत् – “पुरा कुम्भकर्णस्य भीमनामकः पुत्रः आसीत् । सः अपि राक्षसः आसीत् । तस्य जन्म कुम्भर्णस्य मृत्योः अनन्तरम् अभवत् । पितुः मृत्योः कारणं सः न जानाति स्म । यदा सः ज्ञातवान् यत् – “श्रीरामेण तस्य पितुः हननं कृतम्”, तदा सः रामं हन्तुम् ऐच्छत् । भीमेन कठोरतपस्या कृता । तस्य तपस्यया प्रसन्नब्रह्मणा तस्मै विजयवरं प्रदत्तम् । वरं प्राप्य भीमः सर्वेषु देवेषु, मनुष्येषु च आक्रमणं कुर्वन् आसीत् । सर्वे देवाः, मनुष्याः च भयभीताः अभवन् । ते रक्षणार्थं भगवतः शिवस्य समीपे गताः । भगवता शिवेन भीमेन सह युद्धः कृतः । युद्धे शिवेन राक्षसः भीमः हतः । तत्रैव भगवान् शिवः लिङ्गस्वरूपेण स्थितवान् । तत् शिवलिङ्गं भीमशङ्करः इति प्रसिद्धम् अभवत् । महारात्रिपर्वणि अत्र महोत्सवः आचर्यते । बहवः श्रद्धालवः, यात्रिणः च समागच्छन्ति । इदं स्थलं रेलमार्गेण सरलतया प्राप्तुं शक्यते [९१]

नासिक्यपुरम्[सम्पादयतु]

Jain Mandir Nashik.jpg

भारतस्य महाराष्ट्र-राज्ये स्थितेन नाशिक-नगरेण सह नासिक्यपुरम् सुसम्बद्धम् अस्ति । नाशिक-नगरं गोदावरी-नद्याः तटे स्थितम् अस्ति । इयं नगरी भारतस्य प्राचीननगरीषु अन्यतमा वर्तते । इदं ब्राह्मणीयधर्मस्य प्रसिद्धतीर्थस्थलं वर्तते ।

जिनप्रभसूरिणा कल्पप्रदीपे जैनतीर्थत्वेन अस्याः नगर्याः वर्णनं कृतम् अस्ति यत् – “भगवता विष्णुना इयं नगरी स्थापिता । तेन अष्टम तीर्थङ्करस्य भगवतः चन्द्रप्रभोः जिनालयः अपि निर्मापितः । तस्मिन् काले अस्याः नगर्याः नाम पद्मपुरम् इति आसीत्” । त्रेतायुगे भगवान् रामः, लक्ष्मणः, सीता च तत्रैव वनवासम् अतिवाहितवन्तः । एकदा रावणस्य भगिन्या शूर्पणखया रामेण सह विवाहस्य याचना कृता । तदा लक्ष्मणेन शूर्पणखायाः नासिका छेदिता । तदारम्भे अस्याः नगर्याः नाम नासिक्यपुरम् अभवत् । अनन्तरं रामरावणयोः युद्धम् अभवत् । युद्धे रामः विजयं प्राप्तवान् । रामः पुनः नासिक्यपुरं प्राप्य भगवतः चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः कृतः । मिथिलानरेशेन जनकेन तत्र दश यज्ञाः कृताः । अतः तस्य नाम “जनकस्थानम्” अपि प्रचलितम् अस्ति । “जगथाण”-इति अपि अस्य अपरं नाम आसीत् । द्वापरयुगे कुन्त्या अपि भगवतः चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः कारितः । अतः तेन अस्याः नगर्याः नाम कुन्तीविहारः अपि अभवत् । अनेन प्रकारेण त्रिषु युगेषु चन्द्रप्रभोः जिनालयस्य जीर्णोद्धारः अभवत् । कल्याणकटक-नगरस्य राज्ञा परमर्दिना जिनालयस्य व्ययार्थं २४ ग्रामाः प्रदत्ताः । समयान्तरे वाइओ-नामकेन क्षत्रियेण जिनालयः नाशितः । तदनन्तरं पल्लीवालवंशीयस्य ईश्वरसिंहस्य पुत्रेण कुमारसिंहेन तस्य जिनालस्य पुनर्निमाणं कारितम् “। त्रयोदश्यां शताब्द्यां वस्तुपाल-तेजपालाभ्यां, चतुर्दशशताब्द्यां पेथडशाह-इत्याख्येन च तत्र जिनालयाः निर्मापिताः ।

प्रतिद्वादशवर्षे नाशिक-नगरे कुम्भोत्सवः आयोज्यते । अयं कुम्भोत्सवः सिंहस्थः अपि कथ्यते । महाराष्ट्रपर्यटनविभागेन अस्य कुम्भोत्सवस्य आयोजनं क्रियते । कुम्भोत्सवे बहवः श्रद्धालवः, साधवश्च समागच्छन्ति । सर्वे जनाः गोदावरी-नद्यां स्नानं कुर्वन्ति । कुम्भोत्सवे नदीस्नानस्य महत्त्वम् अस्ति । नाशिक-नगरे नैकानि वीक्षणीयस्थलानि सन्ति । तानि – पञ्चवटी, सीतागुहा, सुन्दरनारायणमन्दिरं, मोदाकेश्वरगणेशमन्दिरं, रामकुण्डः, कालाराममन्दिरं, सोमेश्वरमन्दिरञ्च [९२]

प्रतिष्ठानपत्तनम्[सम्पादयतु]

सातवाहनानां राजधानी आसीत् नगरीयम् । इयं भारतस्य प्रसिद्धनगरीषु अन्यतमा वर्तते । ब्राह्मणीयबौद्धजैनसाहित्येषु अस्याः नगर्याः विशिष्टवर्णनं प्राप्यते । भारतस्य महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थितेन पैठन-नगरेण सह प्रतिष्ठानपत्तनं सम्बद्ध्यते । जिनप्रभसुरिणा एतन्नगरीसम्बद्धाः त्रयः कल्पाः रचिताः । ते – प्रतिष्ठानपत्तनकल्पः, प्रतिष्ठानपुरकल्पः, प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् इति । तेषु प्रतिष्ठानकल्पानुसारं वर्णनं प्राप्यते यत् – महाराष्ट्रजनपदे गोदावर्याः तटे प्रतिष्ठान-नगरी स्थिता आसीत् । तत्र अष्टषष्ठिः लौकिकतीर्थानि सन्ति । तस्मात् स्थानात् द्विपञ्चाशत् वीराः सम्बद्धाः सन्ति । अतः तत्क्षेत्रं वीरस्थानम् अपि कथ्यते । तत्र भगवतः मुनिसुव्रतनाथस्य भव्यजिनालयः अपि विद्यते । तस्मिन् जिनालये मूलनायकेन सह अम्बिकादेव्याः, क्षेत्रपालस्य, कपर्दीयक्षस्य च प्रतिमाः अपि सन्ति” इति । सम्पूर्णेभारते यक्षपूजा प्रचलिता अस्ति । ब्रह्म, यक्षः, वीरः एते सर्वे समानार्थिनः एव सन्ति । यक्षाणां निवासस्थानं ब्रह्मपुरी कथ्यते । अतः अस्याः नगर्याः अपरं नाम ब्रह्मपुरी अपि अस्ति [९३]

श्रीपुरम्[सम्पादयतु]

भारतस्य महाराष्ट्र-राज्यस्य अकोला-मण्डले सिरपुर-नामकः ग्रामः स्थितः अस्ति । सः ग्रामः श्रीपुरेण सह सम्बद्धः अस्ति । तस्मिन् ग्रामे भगवतः पार्श्वनाथस्य जिनालयः अस्ति । सः जिनालयः अन्तरिक्षजिनालयः पवलीजिनालयः वा इति नाम्ना अपि ज्ञायते । जिनप्रभसूरिणा कल्पप्रदीपे वर्णनं कृतम् अस्ति यत् – “पुरा प्रतिवासुदेवस्य रावणस्य माली, सुमाली इत्येतौ दूतौ आस्ताम् । तौ आकाशमार्गेण गच्छन्तौ आस्ताम् । तौ जिनप्रतिमायाः दर्शनानन्तरम् एव भोजनं स्वीकुरुतः स्म । किन्तु तस्मिन् दिने तौ जिनप्रतिमां नेतुं विस्मृतवन्तौ । अतः ताभ्यां पार्श्वनाथस्य मृत्तिकया प्रतिमा निर्मिता, सम्पूजिता च । अनन्तरं भोजनं कृत्वा सा प्रतिमा एकस्मिन् तडागे क्षिप्ता । समयान्तरे तस्य तडागस्य जलं शुष्कं जातम् । तडागे अल्पमेव जलम् आसीत् । एकदा चिंउगल-देशस्य राजा श्रीपालः पिपासुः आसीत् । सः कुष्टरोगेण पीडितः आसीत् । यदा सः तस्य तडागस्य जलं पीतवान्, स्नातवान् च, ततः प्रभृतिः श्रीपालस्य कुष्टरोगः शान्तः जातः । तस्मिन् दिने राजा स्वप्नं दृष्टवान् । सः स्वप्नः पार्श्वनाथप्रतिमाविषयकः आसीत् । आगामिदिने राज्ञा श्रीपालेन तस्मात् तडागात् सा प्रतिमा निष्कासिता । अनन्तरं तत्र एकः जिनालयः निर्मापितः । तस्मिन् जिनालये पार्श्वनाथस्य प्रतिमा प्रस्थापिता । यात्रिणः, श्रद्धालवश्च श्रीपुरे उत्सवम् आचरन्ति । जिनप्रतिमायाः स्नानीयजलं चर्मरोगाणां निवारकत्वेन उपयुज्यते । तेन जलेन शरीरस्य विभिन्नरोगाणां निवारणं भवति । दिगम्बरसम्प्रदाये अस्य तीर्थस्य प्राचीनवर्णनं प्राप्यते ।

मदनकीर्तिना रचिते शासनचतुस्त्रिंशिका-ग्रन्थे, उदयकीर्तिना रचिते तीर्थवन्दन-ग्रन्थे चापि अस्य तीर्थस्य वर्णनं प्राप्यते । पञ्चदशशताब्द्यां दिगम्बराचार्येण गुणकीर्तिना विरचिते तीर्थवन्दन-ग्रन्थे अपि अस्य तीर्थस्य वर्णनं कृतम् अस्ति । तदनन्तरं षोडश्याः नवदशशताब्दीपर्यन्तं बहुभिः आचार्यैः श्रीपुरस्य उल्लेखः कृतः अस्ति । वि. सं. १७१५ तमे वर्षे भावविजयेन इदं तीर्थं श्वेताम्बरतीर्थत्वेन उल्लिखितम् अस्ति । किन्तु जिनप्रभसूरिणा केवलं जैनतीर्थत्वेन उल्लिखितम् अस्ति । वि. सं. १७४६ तमे वर्षे श्वेताम्बराचार्येण शीलविजयेन अपि दिगम्बरतीर्थेन उक्तम् अस्ति । श्रीपुरात् बहिः पवली-मन्दिरं विद्यते । तस्य मन्दिरस्य खनने एकः स्तम्भः, बह्व्यः जैनप्रतिमाः च प्राप्ताः । तासु प्रतिमासु लेखाः अपि उत्कीर्णाः सन्ति [९४]

सूर्पारकः[सम्पादयतु]

पुरा सूर्पारकः कोङ्कण-जनपदः राजधानी आसीत् । इयं नगरी प्राचीनभारतस्य प्राचीननगरीषु प्रसिद्धनगरी आसीत् । भारतस्य महाराष्ट्र-राज्यस्य ठाणे-मण्डले स्थितेन सोपारा-नगरेण सह इयं नगरी सम्बद्ध्यते । महाभारते, पुराणेषु, ब्राह्मणीयग्रन्थेषु, बौद्धग्रन्थेषु, जैनग्रन्थेषु च अस्याः नगर्याः उल्लेखः प्राप्यते । अस्याः नगर्याः बहूनि नामानि प्राप्यन्ते । तानि – सोपारग, सोपारक, सौरपारक, सुप्पारिक च । अशोकस्य शिलालेखेषु एकः शिलालेखः तस्यां नगर्यां प्राप्तः । उषावदातस्य कस्मिँश्चित् लेखे अस्याः नगर्याः उल्लेखः अपि प्राप्यते । पुरा इयं नगरी व्यापारस्य केन्द्रं, पत्तनं च आसीत् । अतः तस्मिन् काले अस्याः नगर्याः महत्त्वम् अधिकम् आसीत् । सूर्पारक-पत्तने व्यापारिणः निवसन्ति स्म । ते जनाः व्यापारार्थं भृगुकच्छ-नगरं, सुवर्णभूमि-नगरीं च गच्छन्ति स्म ।

मध्ययुगस्य जैनसाहित्येषु अस्याः नगर्याः जैनतीर्थत्वेन उल्लेखः प्राप्यते । आचार्यनागेन्द्रसूरिः, आचार्यचन्द्रसूरिः, आचार्यनिवृत्तसूरिः, आचार्यविद्याधरसूरिः च अस्यां नगर्यां जनिं प्राप्तवान् । अतः एव इयं नगरी जैनतीर्थत्वेन ज्ञायते । सिद्धसेनसूरिणा रचिते सकलतीर्थस्तोत्र-ग्रन्थे जैनतीथत्वेन कोङ्कण-देशस्य उल्लेखः प्राप्यते । यद्यपि अस्य देशस्य राजधानी सूर्पारक-नगरी आसीत् । अतः “सा नगरी अपि जैनतीर्थम् आसीत्” इति अनुमीयते । “अस्यां नगर्याम् ऋषभदेवस्य जिनालयः आसीत्” इत्युल्लेखः पुरातनप्रबन्धसङ्ग्रहे, प्रबन्धकोशे च प्राप्यते । किन्तु वर्तमाने काले तस्यां नगर्यां केऽपि जिनपुरावशेषाः न प्राप्यन्ते । तत्र स्थितः जिनालयः अपि अर्वाचीनः वर्तते [९५]

आमरकोण्डतीर्थम्[सम्पादयतु]

