कर्मयोगः (गीता)
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
कर्मयोगनाम्ना अयं च अध्यायः अभिधीयते । अस्मिन्नध्याये प्राधान्येन कर्मणः विषये चर्चितं वर्तते । भारतीयविचारानुसारेणा आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।
गीतायाः पूर्वं मीमांसाशास्त्रे कर्मणो महत्त्वं स्वीकृतम् आसीत् । जैमिनिना तु वेदस्य प्रयोजनमेव कर्मणः प्रतिपादनं कथितम् । तत्र कर्मणः अभिप्रायः यज्ञेन प्रतिपादितम् । गीतायामपि 'यज्ञ' शब्दस्य प्रयोगो विस्तृतार्थे विहितः । निः स्वार्थबुद्ध्या क्रियमाणं परमात्मानं प्रति उपयन्तारं निखिलं कर्मजातं 'यज्ञ्’ मेवास्ति । यज्ञास्तु अनेकधा प्रतिपादिताः । यथा –द्रव्ययज्ञः, तपोयज्ञः, ज्ञानयज्ञश्चेति । श्रीमद्भगवद्गीताया अवधारणाऽस्ति यत् फलाकांक्षाया दृष्टिकोणेन अक्रियमाणानि कर्माणि कदापि बन्धनं नोत्पादयन्ति किन्तु कर्मचक्रात् न कश्चिदपि प्राणी पलायनं कर्त्तुं शक्नोति । यतो हि प्राणिनां जीवनयात्राया मुख्य आधारः कर्म एवास्ति । क्षणमपि कश्चिदपि प्राणी कर्म न कुर्वन् नैव तिष्ठति । सत्त्वादिगुणत्रयस्य प्रभावात् प्राणी सदैव कर्म कुर्वाणो विद्यते ।
लौकिककर्मसु वासनाख्यो दोषो भवति । अनेनैव दोषेण कर्त्ता बन्धने निपतति, कर्मणा बद्धो भवति च । फलाकांक्षा अथवा आसक्तिरुपिण्या वासनाया एव अपरं स्वरुपम् अस्ति । यथा कामनया इच्छया वा कर्म क्रियते, तस्य कर्मणः फलन्तु अवश्यमेव भोक्तव्यं भवति । यद्यपि तत्फलभोगात् प्राणी पृथक न भवितुं शक्नोति, तथापि फलस्य बन्धनात् अवश्यं मुक्तिं लब्धुं शक्नोति । कर्मणां क्रियमाणतायां यदि एतादृशं कौशलं भवेत्, तदैव कर्मणा तस्य भोगो भवति । कर्मयोगस्य सार्थकताऽपि अस्मिन्नेवास्ति । अतएवोक्तम् –“योगः कर्मसु कौशलम्” इति ।
कर्मयोगे प्रवृत्त्यर्थं त्रिविधस्याचरणस्य उपयोगिता श्रीमद्भगवद्गीतायां सम्प्रोक्ता । तत त्रिविधमाचरणमत्रोल्लेखनीयमस्ति –(१) फलाकांक्षां वर्जयेत् (२)कर्त्तृत्वे अहंकारं परित्यजेत् (३) स्वक्रियमाणं कर्मजातम् ईश्वराय अर्पयेत् चेति । श्रीमद्भगवद्गीतायास्तु उपदेशोऽस्ति यत् प्राणिनां कर्मकरणे एवाधिकारो वर्तते, कर्मफलस्योपभोगे तेषामधिकारो नास्ति –
- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
- मा कर्मफलहेतुर्भुर्मा ते सङ्गोऽस्त्वकर्मणि ॥
भगवतः श्रीकृष्णस्येदं कथनं कर्मयोगस्य चतुस्सूत्री अस्ति । अत्र कर्मणां परित्यागस्य शिक्षा नैव प्रद्त्ता अपितु कर्मफलस्य परीत्यागविषये स्वोपदेशो विहितः । कर्मफलस्य परित्यागोऽपि 'संन्यास' इति नाम्ना विज्ञायते । गीतोक्तम्तेन कर्मपरित्यागः संन्यासो नास्ति –
- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥
कर्मफलविषये चत्वारः सिद्धान्ताः प्रतिपादिताः सन्ति (१) प्रमादवशात् फलेच्छाया अभावः अथवा कर्मप्रवृत्तेरभावः (२) फलाकाङ्क्षया तदुचितकर्मणां निष्पादनम् (अयमेव गीतायामुक्तो निष्काकर्ममार्गोऽस्ति )
कर्मयोगमार्गः
