छन्दः
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
छन्दो वेदस्य पञ्चमाङ्गमस्ति । वेदाः सन्ति छन्दोबद्धाः, अतः तेषामुच्चारणनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम्। छन्दोभिधेनैतेनाङ्गेन छन्दसा सर्वेषामुच्चारणस्य विधिः, तदगतिप्रकारः, तद्गानरीतिश्च विदिता भवति। तस्माद्वैदिकमन्त्रोच्चारणप्रयोजनेन तदध्ययनं पूर्वमुचितम् । विना छन्दोज्ञानं यो वेदाऽध्ययनयजनयाजनादिकार्याणि करोति, तस्य तानि सर्वाणि कार्याणि न भवन्ति फलदायकानि । स्पष्टतया कात्यायनेन उक्तम् -
'यो ह वा अविदितार्षेयच्छन्दो दैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्त्ये वा पात्यते प्रमीयते वा पापीयान् भवति।'[१]
छन्दशब्दः छद् इति धातुना निष्पन्नः। छन्दसः आद्यः प्रवर्तकः आचार्यः पिङ्गलः । पद्यरचनायाः शास्त्रस्य छन्दः इति नाम । श्रुतिगतिनिरूपकस्य छन्दसो गमनानुकूलतदङ्गत्वमुच्यते पाणिनीयशिक्षायां छन्दः पादौ तु वेदस्य इत्यनेन । विफुलफलकस्य वैदिकवाङ्मयस्य कृत्स्नार्थवगतिश्छन्दः अवलम्बते । लौकिकवाङ्मयस्य त्वर्थप्रतीतेस्सुलभसाधनत्वेनेदमुपकरोति । स्तुतिपूजाप्रसादजननाद्यनेकार्थकं छन्दो नैकधा व्याख्यायत । छन्दांसि छादनात् इति निरुक्तोक्त्या वेदार्थावारकत्वेनेदं सम्प्रायुज्यतेति । मृत्युभीतानां देवानां वेदं प्रविश्य छन्दोभिरावृतत्वमुच्यते । तदुक्तं छान्दोभिरच्छादयन्यदेभिच्छादयंस्तच्छन्दसां चन्दस्त्वम् इति । वेदमन्त्राणां बाहुल्येन छन्दोपनिबध्दत्वात् कालान्तरे वेदापरपर्यायत्वेन छन्दश्शब्दः प्रयुक्तः। अतो वैदिकार्थे छान्दसप्रयोगः, छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः इति निरुक्तवाक्यञ्च तमर्थं द्रढयति ।
श्रुतिषु छन्दसो महनीयता भृशं गीता । असुरकृतेभ्यो विघ्नबाधाभ्यो रक्षकत्वात्तस्य, तच्छक्तिशाली सैनिक इव मतम् । उक्तञ्च —
'दक्षिणतोऽसुरान् रक्षांसि त्वष्ट्रान्यपहन्ति त्रिष्टुब्जिर्वज्रो वैरविष्टुद्।'
शब्दार्थः
[सम्पादयतु]'छन्दः' इत्येतस्य पदस्य व्युत्पत्तिरियम् — छन्दयति (पृणाति) इति छन्दो वा छन्दयति (आह्लादयति) इति छन्दः अथवा छन्द्यतेऽनेनेति छन्दः । छन्दांसिच्छादनाद् इत्येतद् यास्ककथनाद् वेदार्थवाचकं छन्दः इत्येतत्पदं छद् (छादने) धातोर्निष्पन्नम् । वेदावरणकारित्वात् छन्द इत्यस्य पदस्य युक्ततां दुर्गाचार्यः आह -
'यदेभिरात्मानमाच्छादयन् देवा मृत्योर्बिभ्यतः, तत् छन्दसां छन्दस्त्वम्॥'
वाक्यमिदं छान्दोग्योपनिषद्यपि पाठभेदेन प्राप्यते।[२] 'छन्दांसि छादनात्'[३] अस्यैवार्थस्य सम्पुष्ट्यां दुर्गाचार्यस्य पूर्वोक्तवाक्यमस्ति ।
इतिहासः
[सम्पादयतु]संहिताब्राह्मणेषु छन्दोनाम्न उमुपलभ्यत्वात् प्रतीयते यच्छन्दोऽङ्गस्य अपि उत्पत्तिः वैदिकयुग एव संवृत्ता । अस्य वेदाङ्गस्य प्रतिनिधि-ग्रन्थः पिङ्गलाचार्यकृतं 'छन्दःसूत्रम्' अस्ति। छन्दःसूत्रस्य रचयिता कदा बभूव ? अस्य पर्याप्तपरिचयस्य अभावोऽस्ति । ग्रन्थोऽयम् अष्टाध्यायेषु विभक्तः सूत्ररूपेऽस्ति । प्रारम्भात् चतुर्थाऽध्यायस्य सप्तमसूत्रपर्यन्तं वैदिकच्छन्दसां लक्षणं प्रदत्तमस्ति । तदनन्तरं लौकिकच्छन्दसां वर्णनमस्ति । अस्य ग्रन्थस्य हलायुधकृता ‘मृतसञ्जीवनी' व्याख्या प्रसिद्धाऽस्ति । प्रातिशाख्येषु, विशेषतः ऋक्प्रातिशाख्यस्य षोडशपटले, अष्टादशपटले च छन्दसां विस्तृतं विवेचनमस्ति ।
छन्दोबद्धानि गद्य-पद्यानि
[सम्पादयतु]लौकिककाव्येषु छन्दसः पादबद्धतायाश्च सम्बन्धम् एतावद्घनिष्ठमस्ति यत्, पद्यष्वेव छन्दसो योजना मन्यते, तथा गद्यन्तु छन्दोहीनरचनारूपेण सर्वस्वीकृतः भवति। वैदिकच्छन्दसो विषये धारणा इयम् अमान्याऽस्ति। प्राचीनार्यपरम्परानुसारेण गद्यमपि छन्दोबद्धरचना एव मन्यते । दुर्गाचार्येण निरुक्तस्य स्ववृत्यां[४] कस्याऽपि ब्राह्मणस्य वाक्यं समुद्धृतं, यस्य आशयोऽस्ति छन्दो विना वाणी समुच्चरिता न भवति — 'नाच्छन्दसि वागुच्चरति' इति। भरतमुनिनाऽपि छन्दोविरहितं शब्दं नैव स्वीकरोति -
'छन्दोहीनो न शब्दोऽस्ति, न छन्दः शब्दवर्जितम् ॥'[५]
कात्यायनमुनेः नाम्ना प्रख्यातं ऋग्यजुष-परिशिष्टं पूर्वोक्तं तथ्यं स्वीकरोति -
'छन्दोभूतमिदं सर्वं वाङ्मयं स्याद् विजानतः।
नाच्छन्दसि न चापृष्टे शब्दश्चरति कश्चन।।'
वेदस्य न कोऽपि एवंविधो मन्त्रोऽस्ति, यः छन्दसो माध्यमेन न निर्मितोऽस्ति । फलतो यजुर्वेदस्य मन्त्रोऽपि यो हि निश्चयेन गद्यात्मकोऽस्ति, छन्दोविरहितो नास्ति । तेन हि प्राचीनाचार्याः प्रथमाक्षरादारभ्य १०४ अक्षरपर्यन्तं छन्दसां विधानं स्वस्वग्रन्थेषु कृतवन्तः।[६] ऋग्वेदस्य सामवेदस्य च सर्वे मन्त्राः छन्दोबद्धाः सन्ति । हृदयस्थकोमलभावानाम् अभिव्यक्त्याः नैसर्गिकमाध्यमं छन्द एवास्ति । अन्तःस्थलस्य मर्मस्पर्शिनो भावस्य अभिव्यक्तीकरणाय कविगणाः छन्दसा कमनीयकलेवरम् एव अन्विष्यन्ति । मन्त्राणां प्रधानमुद्देश्यं यज्ञेषु उपास्यदेवतायाः प्रसादनकार्ये एवाऽस्ति, तथेदमपि निश्चयेन वक्तुं शक्यते यद् देवतायाः प्रसादनस्य प्रमुखसाधनं मन्त्राणां गायनमेव भवितुं शक्यते । मन्त्राणां छन्दोबद्धतया ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते अतश्छन्दोऽपि वेदाङ्गत्वेन स्वीक्रियते।
शौनकविरचिते ऋक्प्रातिशाख्ये चरमभागे छन्दसां पर्याप्तं विवेचनं विद्यते । अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रसिद्धः अस्ति ।
वैदिकच्छन्दांसि