आमरकोण्ड-नगरं वर्तमानकालस्य अनमकोण्ड-ग्रामेण सह सम्बद्धम् अस्ति । भारतस्य आन्ध्रप्रदेश-राज्यस्य वारङ्गल-मण्डले अनमकोण्ड-ग्रामः स्थितः अस्ति । तत्र कदलालय-देव्याः मन्दिरम् अस्ति । तैलङ्ग-देशे आमरकोण्ड-नगरी आसीत् । तस्यां नगर्यां मेघचन्द्र-इत्याख्यः दिगम्बराचार्यः निवसति स्म । सः पद्मावतीदेव्याः उपासनां करोति स्म । देव्याः कृपया माधव-नामकः मेघचन्द्राचार्यस्य शिष्यः राजलक्ष्मीं प्रापत् । तदनन्तरं माधवराजेन आमरकोण्ड-नगर्यां देव्याः मन्दिरं स्थापितम् । पुरण्टिरित्तमराजः, पिण्डिकुण्डिमराजः, प्रोल्लराजः, रुद्रदेवः, गणपतिदेवः चेत्यादयः माधवराजस्य वंशजाः आसन् । गणपतिदेवस्य मृत्योः अनन्तरं तस्य पुत्री रुद्राम्बा पञ्चत्रिंशद्वर्षाणि यावत् शासनं कृतवती । तत्पश्चात् प्रतापरुद्रदेवः राज्यस्य दायित्वं प्राप्तवान् । एते सर्वे काकती-ग्रामस्य निवासिनः आसन् । अतः एव सर्वे काकतीयवंशजाः इति नाम्ना ज्ञायन्ते ।

कदलालयदेव्याः मन्दिरं ब्राह्मणाधीनम् अस्ति । तस्मिन् मन्दिरे ई. स. १११७ तमस्य वर्षस्य अभिलेखः प्राप्तः । “तस्यां नगर्यां स्थितं कदलालयमन्दिरम् एव पद्मावतीदेव्याः मन्दिरम् अस्ति” इति मन्यते [९६]

कुल्पाक[सम्पादयतु]

कुल्पाक-नगरं भारतस्य आन्ध्रप्रदेश-राज्ये स्थितात् हैदराबाद-नगरात् उत्तर-पूर्वदिशि ४५ मीलमिते दूरे स्थितम् अस्ति । इदं तीर्थं जैनधर्मस्य प्रमुखतीर्थं मन्यते । जिनप्रभसूरिणा कल्पप्रदीपे कुल्पाकमाणिक्यदेवकल्प-नामकः स्वतन्त्रः कल्पः रचितः । तस्मिन् कल्पे जिनप्रभसूरिणा अस्य तीर्थस्य उत्पत्तिः, माणिक्यस्वामिनः प्रतिमायाः इतिहासः वर्णितः अस्ति यत् – “पुरा चक्रवर्तिना भरतेन अष्टापदपर्वते ऋषभदेवस्य माणिक्यप्रतिमा निर्मापिता आसीत् । सा प्रतिमा माणिक्यदेवः इति नाम्ना प्रसिद्धा । विद्याधरैः, इन्द्रेण, रावणेन च सा प्रतिमा पूजिता । यदा लङ्कादहनम् अभवत्, तदा सा प्रतिमा समुद्रे प्रक्षिप्ता । समयान्तरे कन्नड-देशस्य कल्याण-नगर्याः राजा शङ्करः पद्मावत्याः साहाय्येन ऋषभदेवस्य प्रतिमां प्राप्तवान् । अनन्तरं शङ्करेण तैलङ्गदेशस्य कुल्पाक-नगर्याम् एकस्मिन्जिनालये सा प्रतिमा स्थापिता । इयं प्रतिमा अद्भुता आसीत् । तस्याः प्रतिमायाः स्नानीयजलेन चर्मरोगाः नश्यन्ति” ।

उदयकीर्तिः, गुणकीर्तिः, सुमतिसागरः, जयसागरः, ज्ञानसागरः च इत्यादीनां ग्रन्थकाराणाम् अनुसारेण इदं तीर्थं दिगम्बरजैनकेन्द्रत्वेन उल्लिखितम् अस्ति । साम्प्रतं तत्र एकः जिनालयः स्थितः अस्ति । सः जिनालयः प्राचीनः वर्तते । किन्तु पौनःपौन्येन जीर्णोद्धारेण तस्य जिनालयस्य प्राचीनत्वं समाप्तं जातम् । तस्मिन् जिनालये वि. सं. १३३३ तः १७६७ पर्यन्तं वर्षस्य लेखाः विद्यमानाः सन्ति । वर्तमाने काले वि. सं. १९५५ तमे वर्षे शान्तिविजयसूरिणा अस्य जिनालयस्य जीर्णोद्धारः कारितः [९७]

श्रीपर्वतः[सम्पादयतु]

श्रीशैलपर्वतः पुरा श्रीपर्वतः इति नाम्ना ज्ञायते स्म । भारतस्य आन्ध्रप्रदेश-राज्यस्य कर्नूलुमण्डले श्रीशैल-नगरमम् स्थितम् अस्ति । तस्य नगरस्य समीपे अयं पर्वतः स्थितः अस्ति । श्रीशैल-नगरे द्वादशज्योतिर्लिङ्गेषु मल्लिकार्जुनज्योतिर्लिङ्गं विद्यमानमस्ति । तेन कारणेन इदं नगरं शैवानां तीर्थस्थलं वर्तते । इदं शैवकेन्द्रम् अपि अस्ति । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे इदं तीर्थं चर्चितम् अस्ति । तत्र स्थितानां मल्लिनाथस्य, घण्टाकर्णमहावीरस्य च जिनालययोः अपि उल्लेखः कृतः अस्ति ।

साम्प्रतं श्रीशैले जैनानाम् अस्तित्त्वम् एव नास्ति । तथापि शिवालयस्य मुखमण्डपस्य द्वयोः स्तम्भयोः ई. स. १५१२ तमस्य वर्षस्य संस्कृतलेखः उत्कीर्णः अस्ति । श्रीशैलशिखरस्य दर्शनमात्रेण जन्म धन्यं भवति इति भक्तानां विश्वासः । अत्रत्ये मल्लिकार्जुनदेवालये शिवरात्र्यां कार्त्तिकमासे नवरात्रिकाले दीपावल्यां च विशेषपूजाः प्रचलन्ति । शैवकेन्द्रेऽस्मिन् सीतामाता सहस्रलिङ्गानां स्थापनां कृतवती इति ऐतिह्यम् अस्ति । देशस्य सर्वेभ्यः भागेभ्यः कर्नूल-नगरं प्रति रेलयानस्य सौकर्यम् अस्ति । आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः बस्-यानानि अपि सन्ति । कर्नूलनगरात् १०८ किलोमीटरमिते दूरे, हैदराबादतः२०० किलोमीटरमिते दूरे च अस्ति । बेङ्गळूरुतः अपि यानव्यवस्था उत्तमा अस्ति [९८]

किष्किन्धा[सम्पादयतु]

भारतस्य कर्णाटक-राज्यस्य बल्लारी-मण्डले स्थितस्य हम्पी-नगरस्य समीपं किष्किन्धा-नगरी स्थिता अस्ति । इयं नगरी तुङ्गभद्रा-नद्याः तटे स्थिता अस्ति । रामायणकाले दण्डकवनम् आसीत् । तस्मिन् वने एव इयं नगरी स्थिता आसीत् । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे किष्किन्धा-नगर्याः उल्लेखः कृतः अस्ति । तस्मिन् कल्पे लङ्कायाः, पाताललङ्कायाः चापि वर्णनं कृतम् अस्ति । तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः शान्तिनाथस्य मन्दिरम् अस्ति इति तस्मिन् कल्पे उल्लेखः प्राप्यते । ब्राह्मणीयग्रन्थेषु, पुराणेषु जैनग्रन्थेषु च अस्याः नगर्याः वर्णनम् अस्ति [९९]

दक्षिणपथगोम्मटेश्वरबाहुबली[सम्पादयतु]

Bahubali at shravanababelagola.JPG

भारतस्य कर्नाटक-राज्यस्य हासन-मण्डले श्रवणबेळगोळ-स्थलम् अस्ति । इदं विश्वप्रसिद्धं जैनतीर्थम् अस्ति । पुरा तत्र शताधिकाः सन्यासिनः निवसन्ति स्म । अतः अस्य नाम श्रमणबेळगोळ इति । श्रमण इत्युक्ते सन्यासी । अस्य तीर्थस्य अन्यानि नामानि अपि सन्ति । तानि – जैनबद्री, जैनकाशी, गोम्मटतीर्थं, देवरबेळगोळ, श्वेतबेळगोळ, गोम्मटपुरं च । तत्र द्वौ पर्वतौ स्तः । एकः चन्द्रगिरिः-नामकः लघुपर्वतः, अपरश्च इन्द्रगिरिः-नामकः बृहत्पर्वतो वर्तते ।

कर्णाटकराज्ये स्थितेषु श्रवणवेलगोला, कारकल, वेणूरु इति त्रिषु स्थानेषु गोम्मटप्रतिमाः सन्ति । ई. स. ९८३ तमे वर्षे गङ्गनरेशस्य सेनापतिना चामुण्डाराय इत्याख्येन श्रवणवेलगोला-स्थले गोम्मटप्रतिमा निर्मापिता । अन्ये द्वे प्रतिमे ई. स. १४३२ तमे वर्षे, ई. स.१५०४ तमे वर्षे च प्रस्थापिते । तत्र स्थिता गोम्मटदेवस्य सप्तपञ्चाशत्पादोउन्नता प्रतिमा विद्यमाना अस्ति । तस्याः प्रतिमायाः शिल्पकला अद्भुता वर्तते । दिगम्बरग्रन्थानुसारं भद्रबाहुना, चन्द्रगुप्तेन च अस्मिन् तीर्थे एव तपस्या कृता आसीत् । न केवलं जैनाः अपि तु सर्वेषां धर्माणां जनाः अपि तत्र दर्शनं कर्तुं गच्छन्ति । तस्याः प्रतिमायाः प्रतिद्वादशवर्षे महामस्तकाभिषेकः क्रियते । सह्स्राधिकाः जनाः प्रतिदिनं श्रवणबेळगोळतीर्थस्थलं गच्छन्ति । तत्र निवासाय, भोजनाय च व्यवस्था अपि अस्ति । हासन-नगरात् इदं स्थलं ४२ किलोमीटरमिते, मैसूर-नगरात् ६४ किलोमीटरमिते, बेङ्गळुरु-महानगरात् १५७ किलोमीटरमिते, चेन्नराय-पत्तनात् १२ किलोमीटरमिते च दूरे स्थितम् अस्ति [१००]

शङ्खजिनालयः[सम्पादयतु]

इदं जैनतीर्थं भारतस्य कर्णाटक-राज्यस्य धारवाड-मण्डले स्थितम् अस्ति । धारवाड-मण्डलस्य लक्ष्मेश्वरतीर्थेन सह इदं स्थलं समीक्रियते । लक्ष्मेश्वरतीर्थं दिगम्बर-जैनतीर्थस्य प्रसिद्धतीर्थम अस्ति । पुरा अस्याः नगर्याः नैकानि नामानि आसन् । तानि – पुरिकरनगरं, पुरिगेरे, पुलिगेरे च । मध्यकालीनजैनग्रन्थकारैः अस्य तीर्थस्य उल्लेखः कृतः अस्ति । जिनप्रभसूरिणा अपि कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य तीर्थस्य चर्चा कृता अस्ति यत् – तत्र चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमस्य भगवतः नेमिनाथस्य मन्दिरं स्थितम् अस्ति । मध्यकाले तत्र बहवः जिनालयाः स्थिताः आसन् । प्राप्तावशेषेषु ज्ञायते यत् – ते जिनालयाः अष्टतः षोडशशताब्दीपर्यन्तम् अस्त्तित्वे आसन् । तेषां जिनालयानाम् अवशेषेभ्यः बहवः अभिलेखाः प्राप्ताः । तेषु लेखेषु जैनाचार्याणां, शासकानां, शाखानां च उल्लेखः प्राप्यते । तेषु लेखेषु बहूनां जिनालयानां नामोल्लेखः प्राप्यते । यथा – शङ्खवसति, तीर्थवसति, मुक्करवसति, राचमल्लवसति, श्रीविजयवसति, मरुदेवीमन्दिरं, धवलजिनालयः, गोग्गियवसति, अनिसेज्जयवसति, शान्तिनाथजिनालयः च [१०१]

मलयगिरिः[सम्पादयतु]

भारतस्य केरल-राज्ये जैनधर्मस्य मलयगिरि-तीर्थम् आसीत् । सः मलयगिरिः इति नाम्ना कश्चन पर्वतः । वर्तमानकालस्य केरल-राज्यस्य ट्रावनकोर-पर्वतेन सह मलयगिरिः समीक्रियते । जिनप्रभसूरिणा कल्पप्रदीपस्य चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पे अस्य पर्वतस्य उल्लेखः कृतः अस्ति यत् – “इदं तीर्थं जैनतीर्थम् आसीत् ।

तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमयोः भगवतोः श्रेयांसनाथपार्श्वनाथयोः जिनालयौ स्तः । जैनसाहित्येषु अस्य तीर्थस्योल्लेखः प्राप्यते । ब्राह्मणीयग्रन्थेषु, पुराणेषु च अस्य पर्वतस्य पवित्रतायाः वर्णनं, महत्त्वं च प्राप्यते । साम्प्रतं तत्र जैनतीर्थस्य, जिनालयस्य अवशेषाः न प्राप्यन्ते । अतः वर्तमानकाले पौराणिकमतानुसारम् इदं तीर्थं भारतस्य पवित्रतमं स्थलम् अस्ति । पर्वते स्थितम् अस्ति अतः रमणीयं दृश्यते [१०२]

गन्धारतीर्थम्[सम्पादयतु]

गन्धारनामकमिदं तीर्थं भारतस्य गुजरात-राज्यस्य भरुचमण्डले स्थितमस्ति । भरुच-नगरात् ४५ किलोमीटर्मितं दूरे अस्ति इदं स्थलम् । इदं स्थलं मध्यकालतः परिवर्तनशीलम् अस्ति । मध्यकाले इदं विशालपोताश्रयः आसीत् । तत्र बहूनां जलयानानां यातायातः भवति स्म । विक्रमवर्षस्य सप्तदशशताब्द्यां विजयहीरसूरीश्वराचार्येण बहुभिः साधुभिः, साध्वीभिः च सह चातुर्मासत्रयं कृतम् आसीत् । हरिसुरीश्वराचार्यः मुगलशासकम् अकबर-इत्याख्यं प्रतिबोधितुं फतेपुर-सिक्री-स्थलं गतवान् । औरङ्गजेब-इत्याख्यस्य शासनकाले अयं पोताश्रयः नष्टः जातः । मुगल-मराठाशासकयोः वैरोद्धारे अस्य नगरस्य नाशः अभवत् । तस्मिन् नगरे सप्तदश जैनमन्दिराणि सन्ति । साम्प्रतं तत्र त्रीणि जैनमन्दिराणि सन्ति । चतुर्विंशतितीथङ्करेषु भगवतः पार्श्वनाथस्य श्वेतवर्णीया, पद्मासनस्था प्रतिमा स्थिता अस्ति [१०३]

