सामवेदः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
सामवेद इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते। यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः। अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः। ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते।
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः।
प्रशंसा
[सम्पादयतु]'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। ऋग्वेदे, अथर्ववेदे चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - 'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।[१] अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — 'उद्गातेव शकुने साम गायसि'।[२] अङ्गिरा-ऋषेः सामस्योल्लेखः अनेकशो लभते— 'अङ्गिरसां सामभिः स्तूयमानाः'।[३] अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।[४] अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – 'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'।[५] अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– 'ऋचं साम यजामहे यासां कर्माणि कुर्वते'।[६]
कालः
[सम्पादयतु]सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति। ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। यजुर्वेदे रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। एतरेयब्राह्मणे नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते।
सामवेदस्य व्याख्या
[सम्पादयतु]साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामशब्दस्य प्रयोगः द्वयोरर्थयोरेव प्राप्यते। ऋग्मन्त्राणामुपरि गायनमेव वस्तुतः सामशब्दस्य वाच्योऽस्ति। किञ्च ऋग्मन्त्रेभ्योऽपि सामशब्दस्य प्रयोगो लभते। सामसंहितायाः सङ्कलनमुद्गातृ-नामके ऋत्विजे कृतमस्ति। उद्गाता अयं देवतायाः स्तुतिपरकमन्त्रान् एव आवश्यकतानुसारेण विविधस्वरेषु गायति। अतः समस्याधारः ऋग्मन्त्रा एव भवन्ति।[७] ऋक्सामयोः प्रग्राहमिदं पारस्परिकसम्बन्धं सूचयितुम् उभयोर्मध्ये दाम्पत्यभावस्य अपि कल्पना वर्तते अत्र। पतिः सन्तानोत्पादनाय पत्न्याः आह्वाहनं कुर्वन् कथयति- सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। अहमाकाशोऽस्मि त्वञ्च पृथिव्यसि। अतः आगच्छ। आवां मिलित्वा प्रजानाम् उत्पादनं कुर्वः।
अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम्।
मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।[८]
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।[९] 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।
नामकरणस्य कारणम्
[सम्पादयतु]विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कर्त्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।[१०] ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'[११], ‘तं वोदस्ममृतीषहं'[१२] मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।[१३] फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
सामविभागः
[सम्पादयतु]सामान्यतया सामगानस्य पञ्चविभागाः भवन्ति ।
(१) प्रस्तावः – मन्त्रस्य प्रारम्भिकभागोऽयं भवति । प्रस्तावोऽयं ‘हूं'- शब्दात् प्रारम्भो भवति । प्रस्तोतानामकः ऋत्विग् अस्य गानं करोति ।
(२) उद्गीथः –साम्न प्रधानः ऋत्विक् उद्गाता एनं गायति । अस्यारम्भः ‘ॐ'-शब्दात् भवति ।
(३) प्रतीहारः - प्रतीहारशब्दस्यार्थो भवति सङ्कलनकर्ता, प्रतिहतनामकः ऋत्विगेन गीयते। अस्य यदा कदा खण्डद्वयमपि भवति ।
(४) उपद्रवः - यमुद्गाता गायति तदेवोपद्रवः ।
(५) निधनः - प्रस्तोतृ-उद्गातृ-प्रतिहर्त्तारः त्रयो मिलित्वैव अस्य गानं कुर्वन्ति । उदाहरणार्थं सामवेदस्य प्रथमोऽयं मन्त्रः - 'अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बहिर्षि॥'[१४] अस्य मन्त्रस्योपरि यस्य सामस्य गानं भविष्यति, तस्य निम्नलिखितानि पञ्चानाङ्गानि भवन्ति।
( १ ) हुँ ओग्नाई (प्रस्तावः)।
(२) ओम् आयाहि वीतये गृणानो हव्यदातये (उद्गीथः)।
( ३ ) नि होता सत्सि बर्हिषि ओम् (प्रतिहारः)। (अस्य प्रतिहारस्याऽपि द्वौ भेदौ स्तः।)
( ४ ) नि होता सत्सिव (उपद्रवः)।