[सम्पादयतु]- किमपि कर्मफलं प्राप्तुः कर्ता, करणं तथा क्रिया इति अस्याः त्रिपुटेः आवश्यकता अस्ति । परन्तु एतेषु किमपि स्वतन्त्ररीत्या कर्मफलम् उत्पादयितुं न शक्नोति । लाङ्ग्लः स्वयमेव भूमिं कर्ष्टुं न समर्थः । कर्तुः अभावे क्रियायाः अस्तित्वमेव न संभवति । यदि कर्ता जीवः एव कर्मफलम् उत्पादयति इति चेत् स न कदापि अनिष्टं फलं प्राप्नुयात् । अपि तु सदैव इष्टफ्लमेव लभेत । परन्तु प्रत्यक्षं तथाविधं कार्यजातं न दृष्टिपथम् आयाति । एतावता एतत् सिध्दं यत् कर्मफलप्रदायिनी कापि भिन्ना शक्तिः वरीवर्ति । सा शक्तिः एव ईश्वरनाम्ना निर्दिश्यते ।
- तथैव पूर्व निर्मिते अस्मिन् जगति एव प्राणिनः जन्मग्रहणं कुर्वन्ति । केनापि जीवेन स्वस्य निर्मितिः स्वयमेव कृता न वा स्वजन्मानन्तरं जगद् इदम् उत्पादितम् । किमपि कार्यम् निर्मात्रा विना नैव संभवति । विना ज्ञानं शक्तिं वा किमपि निर्माणकार्यं भवितुं नैव शक्यम् । अयं सर्वज्ञः सर्वशक्तिमान् निर्माता एव ईश्वरः । मनुष्यः केवलम् ईश्वरप्रदत्तशक्तेः आधारेण एव स्वजीवनं सुखपूर्णं कर्तुं प्रयतते । स प्रकृतिनियमैः विरुध्दं गन्तुं न प्रभवति ।
- मनुष्यः ईश्वरस्य अस्तित्वं नानुमोद्य अहमेव कर्ता इति मत्वा कर्मानुष्ठाने प्रवृत्तो भवति सुखं च अभिलषति । परन्तु किमपि कार्यं देशः कालः पुरुषस्य क्षमता इत्यादिभिः मर्यादितम् अत एव अनित्यं तिष्ठति । अत्र कर्मफलम् अनित्यम् एवं दुःखस्य कारणम् इत्यतः किं तेन कर्म एव त्याज्यम् ? परन्तु कर्मत्यागः तु न संभवति । यतः कर्मणा विना मनुष्यः क्षणम् अपि स्थातुं न प्रभवति । अत एव उच्यते ईश्वरार्पणबुद्ध्या एव, फले आसक्तिम् अकृत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति ।
- वस्तुतः कर्मफलं कर्मफलेच्छा वा नैव अस्माकं दुःखस्य कारणम् । अपि तु सदैव इष्टं फलमेव लभेय इत्ययम् आग्रहः एव दुःखस्य मूले परमार्थतः तिष्ठति इति सम्यक्तया अवधारणीयम् ।
- ईश्वरं कार्याध्यक्षं मत्वा कर्तृत्वाभिमानं परित्यज्य कर्मानुष्ठानम् एव ईश्वरार्पणबुद्धिः इति निगद्यते । देवालये यथा वयं देवताप्रसादं सहर्षं गृह्णीमः तथैव सर्वेषां कर्मणां फलम् ईश्वरनियमानुसारं प्राप्यते इति बुद्ध्या तस्य प्रसादरुपेण स्वीकारः कर्तव्यः । प्रसादविषये किं वस्तुजातं कियता प्रमाणेन वा प्राप्यते इत्यस्य विचारं नैव कुर्मः ।
- मन्दिरे वर्तमाना इयं प्रसादग्रहणाबुद्धिः यदि कर्मफलप्राप्तिविषयेऽपि अक्षुण्णा स्यात् तर्हि अस्माकं मनः रागः द्वेषः आसक्तिः इत्यादिभिः अस्पृष्टं तिष्ठेत् । इदमेव शुद्धं मनः इति कथ्यते । अस्मिन् मनसि एव आत्मज्ञानप्राप्तेः योग्यता निवसति ।
- संक्षेपेण इदं वक्तुं शक्यते यत् कर्तृत्वस्य अभिमानं कर्मफले च आसक्तिम् अपरित्यज्य कृतं कर्म बन्धनस्य कारणं भवति । परन्तु ईश्वरं कार्याध्यक्षं तथा कर्मफलदातारं मत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति । इत्येवंविधया ईश्वरार्पणाबुद्ध्या कृतं कर्म एव ‘कर्मयोगः’ इति नाम्ना अभिधीयते ।
भगवद्गीतायाः अध्यायाः |
---|
श्लोकानाम् आवलिः
[सम्पादयतु]३) लोकेऽस्मिन् द्विविधा निष्ठा...
९) यज्ञार्थात्कर्मणोऽन्यत्र...
१०) सहयज्ञाः प्रजाः सृष्ट्वा...
१२) इष्टान्भोगान् हि वो देवा...
१५) कर्म ब्रह्मोद्भवं विद्धि...
१७) यस्त्वात्मरतिरेव स्यात्...
२२) न मे पार्थास्ति कर्तव्यं...
२५) सक्ताः कर्मण्यविद्वांसो...
३४) इन्द्रियस्येन्द्रियस्यार्थे...
४०) इन्द्रियाणि मनो बुद्धिः...
४१) तस्मात्त्वमिन्द्रियाण्यादौ...
४३) एवं बुद्धेः परं बुद्ध्वा...