कुम्भारिया-तीर्थम् (श्री आरासणतीर्थम् )[सम्पादयतु]

इदं स्थलं भारतस्य गुजरात-राज्ये स्थितम् अस्ति । कुम्भारिया-ग्रामात् अम्बाजी-तीर्थस्थलं २.५ किलोमीटरमिते, आबुरोड-रेलस्थानकं २२ किलोमीटरमिते च दूरे स्थितम् अस्ति । आरासुरपर्वतशृङ्खलानां मध्ये इदं तीर्थं स्थितम् अस्ति । अस्य तीर्थस्य परितः श्वेतशैलानां खनयः सन्ति । गुजराती-भाषायां श्वेतशैलम् “आरस” इति उच्यते । अतः अस्य तीर्थस्य अपरं नाम आरासण अपि अस्ति । सम्पूर्णभारतस्य अत्यधिकाः जिनप्रतिमाः तत्र स्थितानां खनीनां श्वेतशैलैः निर्मिताः सन्ति ।

गुजरात-राज्ये अणहिलपुरे चौलुक्यशासकः भीमदेवः राजा आसीत् । तस्य विमलशाह इत्याख्यः महामात्यः आसीत् । एकादशशताब्द्यां विमलशाह इत्याख्येन कुम्भारिया-स्थले पञ्च मन्दिराणि निर्मापितानि । अम्बादेवी विमलशाह इत्याख्यस्य आराध्यदेवी, कुलदेवी च आसीत् । भगवतः नेमिनाथस्य अपि अधिष्ठात्रीदेवी अस्ति अम्बादेवी । उच्यते यत् – “अम्बादेव्याः मन्दिरम् अपि विमलशाह इत्याख्येन एव निर्मापितम् आसीत्” । विमलशाह इत्याख्येन निर्मापितानां मन्दिराणां संक्षिप्तपरिचयः अधः प्रदत्तः अस्ति [६८]

भगवतः नेमिनाथस्य मन्दिरम्[सम्पादयतु]

कुम्भारिया-ग्रामे स्थितं भगवतः नेमिनाथस्य मन्दिरं त्रिभूमं वर्तते । तन्मन्दिरं विशालम्, उन्नतं च वर्तते । अस्य मन्दिरस्य स्थापत्यकला अपि विशिष्टा अस्ति । मन्दिरस्य प्रवेशद्वारादेव भगवतः नेमिनाथस्य प्रतिमायाः दर्शनं भवितुं शक्यते । गर्भगृहे भगवतः नेमिनाथस्य भव्यप्रतिमा स्थापिता अस्ति । रंगमण्डपे यक्षस्य प्रतिमा अपि स्थिता अस्ति । मन्दिरे अम्बादेव्याः विशालमूर्तिः अपि अस्ति ।

सभामण्डपे भगवतः आदिनाथस्य, पार्श्वनाथस्य च पुरातनप्रतिमा स्थापिता वर्तते । तत्रस्थाः जनाः नेमिनाथभगवन्तं युधिष्ठिरं, पार्श्वनाथभगवन्तं भीमं, आदीनाथभगवन्तम् अर्जुनं चेति सम्बोधयन्ति । मन्दिरे सुन्दरकलाकृतयः अपि सन्ति । मन्दिरस्य परिसरे ९४ स्तम्भाः सन्ति । तेषु २२ स्तम्भाः कलाकृतियुक्ताः सन्ति ।

भगवतः महावीरस्य मन्दिरम्[सम्पादयतु]

भगवतः नेमिनाथस्य मन्दिरस्य पूर्वदिशि भगवतः महावीरस्य मन्दिरं स्थितम् अस्ति । रंगमण्डपस्य अन्तश्छदे सूक्ष्मकलाकृतिः दृश्यते । नेमिनाथस्य शोभायात्रायाः, साधूनां, चक्रवर्तिनः भरतस्य, बाहुबलिनः युद्धस्य इत्यादीनि चित्राणि सन्ति । भगवतः महावीरस्य प्रतिमा सार्धद्वि (२.५) हस्तमात्रात्मिका उन्नता वर्तते ।

भगवतः शान्तिनाथस्य मन्दिरम्[सम्पादयतु]

भगवतः शान्तिनाथस्य मन्दिरम् अपि विशालं वर्तते । तस्मिन् मन्दिरे प्रवेशाय त्रीणि द्वाराणि सन्ति । तस्य मन्दिरस्य परितः षोडश देवालयाः स्थिताः सन्ति । मन्दिरस्य कलाकृतयः महावीरस्य मन्दिरम् इव वर्तते ।

भगवतः पार्श्वनाथस्य मन्दिरम्[सम्पादयतु]

इदं मन्दिरं भगवतः नेमिनाथस्य मन्दिरम् इव विशालं, भव्यं च वर्तते । मन्दिरस्य स्तम्भाः, तोरणानि इत्यादीनि वस्तूनि दृष्टव्यानि । मन्दिरे भगवतः पार्श्वनाथस्य सुन्दप्रतिमा स्थापिता अस्ति ।

भगवतः सम्भवनाथस्य मन्दिरम्[सम्पादयतु]

भगवतः नेमिनाथस्य मन्दिरस्य पश्चिमदिशि सम्भवनाथस्य मन्दिरं स्थितम् अस्ति । तत्र विशिष्टकलाकृतयः प्राप्यन्ते । मन्दिरे भगवतः सम्भवनाथस्य विशालप्रतिमा प्रस्थापिता अस्ति ।

राणकपुरम्[सम्पादयतु]

India Udaipur Ranakpur Jain Temple.jpg

भारतस्य राजस्थान-राज्यस्य पाली-मण्डले इदं नगरं स्थितम् अस्ति । जैनधर्मस्य मुख्येषु पञ्चमन्दिरेषु अन्यतमम् अस्ति इदं मन्दिरम् । इदं मन्दिरं चतुर्मुखं वर्तते । मन्दिरे भगवतः आदिनाथस्य दिव्यप्रतिमा विराजमाना अस्ति । नान्दिया-वासिनः सज्जनस्य कुंवरपालस्य पुत्रद्वयम् आसीत् । प्रथमः रत्नाशाह, अपरश्च धरणाशाह इति । द्वौ भ्रातरौ बुद्धिमन्तौ आस्ताम् । तस्मिन् समये कुम्भाराणा-नामकः राजा आसीत् । धरणाशाह इत्याख्यस्य वाक्पटुतां, कुशलतां, बुद्धिचातुर्यं च दृष्ट्वा कुम्भाराणा धरणाशाह इत्याख्याय राज्यस्य मन्त्रिपदं प्रदत्तवान् । समयान्तरे आचार्यसोमसुन्दरसूरिणः उपदेशानुसारं धरणाशाह इत्याख्यस्य जीवनं धार्मिकं जातम् । धरणाशाह इत्याख्यः द्वात्रिंशद्वर्षदेशीयः सन् चतुर्थं ब्रह्मचर्यव्रतम् आचरितम् आसीत् । धरणाशाह तीर्थयात्रां करोति स्म दानं यच्छति स्म च । एकदा स्वप्ने सः “नलिनी गुल्म विमान” इव देवप्रासादस्य रचनां कर्तुं प्रेरणां प्राप्तवान् । तेन कारणेन धरणाशाह इत्याख्येन कुम्भाराणा इत्यस्मात् भूमिः क्रीता । तत्र तेन एकं नगरं निवासितम् । कुम्भाराणा इत्यस्मात् भूमिः प्राप्ता, अतः तस्य नामाधारेण नगरस्य नाम राणकपुरम् इति कृतम् आसीत् ।

तत्र तेन चतुर्मुखमन्दिरं निर्मातुं सङ्कल्पः कृतः । अतः तेन सम्पूर्णराज्यस्य शिल्पिनः आहूताः । तेषु मुण्डार-ग्रामस्य देपा इत्याख्येन शिल्पिना निर्मितं मन्दिरस्य मानचित्रं धरणाशाहेन स्वीकृतम् । अनन्तरं चतुर्मुखमन्दिरं निर्मातुं वि. सं. १४४६ तमे वर्षे मन्दिरस्य निर्माणकार्यम् आरब्धम् । वि. सं. १४९६ तमस्य वर्षस्य फाल्गुन-मासस्य शुक्लपक्षस्य दशम्यां तिथौ आचार्यसोमसुन्दरसुरिणा मन्दिरस्य प्रतिष्ठा कारिता । मन्दिरस्य निर्माणकार्ये पञ्चाशद्वर्षाणि व्यतीतानि । अस्य मन्दिरस्य निर्माणं ४८००० पादावर्तमात्रात्मिकायां भूमौ अभवत् । अस्य मन्दिरस्य औन्नत्यं १०० पादोन्नतम् अस्ति ।

धरणाशाह सप्तभूमात्मकं मन्दिरं निर्मातुम् इच्छति स्म । अतः मन्दिरस्य आधारः अपि सप्तभूमात्मकः कारितः । किन्तु तस्य मृत्युकालः समीपे आसीत् । तेन कारणेन त्रिभूमात्मकं मन्दिरं निर्मापितम् । तदनन्तरम् आचार्यसोमसुन्दरसूरिणा वि. स. १४९६ तमस्य वर्षस्य फाल्गुन-मासस्य कृष्णपक्षस्य दशम्यां तिथौ मन्दिरस्य प्रतिष्ठा कृता । प्रतिष्ठामहोत्सवे बहवः आचार्या, साधवः समीपस्थाः नगरवासिनः च समुपस्थितवन्तः आसन् । तस्य मन्दिरस्य निर्माणकार्ये धरणाशाह इत्याख्येन पञ्चदशकोटिरूप्यकाणि निवेशितानि । तन्मन्दिरं बहुभिः नामभिः प्रसिद्धम् अस्ति । यथा – त्रैलोक्यदीपकः, त्रिभुवनविहारः, नलिनीगुल्मविमानम्, चतुर्मुख प्रासादः, धरणविहारः च इति ।

चतुर्मुखमन्दिरे आहत्य द्वादश शिखराणि सन्ति । तत्र द्विसप्ततिः जिनालयाः सन्ति । मन्दिरस्य परिसरे १४४४ स्तम्भाः, प्रत्येकं दिशि द्वात्रिंशत् तोरणानि, चतुर्दिक्षु चत्वारः विशालमण्डपाः च सन्ति । पञ्चदशशताब्द्यां रणकपुरं समृद्धनगरम् आसीत् । तस्मिन् समये जैनधर्मस्य बहवः जनाः, बहूनि मन्दिराणि च स्थितानि आसन् । किन्तु साम्प्रतं केवलं त्रीणि मन्दिराणि एव सन्ति [१०४]

केसरियाजीतीर्थम्[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य उदयपुर-मण्डले धुलेव-नामकः ग्रामः स्थितः अस्ति । सः ग्रामः एव केसरियातीर्थं कथ्यते । अस्य तीर्थस्य स्थापना चतुर्दशशताब्द्याम् अभवत् । भगवतः ऋषभदेवस्य श्यामवर्णीया, पद्मासनस्था च प्रतिमा विराजमाना अस्ति । सा प्रतिमा मंशापूर्णा अस्ति इति मन्यते । अहमदाबाद-महानगरात् १९२ किलोमीटरमिते, उदयपुर-नगरात् ६६ किलोमीटरमिते च दूरे स्थितम् अस्ति इदं तीर्थम् ।

चतुर्विंशतितीर्थङ्करेषु विंशतितमस्य भगवतः मुनिसुव्रतनाथस्य शासनकाले अस्य मन्दिरस्य प्रतिमा रावणस्य मन्दिरे स्थिता आसीत् । तदा मन्दोदरीरावणौ तस्याः प्रतिमायाः भक्तिपूर्वकं पूजनं कुरुतः स्म । ततः परम् इयं प्रतिमा उज्जैन-नगर्यां स्थिता आसीत् । तत्र मयणासुन्दरीश्रीपालौ अपि भगवतः प्रतिमायाः पूजनं कुरुतः स्म । समयान्तरे इयं प्रतिमा एककिलोमीटरमिते दूरे प्रकटिता जाता ।

केसरियाजीतीर्थे प्रतिवर्षं फाल्गुन-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ उत्सवः आचर्यते । भगवतः विशालशोभायात्रा क्रियते । तस्मिन् महोत्सवे जनाः भगवतः केसरैः पूजां कुर्वन्ति । अस्मिन् तीर्थे द्विपञ्चाशत् जिनालयाः सन्ति । दूरादेव तेषां जिनालयानां शिखराणि दृश्यन्ते [१०५]

जैसलमेरतीर्थम्[सम्पादयतु]

Jain temple at jaisalmer fort.JPG

जैसलमेर-तीर्थं भारतस्य राजस्थान-राज्ये स्थितम् एकं प्राचीनं नगरम् अस्ति । जोधपुर-नगरात् रेलमार्गेण २८७ किलोमीटरमिते, पोकरण-नगरात् ११२ किलोमीटरमिते च दूरे स्थितम् अस्ति । इदं नगरं थर-मरुस्थलस्य समीपे स्थितम् अस्ति । अस्य नगरस्य शिल्पकला, स्थापत्यकला च सर्वत्र प्रसिद्धा अस्ति । ई. स. ११५६ तमे वर्षे यादववंशीयेन राज्ञा जैसलसिंग इत्याख्येन अस्य नगरस्य स्थापना कृता आसीत् । अतः अस्य नगरस्य नाम जैसलमेर इति कृतम् । नगरे दुर्गः अपि स्थितः अस्ति । अयं प्राचीनतमेषु दुर्गेषु अन्यतमः दुर्गः वर्तते । दुर्गं परितः पञ्चदश पादोन्नता पाषाणयुता भीत्तिः अस्ति । दुर्गेऽस्मिन् प्राचीनाः प्रासादाः, जैनमन्दिराणि, वैष्णवमन्दिराणि च सन्ति ।