( ५ ) हिंषि ओम् (निधनः)।
अस्य साम्नः यदा वारत्रयं गानं भवति, तदा तं स्तोमः कथ्यते । सामगायनाय कर्हिचित् स्वरं विकृतं परिवर्तितं च करणीयं भवति । यथा पूर्वमन्त्रस्य 'अग्न' गायने परिवर्त्तितरूपं— 'ओग्नाई' भवति । गायने स्वरपूर्त्र्यर्थं यदा कदा निरर्थकं पदमपि सङ्कलितं भवति । यथा- अौ, हौ, वा, हा इत्यादि । एताः स्तोमाः भवन्ति । छान्दोग्योपनिषदनुसारेण सप्तविधं साम भवति । यथा-
(1) हिङ्कारः,
(२) प्रस्तावः,
(३) आदिः,
(४) उद्गीथः,
(५) प्रतिहारः,
(६) उपद्रवः,
(७) निधनश्चेति ।
उपरि निर्दिष्टस्य पञ्चविधसामस्य एव अवान्तरभेदकरणेन एतेषां सप्तविधसामानाम् उत्पत्तिर्भवति।
गानम्
गीतमस्यपर्कम्–
ओग्नाई । आया ही ऽ ३ । वो इ तो या ऽ २ ३ । तोया ऽ २ इ । गृणानो ह । व्यदातो या ऽ २ ३ । तो या ५२ इ । ना इ होता सा ऽ २ ३ । त्सा ऽ २ ३ । वा ऽ २ ३, ४ औ हो वा । हो ऽ २ ३ ४ षी । १ ।।
विषयाः
[सम्पादयतु]सामवेदस्य द्वौ प्रधानौ भागौ स्तः — आर्चिकः, गानञ्च । आर्चिकस्य शाब्दिकार्थोऽस्ति – ऋक्-समूहः । सोऽपि द्विधा विभज्यते —पूर्वार्चिकमुत्तराचिकञ्चेति । पूर्वाचिकमेव छन्दः, छन्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वाचिकं चतुर्षु भागेषु विभज्यते - आग्नेयपर्व (अग्निसम्बन्धिनीभिर्ऋग्भिरुपेतम् ), ऐन्द्रपर्व ( इन्द्रसम्बन्धिनीभिऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकञ्चेति । पूर्वार्चिके षट् प्रपाठकाः अथवा अध्यायाः सन्ति । प्रतिप्रपाठकं द्वौ अर्द्धौ वा खण्डौ स्तस्तथा प्रतिखण्डं एकदशतिः प्रतिदशत्यां ऋचः सन्ति । प्रथमाध्यायादारभ्य पञ्चमाध्यायपर्यन्तस्य ऋचस्तु ‘सामगान' नाम्ना ख्याताः सन्ति, किञ्च षष्ठाध्यायस्य ऋचः अरण्ये एव गीयन्ते। अतोऽत्रासां ऋचाम् एकत्र सङ्ग्रहोऽस्ति । अस्यान्ते परिशिष्टरूपेण 'महानाम्नी' इत्याख्याः दशऋचः सन्ति । अनेन प्रकारेण पूर्वार्चिके मन्त्राणां संख्या पञ्चाशदधिकषट्शतं (६५०) अस्ति।
उत्तरार्चिकं तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः - दशरात्रं, संवत्सरम्, ऐकाहम्, अहीनं, सत्रं, प्रायश्चित्तं, क्षुगद्रञ्चेति प्रमुखास्तत्र भेदाः सन्ति। अस्मिन्नुत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकेषु द्वौ द्वौ भागौ स्तः, यौ प्रपाठकाद्धनाम्ना ख्यातौ स्तः, किञ्च अन्तिमचतुर्षु प्रपाठकेषु त्रयस्त्रयोऽर्द्धाः सन्ति। राणायणीयशाखानुसारम् अयमस्ति भेदः। उत्तरार्चिकस्य समग्रमन्त्राणां सङ्ख्या (१२२५) पञ्चविंशत्यधिकद्वादशशतमस्ति। अतरुभयोरार्चिकयोः सम्मिलितानां मन्त्राणां सङ्ख्या (१८७५) पञ्चसप्तत्यधिकाष्टादशशतमस्ति।
ऋक्-सामयोः सम्बन्धस्य मीमांसा
[सम्पादयतु]सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्राः सन्ति, तेषु ७५ मन्त्राः ईदृशाः ये ऋग्वेदे न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदागतमन्त्राणां ससस्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः, मुख्यत एतावान् एव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदोऽस्ति ।
सामवेदस्य ऋक्षु ऋग्वेदस्य ऋग्भिः अधिकतरम् आंशिकसाम्यमेवाऽस्ति । ऋग्वेदस्य- 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः अरं वहन्ति मन्यवे'[१५], सामवेदे - 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः । अरं वहन्त्याशवः' अनेन रूपेण पठितोऽस्ति । ऋग्वेदस्य मन्त्रांशः 'अपोमहि व्ययति चक्षसे तमोज्योतिष्कृणोति सूनरी'[१६], सामवेदे- 'अपोमहि वृणुते चक्षुषा तमो ज्योतिष् कृणोति सूनरी' इत्यनेन रूपेण मिलति । अस्यांशिकसाम्यस्य तथा मन्त्रेषु पादव्यत्ययस्य अनेकान्युदाहरणानि सन्ति सामवेदे । यदि एताः ऋचः ऋग्वेदादेव सङ्गृहीताः भवेयुस्तर्हि ताः तस्मिन्नेव रूपे तथा तस्मिन्नेव क्रमे सङ्गृहीता भवन्ति ।
यद्येता ऋचः गायनार्थमेव सामवेदे सङ्गृहीताः सन्ति, तर्हि केवलं तावदेव मन्त्राणामृग्वेदात् सङ्कलनं कर्त्तव्यमासीत् यावद् गातुं वा सामाय अपेक्षितो भवेयुरिति । प्रत्युत अत्र सामसंहितायां विपरीतमस्य प्रायः (४५०) पञ्चाशदधिकचतुःशतमन्त्रा ईदृशाः सन्ति, येषामुपरि गानस्य काऽपि व्यवस्था नास्ति। ईदृशां गानानपेक्षितमन्त्राणां सङ्कलनं सामसंहितायां कथं कृतमिति?
