मध्वाचार्यः
मध्वाचार्यः । | |
---|---|
जन्मतिथिः | क्रि.श. १२३८ । |
जन्मस्थानम् | पाजकक्षेत्रम्, उडुपीमण्डलम्, कर्णाटकराज्यम्, भारतम् |
पूर्वाश्रमनाम | वासुदेवः |
मृत्युतिथिः | क्रि.श. १३१७ । |
तत्त्वचिन्तनम् | द्वैतम्/तत्त्ववादः |
सम्मानाः | द्वैतसिद्धन्तप्रतिष्ठापनाचर्यः । |
साहित्यिककृतयः | गीताभाष्यम् । गीतातात्पर्यम् । ब्रह्मसूत्रभाष्यम् । अनुव्याख्यानम् । न्यायविवरणम् । अणुभाष्यम् । |
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
मध्वाचार्यः (कन्नड: ಮಧ್ವಾಚಾರ್ಯ, आङ्ग्ल: Madhvacharya) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तकः आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमध्वाचार्यस्य जीवनचरित्रं वर्णितवान् । भारतस्य दर्शनशास्त्रेषु 'द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । 'अयं वायुदेवस्य अवतारः, अपि च अयं हनुमत्-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप' इति ख्यातिः ।
आचार्यस्य जन्म क्रिस्तशके १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम उडुपी इत्यस्य नगरस्य समीपे अस्ति । मध्वाचार्यः मध्यगेहभट्ट-वेदवती इति दम्पत्यो: पुत्र: । पितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञनाम्नः आचार्यात् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञः वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति अपरं नाम दत्तवान् । किन्तु आचार्यः मध्वस्तु श्रुतिप्रतिपादितेन (यदी मनु प्रदिवो मध्व आदवे इति बळित्थासूक्ते) 'मध्व' इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम तत्त्ववादः इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध: ।
इतिहासः
[सम्पादयतु]सुमध्वविजयः इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं, वैशिष्ट्यं च वर्णयति । 'अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य तृतीयः अवतारः' इति तस्य प्रख्यातिः । एतस्य पिता मध्यगेह भट्टः । माता वेदवती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् मानवः एकस्य दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच 'लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति' इति । तदनुसारेण क्रि.श.१२३८ तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेव इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं अप्रकटयत् । शास्त्रसंरक्षणार्थं भुवि आगतः सः एकादशे वयसि अच्युतप्रज्ञात् संन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नाम प्राप्तवान् ।
त्रयोदशे (१३) शतमाने प्रचलितायां बृहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्त्वा सर्वज्ञसूरिः इति उपाधिं प्राप्नोति । स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य पाण्डित्यस्य वैशिष्ट्यम् । एवं वेदस्य अर्थत्रयं, महाभारतस्य दशार्थं, विष्णुसहस्रनामस्य शतार्थं प्रदर्श्य एषः केरळे 'विश्वम्' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादितवान् इति तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।
मध्वसिद्धान्तस्य प्रमेयम् एवं निरूपयन्ति श्रीव्यासराजश्रीमच्चरणाः — "श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्वतो भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावं गताः। मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं ह्यक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः॥"
विष्णुं केवलस्वतन्त्रं सर्वोत्तमं च मन्यन्ते माध्वाः। इतरदेवतादिः जीवसमूहः तस्मादवरः परस्परं तारतम्यशाली च। तद्यथा लक्ष्मीः विष्णोः साक्षादवरा। तदवरः चतुर्मुखः ब्रह्मा मुख्यप्राणश्च। तदवरा सरस्वती भारती च। तदवरः शिवः शेषः गरुडश्च। तदवराः षण्महिष्यः। तदवरा पार्वती वारुणी सुपर्णी च। इतरदेवताः ततोऽप्यवराः। इदं तारतम्यं नाम।
- ब्रह्मसूत्रभाष्यम्
- अणुभाष्यम् (सर्वशास्त्रार्थसङ्ग्रहः)
- अनुव्याख्यानम्
- न्यायविवरणम्
- गीताभाष्यम्
- गीतातात्पर्यम् (गीतातात्पर्यनिर्णयः)
- दशोपनिषद्भाष्यम् अर्थात् सर्वासामपि उपनिषदां भाष्यं विरचितम् । दश उपनिषदः । अतः दश ग्रन्थाः ।
- ऋग्भाष्यम्
- महाभारततात्पर्यनिर्णयः
- भागवततात्पर्यनिर्णयः
- यमकभारतम्
- उपाधिखण्डनम्
- मायावादखण्डनम्
- प्रपञ्चमिथ्यात्वानुमानखण्डनम्
- तत्त्वोद्योतः
- विष्णुतत्त्वविनिर्णयः
- तत्त्वविवेकः
- तत्त्वसाङ्ख्यानम्
- कर्मनिर्णयः
- कथालक्षणम्
- प्रमाणलक्षणम्
- तन्त्रसारसङ्ग्रहः
- द्वादशस्तोत्रम्
- कृष्णामृतमहार्णवः
- सदाचारस्मृतिः
- जयन्तीनिर्णयः
- यतिप्रणवकल्पः
- न्यासपद्धतिः
- तिथिनिर्णयः
- कन्दुकस्तुतिः
- नरसिंहनखस्तुतिः
शिष्याः
[सम्पादयतु]मध्वाचार्येण प्रभाविताः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं संन्यासदीक्षां स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थम्, एवं मध्वाचार्येण प्रतिष्ठापितस्य श्रीकृष्णस्य आराधननिर्वहणाय च नियुक्ताः । पञ्चदशे (१५) शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां कृते पृथक् रूपेण अष्ट मठाः स्थापिताः । मध्वाचार्यस्य चत्वारः साक्षात् शिष्याः तु-
- श्रीपद्मनाभतीर्थः
- श्रीनरहरितीर्थः
- श्रीमाधवतीर्थः
- श्रीअक्षोभ्यतीर्थः
उडुपीक्षेत्रस्य अष्टमठानां मूलयतयः
- श्रीहृषीकेशतीर्थः
- श्रीनरसिंहतीर्थः
- श्रीजनार्दनतीर्थः
- श्रीउपेन्द्रतीर्थः
- श्रीवामनतीर्थः
- श्रीविष्णुतीर्थः
- श्रीश्रीरामतीर्थः
- श्रीअधोक्षजतीर्थः
बाह्यानुबन्धाः
[सम्पादयतु]- मध्वाचर्यस्य विषये लेखाः Archived २०११-०६-०९ at the Wayback Machine