जैसलमेर-नगरे प्राचीनग्रन्थानां सङ्ग्रहालयः अपि वर्तते । अतः एव इदं नगरं विश्वप्रसिद्धम् अस्ति । तत्र प्रत्येकस्य विषयस्य, प्रत्येकस्याः भाषायाः पुस्तकानि, प्राचीनहस्तलेखितप्रतयः, ग्रन्थाः च सन्ति । केचन ग्रन्थाः स्वर्णाक्षरैः, चित्रैः च सज्जीकृताः सन्ति । तत्र ताडपत्रस्य ग्रन्थाः अपि सन्ति । तेषु ग्रन्थषु एकः ग्रन्थः ३४ इन्चमितः दीर्घः अस्ति । अतः एव इदं नगरं विश्वप्रसिद्धम् अस्ति । जनाः भ्रमणार्थं तत्र गच्छन्ति [१०६]

नागेश्वरतीर्थम्[सम्पादयतु]

तीर्थमिदं भारतस्य राजस्थान-राज्यस्य झालावाड-मण्डलान्तर्गतं स्थितम् अस्ति । आलोट-ग्रामात् ८ किलोमीटर्मितं, चौमहला-ग्रामात् १५ किलोमीटरमिते, रतलाम-नगरात् ९० किलोमीटरमिते, चित्तौडगढ-नगरात् १७० किलोमीटरमिते च दूरे स्थितम् अस्ति इदं नागेश्वरतीर्थम् ।

तत्र चतुर्विंशतितीर्थङ्करेषु अन्यतमस्य भगवतः नागेश्वरपार्श्वनाथस्य नीलवर्णीया प्रतिमा स्थिता अस्ति । तस्याः प्रतिमायाः औन्नत्यं ४२० से.मी. मितम् अस्ति । भगवतः पार्श्वनाथस्य प्रतिमा ११०० वर्षप्राचीना अस्ति इति मन्यते । पुरा तस्मिन् मन्दिरे कोऽपि व्यवस्थापकः नासीत् । केवलम् एकः सन्यासी तत्र निवसति स्म । किन्तु प्रतिमा पूजाविहीना एव आसीत् । अनन्तरम् आचार्यधर्मसागरस्य, आचार्याभयसागरस्य च प्रेरणया जैनसङ्घेन सन्यासिनः तत्तीर्थं प्राप्तम् । अनन्तरं वि. सं. २०२६ तमस्य वर्षस्य वैशाख-मासस्य कृष्णपक्षस्य दशम्यां तिथौ शनिवासरे अष्टादशाभिषेकविधिना भगवतः नागेश्वरपार्श्वनाथस्य पूजा कृता । तत्र भगवतः शान्तिनाथस्य, महावीरस्य च प्रतिमे अपि स्तः । जैनसङ्घेन तीर्थस्य जीर्णोद्धारं कृत्वा आचार्यचन्द्रोदयसूरीश्वरस्य सान्निध्ये वि. सं. २०३७ तमस्य वर्षस्य वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ प्रतिष्ठा कृता । भगवतः प्रतिमायाः आकारेण, पाषाणेन च प्रतिमायाः प्राचीनतायाः ज्ञानं भवति [१०७]

नाकोडातीर्थम्[सम्पादयतु]

भारतस्य राजस्थान-राज्यस्य बाडमेर-मण्डले स्थितम् इदं नाकोडातीर्थम् । इदं स्थलं बालोतरा-रेलस्थानकात् १३ किलोमीटरमिते, जोधपुर-नगरात् ११० किलोमीटरमिते, राणकपुर-नगरात् २३० किलोमीटरमिते, जसोल-ग्रामात् ३ किलोमीटरमिते, मेवानगरात् १ किलोमिटरमिते च दूरे स्थितम् अस्ति । मन्दिरे भगवतः नाकोडापार्श्वनाथस्य ५८ सेण्टीमीटरमिता उन्नता श्यामवर्णीया पद्मासनस्था प्रतिमा अस्ति ।

वि. सं. ९०९ तमे वर्षे इदं नगरं विरमपुरम् इति नाम्ना प्रसिद्धम् आसीत् । तत्काले श्रावकाणां सङ्ख्या अपि अधिका आसीत् । नाकोर-नगरस्य समीपस्थस्य सिणदरी-ग्रामस्य तडागात् इयं प्रतिमा प्राप्ता । वि. सं. १४२९ तमे वर्षे आचार्योदयसूरीश्वरस्य निर्देशानुसारम् अस्याः प्रतिमायाः उत्सवपूर्वकं प्रतिष्ठा कृता । ततः कालात् अस्य तीर्थस्य नाम नाकोडा इति अभवत् । वि. सं. १५११ तमे वर्षे अस्य तीर्थस्य जीर्णोद्धारः अभवत् । तस्मिन् समये भगवतः भैरवस्य प्रतिमा समुद्भूता । आचार्यकीर्तिरत्नसूरिणा तस्याः प्रतिमायाः स्थापना कृता । नाकोडाभैरवः अस्य तीर्थस्य रक्षां करोति, भक्तानां मनोरथान् पूर्णान् करोति च । वि. सं. १५११, १५६४, १६३८, १८६५ तमे वर्षे अस्य तीर्थस्य जीर्णोद्धाराः अभवन् । नाकोडापार्श्वनाथस्य प्रतिमा अद्भूता, चमत्कारिणी च वर्तते । बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति ।

मार्गशीर्ष-मासस्य कृष्णपक्षस्य दशम्यां तिथौ तत्र उत्सवः आचर्यते । उत्सवे भक्तानां सम्मर्दः भवति । भगवतः आदिनाथस्य, शान्तिनाथस्य चापि मन्दिराणि सन्ति । तीर्थस्य अधोगृहे द्वादशशताब्दीतः सप्तदशशताब्दीपर्यन्तस्य प्राचीनाः प्रतिमाः प्राप्यन्ते [१०८]

श्रीकर्णावतीतीर्थम् (अहमदाबाद)[सम्पादयतु]

भारतस्य गुजरात-राज्ये स्थितम् इदं श्रीकर्णावतीतीर्थम् । साम्प्रतम् अहमदाबाद-महानगरम् इति नाम्ना विख्यातम् अस्ति । वि. सं. १४५४ तमे वर्षे अहमदशाह इत्याख्यः राजा आसीत् । तेन साबरमती-नद्याः तटे अहमदाबाद-नगरम् निवासितम् । तस्मिन् समये पाटन-नगरं गुजरात-राज्यस्य राजधानी आसीत् । किन्तु अहमदशाह इत्याख्येन राज्ञा अहमदाबाद-इतीदं नगरं राजधानीत्वेन उद्घोषितम् । वि. सं. १४६८ तमे वर्षे वैशाख-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ पुष्य-नक्षत्रे अहमदाबाद-नगरस्य स्थापना कृता । राज्ञा अहमदशाह इत्याख्येन सर्वप्रथमं भद्रदुर्गं स्थापितम् आसीत् ।

पुरा अस्य नगरस्य विभिन्नानि नामानि आसन् । यथा – दशमशताब्द्याम् आशावल (आशावल्ली), एकादशशताब्द्यां कर्णावतीनगरी चेति नाम्ना प्रसिद्धम् आसीत् । वि. सं. ११३१ तमे वर्षे कर्णावती-नगरी जैनधर्मस्य प्रसिद्धकेन्द्रम् आसीत् । तदा बहुभिः जनैः जैनमन्दिराणि निर्मापितानि आसन् । तदा भगवतः पार्श्वनाथस्य विशालमन्दिरम् अपि आसीत् । उदयनमन्त्रिणा उदयनविहार-नामकस्य मन्दिरस्य निर्माणं कारितम् आसीत् । सान्तुमन्त्रिणा विशालजैनमन्दिरम् निर्मापितम् । पेथडशाह इत्याख्येन मन्त्रिणा ग्रन्थालयस्य स्थापना कृता आसीत् । साम्प्रतम् अपि अहमदाबाद-महानगरे बहूनि जैनमन्दिराणि सन्ति । वि. सं. १७४६ तमे वर्षे अहमदाबाद-नगरे १७८ जैनमन्दिराणि आसन् । तत्र पञ्चाशत्सहस्राधिकं जैनश्रावकाणां गृहाणि अपि आसन् । साम्प्रतं ३०१ जैनमन्दिराणि, ११२ उपाश्रयाः, ४ धर्मशालाः, ४ भोजनालयाः च सन्ति [१०९]

देहली[सम्पादयतु]

Digambar Jain Lal Mandir, Chandni Chowk, Delhi.jpg

साम्प्रतं भारतस्य राजधानी अस्ति देहली-महानगरम् । अस्य महानगरस्य भागद्वयम् अस्ति । देहली-महानगरम्, नूतनदेहली-महानगरं च । इदं महानगरं कलाक्षेत्रे, विद्याक्षेत्रे, व्यवसायक्षेत्रे इत्यादिषु सर्वेषु क्षेत्रेषु प्रगतिशीलम् अस्ति । पुरा पाण्डवैः स्वस्य राजधानीत्वेन इदं नगरं स्थापितम् । तदा “इन्द्रप्रस्थ”-इति नाम प्रदत्तम् । देहली-साम्राज्ये बहुभिः शासकैः शासनं कृतम् । स्वमत्यनुसारं तैः शासकैः नूतनानि नामानि प्रदत्तानि आसन् । यथा – शाहजहाम् इत्याख्येन शासकेन शाहजहांबाद इति नाम प्रदत्तम् आसीत् । किन्तु अन्ते देहली इति नाम एव प्रसिद्धम् अभवत् ।

यदा आङ्ग्लसर्वकारस्य शासनम् आसीत्, तदा आङ्ग्लैः कोलकाता-नगरं राजधानीत्वेन घोषितम् आसीत् । समयान्तरे ‘ज्यॉर्ज् पञ्चम’ इत्याख्येन आङ्ग्लशासकेन ई. स.१९११ तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के देहली-नगरं राजधानीत्वेन कृतम् । ई. स. १९७४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के देहली-महानगरं स्वतन्त्रभारतस्य राजधानी अभवत् ।

देहली-महानगरे सप्त जैनमन्दिराणि सन्ति ।

  1. “किनारी बाजार” इत्यत्र नवघराक्षेत्रे देहली-महानगरस्य बृहत्तमं जैनमन्दिरं वर्तते । तस्मिन् भगवतः सुमतिनाथस्य प्रतिमा प्रस्थापिता अस्ति । भगवतः वासुपूज्यस्य, शान्तिनाथस्य, सुपार्श्वनाथस्य, गौतमस्वामिनः, चक्रेश्वरीदेव्याः च मूर्तयः अपि मन्दिरे स्थिताः सन्ति । द्वितीये खण्डे भगवतः महावीरस्वामिनः, स्फटिकस्य नव मूर्तयः, द्वे मूर्ती श्यामवर्णीये, द्वे मूर्ती श्वेतवर्णीये च सन्ति । तृतीयखण्डे भगवतः पार्श्वनाथस्य श्यामवर्णीया प्रतिमा अस्ति । चतुर्थखण्डे तिस्रः युग्मपादुकाः स्थिताः सन्ति ।
  2. चेलीपुरी-क्षेत्रे भगवतः सम्भवनाथस्य मन्दिरं स्थितम् अस्ति । तस्मिन् मन्दिरे पाषाणस्य अष्टमूर्तयः, धातोः एकोनविंशतिः मूर्तयः च सन्ति । मन्दिरस्य भीत्तौ, निश्छदि च कलाकृतयः अपि दृश्यन्ते ।
  3. अनारकली-क्षेत्रे लाला हजारीमल इत्याख्यस्य गृहम् अस्ति । तद्गृहमेव जैनमन्दिरं विद्यते । तत्र भगवतः शान्तिनाथस्य प्रतिमा वर्तते । इतः परं स्फटिकस्य एकादश मूर्तयः अपि सन्ति ।
  4. चीराखाना-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं वर्तते । तस्मिन् मन्दिरे गौतमस्वामिनः अपि मूर्तिः स्थिता अस्ति ।
  5. जोगीवाडा-क्षेत्रे ‘सरदारसिंग झवेरी’ इत्यस्य गृहं जैनमन्दिरं विद्यते । तत्र भगवतः शान्तिनाथस्य प्रतिमा स्थिता अस्ति ।
  6. हैदरकली-क्षेत्रे ‘लाला कनुजी माथुमल’ इत्याख्यस्य गृहम् अस्ति । तद्गृहमेव जैनमन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य धातोः प्रतिमा स्थिता अस्ति । इतः परम् अपि स्फटिकस्य मूर्तयः, नीलवर्णीयाः मूर्तयः च सन्ति ।
  7. कुतुबमिनार-स्थलस्य समीपे दादावाडी इति स्थलम् अस्ति । मन्दिरे पूजनाय व्यवस्था अस्ति । तत्र भगवतः नेमिनाथस्य, ऋषभदेवस्य च जैनमन्दिरे स्तः ।

वि. सं. २०४५ तमस्य वर्षस्य माघ-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ, ई. स. १९८९ तमस्य वर्षस्य फरवरी-मासस्य दशमे दिनाङ्के (१०/०२/१९८९) अस्य मन्दिरस्य प्रतिष्ठा अभवत् । अयं चतुर्मुखप्रासादः अस्ति । तस्मिन् प्रासादे भगवतः वासुपूज्यस्य, पार्श्वनाथस्य, ऋषभदेवस्य, मुनि सुव्रतनाथस्य च ३५ इन्च्-मात्रात्मिकाः प्रतिमाः सन्ति । मन्दिरे पद्मावतीदेव्याः प्रतिमा अपि विद्यते । देहली-महानगरे बहूनि वीक्षणीयस्थलानि सन्ति । यथा – रक्तदुर्गं (Red Fort), जन्तरमन्तर, संसद्भवनम्, केन्द्रीयसचिवालयः, राष्ट्रपतिभवनम्, कुतुबमिनार, बिरला हाउस, बिरला-मन्दिर, अशोकस्तम्भः, प्राचीनदुर्गं, प्राणिसङ्ग्रहालयः, राष्ट्रीयसङ्ग्रहालयः, रेलसङ्ग्रहस्थानम्, राष्ट्रीयकलास्थलं, भारतद्वारं, लोहस्तम्भः, शान्तिवनं, विजयघट्टः च [११०]

आग्रा[सम्पादयतु]