यदि सामसंहितायाः मन्त्राः ऋग्वेदादेव सङ्गृहीताश्चेत्, तेषां रूपमेव नास्ति प्रत्युत तेषां स्वरनिर्देशोऽपि तद्वदेव भवितव्यम् । ऋग्वेदे उदात्तानुदात्तस्वरिताः स्वराः सन्ति, किञ्च सामवेदे तेषां निर्देशः १, २ तथा ३ अङ्कैः कृतः । नारदीयशिक्षानुसारेणैते स्वराः क्रमशः मध्यम-गान्धार-ऋषभ-स्वराः मन्यन्ते। एते स्वराः अङ्गुष्ठ-तर्जनी-मध्यमाख्यानाम् अङ्गुलीनां मध्यमपर्वोपरि अङ्गुष्ठस्य स्पशं कुर्वन् प्रदर्श्यन्ते । साममन्त्राणाम् उच्चारणम् ऋग्मन्त्राणाम् उच्चारणान्नितान्तं भिन्नं भवति ।
यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'[१७], ‘उद्गातेव शकुने साम गायति'[१८], ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'[१९] इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। ऐतरेयब्राह्मणस्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।[२०] नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।[२१] 'त्रयं ब्रह्म सनातनम्' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।
सामस्य स्वराः
[सम्पादयतु]सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
सामगानस्य पद्धतिः
[सम्पादयतु]एतेषां सामयोनिमन्त्राणाम् अाश्रयं गृहीत्वा ऋषिभिः गान-मन्त्राणां रचना कृताऽस्ति । गानस्तु चतुर्धा भवति -
१. (ग्रामः) वेयगानम् (अस्यैवापरं नाम प्रकृतिगानम्),
२. आरण्यकगानम्
३. ऊहगानम् ,
४. ऊह्यगानं वा रहस्यगानम्
पूर्वार्चिकस्य प्रथमपञ्चमाध्यायगत-मन्त्राणामुपरि वेयगानं भवति । आरण्यकपर्वे निर्दिष्टमन्त्राणामुपरि आरण्यकगानं भवति । ऊहगानमूह्यगानञ्चोत्तरार्चिके उल्लिखितमन्त्राणामुपरि मुख्यतया भवति । विभिन्नशाखायामेतेषां मन्त्राणां संख्याऽपि विभिक्षा एव भवन्ति । सर्वाधिकगानानि जैमिनीयशाखायामेवोपलब्धानि सन्ति ।
गानानि | कौथुमीयगानम् | जैमिनीयगानम् |
वेयगानानि | ११९७ | १२३२ |
अरण्यगानानि | २९४ | २९१ |
ऊहगानानि | १०२६ | १८०२ |
ऊह्यगानानि | २०५ | ३५६ |
सर्वेषां योगः | २७२२ | ३६८१ |
भारतीयसङ्गीतशास्त्रस्य मूलमेतेष्वेव सामगानेषु उपर्यवलम्बितमस्ति । सामगानपद्धत्या रहस्यज्ञानम् अप्यधुना तथैव दुरूहोऽस्ति, यथा भारतीयसङ्गीतशास्त्रस्य ज्ञानरहस्यमस्ति । नारदीयशिक्षानुसारेण सामवेदस्य स्वरमण्डलानि निम्नलिखितान्येव सन्ति —
सामानि | वेणवः | सुरः |
प्रथमः | मध्यमः | म |
द्वितीयः | गान्धारः | ग |
तृतीयः | ऋषभः | रे |
चतुर्थः | षड्जः | सा |
पञ्चमः | निषादः | नि |
षष्ठः | धैवतः | ध |
सप्तमः | पञ्चमः | प |
सामगानेष्वेता एव सप्ताङ्कास्तत्तत्स्वराणां स्वरूपं सूचयन्ति । साममन्त्रेषु उपरि प्रदत्ताङ्कानां व्यवस्था विभिन्नप्रकारका एवेति । सामयोनिमन्त्रान् सामगानेषु परिवर्तनेऽनेकविधानि सङ्गीतानुकूलपरिवर्तनानि च भवन्ति । एतानि परिवर्तनानि च सामविकाराः कथ्यन्ते । सामविकारास्तु षट्संख्यकाः भवन्ति ।
१. विकारः - शब्दस्य परिवर्तनम्। 'अग्ने' इत्येतत्पदस्थाने ‘आग्नायि' इति पदम् ।
२. विश्लेषणम् — एकपदस्य पृथक्करणम् । यथा—'तये' इत्येतत्पदस्थाने 'तोयितीया' २यि ।
३. विकर्षणम् - एकस्वरस्य दीर्घकालपर्यन्तं विभिन्नोच्चारणम् । ये = या २ ३ यि ।
