सदस्यः:Shubha/ज्ञायते किं भवता ?

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

1 महाभारते कति पर्वाणि सन्ति ? तानि च कानि ?

महाभारते अष्टादश पर्वाणि सन्ति तानि -

2 रामायणे कति काण्डा: सन्ति ? ते के ?

रामायणे सप्त काण्डानि सन्ति । ते -
  1. बालकाण्डम्
  2. अयोध्याकाण्डम्
  3. अरण्यकाण्डम्
  4. किष्किन्धाकाण्डम्
  5. सुन्दरकाण्डम्
  6. युद्धकाण्डम्
  7. उत्तरकाण्डम्

3 अष्टादश पुराणानि -

म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
अ-ना-प-लि-ङ्ग-कू-स्कानि पुराणानि प्रचक्षते ॥

4 पञ्च महाकाव्यानि, तेषां रचयितार: च -

रघुवंशम् - कालिदासः
कुमारसम्भवम् - कालिदासः
किरातार्जुनीयम् - भारविः
शिशुपालवधम् - माघः
नैषधीयचरितम् - श्रीहर्षः

5 केचन कथाग्रन्था:, तेषां कर्तार: च -

पञ्चतन्त्रम् - विष्णुशर्मा
हितोपदेशः - नारायणभट्टः
कथासरित्सागरः - सोमदेवः
बृहत्कथा - गुणाढ्यः

6 वेदाः कति ? ते के ?

वेदा: चत्वारः । ते-
  1. ऋग्वेदः
  2. यजुर्वेदः
  3. सामवेदः
  4. अथर्ववेदः

7 प्रसिद्धाः दश उपनिषदः -

अयं च श्लोक: -

ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरि ।
ऐतरेयञ्च छान्दोग्यं बृहदारण्यकं तथा ॥

8 प्रस्थानत्रयं नाम किम् ?

  1. उपनिषदः
  2. भगवद्गीता
  3. ब्रह्मसूत्राणि

9 आस्तिकदर्शनानि दर्शनकाराः च -

(यानि वेदप्रामाण्यम् अङ्गीकुर्वन्ति तानि आस्तिकानि)
साङ्ख्यदर्शनम् - कपिलः
योगदर्शनम् - पतञ्जलिः
न्यायदर्शनम् - गौतमः
वैशेषिकदर्शनम् - कणादः
पूर्वमीमांसा - जैमिनिः
उत्तरमीमांसा - व्यासः

10 नास्तिकदर्शनानि एतानि -

(यानि वेदप्रामाण्यं न अङ्गीकुर्वन्ति तानि)
चार्वाकदर्शनम्
जैनदर्शनम्
बौद्धदर्शनम् च इति ।
बौद्धदर्शने चत्वारः भेदाः - माध्यमिकं, वैभाषिकं, सौत्रान्तिकं, योगाचारं च ।
आहत्य नास्तिकदर्शनानि अपि षट् ।

11 सप्तचिरञ्जीविनां नामानि -

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

12 चतुर्विधपुरुषार्थाः -

  1. धर्मः
  2. अर्थः
  3. कामः
  4. मोक्षः

13 चत्वार: आश्रमाः -

  1. ब्रह्मचर्याश्रमः
  2. गृहस्थाश्रमः
  3. वानप्रस्थाश्रमः
  4. संन्यासाश्रमः

14 षोडश संस्काराः -

15 नव रसाः - नवभावाः

  1. शृङ्गारः रतिः
  2. वीरः उत्साहः
  3. करुणः शोकः
  4. अद्भुतः विस्मयः
  5. हास्यः हासः
  6. भयानकः भयम्
  7. बीभत्सः जुगुप्सा
  8. रौद्रः क्रोधः
  9. शान्तः शमः

अयं च श्लोक: -

शृङ्गार-वीर-करुणाद्भुत-हास्य-भयानकाः ।
बीभत्सरौद्रौ शान्तश्च रसा: नव प्रकीर्तिताः ॥

16 जम्बूद्वीपस्थस्य भारतवर्षस्य कुलपर्वताः कति ? ते के ?