आग्रा-नगरं भारतस्य उत्तरप्रदेश-राज्ये स्थितम् एकम् ऐतिहासिकस्थलं वर्तते । इदं नगरं यमुनानद्याः तटे स्थितम् अस्ति । ‘ताजमहल’ नामकाय भवनाय इदं नगरं विश्वविख्यातम् अस्ति । यदा मुगलशासकः अकबर इत्याख्यः आग्रा-नगरस्य राजा आसीत्, तदा तेन जैनाचार्यस्य श्रीहीरविजयसूरिणः विद्वत्ता श्रुता आसीत् । अतः अकबर इत्याख्यः तस्य जैनाचार्यस्य दर्शनं कर्तुम् ऐच्छत् । अकबर-इत्याख्येन राज्ञा जैनाचार्याय फतेहपुर सिक्री-नगरम् आगन्तुं पत्रं प्रेषितम् । तदा आचार्येण सङ्घस्य अनुमतिं प्राप्य शिष्यैः सह विहारः कृतः । किञ्चित्समयान्तरे आचार्यः फतेहपुर सिक्रि-नगरं प्राप्तवान् । सः वि. सं. १६३९ तमस्य वर्षस्य ज्येष्ठ-मासे आग्रा-नगरं प्राप्तवान् । आग्रानगरस्य उपाश्रये श्रीहीरविजयसूरिणा विश्रामः कृतः । अकबर आचार्यं मेलितुम् उपाश्रयं गच्छति स्म ।

श्रीहीरविजयसूरिणा आग्रा-नगरे बहूनां जैनमन्दिराणां प्रतिष्ठा कृता । आग्रा-नगरे मानसिंह इत्याख्यः सज्जनः आसीत् । तेन ‘रोशन मोहल्ला’ नामके क्षेत्रे पार्श्वनाथस्य भगवतः मन्दिरं निर्मापितम् आसीत् । वि. सं. १६३९ तमे वर्षे तस्य मन्दिरस्य प्रतिष्ठा अपि श्रीहीरविजयसूरिणा एव कृता आसीत् ।

राजा अकबर जैनाचार्यात् प्रभावितः जातः । अतः अकबर-राज्ञा पर्युषणपर्वणि श्रावण-मासस्य कृष्णपक्षस्य दशमीतिथेः भाद्रपद-मासस्य शुक्लपक्षस्य षष्ठीतिथिपर्यन्तं जीवहिंसा प्रतिबन्धिता । अकबर-राज्ञा राज्यसभायां श्रीहीरविजयसूरिः “जगद्गुरुः” इति उपाधिना सम्मानितः । अकबर-राज्ञा राज्यस्य ग्रन्थभण्डारः अपि आचार्याय प्रदत्तः । तस्य ग्रन्थभण्डारस्य “अकबरीया ग्रन्थ भण्डार” इति नाम प्रदत्तम् । मुगलशासकस्य ‘जहांगीर’ इत्याख्यस्य मन्त्रिणा ‘कुंवरपाल लेढा’ इत्याख्येन भगवतः श्रेयांसनाथस्य भव्यमन्दिरम् अपि निर्मापितम् आसीत् । आचार्यश्रीहीरविजयसूरिणः शिष्याः जहांगीर, शाहजहाम् इत्येतयोः धर्मगुरुत्वेन आसन् ।

आग्रा-नगरे एकादशजैनमन्दिराणि सन्ति । तद्यथा – प्रथमं रोशनमोहल्ला-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं वर्तते । द्वितीयं रोशनमोहल्ला-क्षेत्रे भगवतः सिमन्धरस्वामिनः मन्दिरं वर्तते । तृतीयं नमकमंडी-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं वर्तते । चतुर्थं हीगकीमंडी-क्षेत्रे भगवतः नेमिनाथस्य मन्दिरं विद्यते । पञ्चमं मोतीकटरा-क्षेत्रे सूरप्रभस्वामिनः मन्दिरम् अस्ति । षष्ठं मोतीकटरा-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । सप्तमं मोतीकटरा-क्षेत्रे भगवतः वासुपूज्यस्वामिनः मन्दिरं विद्यते । अष्टमं मोतीकटरा-क्षेत्रे भगवतः आदीश्वरस्य मन्दिरं विद्यते । नवमं बेलनगञ्ज-क्षेत्रे भगवतः सुपार्श्वनाथस्य मन्दिरम् अस्ति । दशमं दादावाडी-क्षेत्रे भगवतः महावीरस्वामिनः मन्दिरं स्थितम् अस्ति । एकादशं बेलन-गञ्जक्षेत्रे भगवतः आदीश्वरस्य मन्दिरं विद्यते । इतः परम् अपि रोशनमोहल्ला-क्षेत्रात् ३ किलोमीटरमिते दूरे आचार्यश्रीहीरविजयसूरिणः समाधिः अपि वर्तते [१११]

बुद्धगया[सम्पादयतु]

राजगृह-नगरात् ६९ किलोमीटरमिते दूरे स्थितम् अस्ति बुद्धगया-तीर्थम् । गया-स्थलात् बुद्धगया-तीर्थं १२ किलोमीटरमिते दूरे स्थितमस्ति । बुद्धगया-तीर्थं निरञ्जन-नद्याः तटे स्थितम् अस्ति । तस्याः नद्याः अपरं नाम फाल्गु अपि अस्ति । गौतमबुद्धेन तत्रैव तपस्या कृता आसीत् । बोधीवृक्षस्य अधः एव तेन सम्पूर्णज्ञानं प्राप्तम् । पिप्पलवृक्षः बोधीवृक्षत्वेन गण्यते । तत्र महाबोधी-मन्दिरं वर्तते । तस्य मन्दिरस्य औन्नत्यं १८० पादमितम् अस्ति । मन्दिरम् इदं द्विभूमम् अस्ति । तस्य मन्दिरस्य अधोगृहे भगवतः बुद्धस्य विशालप्रतिमा स्थिता अस्ति । मन्दिरस्य द्वितीये भूमे भगवतः बुद्धस्य मातुः मायादेव्याः प्रतिमा अपि विद्यमाना अस्ति । भगवतः बुद्धस्य मूलमन्दिरं प्राचीनतमं वर्तते । “ई. स. २८९ पूर्वम् अस्य मन्दिरस्य निर्माणम् अभवत्” इति मन्यते । मन्दिरस्यास्य जीर्णोद्धाराः अपि बहवः कृताः । मन्दिरस्य पृष्ठभागे बोधीवृक्षः अपि अस्ति । नेपाल-देशेन, बर्मा-देशेन, जापान-देशेन, थाईलेण्ड्-देशेन चेत्यादिभिः देशैः बुद्धगया-तीर्थे भगवतः बुद्धस्य मन्दिराणि निर्मापितानि सन्ति[११२]

श्रीगुणीयाजीतीर्थम्[सम्पादयतु]

भारतस्य बिहार-राज्यस्य नालन्दा-मण्डले स्थितमिदं पवित्रं जैनतीर्थं श्रीगुणीयाजीतीर्थम् । इदं स्थलं गौतमस्वामिनः केवलज्ञानभूमिः अस्ति । अस्य तीर्थस्य समीपे नवादा-रेलस्थानकं वर्तते । नवादा-रेलस्थानकात् ३ किलोमीटरमिते, पावापुरी-तीर्थात् २० किलोमीटरमिते च दूरे स्थितम् अस्ति इदं तीर्थम् । तत्र गुणशील-नामकं वनम् आसीत् । अतः एव तस्य नाम गुणीयाजी अभवत् । भगवता महावीरेण बहुभ्यः जनेभ्यः श्रमणधर्मस्य दीक्षा प्रदत्ता ।

गौतमस्वामिनः मनसि महावीराय अत्यन्तम् आत्मीयता आसीत् । अतः तेन कारणेन गौतमस्वामी केवलज्ञानं प्राप्तुम् असमर्थः आसीत् । एकदा महावीरेण कस्मैचित् ब्राह्मणाय प्रतिबोधयितुं गौतमस्वामी प्रेषितः । गौतमस्वामी यदा पुनः आगच्छन् आसीत्, तदा मार्गे एव महावीरः निर्वाणस्य समाचारः प्राप्तः । तत्रैव लघुबाल इव रुदन् आसीत् । तस्मिन् समये कार्त्तिक-मासस्य शुक्लपक्षस्य प्रतिपत्तिथौ तस्मै केवलज्ञानम् अभवत् । तत्र एकः सरोवरः अपि अस्ति । सरोवरे जलमन्दिरं स्थितम् अस्ति । तस्मिन् जलमन्दिरे भगवतः महावीरस्वामिनः प्रतिमा स्थिता अस्ति । मन्दिरे भगवतः महावीरस्य, गौतमस्वामिनः च चरणपादुकाः अपि सन्ति । मन्दिरपरिसरे चतुर्दिक्षु लघुमन्दिराणि सन्ति । तेषु प्रथमे मन्दिरे विंशतेः तीर्थङ्कराणां श्यामवर्णीयाः चरणपादुकाः सन्ति । द्वितीये मन्दिरे भगवतः नेमिनाथस्य चरणपादुका अस्ति । तृतीये भगवतः ऋषभदेवस्य चरणपादुका, चतुर्थे भगवतः वासुपूज्यस्य चरणपादुका च अस्ति [११३]

क्षत्रियकुण्डतीर्थं (लछवाड)[सम्पादयतु]

इदं तीर्थस्थलं भगवतः महावीरस्य कल्याणकत्रयस्य (च्यवनं, जन्म, दीक्षा च) भूमिः वर्तते । भगवता स्वस्य जीवनस्य त्रिंशद्वर्षाणि अत्रैव यापितानि । भारतस्य बिहार-राज्यस्य मुङ्गेर-मण्डले इदं तीर्थं स्थितम् अस्ति । लछवाड-ग्रामः सिङ्कदरा-ग्रामात् १० किलोमीटरमिते, गुणीयाजीतीर्थात् ५६ किलोमीटरमिते, पावापुरी-तीर्थात् ८१ किलोमीटरमिते च दूरे स्थितम् अस्ति । लछवाड-ग्रामात् क्षत्रियकुण्ड-तीर्थं समीपे एव अस्ति । अतः क्षत्रियकुण्ड-तीर्थं लछवाड इति नाम्ना एव प्रसिद्धम् अस्ति ।

लछवाडा-ग्रामे भगवतः महावीरस्य प्राचीनमन्दिरम् अपि स्थितम् अस्ति । तस्मिन् मन्दिरे पाषाणस्य एका मूर्तिः, धातुनिर्मिते द्वे मूर्ती च स्तः । लछवाड-ग्रामात् क्षत्रियकुण्डतीर्थं ५ किलोमीटरमिते दूरे अस्ति । तत्र भगवतः च्यवनकल्याणकस्य, जन्मकल्याणकस्य, दीक्षाकल्याणकस्य च मन्दिराणि सन्ति । तेषु मन्दिरेषु अपि भगवतः महावीरस्य प्रतिमाः प्रस्थापिताः सन्ति । इदं तीर्थं पर्वतस्य समीपे वर्तते । लघुजलप्रपाताः अपि तत्र सन्ति । महावीरस्य भ्रात्रा नन्दिवर्धनेन महावीरस्य ६० से.मी. मात्रात्मिका प्रतिमा निर्मापिता आसीत् । सा प्रतिमा मन्दिरे प्रस्थापिता अस्ति । समीपे बहूनि प्राचीनस्थलानि सन्ति । यथा – कुमारग्रामः, माहणकुण्डग्रामः, ब्राह्मणकुण्डग्रामः च [११४]

जियागञ्जतीर्थम्[सम्पादयतु]

भारतस्य पश्चिमबङ्गाल-राज्यस्य कोलकाता-मण्डले जियागञ्ज-तीर्थं स्थितमस्ति । जियागञ्ज भारतस्य अन्तिमं स्थलं वर्तते । भारतस्य सीमायां स्थितम् अस्ति इदं स्थलम् । मुर्शीदाबाद-नगरात् ४ किलोमीटर्मितं दूरे स्थितम् अस्ति जियागञ्जतीर्थम् । इदं तीर्थं गङ्गा-नद्याः तटे स्थितम् अस्ति । तत्स्थलं जैनधर्मस्य धार्मिकस्थलेषु अन्यतमम् अस्ति । तत्र भगवतः सम्भवनाथस्य, भगवतः विमलनाथस्य, भगवतः आदिनाथस्य च मन्दिरं विद्यते । भगवतः वासुपूज्यस्वामिनः अपि मन्दिरम् अस्ति । तस्मिन् मन्दिरे बह्व्यः कलाकृतयः सन्ति । जियागञ्ज-तीर्थे जनसेवायै धर्मशाला, उपाश्रयः, भोजनशाला चापि अस्ति [११५]

महिमापुर-तीर्थम्[सम्पादयतु]

महिमापुरं भारतस्य पश्चिम-बङ्गाल-राज्यस्य कोलकाता-मण्डले स्थितम् अस्ति । जियागञ्ज-रेलस्थानकात् इदं तीर्थं ४ किलोमीटरमिते दूरे अस्ति । तत्र महेताबराय-इत्याख्यः सज्जनः निवसति स्म । तस्य पूर्वजैः जनकल्याणाय कार्याणि कृतानि आसन् । ते सर्वे दानिनः आसन् । तैः महिमापुर-तीर्थे जैनमन्दिराणि अपि निर्मापितानि आसन् । मन्दिरेषु भगवतः पार्श्वनाथस्य, भगवतः सुमतिनाथस्य, भगवतः नेमिनाथस्य च श्यामवर्णीयाः प्रतिमाः सन्ति । तीर्थस्य समीपस्थे किरतबाग-क्षेत्रे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य पाषाणनिर्मिता प्रतिमा अस्ति [११६]

काठगोला-तीर्थम्[सम्पादयतु]

भारते स्थितस्य पश्चिमबङ्गाल-राज्यस्य जैनपञ्चतीर्थेषु काठगोला-तीर्थम् अन्यतमं वर्तते । इदं तीर्थं जियागञ्ज-तीर्थात् ३ किलोमीटरमिते दूरे स्थितम् अस्ति । विशालोद्यानस्य मध्ये इदं तीर्थं स्थितम् अस्ति । भगवतः आदिनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः आदिनाथस्य भव्यप्रतिमा प्रस्थापिता अस्ति । उद्याने विविधकलाभिः वस्तूनि निर्मापितानि सन्ति । इदं मन्दिरं महेताबकुंवरबा इत्यास्याः प्रेरणया लक्ष्मीपतिसिंहेन निर्मापितम् आसीत् । मन्दिरे रत्नयुताः, रजतयुताः, स्वर्णयुताः च प्रतिमाः सन्ति । उद्याने आचार्यजिनदतसूरिणः, जिनकुशलसूरिणः च चरनपादुकाः विद्यमानाः सन्ति । जैनधर्मस्य प्राचीनतमं मन्दिरम् इदं विद्यते [११७]