[सम्पादयतु]वैदिकानि छन्दांसि अनेकभेदोपभेदवन्ति सन्ति । प्रधानेषु वैदिकेषु छन्दःसु इमानि गण्यन्ते —गायत्री, उष्णिक्, अनुष्टुप्, प्रकृतिः, बृहती, पङ्क्तः, त्रिष्टुप्, जगती, अतिजगती, शक्वरी, अतिशक्वरी, कृतिः, अाकृतिः, विकृतिः, संस्कृतिः, अभिकृतिः, उत्कृतिश्च ।
वैदिकच्छन्दसां विशिष्टता इयं यत्, तानि अक्षरगणनायां भवन्ति नियतानि । न तत्राक्षराणां गुरुलघुक्रमस्य कश्चिन्नियमविशेषः । उक्तञ्च कात्यायनेन - 'यदक्षरपरिमाणं तच्छन्दः॥' किञ्च लौकिकसंस्कृतस्य छन्दःसु वार्तेयं नास्ति । तत्र तु वृत्तस्य अक्षराणां गुरुता लघुता निश्चितैवास्ति। शताब्द्यनन्तरं लौकिकच्छन्दसां विकासः पूर्वोक्तेभ्यो वैदिकच्छन्देभ्यो जातः । लौकिकछन्दःसु चत्वारः चरणाः भवन्ति, किन्तु वैदिकच्छन्दःसु नियमोऽयं न भवति ।
भारतीयाचार्याणां मतानुसारेण वैदिकच्छन्दसां लक्षणनिर्धारणे अस्य तथ्यस्य नाधिकं महत्त्वमस्ति यत् तस्मिन् कोऽक्षरो लघुर्वा कोऽक्षरो गुरुरस्ति । किञ्च, अाचार्यशौनकेनास्मिन् विषये विचारः कृतः । तस्य महत्त्वपूर्णं कथनमस्ति प्रातिशाख्ये[७] अष्टाक्षरस्य पादो गायत्रेः, द्वादशाक्षरस्य पादो जागतेः, उपोत्तमाक्षरो लघुर्भवति। दशाक्षरस्य पादे वैराजेः, एकादशाक्षरस्य च पादे त्रैष्टुभे उपोत्तमाक्षरो गुरुर्भवति । वर्णिकच्छन्दः वृत्तमप्यभिधीयते । शौनकस्य इदं कथनं ऋग्वेदीयच्छन्दःसु सुसङ्गतं भवति । पाश्चात्यविद्वांसोऽपि एवंविधानां तथ्यानामाविष्कारं स्व-स्वानुशीलनेन कृतवन्तः । प्रत्येकस्य वेदस्य छन्दसां वर्णनमनुक्रमणीषु अतीव सूक्ष्मतया कृतमस्ति । कात्यायनेन ऋग्वेदीयस्य प्रत्येकस्य मन्त्रस्य छन्दसो निर्देशः सर्वानुक्रमण्यां कृतोऽस्ति ।
वैदिकछन्दःसु अक्षराणां गौरवलाघवयोः विचारम् अकृत्वैव तेषां संख्याया एव विचारः क्रियते । यदा कदा अन्यपादाक्षराणां समसंख्यकत्वे सत्यपि एकस्मिन् पादे संख्याऽल्पतरा भवति तथा कुत्राप्यधिकतरेति । अनियता इयं यथेप्सितं न भवति, अपि तु नियमत एव एवम्भवति । एक-द्वयोः अक्षरयोः अधिकता वा न्यूनता छन्दसः परिवर्त्तनस्य कारणं भवितुं न शक्यते । अनेनास्य स्वरूपस्य हानिर्न भवति । यदि कस्यापि छन्दसः एकाक्षरः ऊनो भवति, तदा तं 'निचृत्' इति कथ्यते, यदि स एव एकाक्षरः अधिको भवति, तदा तं ‘भुरिक्’ इत्यभिधीयते । नियमतः त्रिपदा अष्टाक्षरा गायत्र्या अक्षराणां संख्या ( ८ × ३ ) २४ भवति; किञ्च २३ अक्षराणां गायत्री 'निचृद्गायत्री' तथा २५ अक्षराणां 'भुरिग्गायत्री' कथ्यते। अनेन प्रकारेण यत्र द्वौ अक्षरौ यत्र हीनौ भवतः, तत्र 'विराट्' भवति, तथा यत्र द्वावक्षरौ अधिकौ स्तः, तत्र 'स्वराट्' भवति । विराट्गायत्री ( २४-२ ) २२ अक्षराणामेवं ‘स्वराड्गायत्री’ ( २४+२ ) २६ अक्षराणां भवति ।
'ऊनाधिकेनैकेन निचृद्भुरिजौ । द्वाभ्यां विराट्स्वराजौ ।'[८]
'एकद्व्यूनाधिका सैव निचूद् ऊनाधिका भुरिक् ॥'[९]
यदा कदा दृग्गोचरो भवति यत्, कस्यापि एकैवाक्षरस्य अभावे छन्दः खञ्जः प्रतीतो भवति । एतादृश्याम् अवस्थायां छन्दः नियमाबद्धं कर्त्तुम् एकैवाक्षरम् अक्षरद्वयेनावबोधनस्य अवस्था सर्वानुक्रमण्यां स्पष्टतः प्रदर्शिता अस्ति । अस्याः प्रक्रियायाः पारिभाषिकः शब्दः व्यूहनम् अस्ति । अस्य सूत्रमस्ति -
'पादपूरणार्थं क्षैप्रसंयोगकाक्षरी भावाद् व्यूहेत्'।[१०]
अर्थात् पादपूत्र्यर्थं क्षैप्रसंयोगः तथा सन्धिजन्यैकाक्षराणां पृथक्करणम् अवश्यमेव करणीयम् ।
(१) यत्र यण-सन्धिद्वारेण यकारो वकारो वा भवति तत्र तं संयुक्ताक्षरं पृथक् कृत्वा मूलाक्षरयोः उच्चारणं कर्त्तव्यम् । यथा त्रिपदा उष्णिक्छन्दसः उदाहरणे प्रदत्तमन्त्रस्य द्वितीयचरणे - 'पिबति सौम्यं मधु' इत्यस्मिन्नष्टाक्षरेषु एकाक्षरस्य अभावो विद्यते । अतः पादपूत्र्यर्थं 'सौम्यम्' इत्यस्य 'सौमिअं' भवितव्यम् । जगतीछन्दसः अन्तिमचरणे द्युमद्=दिउमद् ।। तत्सवितुर्वरेण्यं = वरेण्यमित्यत्र वरेणिअमिति।
(२) वकारस्य पृथक्करणमू - बहुसंख्यकेषु मन्त्रेषु 'त्वमि'ति पदस्य उच्चारणम् 'तुअम्' भवति । 'क्ष्विं गच्छ स्वः पते' इत्यत्र स्वः = सु अः भवितव्यम् ।
(३) रेफस्य पृथक्करणम् — अनेकेषु मन्त्रेषु इन्द्रस्य उच्चारणम् 'इन्दरा' इति भवति, यथा - 'त्वं हव्यदिन्द्रः'[११] इत्यस्य उच्चारणं भवति— 'तु अं हव्यदिन्दर' इति ।
( ४ ) 'ए', 'ओ' इत्येतयोः गुणयोः एवम्, 'ऐ एवं औ' इत्यनयोः वृद्धिस्वरस्य पृथक्करणं भवति । ज्येष्ठः = जयिष्ठः[१२], श्रेष्ठः = श्रयिष्ठः,[१३] प्रब्रह्मै त्विति[१४] = 'ब्रह्म एतु इति' एवं भवति ।
( ५ ) एकारस्य औकारस्य च अनन्तरं लुप्ताकारं ‘एङः पदान्तादति'[१५] इत्यनेन सूत्रेण पुनः स्थापनं कृत्वोच्चारणं कर्त्तव्यम् - 'इन्द्रं बाजेषु नोऽव'[१६] अत्र नोऽव = नो अव भवति । 'इन्द्रं सखायो नु संरमध्वम्'[१७] 'अनु' इत्येतस्य पदस्य पूर्णोच्चारणं भवितव्यम् ।
(६) दीर्घसन्धिजन्याकारं द्वावक्षरस्वरूपे एव परिवर्तनं कृत्वा उच्चारणीयम् ।[१८] यथा — 'वदन् ब्रह्मा वदती वनीयान्'।[१९] अत्र भवति — ब्रह्म अवदती। 'आद्याद्या श्वः श्वः'[२०], अत्र आद्याद्या - अद्य-अद्या।[२१] अत्र वात=व अत ।