४. अभ्यासः - कस्यापि पदस्य भृशमुच्चारणम् (पौनःपुन्येन) । यथा- 'तोयायि' पदस्य वारद्वयमुच्चारणम् ।
५. विरामः - सौकर्य्याय कस्यापि पदस्य मध्ये विरामः । यथा - 'गृणानि हव्यदातये' इत्यस्मिन् पदे हकारोपरि विरामः ।
६. स्तोमः - 'औ' 'होवा' 'हाउआ' इत्यादिगानानुकूलपदानि ।
एते विकाराः भाषाशास्त्रस्य दृष्ट्याऽपि नितान्तं मननीयाः सन्ति ।
ऊहगानस्य प्रकृतिः वेयगानमस्ति । ऊह्यगानस्य प्रकृतिः किंवा योनिरारण्यगानम्भवति । अस्य तात्पर्यमस्ति यद्वेयगाने प्रयुक्तस्वरादीनामाश्रयं गृहीत्वा एव ऊहगानस्य निर्माणं भवति तथा अरण्यगानस्य स्वररागादीनामाधारेण ऊह्यगानस्य रचनाऽभवत् इति। एतेषां चतुर्णां गानानां स्वरूपस्य पार्थक्यं तेषां नामकरणेनैव स्पष्टो भवति । वेयगानस्य अपर नाम ग्रामे गेयगानमस्ति, अर्थात् गानमिदं कस्मिंश्चिदपि ग्रामे अथवा समाजे गेयं भवति, किञ्च आरण्यगानान्तर्गतसामगानम् अरण्ये एव गेयं भवति । सामवेदीनां मान्यताऽस्ति यद्, आरण्यगानस्य स्तोममीदृग् विलक्षणं तथा विचित्रं भवति यद्, ग्रामे यदि तस्य गानं भवेत्, तर्हि तत्रानर्थस्य सम्भावना भवति इति। इमानि गानानि एवंविधपवित्राणि भवन्ति यदरण्यस्य पवित्रवातावरणे एव तेषां गायनं कर्तुं शक्यते, तदैव तेषां समुचितप्रभावोत्पादनं भवति । 'ऊह'- शब्दस्यार्थों भवति-'ऊहनम्' । कस्मिंश्चिद् अप्यवसरविशेषे मन्त्राणां सामयिकपरिवर्तनम् । अनया व्याख्यया 'ऊहगानम्' सोमयागस्य अवसरे प्रयोजनीयसामानां नाम वर्त्तते । ऊह्यगानस्य सम्पूर्णं नाम ऊह्यमर्थात् रहस्यगानमस्ति । रहस्यात्मकत्वेन गानमिदम् आरण्यगानस्य विकृतिगानं मन्यते । अारण्यज्ञानम् इवेदमपि गानं रहस्यात्मकं भवति । अत एव समाजमध्ये सर्वसाधारणसम्मुखे गानमिदं निषिद्धमस्ति ।
मन्त्राणामुपरि निश्चितमेव सामं भवति । साममिदं नानियतम् अपि तु नियतमेवास्ति। नियमनस्य बीजं वैदिकप्रसिद्ध एव स्वीकर्तृं शक्यते। सामवेदे पठितानां समग्राणाम् ऋचामुपरि सामं भवतु। एवंविधः न कोऽपि नियमोऽस्ति । कतिपयानामृचामुपरि सामस्य सर्वथा अभावोऽस्ति । ऋचः उत्तरार्चिके एव प्राप्यन्ते। यथा - ‘यत्र वाणाः सम्पतन्ति कुमाराः विशिखा इव'[२२], ‘भद्रं कर्णेभिः शृणुयाम देवाः'[२३], 'अाशुः शिशानो वृषभो न भीमः'[२४]। गानग्रन्थेषु आसामृचामुपरि न किमपि गानमस्ति । एवंविधाः अनेकऋचः सन्ति, यासु चतुर्विधं गानं भवति । तेऽपि भिन्नप्रकारस्य सन्ति। यथा- 'अयारुचा हरिण्या'।[२५] तथा ‘अयं पूषारयिर्मगाः’।[२६] अस्याः उपरि पूर्वोक्तं चतुर्विधं गानं प्राप्यते। न तावदेतावदेव एकस्या एव ऋचः उपरि प्रयुक्तस्य सामानां संख्या एकषष्टिः ( ६१ ) वर्त्तते । गानान्येतानि ‘पुनानः सोमधारया'[२७] मन्त्रस्य उपरि गानं भवति । अस्य अपरा संख्या (५९) ऊनषष्टिरस्ति या 'पुरोजिती वोऔधसः'[२८] ऋचः उपरि अधिष्ठिताः भवन्ति । तृतीया संख्या सामानां (४८) अष्टाचत्वारिशदस्ति । ‘यः धारया पावकया'[२९] मन्त्रस्योपरि गायति । ऋचः गानस्य पञ्चविंशतिः संख्याः तु अनेकाः सन्ति । एतेषां विशिष्टसामानां स्थित्यास्तथा संख्यायाः नियमनं तु प्राचीनवैदिकपरम्परायाः उपर्येव आश्रिता अस्ति।
सामवेदस्य शाखाः