अजीमगञ्जतीर्थम्[सम्पादयतु]

भारतस्य पश्चिमबङ्गाल-राज्यस्य कोलकाता-मण्डले इदं तीर्थस्थलं विद्यते । इदं तीर्थं पश्चिमबङ्गाल-राज्यस्य जैनपञ्चतीर्थेषु अन्यतमं वर्तते । गङ्गानद्यास्तटे स्थितम् अस्ति इदं जैनतीर्थम् । गङ्गानद्याः द्वयोः तटयोः जियागञ्जतीर्थम्, अजीमगञ्जतीर्थं च अस्ति । हावडा-नगरात् रेलमार्गेण अपि अजीमगञ्जप्राप्तुं शक्यते । तत्रत्यैः सज्जनैः, भूपतिभिश्च बहूनि मन्दिराणि निर्मापितानि आसन् । तैः तीर्थाणां जीर्णोद्धाराः अपि कारिताः ।

अजीमगञ्जतीर्थे मुख्यानि दश मन्दिराणि सन्ति । तानि यथा – प्रथमं सुमतिनाथस्य मन्दिरम् अस्ति । द्वितीयं भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य ३६ से. मी. मात्रात्मिका प्रतिमा विद्यमाना अस्ति । तृतीयं भगवतः नेमिनाथस्य मन्दिरं विद्यते । चतुर्थं सुमतिनाथभगवतः मन्दिरं स्थितम् अस्ति । पञ्चमं पार्श्वनाथभगवतः मन्दिरम् अस्ति । षष्ठं पद्मप्रभस्वामिनः मन्दिरं स्थितम् अस्ति । सप्तमं सम्भवनाथस्य मन्दिरम् अस्ति । तस्मिन् मन्दिरे भगवतः सम्भवनाथस्य प्रतिमा भव्या अस्ति । तत्र भगवतः मल्लिनाथस्य हरितवर्णीया प्रतिमा अपि अस्ति । अष्टमं श्यामवर्णीयस्य भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । नवमं भगवतः महावीरस्य मन्दिरम् अस्ति । दशमं भगवतः शान्तिनाथस्य मन्दिरं स्थितमस्ति [११८]

कोलकाता[सम्पादयतु]

Calcutta Jain Temple 2.JPG

भारतस्य पश्चिमबङ्गाल-राज्ये कोलकाता-महानगरं स्थितम् अस्ति । विश्वस्मिन् इदं नगरं बहुप्रसिद्धं वर्तते । देहली-महानगरात् इदं नगरं १४७४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं विश्वस्य बृहत्तमेषु महानगरेषु अन्यतमं वर्तते । अस्य नगरस्य जनसङ्ख्या सर्वाधिका अस्ति । ई. स. १९११ तमवर्षपर्यन्तं कोलकाता-महानगरं ब्रिटिश्-सर्वकारसमये भारतस्य राजधानी आसीत् ।

कोलकाता-महानगरे बहूनि जैनमन्दिराणि सन्ति । तानि – प्रथमं तुलापटी-क्षेत्रे भगव्तः शान्तिनाथस्य जिनालयः अस्ति । तस्मिन् जिनालये भगवतः आदिनाथस्य प्रतिमा प्रस्थापिता अस्ति । द्वितीयं धर्मतल्ला-क्षेत्रे बाबुसीतापचन्द इत्यस्य गृहम् एव जैनमन्दिरम् अस्ति । तत्र भगवतः शान्तिनाथस्य, भगवतः आदिनाथस्य च रत्नमयी प्रतिमा अस्ति । अपरं च प्राचीनग्रन्थानां सङ्ग्रहः अपि अस्ति । तृतीयं केनीगस्ट्रीट्-क्षेत्रे भगवतः महावीरस्य, भगवतः आदिनाथस्य, भगवतः शान्तिनाथस्य च प्रतिमाः सन्ति । चतुर्थं माणेकतल्ला-क्षेत्रे वि. सं ‘गणेशीलाल कपूरचन्द’ इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । पञ्चमं माणेकतल्ला-क्षेत्रे वि. सं. १९२४ तमस्य वर्षस्य ‘सुखलाल झवेरी’ इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । षष्ठम् ‘अपरसरक्युलर्’-क्षेत्रे वि. सं. १९२३ तमस्य वर्षस्य “बाबु रायबद्रीदास” इत्याख्येन निर्मितं जैनमन्दिरं विद्यते । कोलकाता-महानगरस्थेषु जैनमन्दिरेषु इदं मन्दिरम् अद्भुतं वर्तते । तस्मिन् मन्दिरे भव्यकलाकृतयः सन्ति । आग्रा-नगरस्य ‘रोशनमोहल्ला’-क्षेत्रस्य प्राचीनमन्दिरस्य अधोगृहात् भगवतः शीतलनाथस्य ७० से. मी. उन्नता प्रतिमा प्राप्ता । सा एव प्रतिमा कोलकाता-महानगरे आनीय प्रस्थापिता । सप्तमं राय बद्रीदास इत्याख्यस्य मन्दिरस्य समक्षम् एव भगवतः चन्द्रप्रभस्वामिनः मन्दिरं विद्यते । अष्टमं राय बद्रीदास इत्याख्यस्य मन्दिरस्य उद्यानस्य समक्षं भगवतः महावीरस्य मन्दिरम अस्ति । तत्र तडागः, धर्मशाला च वर्तते । नवमं ‘बडा बाजार’-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं विद्यते । दशमं ‘बरतोला स्ट्रीट्’-क्षेत्रे ‘हीरालाल पन्नालाल’ इत्याख्यस्य गृहे एव केशरियाभगवतः मन्दिरं स्थितमस्ति । एकादशं शीखहरपाडा-क्षेत्रे ‘हीरालाल मुकीम’ इत्याख्यस्य गृहे भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । द्वादशं ‘मुर्गीहट्’-क्षेत्रे माधवलाल इत्याख्यस्य गृहं भगवतः सम्भवनाथस्य मन्दिरम् अस्ति । त्रयोदशं भवानीपुरे अपि जैनमन्दिरं विद्यते । चतुर्दशं बेलगछिया-क्षेत्रे दिगम्बरसम्प्रदायस्य भगवतः पार्श्वनाथस्य भव्यमन्दिरं स्थितम् अस्ति[११९]

अष्टापदतीर्थम्[सम्पादयतु]

अष्टापदतीर्थं जैनतीर्थेषु अन्यतमं वर्तते । तत्र भगवता ऋषभदेवेन पोष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अनशनं कृत्वा बहुभिः मुनिभिः सह निर्वाणं प्राप्तम् आसीत् । भगवतः ऋषभदेवस्य पुत्रेण भरतचक्रवर्तिना तत्र रत्नपीठं निर्मापितम् । तस्योपरि सुवर्णमन्दिरं निर्मापितम् । मन्दिरे भगवतः ऋषभदेवस्य प्रतिमा प्रस्थापिता । तस्य मन्दिरस्य नाम ‘सिंहनिषधा’ इति दत्तम् । तत्र स्तुपत्रयं निर्मापितम् आसीत् ।

जिनप्रभसूरिणा विविधतीर्थकल्पे प्रदत्तम् अस्ति यत् अयोध्या-नगर्याः द्वादशयोजनदूरे कैलाश-नामकः पर्वतः स्थितः अस्ति, तदेव अष्टापदतीर्थम् अस्ति । सः पर्वतः अष्टयोजनोन्नतः विद्यते । तत्र पाषाणाः श्वेतवर्णीयाः सन्ति । अतः सः पर्वतः धवलगिरिः इति नाम्ना अपि प्रसिद्धम् अस्ति । अष्टापद-तीथे रावण-मन्दोदरीभ्यां कृतानां भक्तिसङ्गीतनाटकानाम् अपि उल्लेखः प्राप्यते [१२०]

श्री अम्बिकादेवी-तीर्थम्[सम्पादयतु]

पुरा सौराष्ट्र-देशे रैवतगिरिः आसीत् । तस्य दक्षिणदिशि कुबेर-नामकं नगरं स्थितम् आसीत् । तस्मिन् नगरे देवभट्ट-नामकः ब्राह्मणः निवसति स्म । देवल-नामिका तस्य भार्या आसीत् । देवभट्टस्य सोमभट्ट-नामकः पुत्रः आसीत् । यदा सोमभट्टः विवाहयोग्यः अभवत्, तदा तस्य विवाहम् अम्बिका-नामिकया कन्यया सह अकारयत् । देवभट्टः जैनधर्मानुयायी आसीत् । किन्तु यदा सः मृतः जातः, तदा तस्य गृहे जैनधर्मस्य अपि नाशः अभवत् । अनन्तरं देवभट्टस्य कौटुम्बिकाः यदा श्राद्धं भवति स्म, तदा काकेभ्यः पिण्डं यच्छन्ति स्म । एकदा श्राद्धदिने विविधानि व्यञ्जनानि निर्मितानि । तस्मिन् दिवसे केचन साधवः तत्र समागताः । साधून् दृष्ट्वा अम्बिका अतिप्रसन्ना जाता । तया भावपूर्वकं सर्वेभ्यः साधुभ्यः भोजनं कारितम् । तेन कारणेन अम्बिकायाः मनसि प्रसन्नता समुद्भूता । तस्मात् कारणात् अम्बिकया बहुपुण्यम् उपार्जितम् । किन्तु यदा अम्बिकायाः श्वश्रूः, पतिश्च तस्याः खिन्नौ अभवताम् । अनन्तरम् ताभ्याम् अम्बिका ताडयित्वा निष्कासिता । अम्बिका स्वस्य पुत्रद्वयेन सह गृहात् निर्गतवती । सा दानं प्राप्तुं रैवतगिरिं प्रति गच्छन्ती आसीत् । मार्गे तस्याः पुत्रौ बुभुक्षया, पिपासया च पीडितौ आस्ताम् । तदैव मार्गे अम्बिकया आम्रवृक्षः, सरोवरश्च दृष्टः । आम्रफलानि भुंक्त्वा, जलं च पीत्वा तैः वृक्षस्याधः एव विश्रामः कृतः ।

अम्बिकां गृहात् निष्कास्य देवल यदा भोजनं पक्तुं भोजनशालां प्राविशत्, तदा भोजनशालायां तया स्वर्णमयानि पात्राणि दृष्टानि । तद्दृष्ट्वा सा आश्चर्यम् अन्वभवत् । त्वरितमेव तया अम्बिकां पुनः आनेतुं सोमभट्टाय आदेशः प्रदत्तः । सोमभट्टः अम्बिकामानेतुं धावितः । किन्तु अम्बिका विचारितवती यत् – “सोमभट्टः ताडयितुम् आवाहयति” इति । अतः सा पुत्रौ नीत्वा कूपे पतिता । तेन तेषां मृत्युः अभवत् । सोमभट्टः अपि कूपे पतितवान् । तस्यापि मृत्युः अभवत् । मरणान्तरम् अम्बिका देवीस्वरूपेण समुद्भूता । सोमभट्टः अम्बिकादेव्याः वाहनस्वरूपेण सिंहस्वरूपेण समुद्भूतः । अतः सा अम्बिकादेवीत्वेन तत्र स्थिता । साम्प्रतं जनाः तत्र दर्शनार्थं गच्छन्ति [१२१]

तालध्वजगिरि (तलाजा)[सम्पादयतु]

Jain Temple at Talaja.JPG

भारतस्य गुजरात-राज्यस्य भावनगर-मण्डले इदं तालध्वजगिरितीर्थं स्थितम् अस्ति । तलाजी-नद्याः, शत्रुञ्जीनद्याः च तटे तलाजा-ग्रामः स्थितः अस्ति । सिद्धाचलस्य पञ्चतीर्थानि सन्ति । तानि - १ तलाजा. २ महुवा, ३ दाठा, ४ भावनगरं, ५ घोघा च । इदं तीर्थम् अपि अन्यतमं वर्तते । गुजरात-राज्यस्य नरसिंह महेता इत्याख्यस्य जन्मभूमिः अस्ति तलाजा-ग्रामः । तीर्थमिदं शत्रुञ्जयगिरिराजस्य शिखरत्वेन मन्यते । अस्य पर्वतस्य औन्नत्यं ३२० पादोन्नतं वर्तते । इदं तीर्थम् अतीव प्राचीनं मन्यते । चतुर्विंशतितीर्थङ्करेषु भगवतः ऋषभदेवस्य ज्येष्ठपुत्रः चक्रवर्ती भरतः यात्रायै गतवान् आसीत् । तेन तत्र मन्दिरं निर्मापितम् आसीत् ।

चीनदेशीयः ह्वेनसाङ्ग्-नामकः यात्रिकः यदा भारतभ्रमणाय आगतवान् आसीत्, तदा सः तालध्वजगिरिम् अपि गतवान् । तेन स्वस्य टिप्पणीपुस्तिकायाम् अपि अस्य तीर्थस्य उल्लेखः कृतः । द्वादशशताब्द्यां तत्र कुमारपालेन मन्दिराणि निर्मापितानि आसन् । अपि च त्रयोदशशताब्द्यां वस्तुपालत्तेजपालाभ्यां भगवतः आदिनाथस्य मन्दिरं निर्मापितम् आसीत् । वि. सं. १८७२ तमस्य वर्षस्य वैशाख-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ अस्य तीर्थस्य अन्तिमः उद्धारः अभवत् । अस्य पर्वतस्य पृष्ठभागे षड्त्रिंशत् गुहाः, स्तम्भाः च सन्ति । इमाः गुहाः राज्ञः अशोकस्य शासनकाले बौद्धधर्मस्य प्रचारार्थं बौद्धसाधुभ्यः निवासाय निर्मापिताः । बौद्धसाधवः बौद्धधर्मस्य प्रचारार्थम् एकोनविंशति (१९) वर्षाणि यावत् न्यवसन् ।