कात्यायनेन सर्वानुक्रमण्याम् ऋग्वेदस्य सर्वेषां मन्त्राणां छन्दसां निर्देशः कृतः । तदनुसारेण ऋग्वेदे छन्दसां संख्या - गायत्री २४६७, उष्णिक्=३४१, अनुष्टुप्= ८५५, बृहती=१८१, पङ्क्तिः=३१२, त्रिष्टुप् = ४२५३, जगती = १३५८। सर्वसङ्कलने = ९७६७ मन्त्राः भवन्ति । प्रायः ३०० मन्त्रा अतिजगती-शक्वरी-अति-अत्यष्टिप्रभृतिषु छन्दःसु निबद्धाः सन्ति। एकपदा ऋचः ६, नित्यद्विपदा १७ च सन्ति। एवं ऋग्वेदे सर्वाधिकवारं छन्दः ‘त्रिष्टुप्' एवाऽस्ति । ततः परं ‘गायत्री'- छन्दोपि अस्ति। जगती तु अस्मादपि पश्चाद्वर्त्ति भवति । अतः त्रिष्टुप्, गायत्री, जगति एतान्येव त्रीणि लोकप्रियाणि छन्दांसि सन्ति ।
भेदाः
[सम्पादयतु]वेदे प्रयुक्तेषु छन्दःसु लघु-गुरु-मात्रायाः अनुसरणं नैव क्रियते । केवलम् अक्षराणामेव गणना भवति। फलतः सर्वाण्येव वैदिकछन्दांसि। अक्षरच्छन्दांसि एव सन्ति । अस्य द्वौ प्रमुखभेदौ स्तः -
(१) केवलमक्षरानुसारि छन्दः - प्रकारेऽस्मिन् केवलम् अक्षरगणना भवति, येषु छन्दःसु पादविभाजनस्य आवश्यकता न भवति, तानि च केवलानि अक्षरगणनानुसारीणि छन्दांसि मन्यन्ते ।
(२) पादाक्षरगणनानुसारि - प्रकारेऽस्मिन् अक्षराणां पादेषु नियमततया विभाजनस्य व्यवस्था वर्तते, अर्थादत्र पादे स्थितानामक्षराणां गणनायाम् उपरि अाग्रहोऽस्ति ।
सङ्ख्या
[सम्पादयतु]वैदिकच्छन्दसां मुख्यभेदानां विषये मतैक्यं नास्ति। किञ्च समस्तानां वैदिकच्छन्दसां संख्या २६ मन्यन्ते । एतेषु प्रारम्भिकानि पञ्चच्छन्दांसि वेदे अप्रयुक्तानि सन्ति । तानि परित्यागावशिष्टानि छन्दांसि त्रिसप्तकेषु विभज्यन्ते।
गायत्रीच्छन्दः
[सम्पादयतु]गायत्री प्रथमं छन्दोऽस्ति । अस्य प्रत्येकस्मिन् पादे षडक्षराणि भवन्ति । अतः प्रथमं सप्तकं गायत्र्याः छन्दसः प्रारभ्यते । अस्मात्पूर्ववर्त्तीनि पञ्चच्छन्दांसि 'गायत्रीपूर्वपञ्चकम्' इति नाम्ना ख्यातमस्ति । एतेषां नामानि निम्नप्रकारेण सन्ति -
मा (अक्षर-संख्या ४), प्रमा ( अ० सं० ८ ), प्रतिमा ( अ० सं० १२ ), उपमा ( अ० स० १६), समा (अ० सं० ३० ) च। एतानि नामानि ऋक्प्रातिशाख्यानुसारेण एव सन्ति ।[२२] किञ्च भरतस्य नाटयशास्त्रे इमानि छन्दांसि क्रमशः - उत्त-अत्युक्त-मध्यम-प्रतिष्ठा-सुप्रतिष्ठा इत्यादिभिः नामभिः विख्यातानि सन्ति।[२३]
(क) प्रथम-सप्तकस्य सप्तच्छन्दांसि सर्वत्र तुल्यान्येव सन्ति । एतेषां नामानि सन्ति - गायत्री ( २४ अक्षराणि ), उष्णिक् ( २८ अ० ), अनुष्टुप् ( ३२ अ०), बृहती ( ३६ अ०), पङ्क्तिः ( ४० अ० ), त्रिष्टुप् (४४ अ०) जगती ( ४८ अक्षराणि ) च।
(ख) द्वितीयसप्तकस्य सप्तच्छन्दसां नामानि - 'अतिच्छन्दः' इति नाम्ना ख्यातानि सन्ति । अस्य अक्षरसंख्या पूर्वापेक्षया चतस्रः अधिका वर्तते । यथा - (१) अतिजगती = ५२ अक्षराणि; (२) शक्वरी = ५६ अ०; (३) अतिशक्वरी = ६० अ०; (४) अष्टिः = ६४ अ°; (५) अत्यष्टिः ६८; (६) धृतिः = ७२ अ०; (७) अतिधृतिः =७६ अ°।
(ग) तृतीयससकस्य ससच्छन्दसां नामानि - (१) कृतिः =८० अक्षराणि; (२) प्रकृतिः= ८४ अ०; (३) अाकृतिः =८८ अ०; (४) विकृतिः=९२ अ°; (५) संस्कृतिः =९६ अ०; (६) अभिकृतिः=१०० अ०; (७) उत्कृतिः = १०४ अ०।
सप्तकस्य विभिन्ननामानि सन्ति । भरतस्य नाटयशास्त्रे[२४] एतेषां नामानि क्रमशः दिव्य-दिव्येतर-दिव्यमानुषेत्यादीनि सन्ति ।
अभिनवगुप्ताचार्यस्तु अस्य नामकरणस्य सड्केतं स्वकीये 'अभिनवभारती' नामके ग्रन्थे कृतवान्। प्रथमसप्तकस्य छन्दसां प्रयोगो देवानां स्तुत्यवसरे क्रियते । अतो दिव्यनाम्ना ख्यातमिदमस्ति । मानवसम्बन्धिषु स्तुतिषु बहुशः प्रयुक्तत्वेन द्वितीयसप्तकं दिव्येतरत् अर्थात् मानवनाम्ना ख्यातमस्ति । दिव्यः, मनुष्यः च उभयप्रकाराभ्यां व्यक्तिभ्यां प्रयुक्तत्वेन तृतीयसप्तकं दिव्यमानुषनाम्ना प्रख्यातमस्ति ।
लौकिकच्छन्दसां विकासः एभ्य एव वैदिकच्छन्दोभ्यः जातः । संस्कृतकवयः श्रुतिमाधुर्यं तथा सङ्गीतमय-आरोहावरोहश्च ध्यात्वा एतेषु छन्दःसु अक्षराणां गौरवं लाघवञ्च नियमेन आबद्धं कृतवन्तः । अन्येषां लौकिकाऽऽविष्कतॄणां नामानि विलुप्तानि जातानि । किञ्च अनुष्टुप्छन्दसः आविष्कर्त्ता महर्षेर्वाल्मीकेः नाम प्रसिद्धमस्ति । वैदिकत्रिष्टुप्छन्दसः एव एकाक्षराणां छन्दसां, विशेषतः इन्द्रवज्रोपेन्द्रवज्रयोः उदयः बभूव । जगतीच्छन्दसो द्वादशाक्षरच्छन्दसां वंशस्थादीनां, सामगानां च प्रियः शक्वरीतो वसन्ततिलकायाः उत्पत्तिर्बभूव । अनेनैव प्रकारेण अन्येषां लौकिकच्छन्दसाम् उदयो ज्ञातव्यः।
छन्दसां विवरणम्
[सम्पादयतु]प्रथमसप्तकस्य निर्दिष्टच्छन्दसां भेदः केवलमक्षरानुसारिषु छन्दःसु उपलब्धो भवति । एतानि छन्दांसि अष्टप्रकारकाणि भवन्ति । दैव-आसुर-प्राजापत्यअार्ष-याजुष-साम्न-आार्च-ब्राह्म-प्रभृतीनि । एतेष्वप्यष्टसु छन्दःसु द्वे चातुष्के स्तः । प्रथमचतुण्णां छन्दसां प्रथमचतुष्कम्, अन्तिमचतुर्णां छन्दसां द्वितीयं चतुष्कं च भवति । प्रथमचतुष्कस्य दैव-अासुर-प्राजापत्यादीनां त्रयाणां छन्दसां यावन्ति अक्षराणि भवन्ति, तावन्ति एव अार्षच्छन्दःसु भवन्ति, यत् अस्य चतुष्कस्य अन्तिमं छन्दः अस्ति । अनेनैव प्रकारेण द्वितीयचतुष्कस्य याजुष-साम्न-अाचार्णां छन्दसाम् अक्षराणां सम्मिलिता संख्या अस्य चतुष्कस्य अन्तिमच्छन्दसि ब्राह्मे समुपलब्धा भवति । यथा - गायत्र्या दैव-आसुर-प्राजापत्य-भेदेषु क्रमशः १, १५, ८ च अक्षराणि भवन्ति, अस्य च सम्मिलिता संख्या २४ आर्षच्गायत्र्यां भवति । अनेन रूपेण गायत्र्या याजुष-साम्न-अार्षभेदेषु क्रमशः ६, १२, १८ अक्षराणि भवन्ति, यस्य सम्मिलिता संख्या ३६ अक्षराणां ब्राह्मी गायत्र्याम् उपलब्धा भवति । एतेषु सर्वेषु अार्षप्रकारेषु एव वेदेषु सर्वप्रधानं तेषां बहुशः प्रयोगः भवति । उदाहरणानि यथा — उष्णिक् (अष्टाक्षराणि) = यजुर्वेदे[२५], बृहती ( षट्त्रिंशदक्षराणि ) = यजुर्वेदे[२६], पङ्क्तिः ( चत्वारिंशदक्षराणि ) तत्रैव[२७], त्रिष्टुप् (चतुश्चत्वारिंशदक्षराणि ) तत्रैव[२८], जगती ( अष्टचत्वारिंशदक्षराणि ) तत्रैव[२९]।