[सम्पादयतु]सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि उपलब्धानि। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान-चरणव्यूह-जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत्, सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा – कौथुमीयशाखा-राणायनीयशाखा-जैमिनियशाखाः।
कौथुम-शाखा
[सम्पादयतु]अस्याः संहिता लोकप्रियाऽस्ति । अस्याः ताण्ड्यनामकशाखाऽपि लभते। यस्याः विशिष्टः प्रभावः प्रसारश्चातीतकाले अासीत् । अाचार्यशङ्करः स्ववेदान्तभाष्यस्य अनेकस्थलेषु अस्य चर्चां कृतवान् अस्ति । चर्चेयमस्य गौरवस्य महत्त्वस्य च सूचिकाऽस्ति । पञ्चविंशतिकाण्डात्मकः विपुलकायः ताण्ड्यब्राह्मणग्रन्थः अस्याः शाखायाः एव वर्त्तते । सुप्रसिद्धछान्दोग्योपनिषदपि अनया शाखया सम्बद्धाऽस्ति - ‘यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके स आत्मा',[३०] ‘स अात्मा......... छान्दोग्य उपनिषद्[३१] तथा ‘अन्येऽपि शाखिनः ताण्डिनः शाट्यायिनः'[३२]। अस्य स्पष्टनिर्देशः शङ्कराचार्येण स्वभाष्ये कृतः ।
राणायनीयशाखा
[सम्पादयतु]अस्याः संहिता कौथुमीयात् कथमपि भिन्ना नास्ति । मन्त्रगणनादृष्ट्या उभावपि समाने स्तः । केवलमुच्चारणे यत्र कुत्र पार्थक्यमुपलब्धो भवति । कौथुमीयाः जनाः यत्र ‘हाड' तथा, 'राइ' इत्येतत्पदमुच्चारयन्ति तत्र राणायणीयगणाः 'हाबु' तथा ‘रायी' इत्युच्चारणं कुर्वन्ति । राणायणीयेषु एकावान्तरशाखा सात्यमुग्रि वर्तते; अस्य उच्चारणस्येका विशेषता भाषाविज्ञानदृष्ट्या नितान्तम् आलोचनीयाऽस्ति । अापिशली शिक्षाकृता तथा महाभाष्यकारेण च स्पष्टतया निर्देशितं यत्, सात्यमुग्रिजना एकारस्योकारस्य च स्थाने हृस्वोच्चारणं कुर्वन्ति । यथा - ‘छन्दोगानां सात्यमुग्रिराणायणीया ह्रस्वानि पठन्ति॥'[३३]
ननु च भोश्छन्दोगानां सात्यमुग्रि-राणायणीया अर्धमेकारं........अर्धमोकारं च अधीयते। सुजाते ए अश्वसूनृते। अध्वर्वो ओ अद्रिभिः सुतम्'।[३४]
जैमिनीय शाखा
[सम्पादयतु]अस्याः शाखायाः समग्रांशाः, ब्राह्मण-श्रौत-गृह्यसूत्रसहिताः समुपलब्धाः सन्ति । जैमिनीयसंहिता नागराक्षरेऽपि लाहौरनगरात् प्रकाशिताऽभवत् । अस्याः मन्त्राणां संख्या १६८७ वर्तते । तवलकारशाखा अस्या एव अवान्तरशाखा वर्तते । तवलकारोऽयं जैमिनिऋषेः पट्टशिष्यः आसीत् । जैमिनीयसामगानस्य प्रथमप्रकाशन संस्कृतविश्वविद्यालयवाराणसीतोऽभवत् । सामगानमिदं पूर्वार्चिकेन सम्बद्धमस्ति । अस्य त्रयो भागाः सन्ति - आग्नेयः, ऐन्द्रः, पवमानश्चेति । एतेष्वादिमस्य चान्तिमस्य च पर्वस्य – विशेषविभागो नास्ति, किञ्चैन्द्रपर्वस्य चत्वारो भागाः सन्ति । सम्पूर्णग्रन्थे गानसंख्या १,२२४ वर्तते । कौथुमीयसामसंहितातः जैमिनीयसामसंहितायाः पाठे सर्वथा भेदी नास्ति, किञ्च गानप्रकारस्तु सर्वथा भिन्ना एवास्ति । अद्यपर्यन्तं केवलमस्य प्रथमभाग एव प्रकाशितोऽस्ति। द्वितीयखण्डस्तु हस्तलेखे एवास्ति ।
सामवेदीयब्राह्मणानि
[सम्पादयतु]सामवेदस्य ब्राह्मणानां सङ्ख्या इतरवेदेनां ब्राह्मणापेक्षया अत्यधिकाऽस्ति। सामवेदीयब्राह्मणानां संख्या सायणाचार्यमतानुसारेण निम्नलिखिताऽस्ति
‘अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम्।
षड्विंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥
आर्षेयं देवताध्यायो भवेदुपनिषत् ततः।
संहितोपनिषद् वंशो ग्रन्था अष्टावितीरिताः॥'
(१) प्रौढब्राह्मणम् (ताण्ड्यपञ्चविंशब्राह्मणम्),
(२) षड्विंशब्राह्मणम्,
(३) सामविधिः (सामविधानम्),
(४) आर्षेयब्राह्मणम्,
(५) देवताध्यायः,
(६) उपनिषद्ब्राह्मणम्,
(८) वंशब्राह्मणम्,
(९) जैमिनीयब्राह्मणम्।
सम्भवतः एतेष्वनेकब्राह्मणेषु एकस्यैव विस्तृतसामब्राह्मणस्य विविधा भागाः भवन्तु, ये कारणवशात् सम्प्रति स्वतन्त्ररूपेणाऽस्माकं सम्मुखे सन्ति। तथाप्येतेषां पारस्परिकसंवलनस्य प्रामाण्यं एतेषां ब्राह्मणानामनुशीलनेनैव भवति।
श्रौतयागग्रन्थाः
[सम्पादयतु]सामवेदस्य श्रौतयागेन सह सम्बद्धाः अनेके ग्रन्था उपलभ्यन्ते । एतेषु ग्रन्थेषु कतिपयाः हस्तलिखितरूपेणेव सन्ति।
(१) कल्पानुपदसूत्रम् - कल्पानुपदसूत्रे द्वौ प्रपाठकौ स्तः । प्रत्येकं प्रपाठकः द्वादशपटलेषु विभक्तोऽस्ति । अार्षेयकल्पस्य, क्षुद्रसूत्रस्य च परिशिष्टम् इवेदं प्रतीतं भवति । यतोऽत्र नामनिर्देशं विनैव उभाभ्यां ग्रन्थाभ्याम् उद्धरणानि सङ्गृहीतानि सन्ति । सूत्रमिदं सभाष्यं काशीतः प्रकाशितमस्ति ।
(२) उपग्रन्थसूत्रम् - ग्रन्थेऽस्मिन् चत्वारः प्रपाठकाः सन्ति । सायणानुसारेण (ताण्ड्य० ७॥४॥८) कात्यायन एवास्य कर्त्ताऽस्ति । अस्य अन्तिमप्रपाठकसामप्रतिहारभागस्य परिचायकः स्वतन्त्रो ग्रन्थोऽस्ति । अवशिष्टप्रपाठकास्तु क्षुद्रसूत्रस्यैव परिशिष्टभागो, यो हि सत्यव्रतसामश्रमीमहोदयेन 'उषा'-नाम्नि पत्रिकायां १८९७ ख्रीष्टाब्दे कलकत्तानगरीतः प्रकाशितोऽस्ति ।
(३) अनुपदसूत्रम् - ग्रन्थोऽयं दशप्रपाठकेषु विभक्तोऽस्ति । पञ्चविंशब्राह्मणस्यायं संक्षिप्ता व्याख्याऽस्ति (अप्रकाशितम् ) ।।
(४) निदानसूत्रम् - दशप्रपाठकेषु विभक्तमिदं सूत्रमस्ति । अस्य ग्रन्थस्य प्रणेता पतञ्जलिः मन्यते। ताण्ड्यभाष्ये (१४॥५॥१२) सायणेन यानि उद्धरणानि दत्तानि, तानि निदानसूत्रे लभन्ते -
'तथा निरालम्बरूपता भगवता पतञ्जलिना उक्तं सप्तमेऽहन्यर्कः कृताकृतो भवत्यब्राह्मणविहितत्वादिति ॥'
उद्धरणमिदं निदानसूत्रे (४७) उपलब्धं भवति ।
(५) उपनिदानसूत्रम् - अस्मिन् सूत्रे द्वौ प्रपाठकौ स्तः । अस्मिन् प्रथमतः छन्दसां सामान्यवर्णनमस्ति । तदनन्तरम् उभयोः आर्चिकयोः मन्त्राणां छन्दसां विवरणमस्ति (अप्रकाशितम्) ।
(६) पञ्चविधानसूत्रम् - सूत्रेऽस्मिन् द्वौ प्रपाठकौ स्तः । साम्नः पञ्चविभागानां यद्वर्णनं प्राप्यते, तेषां विभाजनप्रकाराणामत्र वर्णनमस्ति।
(७) लघु-ऋक्तन्त्रसङ्ग्रहः - ऋक्तन्त्रस्य संक्षिप्तं संस्करणं न भूत्वा ग्रन्थोऽयं स्वतन्त्रोऽस्ति । अस्मिन् संहितापाठं पदपाठरूपेण परिणतमस्ति । अनेन परिणतेन या विशिष्टता परिलक्षिताऽभवत् तस्यैको विपुलः सङ्ग्रहोऽत्र प्रस्तुतोऽस्ति । अत्र एतादृशानां मन्त्राणां निर्देशोऽस्ति, यत्र संहितायां ‘ष' इत्यस्ति तत्र पदपाठे ‘स' इत्यस्ति।[३५] यत्र संहितायां 'ष्ट' इति पदमस्ति, तत्र पदपाठे 'स्त' इति भवति।[३६] अनेनैव प्रकारेण गुण-वृद्धि-पूर्वरूप-प्रकृतिभावादीनां स्थलानां निर्देशोऽस्ति । मन्त्राणां सरूपज्ञानाय नितान्तमुपादेयोऽस्ति ( प्रकाशितः ) ।