पर्वते गुरुमन्दिरम् अपि स्थितम् अस्ति । तस्मिन् मन्दिरे गौतमस्वामिनः, सुधर्मास्वामिनः, जम्बूस्वामिनः, हेमचन्द्राचार्यस्य, कुमारपालस्य इत्यादीनां मूर्तयः सन्ति । तलाजा-ग्रामे मन्दिरद्वयं वर्तते । तयोः मन्दिरयोः भगवतः शान्तिनाथस्य, भगवतः मल्लिनाथस्य च प्रतिमा अस्ति । ग्रामे धर्मशाला, भोजनशाला, उपाश्रयाः चापि सन्ति [१२२]

भावनगरम्[सम्पादयतु]

भारतस्य गुजरात-राज्ये भावनगरं विद्यते । पुरा अस्य नाम वडवा इति आसीत् । किन्तु वि. सं. १७७९ तमे वर्षे भावसिंह इत्याख्यः राजा आसीत् । तेन वि. सं. १७७९ तमस्य वर्षस्य अक्षयतृतीयायां तिथौ भावनगर-नामकं नगरं निवासितम् । सिन्धुतटे स्थितम् इदं भावनगरम् । इदं नगरं धार्मिकप्रवृत्तेः केन्द्रम् अस्ति । भावनगरे बहवः जैनधर्मानुयायिनः सन्ति । भावनगरस्य मध्यभागे भगवतः आदिनाथस्य भव्यमन्दिरं स्थितम् अस्ति । भावनगरे चतुर्दशाधिकानि जैनमन्दिराणि सन्ति । भावनगरात् बहिः अपि भगवतः महावीरस्य सुन्दरं मन्दिरं विद्यमानम् अस्ति । तस्मिन् नगरे जैनधर्मस्य प्रचाराय बह्व्यः संस्थाः सन्ति । ताः - श्री जैनधर्म प्रचारक सभा, श्री आत्मानन्दजैन भुवन पुस्तकालयः, यशोविजयः ग्रन्थमाला, जैनकन्याशाला, जैनचिकित्सालयः, जैनबोर्ङिङ्ग्, जैनभोजनालयः, जैनधर्मशाला च इत्यादयः । पुनश्च जैनधर्मप्रचाराय जैनधर्मप्रकाशः, आत्मानन्दप्रकाशः, जैन इत्यादयः मासिकसाप्ताहिक्यः अपि प्रकाशयन्ते । अहमदाबाद-नगरात् रेलयानेन भावनगरं प्राप्तुं शक्यते [१२३]

सावत्थीतीर्थम् (बावळा)[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य अहमदाबाद-मण्डले स्थितम् अस्ति । अहमदाबाद-मण्डले बावला-ग्रामः विद्यते । सावत्थीतीर्थं बावळा-ग्रामात् ४ किलोमीटरमिते, अहमदाबाद-नगरात् ३९ किलोमीटरमिते च दूरे अस्ति । इदं मन्दिरं २०० पाददीर्घं, २०० पादविस्तृतं, १०८ पादोन्नतं च भविष्यति । भगवतः सम्भवनाथस्य मुख्यजिनालयः अस्ति । तस्य मन्दिरस्य गर्भगृहं २१ चतुरस्रपादमितं वर्तते । तस्मिन् गर्भगृहे चतुर्विंशतितीथङ्करेषु तृतीयतीर्थङ्करस्य भगवतः सम्भवनाथस्य ५१ इन्चपरिमिता उन्नता प्रतिमा वर्तते । तत्र षड्महाधरप्रासादाः अपि सन्ति । प्रथमे महाधरप्रासादे पद्मावतीदेव्याः ५१ इन्चपरिमिता, अम्बादेव्याः ४१ इन्चपरिमिता, महालक्ष्मीदेव्याः ४१ इन्चपरिमिता च प्रतिमा अस्ति । द्वितीये महाधरप्रासादे भगवतः शान्तिनाथस्य २५ इन्चपरिमिता प्रतिमा विद्यते । तृतीये महाधरप्रासादे भगवतः शङ्खेश्वरपार्श्वनाथस्य २५ इन्चपरिमिता प्रतिमा प्रस्थापिता अस्ति । चतुर्थे महाधरप्रासादे भगवतः आदिनाथस्य २५ इन्चपरिमिता प्रतिमा स्थिता अस्ति । पञ्चमे महाधरप्रासादे भगवतः महावीरस्वामिनः २५ इन्चपरिमिता मूर्तिः विद्यते । षष्ठे महाधरप्रासादे गौतमस्वामिनः ३१ इन्चपरिमिता, सुधर्मास्वामिनः २५ इन्चपरिमिता, हेमचन्द्राचार्यस्य २५ इन्चपरिमिता च प्रतिमा विद्यते [१२४]

कलिकुण्डतीर्थम् (धोळका)[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य अहमदाबाद-मण्डले धोळका-ग्रामः स्थितः अस्ति । तस्य ग्रामस्य समीपे एव कलिकुण्डतीर्थं स्थितम् अस्ति । तस्मिन् तीर्थे भगवतः पार्श्वनाथस्य ३५ इन्चपरिमिता, श्वेतवर्णीया, पद्मासनस्था च प्रतिमा अस्ति । सा प्रतिमा २२०० वर्षपुरातना अस्ति । आचार्यश्रीविजयराजेन्द्रसूरिणः प्रेरणया अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । वि. सं. २०३८ तमस्य वर्षस्य फाल्गुन-मासस्य तृतीयायां तिथौ आचार्यकनकप्रभसूरिणा अस्य तीर्थस्य प्रतिष्ठा कृता आसीत् । तदा बहवः श्रद्धालवः समुपस्थिताः आसन् । धवलकपुरम् इति धोळका-ग्रामस्य प्राचीनं नाम आसीत् । अयं ग्रामः महाभारतकालीनः वर्तते । पाण्डवाः वनवासे अस्मिन् ग्रामे एव न्यवसन् । पूर्वकाले अयं ग्रामः विकासशीलः, ऐश्वर्यसम्पन्नः च आसीत् । इदानीमपि तत्र प्राचीनावशेषाः प्राप्यन्ते । साम्प्रतं तत्र त्रीणि जैनमन्दिराणि सन्ति । जैनधर्मस्य आचार्यस्य जिनदत्तसूरिणः जन्म अपि वि. सं. ११३२ तमे वर्षे धोळका-ग्रामे अभवत् । वस्तुपाल-इत्याख्येन मन्त्रिणा भगवतः आदिनाथस्य मन्दिरं, उपाश्रयद्वयं च निर्मापितम् आसीत् । उदयन इत्याख्येन मन्त्रिणः पुत्रेण वाग्भट्टेन उदयनविहार इतीदं भव्यमन्दिरं निर्मापितम् आसीत् । माण्डवगढ-क्षेत्रस्य पेथडे इत्याख्येन महामन्त्रिणा अपि चतुर्दशशताब्द्याम् अस्मिन् तीर्थे मन्दिरं निर्मापितम् आसीत् । कलिकुण्डतीर्थे धर्मशालाः, उपाश्रयाः, भोजनालयाः च सन्ति । अस्य तीर्थस्य समीपे अपि जैनतीर्थानि सन्ति । तानि – सरखेजतीर्थं, कासीन्द्रातीर्थं, धंधुकातीर्थं च[१२५]

लायजातीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले माण्डवी-ग्रामः स्थितः अस्ति । तस्मात् ग्रामात् १७ किलोमीटरमिते दूरे स्थितम् अस्ति इदं तीर्थम् । तीर्थेऽस्मिन् जैनधर्मस्य भव्यमन्दिरं विद्यते । तस्मिन् मन्दिरे चतुर्विंशतितीर्थङ्करेषु चतुर्विंशतितमस्य भगवतः महावीरस्वामिनः प्रतिमा प्रस्थापिता अस्ति । तस्याः प्रतिमायाः समीपे भगवतः ऋषभदेवस्य, अजितनाथस्य च प्रतिमा अपि अस्ति । वि. सं. १९७९ तमस्य वर्षस्य माघ-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ ई. स. १९२३ तमस्य वर्षस्य जनवरी-मासस्य अष्टाविंशतितमे (२८) दिनाङ्के (२८-०१-१९२३) अस्य मन्दिरस्य प्रतिष्ठा अभवत् । मन्दिरस्य समक्षे धर्मशाला, भोजनालयः, उपाश्रयश्च अस्ति । अस्य तीर्थस्य समीपे अपि जैनतीर्थानि सन्ति । तानि – डुमरा, सांधाण, सुथरीतीर्थं च [१२६]

सुथरीतीर्थम्[सम्पादयतु]

इदं तीर्थं भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले स्थितम् अस्ति । सांधाण-तीर्थात् ९ किलोमीटर्मितं दूरे अस्ति इदं तीर्थम् । तत्र भगवतः पार्श्वनाथस्य मन्दिरं विद्यते । मन्दिरे भगवतः घृतकल्लोलपार्श्वनाथस्य प्रतिमा विद्यमाना अस्ति । सा प्रतिमा ३० इन्चपरिमिता, श्वेतवर्णीया, पद्मासनस्था च वर्तते । तन्मन्दिरं भव्यं, विशालं च अस्ति । वि. सं. १८९६ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ अस्य मन्दिरस्य प्रतिष्ठा अभवत् । तस्मिन् ग्रामे तस्याः प्रतिमायः चमत्काराः अपि अभवन् । उदेशी-नामकेन श्रावकेण इयं प्रतिमा प्राप्ता । तेन भगवतः प्रतिमा एकस्मिन् भाण्डगारे स्थापिता आसीत् । एकदा तेन भगवतः दर्शनार्थं भाण्डगारस्य द्वारम् उद्घाटितं, तदा भाण्डगारः खाद्यपदार्थैः परिपूर्णः दृष्टः । यदा अस्य मन्दिरस्य निर्माणानन्तरम् उत्सवः अभवत्, तदा भोजनावसरे एकस्मात् पात्रात् आवश्यकतानुसारं घृतस्य उपयोगं कुर्वन्तः आसन् । तथापि तस्मिन् पात्रे घृतस्य मात्रा अल्पा न जाता । तत्पात्रं घृतेन एव परिपूर्णम् आसीत् । ततः प्रभृतिः अयं भगवान् पार्श्वनाथः “घृतकल्लोल” इति नाम्ना एव प्रसिद्धः जातः । इतः अपि एका कथा अस्ति यत् – केभ्यश्चित् वर्षेभ्यः प्राक् अस्मिन् ग्रामे अनावृष्टिः आसीत् । सर्वत्र जलाभावः आसीत् । तेन कारणेन जनाः त्रस्ताः अभवन् । तदा केनचित् श्रावकेण रात्रौ स्वप्ने देवीसङ्केतः प्राप्तः । अपरस्मिन् दिने स्वप्नानुसारं तस्यां भूमौ तेन श्रावकेण गर्तः कृतः । ततः पर्याप्तमात्रायां जलं निर्गतम् । अनेन प्रकारेण भगवतः प्रतिमायाः चमत्कारस्य बह्व्यः कथाः सन्ति । अस्मिन् मन्दिरे बहूनि शिखराणि सन्ति । तेन कारणेन इदं मन्दिरं विशिष्टं दृश्यते । मन्दिरे भगवतः कुन्थुनाथस्य, भगवतः ऋषभदेवस्य, गौतमस्वामिनः, पद्मावत्याः च प्राचीनप्रतिमा अस्ति । सुथरीतीर्थे यात्रिकेभ्यः धर्मशालाः, भोजनालयाः, व्याख्यानभवनानि, ज्ञानमन्दिराणि च सन्ति [१२७]

भुज[सम्पादयतु]

Jain Temple Vanki Kutch Gujarat India.jpg

भारतस्य गुजरात-राज्यस्य कच्छ-मण्डले भुज-नगरं स्थितम् अस्ति । इदं नगरं तेरातीर्थात् ८७ किलोमीटरमिते, अहमदाबाद-महानगरात् ४११ किलोमीतरमिते, राजकोट-नगरात् २३१ किलोमीटरमिते, सुरेन्द्रनगरात् २७१ किलोमीटरमिते च दूरे स्थितम् अस्ति । नगरमिदम् अतीव प्राचीनम्, ऐतिहासिकं च अस्ति । नगरे ५८० पादोन्नतः दुर्गः अस्ति । सः दुर्गः “भुजियो किल्लो” इति नाम्ना ज्ञायते । तस्मिन् दुर्गे भुजियानागस्य मन्दिरम् अपि विद्यते । नगरे त्रीणि जैनमन्दिराणि सन्ति । तानि – प्रथमं वाणियावाड-क्षेत्रे भगवतः शान्तिनाथस्य मन्दिरं, द्वितीयं वाणियावाड-क्षेत्रे भगवतः चिन्तामणीपार्श्वनाथस्य मन्दिरं, तृतीयं वाणीयावाड-क्षेत्रे एव भगवतः आदिनाथस्य मन्दिरं च स्थितम् अस्ति । नगरात् बहिः अपि भगवतः सम्भवनाथस्य, घण्टाकर्णमहावीरस्य च मन्दिरं स्थितम् अस्ति । अस्य नगरस्य समीपे कोटेश्वरतीर्थं, अञ्जार-तीर्थं, गान्धीधाम-तीर्थं च स्थितम् अस्ति [१२८]

कावीतीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य भरुच-मण्डले स्थितमिदं कावीतीर्थम् । अस्य अपराणि नामानि अपि सन्ति । यथा – कापीका, कङ्कावटी च । वि. सं. ८८३ तमे वर्षे अस्य तीर्थस्य निर्माणम् अभवत् । वि. सं. १६४९ तमे वर्षे “बाढुक शेठ” इत्याख्येन अस्य तीर्थस्य जीर्णोद्धारं कृत्वा नूतनं मन्दिरं निर्मापितम् । आचार्यविजहीरसुरीश्वरस्य शिष्येण विजयसेनसूरीश्वरेण अस्य मन्दिरस्य प्रतिष्ठा कृता । तस्मिन् मन्दिरे भगवतः आदिनाथस्य प्रतिमा प्रस्थापिता आसीत् । “बाढुक शेठ” इत्याख्यस्य पत्नी हीराबाई इत्याख्या स्वस्याः पुत्रवधूना वीराबाई इत्याख्यया सह कावीतीर्थस्य यात्रायै समागता । तदारभ्य इदं तीर्थं श्वश्रूपुत्रवध्वोः मन्दिरं कथ्यते । भरुच-नगरात् ७५ किलोमीटरमिते दूरे स्थितम् अस्ति कावीतीर्थम् । कावीतीर्थं समुद्रतटे स्थितम् अस्ति । अतः प्राचीनकाले अत्र व्यापारार्थं बहवः जनाः निवसन्ति स्म । तत्र निवसत्सु जनेषु सर्वाधिकाः जैनधर्मानुयायिनः आसन् [१२९]