ऋग्वेदच्छन्दः
[सम्पादयतु]ऋक्षु प्रयुक्तच्छन्दसां गणना पादबद्धाक्षरैः भवति। आर्षच्छन्दसां भेदोपभेदस्य वर्णनं शास्त्रेषु कृतमस्ति ।
(१) गायत्री - अस्मिन् छन्दसि पादत्रयं भवति । किञ्चास्मिन् एकपादादारभ्य पञ्चपादपर्यन्तं परिदृश्यते । फलतः ऋग्वेदे एकपदा, द्विपदा, त्रिपदा, चतुष्पदा, पञ्चपदा इत्यादिस्वरूपेषु गायत्रीच्छन्दः समुपलब्धमस्ति । किञ्चात्र मुख्यतया त्रिपदा गायत्र्याः प्राचुर्यमस्ति । अस्य छन्दसः निम्नलिखिताः भेदाः भवन्ति।
(क) त्रिषु पादेषु एकैकाक्षरस्य यदा न्यूनता भवति, तदा तच्छन्दः पादनिचृद्गायत्री कथ्यते।
(ख) यदा त्रयोऽपि पादाः क्रमशः एकैकाक्षरेण वर्द्धन्ते ( ६+७+८= २१ अ० ), तदा सा गायत्री 'वर्धमाना' कथ्यते ।
(ग) अस्य विपरीतपादाक्षरा गायत्री (८+७+६=२१ अक्षराणि ) प्रतिष्ठा नाम गायत्री प्रख्याताऽस्ति।
(घ) यदा पादेषु ७+१०+७=अक्षराणि भवन्ति, तदा सा यवमध्या गायत्री कथ्यते ।
(ङ) यवमध्यातो। विपरीतपादाक्षरा गायत्री ( ९+६+९=२४) पिपीलिकामध्या नाम गायत्री प्रख्याताऽस्ति ।
(२) उष्णिक् - अस्मिन् २८ अक्षराणि, पादत्रयं च भवति । गायत्र्याः अस्मिन् चतुर्णामक्षराणामाधिक्यं भवति । अक्षरक्रमेण पादविचारे अस्यापि नानाभेदाः भवन्ति ।
(क) पुर उष्णिक - प्रथमे पादे द्वादशाक्षराण्यन्तिमे पादद्वये अष्ट-अष्ट अक्षराणि भवन्ति।[३०]
(ख) ककुबुष्णिक् - अस्मिन् छन्दसि मध्यमे पादे द्वादशाक्षराणि भवन्ति, प्रथमे चान्ते पादे अष्ट-अष्टाक्षराणि भवन्ति।[३१]
(ग) परोष्णिग् अथवा उष्णिक् - अन्तिमे पादे द्वादशाक्षराणि भवन्ति, प्रथमे द्वितीये च पादे अष्ट-अष्टाक्षराणि भवन्ति।[३२]
(घ) पिपीलिकामध्या उष्णिक् - पादेषु क्रमशः ११+६+११ = २८ अक्षराणां सत्ता भवत्यस्मिन्।[३३]
(३) अनुष्टुप् - अस्मिन्नक्षराणां संख्या द्वात्रिंशदस्ति । अत्र प्रधानतः चत्वारः पादाः भवन्ति । किञ्च त्रिपादानुष्टुप्-छन्दसां संख्या पर्याप्ताऽस्ति । अस्यानेके भेदप्रभेदा भवन्ति।
(क) विराड् अनुष्टुप् - त्रिपादेषु अक्षरसंख्याः क्रमशः १०+१०+१० = ३० भवन्ति।[३४]
(ख) विराड् अनुष्टुप् – पादत्रयेषु अक्षरसंख्या प्रत्येकस्मिन् पादे एकादशैव।[३५]
(ग) चतुष्पादानुष्टुप् - अस्य छन्दसः प्रत्येकस्मिन् पादे अष्टावष्टाक्षराणि एव भवन्ति । ऋग्वेदे चास्यानेकान्युदाहरणानि सन्ति ।
(४) बृहती - अस्मिन् छन्दसि अक्षराणां संख्या ३६ तथा चत्वारः पादः भवन्ति । अस्य प्रधानभेदा निम्ननिर्दिष्टा: सन्ति।
(क) पुरस्ताद् बृहती - पादेषु अक्षराणां संख्या क्रमशः १२+ ८-+८ + ८ = ३६ भवन्ति।[३६]
(ख) उरोबृहती अथवा स्कन्धोग्रीवी अथवा न्यङ्कुसारिणी — द्वितीये पादे द्वादशाक्षराणि, अवशिष्टे पादे अष्टाक्षराणि भवन्ति । ८+ १२+८+८ = ३६।[३७]
(ग) पथ्याबृहती - तृतीयपादे द्वादशाक्षराणि अन्त्ये पादे अष्टावष्टाक्षराणि भवन्ति ८+८ + १२+८= ३६ ।[३८]
(घ) उपरिष्टाद् बृहती — अन्तिमे पादे द्वादशाक्षराणि शेषे च अष्टावष्टाक्षराणि भवन्ति । ८+८+८ + १२= ३६।[३९]
(ङ) सतोबृहती, महाबृहती - त्रयः पादा द्वादशाक्षराणां भवन्ति । १२+१२+१२= ३६।[४०] एतत् छन्दः ऋक्सर्वानुक्रमण्याम् 'ऊर्ध्वबृहती'-नाम्ना ख्यातमस्ति ।
(५) पङ्क्ति-बृहती - अस्मिन् छन्दसि, चतुर्णामक्षराणां वर्धनाद् एवास्य निर्माणं भवति (४० अक्षराणि भवन्ति) । प्रायोऽस्मिन् चत्वारः पादा भवन्ति । पञ्चपादाः पङ्क्तिरतिस्वल्पा अस्ति । अस्य निम्नलिखिताः प्रमुखभेदा भवन्ति।
(क) विराट्पङ्क्तिः - दशदशाक्षराणां चत्वारः पादा भवन्त्यस्मिन् । १० + १० + १०+१० = ४० अक्षराणि।[४१]
( ख ) सतोबृहतीपङ्क्तिः - अस्मिन् चत्वारः पादा भवन्ति । प्रतिपादं अक्षराणां संख्या १२+८+१२ +८=४० भवन्ति ।[४२]
(ग) विपरीताः पङ्क्तयः - अस्मिन् पूर्वलक्षणस्य विपरीतं लक्षणं भवति । ८+- १२+८+१२=४० अक्षराणि[४३]।
(घ) अास्तारपङ्क्तिः - यस्मिन् ८+ ८+१२+१२=४० अक्षराणां सत्ता क्रमशः पादेषु भवन्ति।[४४]
(ङ) प्रस्तारपङ्क्तिः - यत्र पूर्वस्मात् लक्षणाद् विपरीतं लक्षणं भवति। अर्थात् १२+१० +८+८=४० अक्षराणां सत्ता भवति, तत्र प्रस्तारपङ्क्तिः छन्दो भवति।[४५]
(च) संस्तारपङ्क्तिः - अस्मिन् छन्दसि क्रमशः १२+८+८+१२= ४० अक्षराणां पादा भवन्ति।[४६]
(छ) विष्टारपङ्क्तिः - यत्र ८+१२ + १२+८ अक्षराणां क्रमशः पादा भवन्ति।[४७]
(ज) पथ्यापङ्क्तिः - यत्र अष्टाक्षराणां पञ्चपादा भवन्ति।[४८] समस्तेन्द्रसूक्तम् अस्मिन्नेव छन्दसि निबद्धमस्ति ।
(६) त्रिष्टुप् - अक्षराणां संख्या ४४ पादानाञ्च संख्या चतस्रो भवन्ति । अस्य प्रधानभेदाः सन्ति-
(क) त्रिष्टुप् - अस्मिन् एकादशाक्षराणां चत्वारः पादा भवन्ति।[४९]
(ख) अभिसारिणी - यस्मिन् १०+१० + १२+१२= ४४ अक्षराणि भवन्ति ।[५०]
(ग) महाबृहती - अस्य पञ्चपादेषु क्रमशः १२+८+८+८+ ८ = ४४ अक्षराणि भवन्ति ।[५१]
(घ) यवमध्या-त्रिष्टुप् - अस्य पञ्चपादेषु क्रमशः ८+ ८+१२+ ८+ ८=४४ अक्षराणि भवन्ति।[५२]
(७) जगती - अस्मिन् ४८ अक्षराणि तथा चत्वारः पादा भवन्ति । अथात् प्रत्येकस्मिन् पादे द्वादशाक्षराणि भवन्ति।[५३] अस्योपभेदाः -