(८) सामसप्तलक्षणम् - अस्मिन् पद्यबद्धलघुकायिके ग्रन्थे सामसम्बन्धिज्ञातव्यतथ्यानां सङ्कलनमस्ति ( प्रकाशितम् ) ।
सामवेदविमर्शः
[सम्पादयतु]‘साम'-शब्दस्तु रूढोऽस्ति । अस्यार्थः गानमथवा गीतिरस्ति । अस्मिन् सन्दर्भे जैमिनिनाऽप्युक्तम्- ‘गीतिषु सामाख्या' इति।[३७] सामगानविशेषस्य रथन्तरम्, बृहदादि च नामकरणमस्ति । सामशब्दस्तु सामान्यगानवाचकोऽस्ति तथा रथन्तर-बृहदादिशब्दास्तु विशेषगानवाचकाः सन्ति । रथन्तर-बृहदादिनामकरणस्य प्रयोजकः अध्येतृप्रसिद्ध एवास्ति । गायत्र्यादिषु सर्वेषु छन्दःसु सामगानमस्ति । उदाहरणार्थम् — 'अग्न आयाहि वीतये'[३८], अस्य गायत्रीच्छन्दसः ऋचामुपरि वेयगाने साममस्ति।[३९]
'पुरुत्वादाशिव'[४०], अस्योष्णिकछन्दस्क-ऋचामुपरि वेयगाने[४१] सामस्ति । ‘यज्ञयज्ञा वो'[४२], अस्य बृहतीच्छन्दसः ऋचामुपरि वेयगाने[४३] सामगानमस्ति । ‘स्वादोरित्थ विषुवतो'[४४], अस्य पङ्क्तिच्छन्दस्क-ऋचामुपरि वेयगाने[४५] ‘अाजुहोता हविषा'[४६], अस्य त्रिष्टुप्छन्दसः ऋचामुपरि वेयगाने[४७], ‘चित्र इच्छिषो'[४८], अस्य जगतीच्छन्दसः ऋचामुपरि वेयगाने[४९] सामगानमस्ति । अनेन प्रकारेणैव अतिजगती-शक्वरी-अतिशक्वरी-अष्टि-अत्यष्टिप्रभूतीनामतिच्छन्दक-ऋचामुपरि सामगानमस्ति । साम्नः परस्परवैशिष्ट्य-विकार-विश्लेषण-विकर्षण-अभ्यास-विराम-स्तोमादीनां कारणम्भवति ।
यज्ञेषु औद्गातृगणस्य चतुर्णामृत्विजां कार्यकलापेषु क्वापि भिन्नता क्वचिच्च सहकारिताऽपि भवति । अस्य विधानं श्रौतसूत्रेण अवगन्तुं शक्यते । साम्नां यज्ञेषु क्वचित् केवलं प्रस्तोत्रे क्वचिच्चोद्गात्रे गानविधानमस्ति । क्वचिच्च प्रस्ताव-उद्गीथ-प्रतीहार-उपद्रव-निधनरूपैः गानस्य पञ्चविभागं कृत्वा विभिन्नांशाय ऋत्विग्भिः उच्चारण्यविधिरस्ति ।
पूर्वार्चिकस्य उत्तरार्चिके नैतदेव सम्बन्धमस्ति यदुत्तरार्चिके यत्प्रगाथः किंवा ऋचां सूक्तानि सन्ति, तास्वधिकतराः प्राक् ऋचः पूर्वार्चिके पठिताः सन्ति । पूर्वार्चिके नानाविधसाम्नां योनिभूताः ऋचः पठिताः सन्ति, तथोत्तरार्चिके प्रगाथतृचादिसूक्तानि पठितानि सन्ति । एकस्मिन् प्रगाथात्मके वा तृचाद्यात्मके पर्याप्तपर्यालोचनं कृतवन्तः डा० कैलेण्डरमहोदयस्तु पूर्वमुत्तरार्चिकम् एव उभयोः मध्ये अपेक्षाकृतप्राचीनतरम् अमन्यत्, किञ्च सम्प्रति सः पूर्वमतं भ्रान्तं मत्वा तं त्यक्तवान् । सामविधानब्राह्मणे उत्तरार्चिकस्य मन्त्राणामुद्धरणं कुत्राऽपि न दृश्यते । अथर्वपरिशिष्टस्य[५०] अनुसारेण पूर्वार्चकस्य उपान्ता ऋगेव सामवेदस्य अन्तिमा ऋगस्ति।[५१] अस्य एव प्रमाणस्य आधारे डॉ० ओल्डनवर्गमहोदयेन पूर्वार्चिकं पूर्वतरं स्वीकृतम्। उत्तरार्चिकस्तु निश्चितरूपेण यज्ञोपयोगिनामृचाम् अवान्तरकालिकः सङ्ग्रह एवास्ति । एतावदेव नास्ति, प्रत्युत अस्योपरि आश्रितम् ऊह्यगानमूहगानश्च तैः सामवेदीयग्रन्थस्य पश्चाद् विरचितं मन्यते। ते एतान् गानग्रन्थान् ताण्ड्यब्राह्मणात्पश्चात्, लाटयायनश्रौतसूत्राद् पश्वाद्, आर्षेयकल्पसूत्रात्, पुष्यसूत्रादपि पश्चाद्वर्त्तिनी रचनाज्ञातुं आग्रहं कुर्वन्ति। ब्राह्मायणश्रौतसूत्रस्य टीकाकारः धन्वी वदति-ऊहयानन्तु सूत्रकारादपि पश्चान्निर्मित्तम् अभवत्।
स्तोमः, विष्टुतिः च