छाणीतीर्थम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य वडोदरा-मण्डले छाणी-ग्रामः स्थितः अस्ति । वडोदरा-महानगरात् ६ किलोमीटरमिते, अहमदाबाद-महानगरात् ११४ किलोमीटरमिते च दूरे अस्ति इदं छाणीतीर्थम् । पुरा वडोदरा-राज्ये सयाजीराव-इत्याख्यस्य राज्ञः शासनम् आसीत् । राज्यस्य रक्षणार्थं चतुरङ्गी-सेना निवसति स्म । यत्र सेना निवसति स्म, तत्र सैनिकानाम् आपूर्तये व्यापारिकाः व्यापारं कुर्वन्ति स्म । तत्स्थलं सेनावासः कथ्यते । हिन्दीभाषायां “छावनी” इति शब्दः प्रयुज्यते । “छावनी” इति शब्दस्य अपभ्रंशत्वात् “छाणी” इति शब्दः अभवत् । तदारभ्य इदं तीर्थं “छाणी” इति नाम्ना प्रख्यातम् ।

इदं स्थलम् ऐतिहासिकं विद्यते । प्राचीने काले छाणी-तीर्थे पञ्च जिनालयाः आसन् । तेषु जिनालयेषु एकः जिनालयः द्विभूमः आसीत् । तस्य जिनालयस्य निर्माणं हेमचन्द्राचार्यस्योपदेशानुसारं राज्ञा कुमारपालेन कारितम् आसीत् । साम्प्रते छाणी-तीर्थे भगवतः शान्तिनाथस्य जिनालयः स्थितः अस्ति । वि. सं. २०५१ तमस्य वर्षस्य माघ-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ मङ्गलवासरे ई. स. १९९५ तमस्य वर्षस्य फरवरी-मासस्य एकविंशतितमे दिनाङ्के (२१-०२-१९९५) भगवतः शान्तिनाथस्य जिनालयस्य शताब्दिमहोत्सवः आचरितः । तस्मिन् महोत्सवे बहुभिः जनैः दीक्षा अङ्गीकृता [१३०]

महुडी-तीर्थम्[सम्पादयतु]

Mahudi Temple.jpg

भारतस्य गुजरात-राज्यस्य महेसाणा-मण्डले स्थितम् इदं महुडी-तीर्थम् । गुजरात-राज्यस्य प्रमुखजैनतीर्थेषु अन्यतमम् अस्ति इदं तीर्थम् । अस्मिन् तीर्थे भूमिखनने बहवः पुरातनावशेषाः लब्धाः । तैः अवशेषैः ज्ञायते यत् – “पुरा महुडी-ग्रामे जैनमन्दिराणि आसन्” । यतः तेषु अवशेषेषु द्विसहस्रवर्षपुरातना प्रतिमा प्राप्ता । तस्यां द्विसहस्रप्राचीनः लेखः अपि अस्ति । साम्प्रतं भगवतः पद्मप्रभोः भव्यमन्दिरं स्थितमस्ति । तस्य मन्दिरस्य प्रतिमा अपि प्राचीना एव अस्ति । वि. सं. १९७४ तमे वर्षे आचार्यबुद्धिसागरसूरीश्वरस्य निर्देशानुसारं तस्य मन्दिरस्य प्रतिष्ठा अभवत् ।

अस्य मन्दिरस्य समीपे भगवतः घण्टाकर्णमहावीरस्य मन्दिरम्, आचार्यबुद्धिसागरसूरीश्वरस्य गुरुमन्दिरं च स्थितम् अस्ति । घण्टाकर्णमहावीरः द्विपञ्चाशद्वीरेषु त्रिंशत्तमः वीरः अस्ति । घण्टाकर्णमहावीरः पूर्वभवे आर्यक्षेत्रे तुङ्गभद्रनाम्नः क्षत्रियः आसीत् । सः सतीनां, बालिकानां च रक्षणं करोति स्म । अतः अयं जैनशासनस्य रक्षकदेवत्वेन गण्यते । पूर्वभवे सः शस्त्रत्वेन धनुर्बाणानाम् उपयोगं करोति स्म । अतः साम्प्रतम् अपि मन्दिरे घण्टाकर्णमहावीरस्य प्रतिमा धनुर्बाणैः युता अस्ति । भगवतः प्रतिमा फलदायिका अस्ति । भगवते घण्टाकर्णमहावीराय सुखडी-व्यञ्जनम् अतीव रोचते स्म । अतः मन्दिरे भगवते सुखडी-व्यञ्जनस्य नैवेद्यं निवेद्यते । तद् सुखडी-व्यञ्जनं कोऽपि मन्दिरपरिसराद् बहिः नेतुं न शक्नोति । महुडी-तीर्थे निवासाय धर्मशाला, भोजनालयः, उपाश्रयः च अस्ति । पीलवाई-ग्रामात् ५ किलोमीटरमिते, विजापुर-ग्रामात् १० किलोमीटरमिते, आगलोड-ग्रामात् २४ किलोमीटरमिते च दूरे स्थितम् अस्ति इदं महुडी-तीर्थम् । साम्प्रतम् अपि तत्र प्रतिदिवसं सहस्राधिकयात्रिकाः दर्शनार्थं गच्छन्ति [१३१]

हिम्मतनगरम्[सम्पादयतु]

भारतस्य गुजरात-राज्यस्य साबरकांठा-मण्डले हिम्मतनगरम् अस्ति । इदं नगरं जैनतीर्थत्वेन अपि ज्ञायते । पञ्चदशशताब्द्याम् अस्य तीर्थस्य महत्त्वम् अधिकम् आसीत् । पुरा जैनानुयायिनां जनसङ्ख्या अपि अधिका आसीत् । तस्मिन् काले जैनधर्मस्य बहूनि मन्दिराणि आसन् । साम्प्रतं भगवतः महावीरस्य जिनालयः विद्यते । तद् मन्दिरं प्राचीनम् अस्ति । मन्दिरे भगवतः महावीरस्य ३५ इन्चपरिमिता प्राचीना प्रतिमा वर्तते ।

हिम्मतनगरे “फतेचन्द मोतीचन्द केशरीयाजी” इत्याख्यः सज्जनः आसीत् । तेन यात्रायै सङ्घः रचितः । सः अपि सङ्घेन सह यात्रां कर्तुं गतवान् । यात्रायाः अनन्तरं पुनरागमने सति सङ्घजनाः मार्गे अभापुर-ग्रामस्य प्रगाढवने विश्रामं कृतवन्तः । तत्रत्यं जैनमन्दिरं जीर्णम् अभवत् । तस्मिन् मन्दिरे भगवतः आदिनाथस्य ५१ इन्चपरिमिता प्रतिमा स्थिता आसीत्, अन्याः चतस्रः प्रतिमाः अपि आसन् । ताः प्रतिमाः प्राचीनाः सन्ति । आचार्यधर्मसूरीश्वरस्य प्रेरणया ताः पञ्च प्रतिमाः हिम्मतनगरे आनीताः । अनन्तरं ताः पञ्च प्रतिमाः भगवतः महावीरस्य जिनालये प्रस्थापिताः [१३२]

सीमन्धरस्वामीतीर्थम् (महेसाणा)[सम्पादयतु]

भारतस्य गुजरात-राज्ये महेसाणा-तीर्थम् अस्ति । इदं तीर्थं द्वादशशताब्द्याः पूर्वम् एव स्थितम् अस्ति । अहमदाबाद-महानगरात् ७६ किलोमीटरमिते दूरे अस्ति इदं महेसाणातीर्थम् । अस्मिन् तीर्थे पञ्चदश जैनमन्दिराणि सन्ति । तेषु मन्दिरेषु प्राचीनतमं भगवतः मनमोहनपार्श्वनाथस्य मन्दिरम् अस्ति । महेसाणा-नगरे भगवतः सीमन्धरस्वामिनः मन्दिरम् अपि विद्यते । तद् मन्दिरं विशालं, भव्यं च अस्ति । मन्दिरेऽस्मिन् यात्रिकेभ्यः भोजनाय भोजनशाला, निवासाय धर्मशालाः, उपाश्रयाः च सन्ति । यात्रिकाणां कृते तु महत्सौकर्यकरम् अस्ति इदं महेसाणा-तीर्थम् । सीमन्धरस्वामी जम्बूद्वीपस्य महाविदेहक्षेत्रे तीर्थङ्करत्वेन् व्यचरत् । तस्य पिता राजा श्रेयांसः, माता च सत्यकीदेवी आसीत् । तस्य पत्नी रुक्ष्मणीदेवी आसीत् । भगवतः सीमन्धरस्वामिनः कल्याणकचतुष्टयं (च्यवनं, जन्म, दीक्षा, केवलज्ञानं च ) महेसाणा-तीर्थे अभवत् । अतः इदं तीर्थं सीमन्धस्वामीतीर्थम् इति नाम्ना अपि विख्यातम् अस्ति ।

वि. सं. २०२८ तमे वर्षे वैशाख-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ आचार्यकैलाससागरसूरीश्वरस्य प्रेरणया इदं तीर्थं प्रतिष्ठापितम् । अस्य मन्दिरस्य स्थापत्यकला, कलाकृतयः च विशिष्टाः सन्ति । भारते अन्यत्र कुत्रापि एतावत् विशालं मन्दिरं नास्ति । मन्दिरे भगवतः सीमन्धरस्वामिनः प्रतिमा १४५ इन्चपरिमिता, पद्मासनस्था, श्वेतवर्णीया च वर्तते । मन्दिरस्य प्रवेशद्वारे “सीमन्धरस्वामीमोक्षप्रवेशद्वारम्” इति उल्लिखितम् अस्ति । तद्दृष्ट्वा एव जनाः आनन्दिताः भवन्ति । तीर्थम् इदं जैनधर्मस्य प्रधानकेन्द्रेषु अन्यतमम् अस्ति । बह्वः श्रद्धालवः, यात्रिकाः दर्शनार्थं तत्र गच्छन्ति । ये जनाः दूरतः एव मन्दिरं दृष्ट्वा आकृष्टाः भवन्ति । मन्दिरस्य निर्माणशैली अपि नयनानन्दकरी अस्ति । निर्माणशैलीं दृष्टुम् एव जनाः तत्र गच्छन्ति । अस्य मन्दिरस्य ध्वजः दूरादेव दृश्यते । अतः आकृष्टाः जनाः अपि मन्दिरं दर्शनार्थं गच्छति । अनेन कारणेन इदं मन्दिरं गुजरात-राज्ये न, अपितु सम्पूर्णे भारते प्रसिद्धम् अस्ति [१३३]

बाह्यानुबन्धाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 74-80
  2. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७५-१७६
  3. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 81-84
  4. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – 85-89
  5. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८०-२८१
  6. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८१-२८२
  7. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -89-91
  8. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८१
  9. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -92-94
  10. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -95-97
  11. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७६-१७७
  12. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -९८-१०२
  13. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६८
  14. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१०३-१०४
  15. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१०४-११०
  16. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८३-२८५
  17. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१११-११५
  18. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२७८-२७९
  19. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -११५-११६
  20. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६७-२६८
  21. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -११७-१२०
  22. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६९-२७१
  23. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२१-१२३
  24. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३००
  25. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२३-१२५
  26. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२५-१२९
  27. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०६-३०७
  28. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१२९-१३४
  29. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२८६-२८८
  30. ३०.० ३०.१ जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३५-१३६
  31. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९०-२९२
  32. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३७-१४०
  33. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - ३०८
  34. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९४-२९७
  35. ३५.० ३५.१ जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४०-१४२
  36. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - २९७
  37. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४७-१४८
  38. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४८-१४९
  39. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४९
  40. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५०-१५२
  41. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५२-१५३
  42. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५३-१६०
  43. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६१-१६५
  44. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६६-१६८
  45. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१६९-१७१
  46. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१७२-१७३
  47. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१७५-१७९
  48. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – १८०-१८४
  49. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१८४-१८५
  50. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ – १८५-१८८
  51. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१८९-१९१
  52. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९१-१९४
  53. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९४-१९५
  54. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९५-१९७
  55. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१९८-१९९
  56. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०२-२०६
  57. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०७
  58. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०८
  59. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२०८-२११
  60. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७६
  61. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६२
  62. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२१२-२१५
  63. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३२२-
  64. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२०-२२४
  65. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२४-२२७
  66. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२२८-२२९
  67. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२३०-२३१
  68. ६८.० ६८.१ भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७८
  69. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२३१-२३४
  70. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३६-१३८
  71. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१३९
  72. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४३-१४५
  73. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४६
  74. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१४७-१५०
  75. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२०-१२१
  76. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५१-१५२
  77. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -१५२-१५६
  78. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७
  79. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३४
  80. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११४
  81. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२५७-२६०
  82. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२६-१३२
  83. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१३५
  84. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६१
  85. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१३९
  86. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१५३
  87. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६२-२६३
  88. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६४-२६६
  89. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१८९
  90. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६७-२६८
  91. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२६९
  92. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७०-२७२
  93. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७३-२७६
  94. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ - २७६-२७८
  95. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७९-२८१
  96. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८२-२८३
  97. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८४
  98. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२७५
  99. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८६
  100. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८७
  101. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८८
  102. जैन तीर्थों का ऐतिहासिक अध्ययन, डॉ. शिवप्रसाद, पृ -२८९
  103. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६१
  104. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१९५
  105. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ - २०१
  106. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०१
  107. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०४
  108. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०५
  109. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२०७
  110. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२५९-२६३
  111. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२६४-२६६
  112. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९८
  113. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -२९८-२९९
  114. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३००-३०३
  115. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०८-३०९
  116. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०९
  117. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३०९-३१०
  118. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१०-३११
  119. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३११
  120. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१४
  121. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -३१४
  122. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११६
  123. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -११९
  124. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२२
  125. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२५-१२६
  126. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१२५-१४७-१४८
  127. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१४८
  128. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१५४-१५६
  129. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६०
  130. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६७
  131. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१६९
  132. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७१
  133. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ -१७५
"https://sa.wikipedia.org/w/index.php?title=जैनतीर्थानि&oldid=422582" इत्यस्माद् पुनः प्राप्तिः