( क ) उपजगती - अस्य प्रथमे पादद्वये १२ दशाक्षराणि भवन्ति, अन्तिमे पादद्वये ११ अक्षराणि भवन्ति ( १२+१२+११+११=४६) । उपजगती नाम्ना प्रसिद्धमिदं छन्दोऽस्ति।[५४]
(ख) महासतोबृहती - अस्मिन् छन्दसि कश्चन त्रिषु पादेषु अष्टावष्टाक्षराणि भवन्ति, अवशिष्टयोर्द्वयोः पादयोः च द्वादश-द्वादशाक्षराणि भवन्ति ।[५५] इदमेव छन्दः ‘पञ्चपदा' जगतीत्यपि कथ्यते ।
(ग) महापङ्क्तिजगती - अस्मिन् छन्दसि अष्टावष्टाक्षराणां षट्पादा भवन्ति।[५६]
द्वितीयस्य तृतीयस्य च सप्तकस्य छन्दः ‘अतिच्छन्दः' इति नाम्ना प्रख्यातमस्ति । आचार्यशोनकस्य वेङ्कटमाधवस्य च कथनानुसारेण द्वितीयसप्तकस्य छन्दासि ऋग्वेदे समुपलब्धानि भवन्ति । तृतीयसप्तकस्य छन्दसामत्र नितरामभावोऽस्ति। अत: ऋकसर्वानुक्रमण्यां तृतीयसप्तकस्योल्लेखो न लभते। ऋक्प्रातिशाख्ये आचार्यशौनकस्य स्पष्टकथनमस्ति - 'सर्वादशत्रयीष्वेता, उत्तरास्तु सुभेषजे'।[५७] वेङ्कटमाधवोऽप्यस्य तथ्यस्योल्लेखं कृतवान् -
'चतुरधिकच्छदांसि दर्शितानि चतुर्दश।
यानि दशतयीष्वासन् उत्तराणि सुभेषजे॥'
द्वितीयसप्तकस्य छन्दांसि
(१) अतिजगती - द्वापञ्चाशदक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति। उदा०-'तमिन्द्र जोहवीमि मघवानमुप्रम् ॥'[५८]
(२) शतावरी - षट्पञ्चाशदक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति । उदा०-'प्रोष्वस्मै'।[५९]
( ३ ) अतिशक्वरी-षष्टिः (६०) अक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति (१६+१६+१२+८+८) । उदा०—'सुषुमा यातमद्रिभिः'।[६०]
(४) अष्टिः - (६४) चतुःषष्टिरक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति ( १६+१६+१६+८+८) । उदा०–'त्रिकदुकैषु महिषो यवाशिरम्'।[६१]
(५) अत्यष्टिः - अष्टाषष्टिरक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति (१२+१२+८+८+८+१२+८=६८) उ० – 'अदशिगातुरवे वरीयसी'।[६२]
(६) धृतिः - द्वासप्ततिरक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति (१२+ १२+८+८+ ८+१६+ ८=७२)। उ०-‘सखे सखायमस्या०' ।[६३]
(७) अतिधृतिः - षट्सप्ततिरक्षराणामस्मिन् छन्दसि अष्टपादा भवन्ति । । उदा०-'स हि सर्घो न मारुतम्'।[६४]
ऋक्प्रातिशाख्ये ऋग्वेदस्य सर्वाधिकायतस्य द्वयोः ऋचोनिर्देशोऽस्ति।[६५] यदि अविकर्षं भवति, अर्थाद् व्यूहाभावे सति 'अवर्मह इन्द्र' (ऋ० १॥१३३॥६) सर्वाधिकायता ऋचा भविष्यति, या भाष्यकारस्य उव्वटस्य मतानुसारेण सप्ततिः अक्षराणां छन्दो भविष्यति । विकर्षे सति 'स हि सर्घो न मारुतम् (ऋ० १॥१२७॥६) सर्वाधिकाऽयता ऋग् भविष्यति, उव्वटानुसारेण षट्सप्ततिः अक्षराणाम् अस्यामृचि अष्टपादा भवन्ति ।
छन्दसि विभागाः
[सम्पादयतु]वैदिकलौकिकभेदेन द्विविधस्य छन्दसो द्वितीये गणमात्राक्षरभेदेन पुनस्त्रैविध्यम् । तत्र गणच्छन्दः आर्यादिः । मात्राच्छन्दः वैताल्यादिः । अक्षरच्छन्दः श्र्यादिः । त्रिष्वपि पुनस्त्रेधा समार्धसमविषमभेदेन विभागः । समे दण्डकसाधारणाभ्यां द्वैविध्यम् । इत्थं भेदोपभेदविशिष्टानां छन्दसां गुरुलघुभावव्यवस्थया सहासङ्ख्यप्रकाराः सम्भवन्ति । तस्मादेतेष्वन्यतमस्याविनाभावतयैव वाङ्मयस्थितिः ।
- वैदिकच्छन्दसां प्रयोजनमाह आचार्योवटः –
- स्वर्यं यशस्यमायुष्यं पुण्यं वृध्दिकरं शुभम् ।
- कीर्तिमृग्यं यशस्यञ्च छन्दसां ज्ञानमुच्यते ॥ इति
जपयज्ञानुष्ठानेऽस्य प्राशस्त्यं ब्रवीति कात्यायनः – ‘यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यति प्रवा मीयते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’ इति । देवतास्तुतौ वेदार्थनिर्णये, ऋषिनिर्णये, देवतानिर्णये यागनिर्णये च वैदिकच्छन्दसामनितरसाधारणप्रयोजनं वर्तते ।
वैदिकच्छन्दसामक्षरनियमो भवति । अत्राह कात्यायनः ‘यदक्षरपरिमाणं तच्छन्दः इति । पादनियमश्चात्र एकपादादष्टपादान्तश्छन्दसां प्रवर्तते । लौकिकच्छन्दसां तु लघुगुरुगणनियमः चतुः पादनियमश्च वैदिकाद्वैलक्षण्यं भजते । वेदे गायत्रीतः छन्दांसि समुपलभ्यन्ते । तत्र चतुर्धा वर्गः क्रियते ।
- १. प्राग्गायत्रीछन्दः पञ्चकम्
मा – प्रमा –प्रतिमोपमा – समासंज्ञकान्यत्र छन्दांसि भवन्ति क्रमेण ४-८-१२-१६-२० अक्षरान्वितानि । विराड्दशायाम् (अक्षरद्वयस्य न्य़ूनतायाम्) क्रमेणैतानि हर्षिकसर्षीकासर्वमात्राविण्ड्कामासंज्ञकानि भवन्ति ।
- २. प्रथमसप्तकम्
अत्र गायत्र्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टपूछन्दांसि वर्तन्ते । एतेषां प्राजापत्यदैवासुरार्षयाजुषसाम्नार्चब्राह्मसंज्ञका भेदा भवन्ति ।
- ३. द्वितीयसप्तकम्
इदमतिच्छन्द इत्युच्यते । अतिजगती-शक्वरी –अतिशक्वरी- अष्टि-अत्यष्टि –धृति –अतिधृतिसंज्ञकानि ।
- ४. तृतीयसप्तकम्
कृति- प्रकृति- आकृति- विकृति- संस्कृति –अभिकृति- उत्कृतिसंज्ञकानि छन्दांसि अत्र वर्तन्ते ।
लौकिकच्छन्दसां विकासश्चैभिर्वैदिकच्छन्दोभिरभवत् । कविभिः श्रुतिमाधुर्यं सङ्गीतस्यारोहावरोहक्रमञ्च मनसि निधाय गौरवं लाघवञ्चाक्षराणां विलोक्य छन्दांसि समुदभाव्यन्त । लौकिकच्छान्दसामुद्भावकेषु आनुष्टुभच्छन्दो निर्मातृकविवाल्मीकेरादिमत्वमङ्गीक्रियते । अन्येषां छन्दसामुद्भावकाः तद्ग्रन्थानुपलब्धेः न स्मर्यन्ते इति केषाञ्चिदभिप्रायः ।
अनुष्टुबादिनानाच्छन्दोभिः पुराणानि, काव्यानि, स्तोत्राणि दर्शनग्रन्थाः प्रशास्तिः लौकिकविषयाश्च य्वरच्यन्त विरच्यन्ते च । लौकिकवाङ्मये अधिको भागः पद्यात्मकच्छन्दसोपनिबध्दः । पद्यात्मकच्छन्दसः प्रचुरतयावलम्बने उद्देश्यञ्चास्ति ।