[सम्पादयतु]शस्त्र-स्तोत्रयोर्मध्ये अन्तरं भवति । शस्त्रस्य लक्षणमस्ति - 'अप्रणीतमन्त्रसाध्या स्तुतिः शस्त्रम्॥' अर्थात् गायनं विना मन्त्रेण सम्पादिता स्तुतिः। शस्त्रम् ऋग्वेदे भवति, स्तोत्रं तु सामवेदे । स्तोत्रस्य स्पष्टार्थो भवति– 'प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम्'। स्तोत्रमपि स्तुत्याः एकं प्रकारान्तरं भवति । स्तोमानां प्रयोगोऽपि यज्ञयागेषु भवति । अस्य विशेषवर्णनं ताण्ड्यब्राह्मणे कृतमस्ति । स्तोमस्य संख्या त्रिवृत्-पञ्चदश-सप्तदश-एकविंश-त्रिणव-त्रयस्त्रिंश-चतुविंश-चत्वारिंश-अष्टचत्वारिंशादि नवा सन्ति । स्तोमोऽयं प्रायः तृचानामुपरि भवति । तृचमेनं त्रिपर्याये गानस्य नियमोऽस्ति। तृतीयपर्याये एव स्तोमस्य स्वरूपं निष्पन्नं भवति । अस्याः वृत्तिजन्यगानप्रकारस्य संज्ञा विष्टुतिरर्थात् विशेषस्तुतिरस्ति । एतेषां नवस्तोमानां समग्रविष्टुत्याः संख्यायां (२८) अष्टाविंशतिरस्ति । अस्य विशेषवर्णनं ताण्ड्यब्राह्मणस्य द्वितीये तृतीये च अध्याये उल्लिखितम् अस्ति।
सामवेदस्य पदकाराः
[सम्पादयतु]गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। निरुक्ते (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते। दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न )। यास्केन तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।[५२] स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते। यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=सूर्यः।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = जलम्, यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भः
[सम्पादयतु]- ↑ (ऋ० वे० ५॥४४॥१४)
- ↑ ( २॥४३॥२ )
- ↑ ( ऋ० वे० १।१०७।।२ )
- ↑ 'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)
- ↑ (अथ० वे० ११॥७॥२४)
- ↑ ( अ० वे० ७॥५४।१ )
- ↑ ( ऋचि अष्यूवं साम-छा० उ० १॥६॥१ )
- ↑ (बृह० उ० ६॥५॥२०; अ० वे० १४॥२॥७ ऐ० ब्रा० ८॥२७ )
- ↑ (बृह० उ०१।३।२२)
- ↑ ( ऋ० ९॥९७॥१३ )
- ↑ ( ताण्डयब्राह्म० ११॥८॥१३ )
- ↑ ( ९॥८८॥१ )
- ↑ ( ताण्डय० ७॥१०॥१० )
- ↑ सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.1 प्रथमा दशतिः
- ↑ ( ६॥१६॥४३ )
- ↑ ( ७॥८१॥१ )
- ↑ ( ऋ० १ · १०६॥२)
- ↑ (२॥४३॥२)
- ↑ (८॥९८१)
- ↑ (ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))
- ↑ ( मनु० १॥२३ )
- ↑ (सा० वे० सं० १८६६)
- ↑ ( साम० सं० १८७४ )
- ↑ (सा० सं० १८४९)
- ↑ ( सा० सं० ४६३ )
- ↑ (सा० सं० ५४६ एवं ८१८)
- ↑ (ऋ० ९॥१०७॥४, सा० सं० ५११ )
- ↑ (सा० सं० ५४५)
- ↑ (सा० सं० ६९८)
- ↑ (शा० भा० ३।३।३६)
- ↑ (६८॥७)
- ↑ (शा० भा० ३॥४॥२७)
- ↑ ( आपि० शि० )
- ↑ (सामवेद १॥१॥८॥३ ) ( महाभाष्यम्-१॥१॥४॥४८ )
- ↑ ( श्लो० २५-३९ )
- ↑ (श्लो० ४०-४३)
- ↑ ( जै० सू० २॥१॥३६ )
- ↑ (छन्द आर्थिकः १॥१॥१ )
- ↑ ( १॥१॥१ )
- ↑ (छ० आ० २।१।१)
- ↑ (२॥२॥१९)
- ↑ ( छं० अा० १।१॥३५ )
- ↑ ( १॥२॥२७ )
- ↑ (छ० अा० ५॥१॥(१९)
- ↑ ( ११॥ १॥६ )
- ↑ (छ० अा० १॥२॥९)
- ↑ ( २॥१॥३४ )
- ↑ (छं० आा० १॥२॥१० )
- ↑ ( २॥१॥३५ )
- ↑ ( ४६॥३॥६)
- ↑ ( सा० सं० ५८४ )
- ↑ दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६