सप्त कुलपर्वता: । ते च -
  1. महेन्द्रः
  2. मलयः
  3. सह्यः
  4. पारसनाथः
  5. रैवतकः
  6. विन्ध्यः
  7. अरावली

17 द्वादश ज्योतिर्लिङ्गानि, तेषां स्थलानि च -

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम् ओङ्कारममलेश्वरे ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतुमीतटे ।
हिमालये तु केदारं घृष्णेशं च शिवालये ॥


18 संस्कृतवाक्यानि प्रतीकेषु उपयुक्तानि -

सत्यमेव जयते - भारतसर्वकारः
नभःस्पृशं दीप्तम् - भारतीयवायुदलम्
योगक्षेमं वहाम्यहम् - जीवविमासंस्था
शं नो वरुणः - भारतीयजलसेना
बहुजनहिताय - आकाशवाणी
न हि ज्ञानेन सदृशम् - मैसूरुविश्वविद्यालयः
ज्ञानं विज्ञानसहितम् - बेङ्गलूरुविश्वविद्यालयः
योऽनूचान: स नो महान् - राष्ट्रियसंस्कृतसंस्थानम्
तन्नो हंसः प्रचोदयात् - रामकृष्णाश्रमः
सत्यं शिवं सुन्दरम् - दूरदर्शनम्

19 वेदाङ्गानि षट् सन्ति-

  1. शिक्षा
  2. व्याकरणम्
  3. छन्दः
  4. निरुक्तम्
  5. ज्योतिष्यम्
  6. कल्पः

20. दश अवताराः के ?

  • मत्स्यः
  • कूर्मः
  • वराहः
  • नरसिंहः
  • वामनः
  • परशुरामः
  • श्रीरामः
  • कृष्णः
  • बुद्धः
  • कल्किः

अयं च श्लोक: -

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोऽस्तु ते ॥

21 प्रसिद्धाः काश्चन स्मृतयः -

मनुस्मृतिः
याज्ञवल्क्यस्मृतिः
पाराशरस्मृतिः
देवलस्मृतिः
नारदस्मृतिः इत्यादयः ।

22 योगस्य अष्ट अङ्गानि कानि ?


23 सप्त स्वराः के ?

  • षड्जः
  • ऋषभः
  • गान्धारः
  • मध्यमः
  • पञ्चमः
  • धैवतः
  • निषादः

अयं च श्लोक: -

निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥

24 भगवद्गीतायां कति अध्यायाः सन्ति ? ते के ?

भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति –

25 कति ऋणानि सन्ति ? तानि कानि ?

त्रीणि ऋणानि सन्ति ।
  1. देवऋणम्
  2. ऋषिऋणम्
  3. पितृऋणम्

26 पञ्च भूतानि कानि ?

पृथिवी
आपः
तेजः
वायुः
आकाशः

27 अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ? सुभाषितरत्नभाण्डागारग्रन्थे । (सामान्यतः 10,000 सुभाषितानि सङ्गृहीतानि।)

28 भर्तृहरिणा विरचितं शतकत्रयम्—

  1. नीतिशतकम्
  2. शृङ्गारशतकम्
  3. वैराग्यशतकम्

29 एकैकस्य वेदस्य चत्वारः भागा: -

  1. संहिता
  2. ब्राह्मणम्
  3. आरण्यकम्
  4. उपनिषत्

30 सप्तर्षयः के ?

अयं च श्लोक: -

कश्यपोऽत्रिः भरद्वाजः विश्वामित्रोऽथ गौतमः ।
जमदग्निः वसिष्ठश्च सप्तैते ॠषयः स्मृताः ॥

31 शङ्कराचार्येण स्थापिताः चत्वारः मठाः कुत्र कुत्र सन्ति ?

उत्तरदिशि - बदरी - उत्तराखण्डे
पश्चिमदिशि - द्वारका - गुजरातराज्ये
दक्षिणदिशि - शृङ्गेरी - कर्णाटकराज्ये
पूर्वदिशि - पुरी - ओरिस्साराज्ये