गेयता – ‘गद्यानुमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः’ इति वचनानुसारं गेयबन्धो बन्धान्तरमतिशेते । रागसंयोगो हि गेयतापादको भवति, अतः पद्यकाव्यनिर्माणप्रवृत्तिराधिक्येन सम्भवति । गद्येऽपि पद्यबन्धोऽवलम्बते कविभिः । रुपकेषु पद्यरचनाया इदमेव गेयत्वं कारणम् । प्रयुक्तच्छन्दसोऽपि गेयताविरहे हतवृत्तत्वाख्यः काव्यदोषः परिगण्यते । यथा ‘हन्तसततमेतस्या हृदयं भिन्ते मनोभवः कुपितः इत्यत्र लक्षणानु श्रवणेऽप्यश्रव्यरुपहतवृत्तत्वदोषमामनन्दि काव्यविदः । तस्माद्गेयताप्रयोजनकेऽपि च्छन्दसि गेयत्वमनिवार्यमित्याशयः ।
भावप्रकाशनम् – भावाभिव्यञ्जनफलकः शब्दप्रयोगः । भावस्तु अन्तस्यः स्वप्रकाशकापेक्षी । तत्प्रकाशिका वाक् संस्कारपूता स्यात् । संस्कृता सा भावस्य प्रकाशने समर्था भवति । तत्र च्छान्दाआश्रीयते कविभिः । नाट्यशास्त्रे छन्दो विधाननामके चतुर्दशेऽध्याये मुनिर्भरतः –
- वाचि चत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता ।
- अङ्गनेपथ्यतत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥
- वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च ।
- तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥
इत्यत्रच्छन्दसा वचस्संस्कारं समसूचयत् । अनुष्टुबादिच्छन्दसामवान्तरभेदेषु भावानुकूलतया तत्तद्वृत्तानि समाश्रयन्ते विपश्चितः । भक्त्यभिव्यञ्जने शिखरिणीमवलम्बन्ते । शाङ्करभगवत्पादाः ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्’ इत्यादिना सौन्दर्यलहरीं भक्तिपरवशतापादिनीमनेन वृत्तेन रचयामासुः । उपेन्द्रवज्रा –इन्द्रवज्रा- वसन्ततिलकादि वृत्तान्यप्याश्रयन्ते भावानुकूलानि । विप्रलम्भशृङ्गारे ‘कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः इत्यादिना कविः कालिदासः मन्दाक्रान्तावृत्तमालिङ्गति । माधुर्यगुणेन मन्दं मन्दं सहृदयहृदयं समाक्रान्तं न भवति न । शार्दूलविक्रीडिते वृत्ते तु कवयो रमन्ते सर्वविधभावानुकूलतया अस्यावलम्बनं सन्दृश्यते । स्तोत्र काव्य- प्रशस्तिप्रभृतयो रचनाविशेषा विरच्यन्तेऽस्मिन् वृत्ते भीरिशः । मैसूरु- ओडेयर् कृष्णराजस्य आस्थानस्थं कविर्नञ्जुण्डः छन्दोनिरुपके यशोभूषणकाव्ये वृत्तरत्नावलीनामके शार्दूलविक्रिडितं वृत्तमुदाहरति –
- तापं मा सृज सन्ततं गुणनिधे माराधुना ते शरान्
- सूर्या श्वप्रतिमानवेगमहितान् मर्मच्छिदः प्राणिनाम् ।
- क्लान्ताहं विरहेण कृष्णनृपतेस्सोढुं कथं शक्नुयाम
- एणी क्षोणितले सहेत किमहो शार्दूलविक्रीडितम ॥
कृष्णराजभूपालविरहतापमसहमाना नायिका मन्मथं प्रत्येवं वदति । कविश्छन्दोमय्या वाण्या भूपतेः यशो वर्णयति । एवमेवात्र नाना छन्दोभिः राज्ञो कीर्तिर्वर्णिता । आचार्यानन्दवर्धनः ‘शोकः श्लोकत्वमागतः इति मानिषादां छन्दोवाणीं वाल्मीकेरुदाहरति । तेन हि शोकभावाभिव्यञ्जकं काव्यं छन्दसोपनिबध्दं खलु । विस्तृतार्थसङ्घुम्फनम् – विस्तृतार्थप्रकाशकसूत्रसम्निभतया छन्दः प्रवर्तते लोके । भगवान् व्यासःपुराणानि, महाभारतम्, वाल्मीकिः रामायणम्, कुमारिलभट्टाः वार्तिकञ्च अनुष्टुपछन्दसा उपन्यबध्नन् । कवयो दार्शनिकाश्च सागरायमानार्थसन्दोहं छन्दश्शरीरिकुर्वन्तीति नो सन्देहः धारणानुकूल्यम् – पद्यानां कण्ठस्थीकरणं न गद्यानामिव दुश्शकम् । पठनावसर एव हृद्गतानि भवन्ति तानि । अत एव ज्योतिषग्रन्था अन्ये च छन्दसोपनिबध्दा वर्तन्ते । रुच्युत्पादकता – छन्दोपनिबध्दानां कृतीनां पठनोन्मुखता सुलभतया सम्भवति । अत एव सहृदयानां ग्रहणमिव कवीनां निर्माणे प्रवृत्तिरपि पद्यकाव्यस्य प्राचुर्येण दृश्यते । अर्थगाम्भीर्यसम्पादनार्थमपि तद्विविच्य प्रयुज्यते छन्दः । अभिज्ञानशाकुन्तले भर्तृकुलप्रस्थिताम् आपन्नसत्त्वां शकुन्तलां महर्षिः काश्यपः इष्टजनांशंसापरेण ऋक्छ्न्दसा आशास्ते –
- अमी वेदिं परितः कलृप्तधिष्णयाः
- समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
- अपध्नन्तो दुरितं हव्यगन्धैः
- वैतानास्त्वां अह्नयः पावयन्तु ॥ इति
वर्णगुणफलनिर्णयः
[सम्पादयतु]छन्दसां सुप्रयोगस्तु वर्णगणफलज्ञानपूर्वको वर्तते । काव्यं कल्पान्तरेऽपि कीर्तिप्रदायि भवतीत्यतः कविप्रयुक्ता वर्णमयाः शब्दा निर्मलाः शुभफलदा भवेयुरिति कव्युपदेशः । अकारादिक्षकारान्तवर्णाः केचन शुभदाः केचनाशुभदा इति पूर्वाचार्याणां सिध्दान्तः । वृत्तरत्नाकरस्य नारायणभट्टकृतव्याख्यायां वर्णफलानां विषये आचार्यभामहमतस्योल्लेखो वर्तते । तथा हि –
- अवर्णात्सम्पत्तिर्भवति मुदिवर्णाध्दनशता-
- न्यवर्णादख्यातिः सरभसमृवर्णाध्दरहितात् ।
- तथा ह्येचः सौख्यं ङ्ञणरहितादक्षरगणात्
- पदादौ विन्यासाद् भरबहलहाहाविरहितात् ।
तथा –
- कः खो गो घश्च लक्ष्मीं वितरति
- वियशो ङस्तथा चः सुखं छः
- प्रीतिं जो मित्रलाभं भयमरणकरौ
- झञौ टठौ खेददुः खे ।
- दुः शोभां ढो विशोभां भ्रमणमथ च
- णस्तः सुखं यश्च युध्दम्
- दो धः सौख्यं मुदं नः
- सुखभयमरणक्लेशदुःखं पवर्गः ।
- यो लक्ष्मीं रश्च दाहं व्यसनमय
- लवौ शः सुखं षश्च खेदं
- सः सौख्यं हश्च खेदं विलयमपि च
- लः क्षः समृध्दिः करोति ।
- संयुक्तं चेह न स्यात्सुखमरणपटु-
- र्वर्णविन्यासयोगः
- पद्यादौगद्यवक्त्रे वचसि च
- सकले प्राकृतादौ समोऽयम् ॥
गणानामपि फलं निरुपितं छन्धः कौस्तुभे –
- क्रमतः श्रीवृध्दिमृतिप्रयाणरिक्तत्वरुग्यशोमोदान् ।
- यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोक्तृभ्यः ॥
अत एव कविभिः – कालिदासेन वागर्याविवेति, अस्त्युत्तरस्यां दिशीति च, माघेन श्रियः पतिरिति, भारविणा श्रियः कुरुणामिति काव्यादौ सर्वत्र भद्रवाचका देववाचकाः शब्दाः प्रायुज्यन्त । तस्मादाह भामहाचार्यः –
- देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ।
- ते सर्वे नैव निन्द्याः स्थुर्लिपितो गणतोऽपि वा ॥
इति । एतादृशपयोगे लिपितो न दोष इति तस्याभिप्रायः । वर्णगणफलानामाधारभूतेंऽशः कः? किं वा प्रमाणम् ? इति तु निश्चपचं वक्तुं नैव शक्यते । अथाप्येवमूहितुं शक्यं यत् काचन प्राचीना सरणिरासीद्यत्र शास्त्रीयबीजाक्षराणां फलदायकत्वं स्वीकृत्य तत्तद्वीजाक्षरफलान्येव वर्णानामप्यारोपितानीति छान्दः कौस्तुभे –
- मयरसतजभनसंज्ञाश्छान्दस्यष्टौ गणास्त्रिवर्णाः स्युः
- भूम्यम्बूवह्निवायुव्योमार्कसुधांशुनागदेवास्ते ।
- महीजलानलान्तकाः स्वरर्यमेन्दुपन्नगाः
- फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥
इति गणाधिदेवता निरुपिताः एवाञ्च सफलानां वैदिकानां तन्मूलकानां लौकिकानाञ्चच्छन्दसां वाङ्मयव्यापिता अनितरसाधारणा वरीवर्ति । किञ्च
- म्यरस्तजभ्नगैर्ग्लान्तैरेभिर्दशभिरक्षरैः ।
- समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥
अतश्छन्दस्वती वाङ्मयी सारस्वतरन्ताकरविस्तराय भूमिका बोभवीतीति सदाशयः ।
त्रिविधवृत्तानि
[सम्पादयतु]"पदं चरणम्, तद् अर्हतीति पद्यम्"
पद्यं द्विविधम्-
१- वृत्तम् [गणैर्नियन्त्रितम्, यथा- इन्द्रवज्रा, वियोगिनीत्यादीनि छन्दांसि]
२- जातिः [मात्राभिर्नियन्त्रिता, यथा- आर्या, गीतिरित्यादीनि छन्दांसि]
इदं च वृत्तं समवृत्तम्, अर्धसमवृत्तम्, विषमवृत्तम् इति भेदेन त्रिविधं भवति।
समवृत्तं यथा- अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।
तच्छन्दश्शास्त्रतत्वज्ञाः समं वृत्तं प्रचक्षते॥
अर्थात् -
यस्य पद्यस्य चत्वारः अपि पादाः तुल्यलक्षणेन लक्षिताः भवन्ति, तच्छन्दः छन्दशास्त्रतत्वज्ञाःसमं वृत्तं प्रवदन्ति।
यथा-
स्रग्धरादीनि छन्दांसि।
अर्धसमवृत्तं यथा-
प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत्।
द्वितीयस्तुर्यवत् वृत्तं तदर्धसममुच्यते॥
अर्थात्-
यस्य पद्यस्य प्रथमपादेन समानः तृतीयपादः भवेत् अपि च द्वितीयपादवच्चतुर्थः पादः भवेत्तदा
अर्धसममुच्यते।
यथा-
वियोगिनीत्यादीनि छन्दांसि ।
विषमवृत्तं यथा-
यस्य पादचतुष्केऽपि लक्ष्मभिन्नं परस्परम्।
तदाहुर्विषमं वृत्तं छन्दश्शास्त्रविशारदाः॥
अर्थात्-
यस्य पद्यस्य चतुर्ष्वपि पादेषु भिन्नं भिन्नं लक्षणं संघटते तदा छन्दश्शास्त्रविशारदाः
विषमं वृत्तं प्राहुः।
यथा-
चतुरूर्ध्वादीनि छन्दांसि।
यतिः
[सम्पादयतु]पद्यानां कथनप्रसङ्गे जिह्वायाः विश्रान्तिः यत्र अपेक्षिता भवति तत्स्थानमेव यतिस्थानमिति कथ्यते।
"यतिर्जिह्वेष्टविश्रान्तिः" इति यतिसामान्यलक्षणम्।
विच्छेदविरामाद्यैः शब्दैरपि यतिर्ज्ञायते। काव्यादर्शकारेण यतिविषये उक्तम्-
श्लोकेषु नियतस्थाने पदच्छेदं यतिं विदुः।
तदपेतं यतिभ्रष्टं श्रवणोद्वेजन यथा॥
अर्थात्-
श्लोकेषु निश्चिते स्थाने पदच्छेदमेव जनैः यतिर्बुध्यते। यतिरहितं यतिभ्रष्टं वा श्रवणाय उत्तेजनात्मकं भवति,
अर्थात् श्रुतिकटुर्भवति।
विशेषः-
पदभङ्गे सति यतिः न करणीया, तथा कृते सति यतिभङ्गदोषः भवति अपि च अर्थानुसन्धाने प्रतिबन्धिका भवति।
काव्येषु अर्थानुसन्धानं प्रधानं भवति, अतः यतिभङ्गदोषः न सह्यते एव।
यथा-
नमस्तस्मै महादेवा-य शशाङ्कधारिणे।
यतिः कुत्र?
यतिः कुत्र भवेत् इति जिज्ञासायाम् उच्यते-
छन्दसां लक्षणेषु अब्धिभूतरससूर्यादयः लौकिकसंज्ञाः साङ्केतिकरूपेण यतिं निर्दिशन्ति।
अब्धिभूतरससूर्यादीनां लोके यथा प्रसिद्धिर्वर्तते तथा यतिर्भवति। अर्थात् लोके अब्धयः चत्वारः,
द्वादशसूर्याः, सप्ताश्वाः च प्रसिद्धाः सन्ति। एतेषां सङ्ख्यानुगुणा यतिर्भवति।
यत्र लक्षणेषु साङ्केतिकशब्दाः न सन्ति अर्थात् यतिर्निष्टा नास्ति तत्र पादान्ते यतिश्चिन्तनीया।
उक्तञ्च-
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः।
अपि च
यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः। इति
लघुगुरुविचारः
[सम्पादयतु]सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः।
वा पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रिको ऋजुः॥
अर्थात्-
अनुस्वारेण युक्ताः यथा- अं, कम्, खम् इत्यादयः,
विसर्गान्ताः यथा- अः, कः, खः इत्यादयः,
दीर्घाः यथा- आ, ई, ऊ इत्यादयः, { अत्र दीर्घग्रहणं प्लुतस्यापि उपलक्षणं वर्तते }
संयोगपरकाः ह्रस्ववर्णाः यथा- कृष्णः विष्णुः इत्यादिषु स्थिताः ऋ, इ इत्यादयः वर्णाः च एते सर्वे गुरवः भवन्ति । अर्थात् एते गुरुसंज्ञकाः भवन्ति ।
अत्र विशेषः-
विसर्गान्तः इति कथनं जिह्वामूलीयोपध्मानयोः उपलक्षणम्। परं वृत्तरत्नाकरस्य टीकाकारस्तु-"युक्तपरश्चेति व्यञ्जनोपध्मानीयजिह्वामूलीयपराणाम् उपलक्षणम् " इत्याह।
चिह्नविचारः
[सम्पादयतु]वक्ररेखा गुरोश्चिह्नं सरला तु लघोस्तथा।
गुरुरेको गकारस्तु लकारो लघुरेककः॥
अर्थात्- गुरो गुरोश्चिह्नं वक्ररेखा { ऽ } भवति। लघोः तु सरलारेखा [ । ] भवति। गकारः गुरुबोधकः भवति। लकारस्तु लघुबोधकः भवति ।
गणपरिचयः
[सम्पादयतु]अत्र अष्टौ गणाः भवन्ति, त्रयाणां अक्षराणाम् एकः एकः गणः भवति। ते च गणाः एवंप्रकारेण सन्ति।
१- यगणः
२- मगणः
३- तगणः
४- रगणः
५- जगणः
६- भगणः
७- नगणः
८- सगणः
एतान् गणान् बोधयितुम् एकं लघुसूत्रम् इव वर्तते यत्र च सर्वेषां गणानां समावेशः वर्तते। सूत्रम्-
" यामाताराजभानसलगा "
इदञ्च सूत्रं सम्यक्तया स्मरणीयं यतो हि अत्र गणविषये सर्वम् उक्तं वर्तते। साररूपेण वदामश्चेत् इत्थं निष्कर्षः आगच्छति।
गणनाम बोधकशब्दाः चिह्नानि
१- यगणः यमाता ।ऽऽ
२- मगणः मातारा ऽऽऽ
३- तगणः ताराज ऽऽ।
४- रगणः राजभा ऽ।ऽ
५- जगणः जभान ।ऽ।
६- भगणः भानस ऽ।।
७- नगणः नसल ।।।
८- सगणः सलगा ।।ऽ
अयम् एव विषयः प्रकारान्तरेण अपि कथ्यते। यथा-
आदिमध्यावसानेषु भजसा यान्ति गौरवम्।
यरता लाघवं यान्ति मनौ तु गुरुलाघवम्॥
अर्थात्-
क्रमेण भजसा [भगणः, जगणः, सगणः] आदिमध्यावसानेषु गौरवं यान्ति । तथैव यरता [यगणः, रगणः, तगणः] आदिमध्यावसानेषु लाघवं यान्ति। मगणः सर्वगुरुः नगणश्च सर्वलघुः भवति।
अन्यप्रकारेणापि श्रूयते-
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुः मध्यगतो रलमध्यःसोऽन्तगुरुः कथितोऽन्तलघुस्तः।।
लक्षणसमन्वयप्रकारः
[सम्पादयतु]प्राथम्येन गणपरिचयः सम्यग् अभ्यसनीयः, तदा एव वयं लक्षणेषु उदाहरणेषु वा
लक्षणानां सङ्गतिं कर्तुं शक्नुमः।
यथा उदाहरणरूपेण शार्दूलविक्रीडितं छन्दः स्वीकुर्मः-
शार्दूलविक्रीडितछन्दसः लक्षणम्-
"सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्"
पूर्वम् अस्मिन्नेव लक्षणे लक्षणसमन्वयं कुर्मः।
सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्
ऽ ऽ ऽ, ।। ऽ, । ऽ ।, ।।ऽ, ऽ ऽ ।, ऽ ऽ । ऽ
यतिविषयेऽपि लक्षणे एव पश्यामः। सूर्ये अर्थात् द्वादशाक्षरेषु यतिः, पुनश्च अश्वे अर्थात् सप्तमेषु यतिः करणीया।
उदाहरणम्-
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।
अर्थः -
पावकः[अग्निः] जलेन, घर्मः छत्रेण, मदयुक्तो हस्ती तीक्ष्णाङ्कुशेन, गोरासभौ दण्डेन, व्याधिः भेषजचिकित्सया, विषं च
विविधमन्त्रप्रयोगैः शाम्यति । इत्थं लोके सर्वस्य अपि शास्त्रविहितं औषधम् अस्त्येव परन्तु मूर्खजनस्य लोके प्रतीकारः एव न दृश्यते।
लक्षणसमन्वयप्रकारस्तु पूर्वोक्तः एव।
यथा-
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,
ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ
[मगणः, सगणः, जगणः, सगणः, तगणः तगणः]
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।
ऽ ऽ ऽ । । ऽ ।ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,
ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।
ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ
एवम् एव सर्वत्र स्वयं कल्पनीयम्। यतिविषयेऽपि पूर्वोक्तक्रमः स्मरणीयः।
प्रसङ्गानुगुणं छन्दः
[सम्पादयतु]छन्दांसि
[सम्पादयतु]गणस्वामिनः फलानि च
[सम्पादयतु] मो भूमिः श्रियमातनोति य जलं वृद्धिं र चाग्निर्मृतम्,
सो वायुः परदेशदूरगमने त व्योम शून्यं फलम्।
जः सूर्यो रुजमादधाति विपुलं भेन्दुर्यशो निर्मलम्,
नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः।।
क्रमः | गणनाम | स्वरूपम् | देवता | फलम् |
१ | यगणः | ।ऽऽ | जलम् | वृद्धिः |
२ | मगणः | ऽऽऽ | पृथ्वी | लक्ष्मीः |
३ | तगणः | ऽऽ। | नभः | शून्यं फलम् |
४ | रगणः | ऽ।ऽ | अग्निः | मरणम् |
५ | जगणः | ।ऽ। | सूर्यः | रोगः |
६ | भगणः | ऽ।। | शशिः | यशः |
७ | नगणः | ।।। | स्वर्गः | सुखम् |
८ | सगणः | ।।ऽ | वायुः | विदेशगमनम् |
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ ( सर्वानुक्रमणी १।१ )
- ↑ ( १।४।२)
- ↑ (नि० ७॥१९)
- ↑ (७/२)
- ↑ ( ना० शा० १४॥४५ )
- ↑ (‘वैदिकछन्दोमीमांसा’ पृ० ८९, रच० युधिष्ठिरमीमांसक )
- ↑ १७॥३९
- ↑ ( सर्वानुक्र० पृ० २ )
- ↑ ( ऋक् प्रा० १७॥२ )
- ↑ (सर्वा० ३६)
- ↑ ऋ० ७॥१९॥२
- ↑ ( ऋ० ७॥६५॥१ )
- ↑ ऋ°( ७l९३।१ )
- ↑ ( ऋ० ७॥३६॥१ )
- ↑ (पाणि० ६॥१॥१०९ )
- ↑ ( ऋ० १॥७॥४ )
- ↑ ( ऋ० १०॥१०॥३६ )
- ↑ षड्गुरुशिष्यस्य पूर्वोक्तसूत्रस्य वृत्तिर्द्रष्टव्या पृ० ६३
- ↑ ( ऋ० १०॥११७॥७ )
- ↑ ( ऋo ८।।६१।१७ )
- ↑ ऋo ७॥४०॥६
- ↑ ( १७/१७ )
- ↑ भरतस्य ना० शा० १४।।४६
- ↑ (१४।११३)
- ↑ ८॥९ ( बृहस्पति***ऋध्यासम् )
- ↑ ४/७ ( आापोदेवी’** स्वाहा )
- ↑ ८॥१२ ( यस्ते’**भक्षयामि )
- ↑ ८।१८ (सुगावो देवा***स्वाहा) , ८॥१६ ( संवर्चसा***विलिष्टम् )
- ↑ ८॥३० ( पुरुदस्मो***स्वाहा )
- ↑ (ऋक्० ७॥६६॥१६ )
- ↑ (उदा० ऋकू० ५॥५३॥५)
- ↑ ( ऋ० १॥७९॥४ )
- ↑ (ऋक्० १०॥१०५॥|२ )
- ↑ (उदा० ऋकू० ७॥२२॥४)
- ↑ (ऋ० ३॥२५॥४)
- ↑ ( ऋ० १०॥९३॥१५ )
- ↑ ( उदा० ऋ० ८।।१।१ )
- ↑ ( ऋ० ८।१।१ )
- ↑ ( ऋ० १॥१२६॥७ )
- ↑ ( उदा० ऋ० ९॥११०॥९ )
- ↑ ( उदा० ऋ० ८॥९६॥४ )
- ↑ ( उदा० ऋ० १/३६/१८)
- ↑ ( ऋ० ८॥४६॥१२ )
- ↑ ( उदा० ऋ० १०।२१।१ )
- ↑ ( उदा० ऋ० १०॥९३॥९ )
- ↑ ( उदा० ऋ० १०॥१७२॥|२ )
- ↑ ( उदा9 ऋ० १०।१४०॥१ )
- ↑ ( उ० ऋ० १।८१।१ )
- ↑ ( उ० ऋ० ५॥४१।१ )
- ↑ ( उ० ऋ० १०॥२३॥५)
- ↑ ( उ० ऋ० ८॥३५॥२३ )
- ↑ ( उ० ऋ० ६॥४८॥४ )
- ↑ (उ० ऋ० ५।११।। १)
- ↑ ( उ० ऋ० १०।२३।४ )
- ↑ ( उ० ऋ० ६॥४८।।६ )
- ↑ ( उदा० ऋ० ८।४७।१ )
- ↑ ( १६॥८७-८८ )
- ↑ ( ऋ० ८॥९७॥१३ )
- ↑ (ऋ० १०/१३३/१)
- ↑ (ऋ० १/१३७/१)
- ↑ ( उदा० ऋ० २।२२।१ )
- ↑ ( ऋ० १॥१३६॥२ )
- ↑ (४।१।३।)
- ↑ ( ऋ० १।१२७६ )
- ↑ ( १७॥४६-४७ )